मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २४

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



ननु तर्हीन्द्रियजये कः क्लेश इत्य् । अत्राह

महानरकसम्राजो मत्तदुष्कृतवारणाः ।

आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ॥ ४,२४.१ ॥

मत्तदुष्कृतान्येव वारणा येषाम् । ते । आशा एव शरशलाकाः येषाम् । तादृशाः । सम्राजः अपि वारणयुक्ताः शरयुक्ताश्च भवन्ति ॥ ४,२४.१ ॥

 

 

 

स्वाश्रयं प्रथमं देहं कृतघ्ना नाशयन्ति ये ।

ते कुकार्यमहाकोशा दुर्जयाः स्वेन्द्रियारयः ॥ ४,२४.२ ॥

नाशयन्ति असम्भविनो भोगान् प्रति चेष्टां कारयन्ति ॥ ४,२४.२ ॥

 

 

 

कलेवरालयं प्राप्य विषयामिषगर्धतः ।

अक्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः ॥ ४,२४.३ ॥

कार्याकार्ये एव उग्रौ पक्षौ येषाम् । ते । तादृशाः ॥ ४,२४.३ ॥

 

 

 

विवेकतन्तुजालेन गृहीता येन ते शठाः ।

तस्याङ्गानि न लुम्पन्ति पाषाणकवलं यथा ॥ ४,२४.४ ॥

ते अक्षगृध्राः । गृध्रा हि पाषाणकवलं न लुम्पन्ति ॥ ४,२४.४ ॥

 

 

 

आपातरमणीयेषु रमन्ते विषयेषु ये ।

अत्यन्तविरसान्तेषु पतन्ति नरकेषु ते ॥ ४,२४.५ ॥

अत्यन्तं विरसः अन्तः येषाम् । तेषु । विषयेष्वित्यस्य विशेषणमेतत् ॥ ४,२४.५ ॥

 

 

 

विवेकधनवानस्मिन् कुकलेवरपत्तने ।

इन्द्रियारिभिरन्तःस्थैरवशो नाभिभूयते ॥ ४,२४.६ ॥

अस्मिननुभूयमाने । कुकलेवरे निन्दिते शरीरे । बलवान् हि अरिभिः नावशोऽभिभूयते ॥ ४,२४.६ ॥

 

 

 

न तथा सुखिता भूयो मृण्मयोग्रपुरीजुषः ।

यथा स्वाधीनमनसः स्वशरीरपुरीश्वराः ॥ ४,२४.७ ॥

मृण्मयोग्रपुरीजुषः बाह्यनगरीराजानः । स्वाधीनमनस इति विशेषणद्वारेण हेतुः ॥ ४,२४.७ ॥

 

 

 

स्वाक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः ।

वसन्त इव मञ्जर्यो वर्धन्ते बुद्धबुद्धयः ॥ ४,२४.८ ॥

बुद्धानां ज्ञानिनाम् । बुद्धयः । बुद्धबुद्धयः ॥ ४,२४.८ ॥

 

 

 

प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।

पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ ४,२४.९ ॥

भोगवासनाः भोगसंस्काराः ॥ ४,२४.९ ॥

 

 

 

तावन्निशीव वेताल्यो वल्गन्ति हृदि वासनाः ।

एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥ ४,२४.१० ॥

विजिते तु मनसि न वल्गन्तीति भावः । एकतत्त्वं सर्वव्यापकं शुद्धचिन्मात्रतत्त्वम् ॥ ४,२४.१० ॥

 

 

 

भृत्योऽभिमतकर्तृत्वान्मन्त्री सत्कार्यकारणात् ।

सामन्तः स्वेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ॥ ४,२४.११ ॥

सामन्तः शत्रुजये अधिकृतः ॥ ४,२४.११ ॥

 

 

 

लालनात्स्निग्धललना पालनात्पावनः पिता ।

सुहृदुत्तमविश्वासान्मनो मन्ये मनीषिणाम् ॥ ४,२४.१२ ॥

लालनात्लालनाकारित्वात् । स्निग्धललना स्नेहयुक्ता चासौ । ललना स्त्री ॥ ४,२४.१२ ॥

 

 

 

स्वालोकितं शास्त्रदृशा सुध्यातं स्वनुनाथितम् ।

प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ॥ ४,२४.१३ ॥

सुष्ठुरनुनाथितं याचितम् । आत्मानं त्यक्त्वा नाशयित्वा । मनो हि स्वात्मानं नाशयित्वैव हितं सम्पादयति । पितापि पुत्रस्य स्वप्राणत्यागेन हितं करोतीति तस्योपमानत्वम् ॥ ४,२४.१३ ॥

 

 

 

सुघृष्टः सुपरामृष्टः सुधृतः स्वनुबोधितः ।

सुगुणायोजितो भाति हृदि हृद्यो मनोमणिः ॥ ४,२४.१४ ॥

मणिपक्षे स्वनुबोधितः सम्यक्परीक्षितः । सुगुणेषु प्रशस्तेषु गुणेषु तन्तुषु च । आ समन्तात् । योजितः ॥ ४,२४.१४ ॥

 

 

 

जन्मवृक्षकुठाराणि तथोदर्कोदयानि च ।

दिशत्येष मनोमन्त्री कर्माणि शुभकर्मणः ॥ ४,२४.१५ ॥

उदर्कः उत्तरफलभूतः । उदयः येषाम् । तानि । शुभकर्मणः शुभकर्मकारिणः पुरुषस्य ॥ ४,२४.१५ ॥

 

 

 

फलितमाह

एवं मनोमणिं राम बहुपङ्ककलङ्कितम् ।

विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान् भव ॥ ४,२४.१६ ॥

सिद्ध्यै चिन्मात्रस्वरूपपरमात्मतत्त्वलाभाख्यायै सिद्ध्यै । आलोकवान् प्रकाशवान् । मणिप्रक्षालकोऽपि तमसि आलोकवान् भवति । रत्नालोकस्य विद्यमानत्वात् ॥ ४,२४.१६ ॥

 

 

 

भवभूमिषु भीमासु विवेकविततोऽपि सन् ।

मा पतोत्पातपूर्णासु विवशः प्राकृतो यथा ॥ ४,२४.१७ ॥

भीमासु भयप्रदासु । मा पत मा गच्छ । विवेकवानप्यहं यदि गच्छाम्यपि । किं मम सेत्स्यतीति निश्चयेऽपि मा गच्छेति द्योतयितुमपिशब्दः । प्राकृतः विवेकरहितः । पतने तु त्वमपि विवेकवान्नासीति भावः ॥ ४,२४.१७ ॥

 

 

 

संसारमायामुदितामनर्थशतसङ्कुलाम् ।

मा महामोहमिहिकामिमां त्वमवधीरय ॥ ४,२४.१८ ॥

मावधीरय किं मामियं करोतीत्यवगणनाविषयं मा कुरु ॥ ४,२४.१८ ॥

 

 

 

विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च ।

इन्द्रियारीनलं जित्वा तीर्णो भव भवा[र्णवात्] ॥ ४,२४.१९ ॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २४