मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २६

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



शम्बरचिन्तामुपसंहरति

इति निर्णीय दैत्येन्द्रो दामव्यालकटान्विताम् ।

सेनां सम्प्रेषयामास भूतलं देवनाशिनीम् ॥ ४,२६.१ ॥

स्पष्टम् ॥ ४,२६.१ ॥

 

 

 

दैत्याः सागरकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् ।

उदगुर्भीमनिर्ह्रादाः सपक्षगिरिलीलया ॥ ४,२६.२ ॥

उदगुः उत्थिताः । सपक्षाः पक्षयुक्ताः । ये गिरयः । तेषां या लीला । तया ॥ ४,२६.२ ॥

 

 

 

रोदसीकोटरं हस्तप्रहारहतभास्करम् ।

दानवाः पूरयामासुर्दामव्यालकटेरिताः ॥ ४,२६.३ ॥

दामव्यालकटेरिताः दामव्यालकटप्रेरिताः ॥ ४,२६.३ ॥

 

 

 

अथोत्तस्थुर्निकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् ।

प्रलयान्त इवाक्षुब्धा भीताः स्वर्वासिनां गणाः ॥ ४,२६.४ ॥

आ समन्तात्क्षुब्धाः आक्षुब्धाः । स्वर्वासिनां देवानाम् ॥ ४,२६.४ ॥

 

 

 

देवासुरपताकिन्योस्तद्युद्धमभवत्तयोः ।

अकालोल्बणकल्पान्तभीषणं भुवनान्तरे ॥ ४,२६.५ ॥

तत्प्रसिद्धम् ॥ ४,२६.५ ॥

 

 

 

पेतुः प्रलयपर्यस्तसचन्द्रार्काद्रिवद्दिवः ।

शिरांसि कुण्डलोद्वान्ततेजःपीततमांस्यधः ॥ ४,२६.६ ॥

प्रलये पर्यस्ताः वातेरिताः । ये सचन्द्रार्काः अद्रयः । तद्वत् । शिरांसि दिवः आकाशात् । अधः भूमौ । पेतुः । शिरांसि कथम्भूतानि । कुण्डलैः उद्वान्तमुद्वमितम् । यत्तेजः । तेन पीतं तमः । यैः । तानि ॥ ४,२६.६ ॥

 

 

 

जुघूर्णुर्भटनिर्मुक्तसिंहनादविराविताः ।

प्रलयानिलसम्पूरैः साट्टहासा इवाद्रयः ॥ ४,२६.७ ॥

अट्टहासयुक्ता अपि घूर्णन्ति ॥ ४,२६.७ ॥

 

 

 

रेजुरात्मशिलातुल्यहेतिपातार्तवृत्तयः ।

कुलाचलतटा भीतविभ्रान्तहरिमण्डलाः ॥ ४,२६.८ ॥

कुलाचलतटाः रेजुः । कथम्भूताः । आत्मनः आत्मसम्बन्धिन्यः । या शिलाः । ताभिः तुल्याः । या हेतयः । तासां यः पातः । तेनार्ता दीना । वृत्तिः स्थितिः येषाम् । तादृशाः । पुनः कथम्भूताः । भीतानि अत एव विभ्रान्तानि हरिमण्डलानि सिंहमण्डलानि येषाम् । ते ॥ ४,२६.८ ॥

 

 

 

चेरुः परस्पराघातहतहेतिसमुत्थिताः ।

लोलानलकणाः कल्पविशीर्णा इव तारकाः ॥ ४,२६.९ ॥

स्पष्टम् ॥ ४,२६.९ ॥

 

 

 

विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः ।

कल्पतालतनूत्ताला वेतालास्तारतालिनः ॥ ४,२६.१० ॥

विलेसुः विलसन्ति स्म । वेतालाः भूतविशेषाः । तारतालिनः उद्भटवाद्ययुक्ताः ॥ ४,२६.१० ॥

 

 

 

प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे ।

व्योम्नि हेतिहतक्षुण्णमौलिकुण्डलकोटयः ॥ ४,२६.११ ॥

हेतिहतानां योधानाम् । क्षुण्णा निपतितानि । यानि मौलिकुण्डलानि । तेषां कोटयः व्योम्नि । विलेसुरिति पूर्वेण सम्बन्धः ॥ ४,२६.११ ॥

 

 

 

बभूवुर्भास्कराकारैः कल्पभूरुहबाहुभिः ।

प्रहारदलिताद्रीन्द्रैर्दैत्यैर्निर्विवरा दिशः ॥ ४,२६.१२ ॥

निर्विवराः नीरन्ध्राः ॥ ४,२६.१२ ॥

 

 

 

जग्मुर्ज्वलदसिव्रातपातपातितभित्तयः ।

कणप्रकरतां शैलाः कल्पाग्निवलिता इव ॥ ४,२६.१३ ॥

कल्पाग्निवलिताः कल्पाग्निभ्रमिताः ॥ ४,२६.१३ ॥

 

 

 

देवाः तेजः समाजग्मुरश्वमेधैधिता इव ।

असुराननुसस्रुस्ताञ्जलदानिव वायवः ॥ ४,२६.१४ ॥

स्पष्टम् ॥ ४,२६.१४ ॥

 

 

 

जगृहुस्तानथाक्रम्य जरदाखूनिवोतवः ।

रेजुः सुरासुराः फुल्लवनलोलाद्रिवद्दिवि ॥ ४,२६.१५ ॥

देवाः तानसुरान् । जगृहुः इति सम्बन्धः । ओतवः विडालाः ॥ ४,२६.१५ ॥

 

 

 

तेऽन्योऽन्यं पूरयामासुः शस्त्रपूरैर्दिशो दश ।

वनानि कुसुमव्रातैः सुमेरोरिव मारुताः ॥ ४,२६.१६ ॥

स्पष्टम् ॥ ४,२६.१६ ॥

 

 

 

घोरं समभवद्युद्धं देवदानवसैन्ययोः ।

रोदोरन्ध्रोडुम्बरान्तर्महामषकसङ्घयोः ॥ ४,२६.१७ ॥

रोदोरन्ध्र एव द्यावापृथिवीरन्ध्र एव उडुम्बरान्तः उडुम्बरफलमध्यम् । तत्र महामषकसङ्घयोः महामषकसमूहयोः । उडुम्बरान्तः हि मषकाः भवन्ति ॥ ४,२६.१७ ॥

 

 

 

अथोदपतदुल्लासैर्लोकपालेभमण्डलैः ।

कल्पाभ्रैः पूरिताकारो दारुणः समरारवः ॥ ४,२६.१८ ॥

उल्लासैः ऊर्ध्वगतहस्तैः । कल्पाभ्रैः कल्पाभ्रतुल्यैः । उदपततुत्थितः ॥ ४,२६.१८ ॥

 

 

 

समरारवं विस्तरेण विशिनष्टि

पिण्डग्रहेण नभसि भूभाग इव कुट्टिमम् ।

मुष्टिग्राह्यो महामेघमन्थरोदरपीवरः ॥ ४,२६.१९ ॥

समरारवः कथम्भूतः । नभसि पिण्डग्रहेण मुष्टिग्राह्यः । किमिव । कुट्टिममिव । यथा कुट्टिमं भूभागे पिण्डग्रहेण मुष्टिग्राह्यं भवति । तथेत्यर्थः ॥ ४,२६.१९ ॥

 

 

 

प्रथमापातसम्पिष्टशस्त्रशैलरटत्तटः ।

स्फुटद्धृदयनिःसत्त्वकर्कशाक्रन्दघर्घरः ॥ ४,२६.२० ॥

प्रथमापात एव सम्पिष्टाः ये शस्त्रभूताः शैलाः । तैः रटन्तः तटाः यस्य । सः । स्फुटद्धृदयाः ये निःसत्त्वाः धैर्यरहिताः । तेषां यः कर्कशाक्रन्दः । तेन घर्घरः घर्घरशब्दयुक्तः ॥ ४,२६.२० ॥

 

 

 

प्रलयप्रत्ययोल्लासिकल्पाभ्रारवबृंहणः ।

द्वादशादित्यसङ्घट्टद्रवत्काञ्चनसन्निभः ॥ ४,२६.२१ ॥

प्रलयप्रत्यये प्रलयसमये । उल्लासी यः कल्पाभ्रारवः । तद्वत्बृंहणं यस्य । सः । द्वादशादित्यानां यः सङ्घट्टः कल्पान्ते अन्योऽन्यं सङ्घट्टनम् । तेन द्रवत्यत्काञ्चनम् । तेन सन्निभः । अविच्छिन्नप्रवाहत्वेन तुल्य इत्यर्थः ॥ ४,२६.२१ ॥

 

 

 

ब्रह्माण्डकुड्यसङ्घट्टात्परावृत्यावनिं गतः ।

महास्रोतःपयःपूरः सेत्वाहत इवाकरम् ॥ ४,२६.२२ ॥

पुनः कथम्भूतः । ब्रह्माण्डकुड्यसङ्घट्टात्परावृत्य अवनिं गतः । क इव । महास्रोतःपयःपूर इव । यथा सः सेत्वाहतः सनाकरमुत्पत्तिस्थानं गच्छति । तथेत्यर्थः ॥ ४,२६.२२ ॥

 

 

 

चलत्सपक्षशैलेन्द्रपक्षवातबलध्वनिः ।

कठिनापूरणोड्डीनस्फुटशैलेन्द्रकन्धरः ॥ ४,२६.२३ ॥

चलन्तः ये सपक्षाः शैलेन्द्राः । तेषां यः पक्षवातः । तेन यः बलध्वनिः बलयुक्तः शब्दः । तद्रूपः । कठिनैः काठिन्ययुक्तैरायुधैर् । आपूरणेन उड्डीनाः स्फुटं शैलेन्द्रकन्धराः यस्य । सः ॥ ४,२६.२३ ॥

 

 

 

मन्दरोद्धूतदुग्धाब्धिसङ्क्षोभसदृशांशकः ।

प्रतिश्रुद्घुङ्घुमास्फोटघटितद्वीपजन्तुभूः ॥ ४,२६.२४ ॥

मन्दरोद्धूतश्चासौ दुग्धाब्धिः च । तस्य यः सङ्क्षोभः । तेन सदृशाः अंशाः भागाः यस्य । सः । प्रतिश्रुद्रूपो यः घुङ्घुमशब्दानुवेधः । तेन घटिताः मेलिताः । द्वीपाश्च जन्तुभुवश्च । येन । सः ॥ ४,२६.२४ ॥

 

 

 

सेनयोः क्रुद्धयोरासीद्युद्धमुद्धतदानवम् ।

निष्पिष्टनगरग्रामगिरिकाननमानवम् ॥ ४,२६.२५ ॥

तयोः सेनयोः युद्धमासीत् । कथम्भूतमित्यपेक्षायां युद्धं विस्तरेण विशिनष्टि उद्धतेत्यादि ॥ ४,२६.२५ ॥

 

 

 

महाहेतिशतच्छिन्नदानवाचलपूर्णदिक् ।

अन्योऽन्यहतहेत्यद्रिचूर्णपूर्णाम्बरोदरम् ॥ ४,२६.२६ ॥

महाहेतीनां यानि शतानि । तैः छिन्नाः ये दानवाचलाः । तैः पूर्णाः दिशः यस्य । तत् ॥ ४,२६.२६ ॥

 

 

 

भुसुण्डीमण्डलास्फोटस्फुटन्मेरुशिरःशतम् ।

शरमारुतनिर्लूनदैत्यदेवासुराम्बुजम् ॥ ४,२६.२७ ॥

आस्फोटः ताडनम् । शरेति । मारुतेन च अम्बुजानि लूयन्ते ॥ ४,२६.२७ ॥

 

 

 

चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तृणम् ।

सेनाप्रवाहकल्लोलवलनावलिताम्बरम् ॥ ४,२६.२८ ॥

चक्राणामायुधविशेषाणाम् । ये आवर्ताः भ्रमणानि । तेषां यानि शतानि । तेषु भ्रान्ताः चक्रभ्रमयुक्ताः । देवदैत्या एव जरत्तृणं यत्र । तत् । सेनाप्रवाहानां ये कल्लोलाः व्यूहरूपाः कल्लोलाः । तेषां या वलनाः वल्गनाः । ताभिः वलितं वृत्तम् । अम्बरं यस्य । तत् ॥ ४,२६.२८ ॥

 

 

 

हेत्यद्रिपातनिष्पिष्टपतद्वैमानिकव्रजम् ।

हस्तानीताब्धिवार्योघप्लावितव्योमपत्तनम् ॥ ४,२६.२९ ॥

प्लावितमीरितम् ॥ ४,२६.२९ ॥

 

 

 

वहन्महास्त्रावर्तासिशूलशक्तिनदीशतम् ।

शैलपक्षोद्भटास्फोटजडब्रह्माण्डमण्डलम् ॥ ४,२६.३० ॥

महास्त्राण्येव चक्राण्येवावर्ताः येषाम् । तानि महास्त्रावर्तानि । वहन्ति महास्त्रावर्तानि असिशूलशक्तिनदीशतानि यस्मिन् । तत् । आस्फोटः सशब्दं ताडनम् । तेन जडं शब्दश्रवणशक्तिरहितम् ॥ ४,२६.३० ॥

 

 

 

दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् ।

नारीहलहलारावरवत्कनकमन्दिरम् ॥ ४,२६.३१ ॥

हलहलेति शब्दानुकरणम् ॥ ४,२६.३१ ॥

 

 

 

लुठद्दैत्याचलोद्धूतमत्तार्णवजलाद्रिभिः ।

धौतरक्तनभो योधमुक्तनादद्रवद्व्रजम् ॥ ४,२६.३२ ॥

लुठन्तः पतन्तः । ये दैत्या एवाचलाः । तैरुद्धूताः ये मत्तार्णवाः । तेषां ये जलाद्रयः महोर्मयः । तैः कृत्वा धौतं रक्तनभः रक्तयुक्तं नभः यस्य । तत् । योधैः मुक्तः यः महानादः सिंहनादः । तेन द्रवन्तः धावन्तः । व्रजाः अर्थात्दीनसमूहाः यत्र । तत् ॥ ४,२६.३२ ॥

 

 

 

लोकपानेकपाम्भोदच्छन्नच्छन्नार्यमान्वितम् ।

पुनः सुरासुरोद्द्योतैर्दृष्टसैन्यकुलाकुलम् ॥ ४,२६.३३ ॥

लोकपानां लोकेशानाम् । ये अनेकपाः हस्तिनः । ते एवाम्भोदाः मेघाः । तैः छन्नच्छन्नः अतिशयेनावृतः । यः अर्यमा सूर्यः । तेनान्वितम् । तर्हि तत्र तैरन्योऽन्यं कथं दृष्टमित्य् । अत्राह पुनरिति । पुनः पक्षान्तरे । सुरासुराणां ये उद्द्योताः शरीरप्रकाशाः । तैः कृत्वा दृष्टं यत्सैन्यकुलं सैन्यसमूहः । तेनाकुलं निर्भरम् ॥ ४,२६.३३ ॥

 

 

 

सपक्षपर्वताकारदानवाद्रिगमागमैः ।

वहत्पचपचाशब्दभूरिभाक्करभीषणम् ॥ ४,२६.३४ ॥

पचपचेति शब्दानुकरणम् । भाक्करेति च ॥ ४,२६.३४ ॥

 

 

 

आयुधाद्रिविभिन्नोग्रदैत्यपर्वतनिर्झरैः ।

रक्तैररुणिताशेषवसुधार्णवपर्वतम् ॥ ४,२६.३५ ॥

स्पष्टम् ॥ ४,२६.३५ ॥

 

 

 

उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरैः ।

धृतासङ्ख्यासुरेभाश्वमनुष्यरथपर्वतम् ॥ ४,२६.३६ ॥

उत्सन्नाः विनष्टाः । ये राष्ट्रनगरविपिनग्रामाः । तेषां गह्वरैः रन्ध्ररूपैः मध्यभागैः । धृताः असङ्ख्याः असुरेभाश्वमनुष्यरथपर्वताः यस्य । तत् ॥ ४,२६.३६ ॥

 

 

 

सुतालोत्तालनाराचराजिरेचितचारणम् ।

मुष्टिप्रहारपिष्टांसमत्तैरावणवारणम् ॥ ४,२६.३७ ॥

सुतालवतुत्तालाः ये नाराचाः । तेषां या राजिः । तया रेचिताः रहिताः । चारणाः देवविशेषाः यस्य । तत् ॥ ४,२६.३७ ॥

 

 

 

कल्पाभ्रपटलासारधारादलितपर्वतम् ।

महाशनिविनिष्पेषपिष्टोड्डीनकुलाचलम् ॥ ४,२६.३८ ॥

आसारः शिलामयोऽत्र ज्ञेयः ॥ ४,२६.३८ ॥

 

 

 

कुपिताग्निज्वलज्ज्वालाजालैर्ज्वलितदानवम् ।

एकाञ्जलिपुटानीतसमुद्रोत्सादितानलम् ॥ ४,२६.३९ ॥

उत्सादितः निर्वापितः ॥ ४,२६.३९ ॥

 

 

 

चान्द्रशैत्यादिसम्भारशिलीकृतमहाजलम् ।

वनव्यूहेन्धनाग्न्यर्चिर्द्राविताम्बुशिलोच्चयम् ॥ ४,२६.४० ॥

शीतेन हि जलं पाषाणीभवति । वनेति पर्वताः अपि विगलन्ति स्मेत्यर्थः ॥ ४,२६.४० ॥

 

 

 

अस्त्रनिर्मितदुर्वारतमःकल्पान्तरात्रिकम् ।

मायासूर्यगणोद्द्योतपीतातनुतमःपटम् ॥ ४,२६.४१ ॥

स्पष्टम् ॥ ४,२६.४१ ॥

 

 

 

मायाग्निवर्षनिपतत्कल्पान्तगणवर्षणम् ।

सशीकाराग्निपवनशस्त्रसङ्घट्टकर्षणम् ॥ ४,२६.४२ ॥

मायाग्निवर्षेण निपतत्कल्पान्तगणवत्वर्षणं यत्र । तत् । सशीकारौ शीकारशब्दयुक्तौ । अग्निपवनौ यत्र । तत् । तादृशः यः शस्त्रसङ्घट्टः । तेन कर्षणं देवासुरकर्षणं यत्र । तत् ॥ ४,२६.४२ ॥

 

 

 

वज्रवर्षविनिर्धूतशैलवर्षास्त्रसम्भवम् ।

निद्राबोधास्त्रयुद्धाढ्यं सवर्षावग्रहास्त्रकम् ॥ ४,२६.४३ ॥

वज्रवर्षेण विनिर्धूतः शैलवर्षरूपाणामस्त्राणां सम्भवः यत्र । तत् । निद्राबोधकारीणि अस्त्राणि निद्राबोधास्त्राणि । तैः यद्युद्धम् । तेनाढ्यम् । वर्षावग्रहकारीणि अस्त्राणि वर्षावग्रहास्त्राणि । सह तैः वर्तते इति तादृशम् ॥ ४,२६.४३ ॥

 

 

 

वहत्क्रकचवृक्षास्त्रं जलाग्न्यस्त्ररणान्वितम् ।

ब्रह्मास्त्रयुद्धविषमं तमस्तेजोऽस्त्रशारितम् ॥ ४,२६.४४ ॥

शारितं चित्रीकृतम् ॥ ४,२६.४४ ॥

 

 

 

अस्त्रोद्गीर्णायुधानेकनीरन्ध्रसकलाम्बरम् ।

शिलावर्षास्त्रवलितं वह्निवर्षास्त्रभासुरम् ॥ ४,२६.४५ ॥

अस्त्रार्थं ब्रह्मास्त्राद्यर्थम् । उद्गीर्णानि त्यक्तानि । यानि आयुधानेकानि आयुधसमूहाः । तैः नीरन्ध्रं सकलाम्बरं यत् । तत् ॥ ४,२६.४५ ॥

 

 

 

पताकामृष्टशशकैश्चक्रचीत्कारगर्जितैः ।

मुहूर्तेन रथैर्लङ्घितोदयास्तमयाचलम् ॥ ४,२६.४६ ॥

पताकाभिः मृष्टः शशकः अर्थात्चन्द्रशशः यैस्। तैः ॥ ४,२६.४६ ॥

 

 

 

वज्रप्रहाराविरतम्रियमाणमहासुरम् ।

शुक्रामरमहाविद्याजायमानापरासुरम् ॥ ४,२६.४७ ॥

अमरमहाविद्या सञ्जीविनी विद्या । देवानां तु स्वयमेव मरणं नास्ति । अमरत्वातिति तेषां मरणं व्यथा एव ज्ञेयम् ॥ ४,२६.४७ ॥

 

 

 

शुभग्रहमहाकेतुपालितानामितस्ततः ।

उत्पातमङ्गलौघानां युद्धैरुद्धतकन्धरम् ॥ ४,२६.४८ ॥

शुभग्रहाः मङ्गलानि पालयन्ति । केतुः उपलक्षणं पापग्रहाणाम् । पापग्रहाः हि उत्पातान् पालयन्ति ॥ ४,२६.४८ ॥

 

 

 

साद्रिखोर्वीसमुद्रद्यु जगद्रुधिरवारिभिः ।

फुल्लैककिंशुकवनं कुर्वद्दुर्वारवैरतः ॥ ४,२६.४९ ॥

पुनः कथम्भूतम् । दुर्वारवैरतः जगत्रुधिरवारिभिः कृत्वा फुल्लैककिंशुकवनं कुर्वत् । जगत्कथम्भूतम् । साद्रिखोर्वीसमुद्रद्यु पर्वताकाशभूमिसमुद्रस्वर्गसहितम् ॥ ४,२६.४९ ॥

 

 

 

पर्वतप्रतिमासङ्ख्यशवपूर्णमहार्णवम् ।

समग्रतरुशाखांसलम्बलोलमहाशवम् ॥ ४,२६.५० ॥

महार्णवा अत्र रक्तस्य ज्ञेयाः ॥ ४,२६.५० ॥

 

 

 

नीयमानैः स्ववाताक्तैः पक्षपुष्पलसत्फलैः ।

तालोत्तालैः शरव्रातवनैर्व्याप्तनभस्तलम् ॥ ४,२६.५१ ॥

वातेनाक्तैः प्रेरितैः । पक्षपुष्पाणि च तानि लसत्फलानि च । फलमत्र शल्यं ज्ञेयम् ॥ ४,२६.५१ ॥

 

 

 

पर्वतप्रतिमासङ्ख्यकबन्धवनबाहुभिः ।

नृत्यद्भिः पतिताम्भोदविमानसुरतारकम् ॥ ४,२६.५२ ॥

पतिताः अम्भोदविमानसुरतारकाः यस्य । तत् ॥ ४,२६.५२ ॥

 

 

 

शरशक्तिगदाप्रासपट्टिसप्रोतपर्वतम् ।

लोकसप्तकविभ्रष्टकुड्यखण्डाचिताम्बरम् ॥ ४,२६.५३ ॥

लोकसप्तकस्य कुड्यान्यपतन्निति भावः ॥ ४,२६.५३ ॥

 

 

अनारतरसन्मत्तकल्पाभ्रदृढदुन्दुभि ।

पृष्ठशब्दश्रवोन्नादपातालतलवारणम् ॥ ४,२६.५४ ॥

पृष्ठशब्दस्य यः श्रवः श्रवणम् । तेनोन्नादाः पातालतलवारणाः यत्र । तत् ॥ ४,२६.५४ ॥

 

 

 

विनायककराकृष्टदीर्घदानवपर्वतम् ।

एकदिक्तटनिःस्पन्दसिद्धसाध्यमरुद्गणम् ॥ ४,२६.५५ ॥

स्पष्टम् ॥ ४,२६.५५ ॥

 

 

 

पलायमानगन्धर्वकिन्नरामरचारणम् ।

शवीभूतक्षतक्षीणपतद्गन्धर्वनायकम् ॥ ४,२६.५६ ॥

स्पष्टम् ॥ ४,२६.५६ ॥

 

 

 

किञ्चिल्लब्धजयप्रायदैत्यदानवमण्डलम् ।

दूयमानसुरानीकमेकान्तोद्विग्नवासवम् ॥ ४,२६.५७ ॥

स्पष्टम् ॥ ४,२६.५७ ॥

 

 

 

उत्तराशामिलद्वह्निरक्तहेतिवृहत्प्रभम् ।

प्रतिक्षणं लसद्दाहप्रकाशतिमिरोल्बणम् ॥ ४,२६.५८ ॥

उत्तराशया उत्तरदिशा । मिलन् यः वह्निः । तेन रक्ता हेतीनां वृहत्यः प्रभाः यत्र । तत् । देवमन्दिरदाहोत्थोऽत्र वह्निर्ज्ञेयः । प्रतिक्षणं क्षणे क्षणे । लसन् यः दाहः गृहदाहः । तेन ये प्रकाशतिमिरे । ताभ्यामुल्बणम् । तिमिरमत्र धूमकृतं ज्ञेयम् ॥ ४,२६.५८ ॥

 

 

 

सर्गान्तश्लोकेन समीरचलनं कथयति

ववुरशनिनिपातपिण्डिताङ्गा

दलितशिलाशकला दिशां मुखेषु ।

प्रलयसमयसूचकाः सुराणाम्

उरुतरघर्घरघस्मराः समीराः ॥ ४,२६.५९ ॥

समीराः वाताः । दिशां मुखेषु ववुः वान्ति स्म । कथम्भूताः । अशनीनां यः निपातः । तेन पिण्डितान्यङ्गानि येषाम् । तादृशाः । अशनिनिपातेनैकत्र मिलिता इत्यर्थः । अत एव दलिताः शिलाशकलाः यैः । ते तादृशाः । उरुतरः यः घर्घरः घर्घरशब्दः । तेन घस्मराः शब्दान्तरग्रासकारिण इत्यर्थः । इति शिवम् ॥ ४,२६.५९ ॥

 

 

 

 

इति भास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षड्विंशः सर्गः ॥२६॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २६