मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २५

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



विशेषणद्वयेऽपि हेतुत्वेन ज्ञेयम् ॥ ४,२५.१२ ॥

 

 

 

रत्नयन्त्रमयानन्तदैत्यनिर्जितवासवः ।

हिमशीतानलज्वालानिर्मितोद्यानमण्डपः ॥ ४,२५.१३ ॥

रत्नयन्त्रमयाः मायोद्भाविताः रत्नयन्त्रस्वरूपाः । येऽनन्ता दैत्याः । तैः निर्जितः वासवः । येन । सः ॥ ४,२५.१३ ॥

 

 

 

सर्वर्तुकुसुमोद्यानजितनन्दनचन्दनः ।

मायासर्पहृतव्यालमलयाचलचन्दनः ॥ ४,२५.१४ ॥

मायासर्पैः हृतव्यालानि दूरीकृतसहजसर्पाणि । मलयाचलचन्दनानि यस्य । सः ॥ ४,२५.१४ ॥

 

 

 

हेमस्त्रीलोकलावण्यजिह्मितान्तःपुराङ्गनः ।

क्रीडार्थस्पर्धयेशानहतचक्रगदाधरः ॥ ४,२५.१५ ॥

हेमस्त्रीलोकेन मायोद्भावितेन सुवर्णाङ्गनालोकेन । लावण्येन जिह्मिताः जिताः । अन्तःपुराङ्गनाः यस्य । सः । क्रीडार्थं मायया उद्भाविता स्पर्धा क्रीडार्थस्पर्धा । तया । ईशानेन महारुद्रेण । हतः चक्रगदाधरः विष्णुः यस्य । सः ॥ ४,२५.१५ ॥

 

 

 

अजस्रोड्डीनरत्नौघताराढ्यस्वपुराम्बरः ।

नानाकुसुमसम्भारजानुदघ्नकृताङ्गनः ॥ ४,२५.१६ ॥

स्पष्टम् ॥ ४,२५.१६ ॥

 

 

 

निशास्वखिलपातालशतचन्द्रनभस्तलः ।

स्वसालभञ्जिकालोकगीतिगीतगुणोत्करः ॥ ४,२५.१७ ॥

स्पष्टम् ॥ ४,२५.१७ ॥

 

 

 

मायैरावणनागेन्द्रविद्रुतामरवारणः ।

त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः ॥ ४,२५.१८ ॥

स्पष्टम् ॥ ४,२५.१८ ॥

 

 

 

सर्वसम्पत्तिसुभगः सर्वैश्वर्यसमन्वितः ।

समस्तदैत्यसामन्तवन्दिताग्र्यानुशासनः ॥ ४,२५.१९ ॥

स्पष्टम् ॥ ४,२५.१९ ॥

 

 

 

महाभुजवनच्छायाविश्रान्तासुरमण्डलः ।

सर्वाम्बुधिगुहासाररत्नकुण्डलमण्डितः ॥ ४,२५.२० ॥

सर्वाम्बुधयः एव गुहाः । तासां साराणि यानि रत्नानि । तेषां कुण्डलानि । तैर्मण्डितः ॥ ४,२५.२० ॥

 

 

 

तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः ।

बभूव विपुलं सैन्यमासुरं सुरनाशनम् ॥ ४,२५.२१ ॥

उत्सादिताः खेदं नीताः देवाः येन । तादृशस्य ॥ ४,२५.२१ ॥

 

 

 

तस्मिन्मायाबले सुप्ते देशान्तरगते तथा ।

तत्सैन्यान्तरमाजग्मुश्छिद्रं प्राप्य किलामराः ॥ ४,२५.२२ ॥

तस्य शम्बरस्य । यत्सैन्यम् । तस्यान्तरं मध्यम् । छिद्रमवसरम् । प्राप्य । अन्यथा तेषां शक्तिर्नाभूदिति भावः ॥ ४,२५.२२ ॥

 

 

 

अथ शम्बरदैत्येन दुद्रिकह्वद्रुमादयः ।

रक्षार्थं मत्तसामन्ताः स्वसेनासु नियोजिताः ॥ ४,२५.२३ ॥

नियोजिताः प्रेरिताः ॥ ४,२५.२३ ॥

 

 

 

तानप्यन्तरमासाद्य जघ्नुर्गीर्वाणनायकाः ।

व्योमान्तरचराः श्येनाः कलविङ्कानिवाकुलान् ॥ ४,२५.२४ ॥

तानपि दुद्रिकह्वद्रुमादीनपि । अन्तरमासाद्यावकाशं लब्ध्वा । जघ्नुः घ्नन्ति स्म ॥ ४,२५.२४ ॥

 

 

 

सेनापतीन् पुनश्चान्यांश्चकारासुरसत्तमः ।

चपलानुद्भटारावांस्तरङ्गानिव सागरः ॥ ४,२५.२५ ॥

स्पष्टम् ॥ ४,२५.२५ ॥

 

 

 

देवास्तानपि तस्याशु जघ्नुस्तेन स कोपवान् ।

जगामामरनाशाय परिपूर्णस्त्रिविष्टपम् ॥ ४,२५.२६ ॥

परिपूर्णः महासैन्ययुक्तः ॥ ४,२५.२६ ॥

 

 

 

तत्रास्य मायाभीतास्ते सुरा अन्तर्धिमाययुः ।

मेरुकाननकुञ्जेषु मृगा गौरीगुरोरिव ॥ ४,२५.२७ ॥

कुञ्जेष्विति निष्कृष्य गौरीगुरोरित्यनेन सम्बन्धनीयम् ॥ ४,२५.२७ ॥

 

 

 

क्रन्दत्क्षुद्रामरगणं वाष्पक्लिन्नसुरीमुखम् ।

शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम् ॥ ४,२५.२८ ॥

सः शम्बरः ॥ ४,२५.२८ ॥

 

 

 

विहृत्य कुपितस्तत्र लब्धमाहृत्य शम्बरः ।

लोकपालपुरीर्दग्ध्वा जगामात्मीयमालयम् ॥ ४,२५.२९ ॥

लब्धं हस्तागतं रत्नजातम् ॥ ४,२५.२९ ॥

 

 

 

एवं दृढतरीभूते द्वेषे दानवदेवयोः ।

देवाः स्वर्गं परित्यज्य दिक्षु जग्मुरदर्शनम् ॥ ४,२५.३० ॥

द्वेषे वैरे ॥ ४,२५.३० ॥

 

 

 

अथ शम्बरदैत्येन ये ये सेनाधिनायकाः ।

क्रियन्ते यत्नतस्तांस्ताञ्जघ्नुर्यत्नपराः सुराः ॥ ४,२५.३१ ॥

स्पष्टम् ॥ ४,२५.३१ ॥

 

 

 

यावदुद्वेगमापन्नः शम्बरः कोपवान् भृशम् ।

तार्णोऽभि वातमनल इव जज्वाल चोच्छ्वसन् ॥ ४,२५.३२ ॥

क इव जज्वाल । तार्णः तृणोद्भूतः । अनल इव । यथा सः वातमभि ज्वलति । तथेत्यर्थः ॥ ४,२५.३२ ॥

 

 

 

त्रैलोक्यमपि चान्विष्य न देवांल्लब्धवानथ ।

परेणापि प्रयत्नेन सुकृतानीव दुष्कृती ॥ ४,२५.३३ ॥

स्पष्टम् ॥ ४,२५.३३ ॥

 

 

 

ससर्ज मायया घोरानसुरांस्त्रीन्महाबलान् ।

बलरक्षार्थमुदितान् कालान्मूर्तिमिवास्थितान् ॥ ४,२५.३४ ॥

कालान् यमान् ॥ ४,२५.३४ ॥

 

 

 

निर्मिता मायया भीमाः कल्पपादपबाहवः ।

उदगुस्ते महाकायाः पक्षक्षुब्धा इवाद्रयः ॥ ४,२५.३५ ॥

उदगुः उत्थिताः ॥ ४,२५.३५ ॥

 

 

 

दामो व्यालः कटश्चेति नामभिः परिलाञ्छिताः ।

यथाप्राप्तैककर्तारश्चेतनामात्रधर्मिणः ॥ ४,२५.३६ ॥

यथाप्राप्तैककर्तारः निरनुसन्धाना इत्यर्थः ॥ ४,२५.३६ ॥

 

 

 

तानेव विशिनष्टि

अभावात्कर्मणां ते च प्राक्तनानामवासनाः ।

निर्विकल्पकचिन्मात्रपरिस्पन्दैककर्मिणः ॥ ४,२५.३७ ॥

ते च त्रय आसन् कथम्भूताः । सद्यः उत्थितत्वेन प्राक्तनानां कर्मणामभावातवासनाः वासनारहिताः । पुनः कथम्भूताः । निर्विकल्पकं विकल्परहितम् । यत्चिन्मात्रम् । तस्य यः परिस्पन्दः । तद्रूपमेकं कर्म एषामस्तीति तादृशाः । निर्विकल्पचेष्टा इत्यर्थः ॥ ४,२५.३७ ॥

 

 

 

कर्मबीजं कलां तन्वीं दधाना मननाभिधाम् ।

अपुष्टां कृत्रिमामन्तरादायोदयमागताः ॥ ४,२५.३८ ॥

पुनः कथम्भूताः । कर्मबीजं कर्मबीजभूताम् । तन्वीमल्पाम् । मननाभिधां कलां दधानाः । अत एव अपुष्टां कृत्रिमामाहार्याम् । तां मननाभिधां कलामादाय । उदयं प्रादुर्भावम् । आगताः । अन्यथा ब्रह्मणः उत्थानं न स्यादिति भावः ॥ ४,२५.३८ ॥

 

 

 

पारम्पर्येण ते ह्यत्र काकतालीयवद्भटाः ।

प्रकृतामनुवर्तन्ते क्रियामुज्झितवासनाः ॥ ४,२५.३९ ॥

पारम्पर्येण परम्परापेक्षया । न तु प्रयोजनमनुसन्धाय ॥ ४,२५.३९ ॥

 

 

 

अर्धसुप्ता यथा बालाः स्वाङ्गैरिङ्गन्ति केवलम् ।

वासनात्माभिमानाभ्यां हीनास्ते तद्वदेव हि ॥ ४,२५.४० ॥

वासना चात्माभिमानं च । ताभ्याम् ॥ ४,२५.४० ॥

 

 

 

नाभिपातं न चापातं विदुस्ते न पलायनम् ।

न जीवितं न मरणं न रणं च जयाजयौ ॥ ४,२५.४१ ॥

अभिमुखं पातः अभिपातः । तम् । आपतनमापातः ॥ ४,२५.४१ ॥

 

 

 

केवलं सैनिकानग्रे दृष्ट्वाभिहननोद्यतान् ।

अभिजघ्नुः परानाजौ प्रहारदलिताद्रयः ॥ ४,२५.४२ ॥

परान् शत्रुभूतान् ॥ ४,२५.४२ ॥

 

 

 

शम्बरश्चिन्तयामास परितुष्टमनाः पुरे ।

विजेष्यते हि मत्सेना मायासुरसुरक्षिता ॥ ४,२५.४३ ॥

किं चिन्तयामासेत्य् । अत्राह विजेष्यते इति । मायया उत्पादिताः असुराः मायासुराः । तैः सुरक्षिता मत्सेना । हि निश्चये । विजेष्यते विजयं प्राप्स्यति ॥ ४,२५.४३ ॥

 

 

 

इष्टानिष्टाभिरेते हि वासनाभिः समुज्झिताः ।

ततो रणे बिभ्यति नो विद्रवन्ति च न स्थिराः ॥ ४,२५.४४ ॥

इष्टानिष्टवासनायुक्त एव हि शत्रुं बलयुक्तं ज्ञात्वा बिभेति विद्रवति चेति भावः ॥ ४,२५.४४ ॥

 

 

 

यदेते न पलायन्ते देवैरभिहता अपि ।

तदेषातिबला सेना ममेदानीं व्यवस्थिता ॥ ४,२५.४५ ॥

विशेषेणावस्थिता व्यवस्थिता ॥ ४,२५.४५ ॥

 

 

 

सर्गान्तश्लोकेन शम्बरचिन्तां समापयति

अतिबलासुरदोर्द्रुमपालिता

मम चमूः स्थिरतामलमेष्यति ।

अमरवारणदन्तविघट्टनेष्व्

अमरपर्वतहेममही यथा ॥ ४,२५.४६ ॥

अमरपर्वतस्य सुमेरोः । हेममही सुवर्णभूमिः । इति शिवम् ॥ ४,२५.४६ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे पञ्चविंशः सर्गः ॥२५॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २५