मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २७

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



ततः किं सम्पन्नमित्य् । अत्राह

तस्मिंस्तदा वर्तमाने घोरे समरसम्भ्रमे ।

देवासुरशरीरेषु पतत्स्वद्रिदलेष्विव ॥ ४,२७.१ ॥

वहत्स्वभ्रप्रवाहेषु गङ्गापूरेष्विवाम्बरात् ।

दाम्नि वेष्टितदेवौघे मुक्तक्ष्वेडाघनारवे ॥ ४,२७.२ ॥

व्याले निजकराकृष्टिपिष्टसर्वसुरालये ।

कटे कठिनसंरम्भसङ्गराच्छादितामरे ॥ ४,२७.३ ॥

ऐरावणे क्षीणमदे पलायनपरायणे ।

प्रवृद्धे दानवानीके मध्याह्न इव भास्करे ॥ ४,२७.४ ॥

पातिताङ्गायुधार्धानि प्रस्रवद्रुधिराणि च ।

पयांसीव विसेतूनि देवसैन्यानि दुद्रुवुः ॥ ४,२७.५ ॥

पातितानि अर्थातसुरैः भूमौ पातितानि । अङ्गानामायुधानां चार्धानि येषाम् । तानि च्छिन्नाङ्गानि च्छिन्नायुधानि चेति यावत् । अत एव प्रस्रवत्रुधिरं येषाम् । तानीति तादृशानि देवसैन्यानि दुद्रुवुः भयेन द्रुतानि । कानीव । विसेतूनि पयांसीव । कस्मिन् सति । तस्मिन्नित्यादि । दाम्नि दामाख्ये महासुरे । कठिनसंरम्भं यत्सङ्गरं सङ्ग्रामः । तत्र आच्छादिताः अमराः येन । तादृशे सति । कुलकम् ॥ ४,२७.१५॥

 

 

 

दामव्यालकटास्तानि चिरमन्तर्हितान्यपि ।

अनुजग्मुर्लसन्नादमिन्धनानीव पावकाः ॥ ४,२७.६ ॥

तानि देवसैन्यानि । अनुजग्मुः पश्चाद्धावन्ति स्म । अन्तर्हितानामनुगमनं न युक्तमित्यपिशब्दो द्योतयति ॥ ४,२७.६ ॥

 

 

 

अन्विष्टानपि यत्नेन नालभन्तासुराः सुरान् ।

घनजालवनोड्डीनान् सिंहा हरिणकानिव ॥ ४,२७.७ ॥

स्पष्टम् ॥ ४,२७.७ ॥

 

 

 

अलब्धेष्वमरौघेषु दामव्यालकटास्तदा ।

जग्मुः पातालकोशस्थं प्रभुं प्रमुदिताशयाः ॥ ४,२७.८ ॥

प्रभुं शम्बरम् ॥ ४,२७.८ ॥

 

 

 

अथ देवा विषण्णास्ते क्षणमाश्वस्य वै ययुः ।

जयोपायाय विजिता ब्रह्माणममितौजसम् ॥ ४,२७.९ ॥

विषण्णाः मूर्छिताः । आश्वस्य चेतनां लब्ध्वा ॥ ४,२७.९ ॥

 

 

 

तेषामाविरभूद्ब्रह्मा रक्तरक्ताननश्रियाम् ।

सायं रक्तीकृताम्बूनामब्धीनामिव चन्द्रमाः ॥ ४,२७.१० ॥

रक्तेन रुधिरेण । रक्तमाननं येषाम् । ते । तादृशानाम् । सायं सायंसन्ध्ययेत्यर्थः । चन्द्रमसो वा रक्तीकरणे कर्तृत्वं ज्ञेयम् । उदयकाले तस्य रक्तत्वात् । तदा सायं सायंसमय इत्यर्थः ॥ ४,२७.१० ॥

 

 

 

प्रणम्य ते सुरास्तस्मै तमर्थं शम्बरेरितम् ।

सम्यक्प्रकथयामासुर्दामव्यालकटक्रमम् ॥ ४,२७.११ ॥

ते सुराः शम्बरेरितं शम्बरप्रादुर्भावितम् । तं दामव्यालकटक्रममर्थं दामादिक्रमाख्यं वस्तु । प्रणम्य तस्मै । सम्यक्प्रकथयामासुः ॥ ४,२७.११ ॥

 

 

 

तमाकर्ण्याखिलं ब्रह्मा विचार्य च विचारवित् ।

उवाचेदं सुरानीकमाश्वासनकरं वचः ॥ ४,२७.१२ ॥

तं दामव्यालकटक्रमम् । सुरानीकं देवसैन्यम् ॥ ४,२७.१२ ॥

 

 

 

ब्रह्मा कथयति

हन्त वर्षसहस्रान्ते शम्बरेण हरेः क्रमात् ।

मर्तव्यममरेशस्य तावत्कालं प्रतीक्ष्यताम् ॥ ४,२७.१३ ॥

हन्त कष्टे । शम्बरेण कर्त्रा । वर्षसहस्रान्ते अमरेशस्य हरेः विष्णोः । क्रमात्युद्धाख्यात्क्रमात् । मर्तव्यं मरणीयम् । तावत्कालमसौ न मरिष्यतीति भावः । युष्माभिः तावत्कालं प्रतीक्ष्यताम् ॥ ४,२७.१३ ॥

 

 

 

ननु तर्हि तावत्कालं बाधां कुर्वतः दामादीन् किं कुर्म इत्य् । अत्राह

दामव्यालकटानेतानद्य त्वमरसत्तमाः ।

योधयन्तः पलायध्वं मायायुद्धेन दानवान् ॥ ४,२७.१४ ॥

हे अमरसत्तमाः । यूयमेतान् दामव्यालकटान् दानवान्मायायुद्धेन योधयन्तः युद्धं कारयन्तः सन्तः । पलायध्वम् ॥ ४,२७.१४ ॥

 

 

 

ननु अस्मत्पलायनेन किमेषां सेत्स्यतीत्य् । अत्राह

युद्धाभ्यासवशादेषां मकुराणामिवाशये ।

अहङ्कारचमत्कारः प्रतिबिम्बमुपैष्यति ॥ ४,२७.१५ ॥

एषां दामादीनाम् । अहङ्कारचमत्कारः वयं युद्धे जयिनः स्मः इत्येवंरूपोऽहम्भावास्वादः । आशये मनसि । प्रतिबिम्बमुपैष्यति ॥ ४,२७.१५ ॥

 

 

 

ननु ततोऽपि किं सेत्स्यतीत्य् । अत्राह

गृहीतवासनास्त्वेते दामव्यालकटाः सुराः ।

सुजया वो भविष्यन्ति जाललग्नाः खगा इव ॥ ४,२७.१६ ॥

वासनाया एव वक्ष्यमाननयेन वैवश्यकारित्वात् ॥ ४,२७.१६ ॥

 

 

 

नन्वद्य कथं न जेतुं शक्या एते इत्य् । अत्राह

अद्य त्ववासना एते सुखदुःखविवर्जिताः ।

धैर्येणारीन् विनिघ्नन्तो देवदुर्जयतां गताः ॥ ४,२७.१७ ॥

तु पक्षान्तरे । अद्य अवासनाः अहंवासनारहिताः । अत एव सुखदुःखविवर्जिताः । अत एव धैर्येण अरीन् विनिघ्नन्तः । देवदुर्जयतां युष्मद्दुर्जयतामिति यावत् । गताः । सुखादिरहितो हि भीतिरहितत्वाद्दुर्जयो भवति ॥ ४,२७.१७ ॥

 

 

 

ननु वासनया कथमेते वश्या भविष्यन्तीत्य् । अत्राह

वासनातन्तुबद्धा ये आशापाशवशीकृताः ।

वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव ॥ ४,२७.१८ ॥

ये वासनातन्तुबद्धा अहंवासनातन्तुबद्धाः । भवन्ति । ते आशापाशवशीकृताः सन्तः । लोके वश्या भवन्ति । ते के इव । रज्जुबद्धाः खगा इव । अयं भावः । पुरुषः अन्तःस्थितयाहंवासनया ममेदं भवत्वेतन्मा भवत्वित्येवंरूपयाशयाविष्टो भवति । तया च दैन्यं गच्छति । तेन परस्य वश्यो भवतीति ॥ ४,२७.१८ ॥

 

 

 

ननु वासनारहिताः कथं दुर्जया भवन्तीत्य् । अत्राह

ये हि निर्वासना धीराः सर्वत्रासक्तबुद्धयः ।

न हृष्यन्ति न कुप्यन्ति दुर्जयास्ते महाधियः ॥ ४,२७.१९ ॥

सर्वत्र हेये उपादेये वा । असक्ता रागद्वेषरूपया आसक्त्या रहिता । बुद्धिः येषाम् । तादृशाः । उपादेयरागेन हेयद्वेषेणैव च पुरुषः जेयो भवति । अन्यथा विदितनयाः राजानः द्रव्यदानेन शत्रून् जेतुं न यतेरन् । तदभावे तु स्वशरीरेऽपि रागरहितः पुरुषः न केनापि जेतुं शक्यते इति भावः । द्वेषस्यासक्तित्वमासक्त्युत्पादकत्वेन ज्ञेयम् । द्वेषेण हि हेयान्निवृत्तः पुरुषः उपादेये दृढतरं रागापरपर्यायासक्तियुक्तो भवति ॥ ४,२७.१९ ॥

 

 

 

यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धः शरीरिणः ।

महानपि बहुज्ञोऽपि स बालेनापि जीयते ॥ ४,२७.२० ॥

अन्यथा बालेष्वपि धनाढ्येषु विद्यावयोवृद्धाः प्रणामं न कुर्युरिति भावः ॥ ४,२७.२० ॥

 

 

 

अयं सोऽहमिदं मे तदित्याकलितकल्पनः ।

आपदां पात्रतामेति पयसामिव सागरः ॥ ४,२७.२१ ॥

आकलिता आ समन्तात्धृता । कल्पना सङ्कल्पः येन । सः । आपदां ममैतद्भवत्वेतन्मा भवत्वित्येवंरूपाणाम् ॥ ४,२७.२१ ॥

 

 

 

इयन्मात्रपरिच्छिन्नो येनात्मा भव्य भावितः ।

स सर्वज्ञोऽपि सर्वत्र परां कृपणतां गतः ॥ ४,२७.२२ ॥

हे भव्य हे इन्द्र । येन आत्मा स्वस्वरूपम् । इयन्मात्रपरिच्छिन्नः । इयन्मात्रं चासौ देहादिमात्ररूपश्चासौ । अत एव परिच्छिन्नश्चेति तादृशः । भावितः भावनाविषयीकृतः । सः पुरुषः । सर्वज्ञः अपि सर्वत्र परां निरतिशयाम् । कृपणतां दीनताम् । गतः गच्छतीत्यर्थः । देहनिष्ठो हि देहहितमिच्छन्नवश्यमेव कृपणतामेति ॥ ४,२७.२२ ॥

 

 

 

अनन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता ।

आत्मतत्त्वस्य तेनात्मा स्वात्मनैवावशीकृतः ॥ ४,२७.२३ ॥

अनन्तस्यान्तसाक्षित्वेन स्थितत्वात्तद्रहितस्य । अप्रमेयस्य केवलं प्रमातृरूपेण स्थितत्वात्प्रमेयतामस्पृशमानस्य । आत्मतत्त्वस्य । येन इयत्ता देहावच्छिन्नत्वाख्यमियन्मात्रत्वम् । प्रकल्पिता कल्पनया भाविता । तेनाज्ञानिना । स्वात्मनैव आत्मावशीकृतः । अवश्यम्भावि हि देहावच्छिन्नस्य भोगवैवश्यम् ॥ ४,२७.२३ ॥

 

 

 

ननु कथमेतदस्तीत्य् । अत्राह

आत्मनो व्यतिरिक्तं यत्किञ्चिदस्ति जगत्त्रये ।

तत्रोपादेयभावेन बद्धा भवति भावना ॥ ४,२७.२४ ॥

आत्मनः परिच्छिन्नत्वेन भावितस्यात्मनः । यत्किञ्चित्व्यतिरिक्तम् । भावितमिति शेषः । भावितमस्ति । तत्र अप्राप्तत्वाभिमानेन उत्पन्नेन उपादेयभावेन उपादेयतया । भावना बद्धा भवति । भावनाबन्धस्यैव च वैवश्यमिति नामेति भावः ॥ ४,२७.२४ ॥

 

 

 

भावनाबन्धस्य वैवश्येति नामयुक्तताकारि दुःखकारणत्वं कथयति

आस्थामात्रमनन्तानां दुःखानां कारणं विदुः ।

अनास्थामात्रमभितः सुखानां कारणं विदुः ॥ ४,२७.२५ ॥

आस्थामात्रं भावनाबन्धमात्रम् ॥ ४,२७.२५ ॥

 

 

 

सामान्येन समर्थनं कृत्वा विशेषं स्मरति

दामव्यालकटा यावदनास्था भावसंस्थितौ ।

तावन्न नाम जेया वो मषकाणामिवानिलाः ॥ ४,२७.२६ ॥

अनास्थाः आस्थारहिताः । भावसंस्थितौ देहादिपदार्थसंस्थितौ ॥ ४,२७.२६ ॥

 

 

 

अन्तर्वासनया जन्तुर्दीनतामनुयातया ।

जितो भवत्यन्यथा तु मषकोऽप्यमराचलः ॥ ४,२७.२७ ॥

अन्यथा वासनाराहित्ये ॥ ४,२७.२७ ॥

 

 

 

विद्यते वासना यत्र तत्र चायाति दीनता ।

गुणागुणानुविद्धत्वं सतो दृष्टं हि नासतः ॥ ४,२७.२८ ॥

यत्र च वासना विद्यते तत्र दीनता आयाति । पादपूरणार्थः चशब्दः । हि यस्मात् । गुणागुणानुविद्धत्वं दीनतापादकं हिताहितानुबन्धित्वम् । सतः वासनयाहितदेहसत्ताकस्य । दृष्टम् । असतः वासनाराहित्येन शुद्धचिन्मात्ररूपतयासत्कल्पस्य । न दृष्टम् ॥ ४,२७.२८ ॥

 

 

 

फलितमाह

अयं सोऽहं ममेदं चेत्येवमन्तः स्ववासनाम् ।

यथा दामादयः शक्र भावयन्ति तथा कुरु ॥ ४,२७.२९ ॥

अत इति शेषः । हे शक्र । यथा दामादयः अयं सोऽहं ममेदं चेत्येवंरूपां स्ववासनामहङ्कारवासनाम् । अन्तः मनसि । भावयन्ति विकल्पयन्ति । तथा कुरु । ततः जेया भविष्यन्तीति भावः ॥ ४,२७.२९ ॥

 

 

 

ननु कथं न ते मम जेया भविष्यन्तीत्य् । अत्राह

या या जनस्य विपदो भावाभावदशाश्च याः ।

तृष्णाकरञ्जवल्ल्यास्ता मञ्जर्यः कटुकोमलाः ॥ ४,२७.३० ॥

तृष्णा एव दुःखकारित्वात्कण्टकवल्ली । तस्याः ॥ ४,२७.३० ॥

 

 

वासनातन्तुबद्धोऽयं लोको विपरिवर्तते ।

सा सुवृद्धातिदुःखाय सुखायोच्छेदमागता ॥ ४,२७.३१ ॥

विपरिवर्तते वैपरीत्यं भजति । सा वासना । उच्छेदं नाशम् ॥ ४,२७.३१ ॥

 

 

 

धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि ।

तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥ ४,२७.३२ ॥

बध्यते विवशः क्रियते । तृष्णाग्रस्तो हि स्फुटमेव विवशो भवति ॥ ४,२७.३२ ॥

 

 

 

देहपादपसंस्थस्य हृदयालयशायिनः ।

तृष्णाचित्तखगस्यास्य वागुरा परिकल्पिता ॥ ४,२७.३३ ॥

स्पष्टम् ॥ ४,२७.३३ ॥

 

 

 

दीनो वासनया लोकः कृतान्तेनापकृष्यते ।

रज्ज्वेव बालेन खगो विवशोऽनिशमुच्छ्वसन् ॥ ४,२७.३४ ॥

कृतान्तेन ममतारूपेण यमेन । ममताया एव श्रीव्यासेन कृतान्तत्वाभिधानात् ॥ ४,२७.३४ ॥

 

 

 

अलमायुधभारेण सङ्गरभ्रमणेन च ।

वासनां सविपर्यासां युक्त्यैव त्वं रिपोः कुरु ॥ ४,२७.३५ ॥

सविपर्यासां विपर्यासयुक्ताम् । रिपोः दामादित्रयरूपस्य । आयुधादिभिः तव न किञ्चिदपि सेत्स्यतीति भावः ॥ ४,२७.३५ ॥

 

 

 

अन्तरक्षुभिते धैर्ये रिपोरमरनायकाः ।

न शस्त्राणि न शास्त्राणि न चास्त्राणि जयन्ति वः ॥ ४,२७.३६ ॥

अक्षुभिते वासनाराहित्येन क्षोभरहिते सति ॥ ४,२७.३६ ॥

 

 

 

दामव्यालकटास्त्वेते युद्धाभ्यासवशेन च ।

अहङ्कारमयीमन्तस्ते ग्रहीष्यन्ति वासनाम् ॥ ४,२७.३७ ॥

अहङ्कारमयीं वयं योत्स्याम इत्येवंरूपाम् ॥ ४,२७.३७ ॥

 

 

 

यदि ते यन्त्रपुरुषाः शम्बरेण विनिर्मिताः ।

वासनां नाश्रयिष्यन्ति यास्यन्ति तदजय्यताम् ॥ ४,२७.३८ ॥

यन्त्रपुरुषाः अनुसन्धानरहिता इति यावत् ॥ ४,२७.३८ ॥

 

 

 

तत्तावद्युक्तियुद्धेन तान् प्रबोधयतामराः ।

यावदभ्यासवशतो भविष्यन्ति सवासनाः ॥ ४,२७.३९ ॥

प्रबोधयत वासनायुक्तान् कुरुत ॥ ४,२७.३९ ॥

 

 

 

ततो वध्या भविष्यन्ति भवतां बद्धभावनाः ।

तृष्णाप्रोताशया लोके न केचन नपेलवाः ॥ ४,२७.४० ॥

ननु यदि कदाचित्ततोऽपि वध्या न भविष्यन्ति ततः किं कार्यमित्य् । अत्राह तृष्णेति । तृष्णाप्रोताशयाः तृष्णानुविद्धमनसः । पेलवाः दीनाः । तृष्णाग्रस्ताः सर्वे एव पेलवा भवन्ति । अतः तेऽपि भविष्यन्त्येवेति भावः ॥ ४,२७.४० ॥

 

 

 

सर्गान्तश्लोकेन ब्रह्मवाक्यं समापयति

समविषममिदं जगत्समग्रं

समुपगतं स्थिरतां स्ववासनातः ।

चलति च लहरीभरो यथाब्धाव्

अत इह सैव चिकित्स्यतां प्रयाता ॥ ४,२७.४१ ॥

समविषमं सुखदुःखमयम् । इदमनुभूयमानम् । समग्रं जगत् । स्ववासनातः अहङ्कारवासनातः । स्थिरतां समुपागतम् । सा वासना । इह लोके । चलति च स्फुलति च । क इव । लहरीभर इव । यथा लहरीभरः अब्धौ समुद्रे । चलति । तथेत्यर्थः । अतः सा वासना एव । चिकित्स्यतां चिकित्सायोग्यताम् । प्रयाता भवतीति शिवम् ॥ ४,२७.४१ ॥

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे सप्तविंशः सर्गः ॥२७॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २७