मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २३

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



ओम् । पुनरपि विवेकिन एव माहात्म्यं कथयति

स उत्तमपदालम्बी चक्रभ्रमवदास्थितः ।

शरीरनगरे राज्यं कुर्वन्नपि न लिप्यते ॥ ४,२३.१ ॥

उत्तमं पदं चिन्मात्राख्यं श्रेष्ठं स्थानम् । आलम्बत इत्युत्तमपदालम्बी । चक्रभ्रमवतास्थितः समन्तात्स्थितः । निरनुसन्धानं चेष्टायां स्थित इति यावत् । सः जीवन्मुक्तः । शरीरनगरे राज्यं कुर्वन्नपि न लिप्यते । तज्जैः सुखदुःखैः न गृह्यते इत्यर्थः । राजापि उत्तमपदालम्बी सर्वत्र भ्रमन्नगरे राज्यं कुर्वन् भवति ॥ ४,२३.१ ॥

 

 

 

तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा ।

सुखायैव न दुःखाय स्वशरीरमहापुरी ॥ ४,२३.२ ॥

सुखायैव आत्यन्तिकमोक्षरूपसुखसाधनत्वात् । न दुःखाय दुःखलेपाभावात् ॥ ४,२३.२ ॥

 

 

 

अत्र श्रीरामः पृच्छति

नगरीत्वं शरीरस्य कथं नाम महामुने ।

एतां चाधिवसन् योगी कथं राज्यसुखैकभाक् ॥ ४,२३.३ ॥

स्पष्टम् ॥ ४,२३.३ ॥

 

 

 

श्रीवसिष्ठ उत्तरमाह

रम्येयं देहनगरी राम सर्वगुणान्विता ।

ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता ॥ ४,२३.४ ॥

स्वालोकः आत्मप्रकाशः । स एवार्कः । तेन प्रकाशिता परामर्शद्वारेण स्वं प्रति प्राकट्यं नीता ॥ ४,२३.४ ॥

 

 

 

सर्वगुणत्वमेव कथयति

नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा ।

करप्रतोलीविस्तारप्राप्तपादोपजङ्गला ॥ ४,२३.५ ॥

नेत्रे एव वातायने । तयोः यः उद्द्योतः प्रकाशः । तेन प्रकाशानि प्रकटानि । भुवनान्तराणि भुवनमध्यानि यस्याम् । सा । नगर्यामपि नगरद्वारनिर्मितैः वातायनैः भुवनान्तराणि दृश्यानि भवन्ति । करौ एव प्रतोल्यौ विशिखे । ताभ्यां प्राप्तौ पादावेव उपजङ्गलौ जङ्गलसमीपदेशौ यस्याः । सा । नगर्यश्च उपजङ्गलं तावत्प्रतोली भवति ॥ ४,२३.५ ॥

 

 

 

रोमराजिलतागुल्मा त्वगट्टालकमालिता ।

गुल्फगुल्गुलुविश्रान्तजङ्घोरुस्तम्भमण्डला ॥ ४,२३.६ ॥

त्वगेवाट्टालकं प्राकारः । तेन भूषिता । गुल्गुलुः स्तम्भाधारभूता शिला ॥ ४,२३.६ ॥

 

 

 

रेखाविभक्तपादोग्रशिलाप्रथमनिर्मिता ।

चर्ममर्मसिरासारसन्धिसीमा मनोरमा ॥ ४,२३.७ ॥

रेखाभ्यां विभक्ते ये । पादौ एवोग्रशिले । तयोः प्रथमं निर्मिता । प्रथमनिर्माणे हि कृतविभागाः शिलाः स्थाप्यन्ते । चर्ममर्मसिरासारः चर्ममर्मसिरासमूह एव । सन्धिसीमाः सन्धिमर्यादाः यस्याः । सा ॥ ४,२३.७ ॥

 

 

 

ऊरुद्वयकवाटाग्रनिर्मितोपस्थनिर्गमा ।

कचत्कचावलीकाचदलप्रच्छादनावृता ॥ ४,२३.८ ॥

ऊरुद्वयमेव कवाटे । तयोः ये अग्रे । ताभ्यां निर्मितः कवाटरचनायुक्तः कृतः । उपस्थ एव गुदस्थानमेव । निर्गमः द्वारदेशः यस्याः । सा । कचन्ती या कचावली । सा एव काचदलैः निर्मितं प्रच्छादनम् । तेनावृता ॥ ४,२३.८ ॥

 

 

 

भ्रूललाटास्यसच्छायवदनोद्यानशोभिता ।

दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थला ॥ ४,२३.९ ॥

भ्रूललाटास्यैः सच्छायं यत्वदनम् । तदेवोद्यानम् । तेन शोभिता ॥ ४,२३.९ ॥

 

 

 

वक्षःस्थलसरःस्यूतकुचपङ्कजकोरका ।

घनरोमावलिच्छन्नस्कन्धक्रीडाशिलोच्चया ॥ ४,२३.१० ॥

घनरोमावलिच्छन्ना चासौ स्कन्धक्रीडाशिलोच्चया च ॥ ४,२३.१० ॥

 

 

 

उदरश्वभ्रनिक्षिप्तस्वन्नेष्टभक्ष्यकर्परा ।

दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता ॥ ४,२३.११ ॥

उदरश्वभ्रे उदरगर्ते । निक्षिप्तानि यानि स्वन्नानि शोभनान्नानि । तैः । तद्व्याजेनेति यावत् । इष्टभक्ष्यकर्परा इष्टभक्ष्यभग्नपात्रं यस्याः । सा । राजनगर्यामपि इष्टभक्ष्यपात्राणि भवन्ति । दीर्घं यत्कण्ठबिलम् । तस्मिन् । उद्गीर्णः सञ्चारी । यः वातः । तस्य यः संरम्भः । तेन शब्दिता शब्दयुक्ता कृता । नगर्यामपि बिलेषु वातशब्दो भवति ॥ ४,२३.११ ॥

 

 

 

हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता ।

अनारतं नवद्वारप्रवहत्प्राणनागरा ॥ ४,२३.१२ ॥

हृदयमेवापणः निषद्या । तस्मिन्निर्णीता उपादेयत्वेन निश्चिताः । ये यथाप्राप्तार्थाः स्वप्रवाहागतार्थाः । तैः भूषिता । नगर्या अपि आपणेषु अर्था निर्णीयन्ते ॥ ४,२३.१२ ॥

 

 

 

आस्यस्फारखदादृष्टदन्तास्थिशकलाकुला ।

मुखखदाभ्रमज्जिह्वाचिल्लाचर्वितभोजना ॥ ४,२३.१३ ॥

नगर्यामपि खदासु मांसभक्षकैः त्यक्तानि अस्थिशकलानि भवन्ति । चिल्ला पक्षिविशेषः ॥ ४,२३.१३ ॥

 

 

 

रोमशष्पभरच्छन्नकर्णकोटरकूपका ।

स्फिक्शृङ्खलाञ्चितोपान्तपृष्टविस्तीर्णजङ्गला ॥ ४,२३.१४ ॥

स्फिजौ एव शृङ्खले । ताभ्यामञ्चितोपान्तं रम्योपान्तम् । पृष्टमेव विस्तीर्णजङ्गलं यस्याः । सा । नगर्या अपि जङ्गलसन्धिषु चौरादिप्रतिबन्धार्थं शृङ्गलाः भवन्ति ॥ ४,२३.१४ ॥

 

 

 

गुदोच्छिन्नारघट्टान्तरुद्धृतानन्तकर्दमा ।

चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना ॥ ४,२३.१५ ॥

गुद एवोच्छिन्नारघट्टः त्रोटितारघट्टयन्त्रः । तेनान्तः अन्तःप्रदेशात् । उद्धृतः निष्कासितः । अनन्तः कर्दमः । अर्थात्शकृद्रूपः कर्दमः यस्याः । सा । नगर्या अपि कर्दममुद्धरन्ति । चित्तोद्यानेति । ज्ञचित्ते हि रात्रिन्दिनमात्मचिन्ता एव स्फुरति ॥ ४,२३.१५ ॥

 

 

 

धीवरत्रादृढाबद्धचपलेन्द्रियमर्कटा ।

वदनोद्यानहसनपुष्पोद्गममनोरमा ॥ ४,२३.१६ ॥

ज्ञो हि धीरज्ज्वा चपलेन्द्रियाणि बध्नाति । वदनोद्यानेति । उद्याने च पुष्पोद्गमो युक्त एव ॥ ४,२३.१६ ॥

 

 

 

स्वशरीरपुरी ज्ञस्य सर्वसौभाग्यसुन्दरी ।

सुखायैव न दुःखाय परमाय हिताय च ॥ ४,२३.१७ ॥

स्वशरीरपुरी प्रोक्तसर्वपुरीगुणा निजशरीरनगरी । परमाय हिताय मोक्षरूपायेत्यर्थः ॥ ४,२३.१७ ॥

 

 

 

अज्ञस्येयं सुखदास्त्यथ वा नेत्य् । अत्राह

अज्ञस्येयमनन्तानां दुःखानां कोशमालिका ।

ज्ञस्य त्वियमनन्तानां सुखानां कोशमालिका ॥ ४,२३.१८ ॥

कोशमालिका भाण्डागारमाला । अनन्तदुःखोत्पादिकेत्यर्थः । अज्ञातशुद्धतत्त्वस्य तस्यैतदर्थं रात्रिन्दिनं सन्तापभाक्त्वातिति भावः । ननु तर्हि ज्ञस्यापि ईदृश्येव स्यादित्य् । अत्राह ज्ञस्य त्विति । तुशब्दः व्यतिरेकद्योतकः । ज्ञातशुद्धात्मतत्त्वस्य तस्यैतदर्थं सन्तापभाक्त्वाभावात् । न ह्यन्यार्थमन्यः सन्तापभाग्भवतीति भावः ॥ ४,२३.१८ ॥

 

 

 

ननु तर्हि नाशकाले इयं ज्ञस्य दुःखदा भविष्यतीत्य् । अत्राह

न किञ्चिदस्यां नष्टायां ज्ञस्य नष्टमरिन्दम ।

स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा ॥ ४,२३.१९ ॥

एतद्व्यतिरिक्तशुद्धचिन्मात्रस्वरूपत्वादिति भावः । ननु तर्हि स्थितिकालेऽप्यस्यानया न किञ्चित्प्रयोजनमित्य् । अत्राह स्थितायामिति । सर्वं संस्थितं समस्तजीवन्मुक्त्युपयोगिकार्यसाधकत्वादिति भावः । उपसंहारं करोति तेनेयमिति ॥ ४,२३.१९ ॥

 

 

 

नन्वस्याः कैश्चिद्रथत्वमप्युक्तमित्य् । अत्राह

यदेनां ज्ञः समारुह्य संसारे विहरत्यलम् ।

अशेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः ॥ ४,२३.२० ॥

एनां शरीरपुरीम् ॥ ४,२३.२० ॥

 

 

 

शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः ।

अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा ॥ ४,२३.२१ ॥

ननु शब्दादिलाभेन ज्ञस्य को लाभोऽस्तीति चेन् । न । शब्दादिद्वारेण परमात्मतत्त्वशक्तिनिचयज्ञानरूपस्य लाभस्य स्थितत्वात् ॥ ४,२३.२१ ॥

 

 

 

सुखदुःखक्रियाजालं यदैषोद्वहति स्वयम् ।

तदैषा राम सर्वत्र सर्ववस्तुभरक्षमा ॥ ४,२३.२२ ॥

एषा देहनगरी । ज्ञो हि सुखादिकं शरीरस्यैव जानाति न स्वस्य ॥ ४,२३.२२ ॥

 

 

 

तस्यां शरीरपुर्यां हि राज्यं कुर्वन् गतभ्रमः ।

ज्ञस्तिष्ठति गतव्यग्रं स्वपुर्यामिव वासवः ॥ ४,२३.२३ ॥

गतभ्रमः एतां प्रति अहमभिमानरहितः । गतव्यग्रं निराकुलम् ॥ ४,२३.२३ ॥

 

 

 

न क्षिपत्यवटाटोपे मनोमत्ततुरङ्गमम् ।

न लोभद्वन्द्वरूपाय प्रज्ञापुत्रीं प्रयच्छति ॥ ४,२३.२४ ॥

अवटाटोपे विषयरूपे श्वभ्राडम्बरे । लोभाख्यो यः द्वन्द्वरूपः । तस्मै । प्रज्ञापुत्रीं न प्रयच्छति । लोभग्रस्तां प्रज्ञां न करोतीति भावः ॥ ४,२३.२४ ॥

 

 

 

अज्ञानपरराष्ट्रं च न रन्ध्रं त्वस्य पश्यति ।

संसारारिभयस्यान्तर्मूलान्येष निकृन्तति ॥ ४,२३.२५ ॥

अज्ञानमेव परराष्ट्रं लक्षणया रिपुभूतो राजा । न पश्यति । गमनस्य तु का कथा । अस्य अज्ञानराज्ञः । रन्ध्रम् । तु एवशब्दार्थे । न पश्यति । जितत्वात् ॥ ४,२३.२५ ॥

 

 

तृष्णासारपरावर्ते कामसङ्क्षोभदुर्ग्रहे ।

न निमज्जन्ति पर्यस्तसुखदुःखाक्षदेवने ॥ ४,२३.२६ ॥

तृष्णासारस्य परावर्तः आवृत्तिः यस्मिन् । तादृशे । कामस्य यः सङ्क्षोभः । तेन दुर्ग्रहे । पर्यस्तौ प्रेरितौ । यौ सुखदुःखाक्षौ सुखदुःखे एवाक्षौ । तयोः यत्देवनं क्रीडनम् । द्यूतमिति यावत् । तत्र न निमज्जन्ति । राज्ञो हि द्यूतमज्जनं दोष एव । अक्षदेवनमपि तृष्णाकामवलितमेव भवति ॥ ४,२३.२६ ॥

 

 

 

करोत्यविरतं स्नानं बहिरन्तरपि क्षणात् ।

सरित्सङ्गमतीर्थेषु मनोरथगतिः क्रमात् ॥ ४,२३.२७ ॥

बहिः बाह्ये । अन्तः मनसि । मन एव स्वाधीनत्वात्रथः । तेन गतिः यस्य । सः । अन्तः स्नानं तु चिद्ध्रदनिमज्जनमेव ज्ञेयम् ॥ ४,२३.२७ ॥

 

 

 

सकलाक्षिजनादृश्यः पुरप्रेक्षापराङ्मुखः ।

ध्याननाम्नि सुखं नित्यं तिष्ठत्यन्तःपुरान्तरे ॥ ४,२३.२८ ॥

पुरस्य शरीरस्य । नगरस्य च राजापि सकलजनादृश्यः पुरप्रेक्षापराङ्मुखश्चरन् पुरे तिष्ठति । ध्यानं चात्र स्वात्मभूतशुद्धचिन्मात्रतत्त्वपरामर्श एव ज्ञेयः ॥ ४,२३.२८ ॥

 

 

 

सुखावहैषा नगरी नित्यं प्रमुदितात्मनः ।

भोगमोक्षप्रदा दिव्या शक्रस्येवामरावती ॥ ४,२३.२९ ॥

ज्ञस्येति शेषः ॥ ४,२३.२९ ॥

 

 

 

स्थितया संस्थितं सर्वं किञ्चिन्नष्टं न नष्टया ।

यया पुर्या महीपस्य सा कथं न सुखावहा ॥ ४,२३.३० ॥

स्पष्टम् ॥ ४,२३.३० ॥

 

 

 

विनष्टे देहनगरे ज्ञस्य नष्टं न किञ्चन ।

आक्रान्तकुम्भकोशस्य खस्य कुम्भक्षये यथा ॥ ४,२३.३१ ॥

स्पष्टम् ॥ ४,२३.३१ ॥

 

 

 

विद्यमानं घटं वायुः किल स्पृशति नास्थितम् ।

यथा तथैव देही स्वां शरीरनगरीमिमाम् ॥ ४,२३.३२ ॥

अस्थितं नष्टम् । देही देहाद्व्यतिरिक्तमात्मानं जानानः तज्ज्ञः ॥ ४,२३.३२ ॥

 

 

 

अत्रस्थ एष भगवानात्मा सर्वगतोऽपि सन् ।

स्वविकल्पकृतां भुक्त्वा पुंस्तामधिगतात्मदृक् ॥ ४,२३.३३ ॥

कुर्वन्नपि न कुर्वाणः सम्यक्सर्वक्रियोन्मुखः ।

कदाचित्प्रकृतान् सर्वान् कार्यार्थानधितिष्ठति ॥ ४,२३.३४ ॥

अत्रस्थः देहस्थः । अपिशब्दः सर्वगतस्य पुंस्ताभोगे विरोधं द्योतयति । अधिगतात्मदृक्तज्ज्ञः । न तु मूर्खः । तस्यैवंविधत्वासम्भवात् । कुर्वन् शरीरादिद्वारेण कुर्वन् । न कुर्वाणः नाहं कर्तेति निश्चयात् । कार्यार्थान् करणीयानि प्रयोजनानि । अधितिष्ठति कर्तव्यत्वेन निश्चिनोति । प्रकृतान् प्रवाहागतान् । न तु स्वविमर्शेन कल्पितान् ॥ ४,२३.३३३४ ॥

 

 

 

ननु यदि कदाचिदेतत्करोति तर्हि अन्यदा किं करोतीत्य् । अत्राह

कदाचिल्लीलयालोलं विमानमधिरोहति ।

अनाहतगतिं कान्तं विहर्तुममलं मनः ॥ ४,२३.३५ ॥

कदाचिदसौ तज्ज्ञः आत्मलीलया मनः विमानं मनोरूपं विमानम् । अधिरोहति । किं कर्तुम् । विहर्तुमान्तरं विहारं कर्तुम् । मनोविमानं कथम्भूतम् । अलोलं चञ्चलतारहितम् । पुनः कथम्भूतम् । अनाहता क्वचिदप्रतिहता । गतिः यस्य । सः । तम् । विमानशब्दापेक्षया पुंस्त्वम् । अमलं रागादिमलरहितम् । अत एव कान्तम् ॥ ४,२३.३५ ॥

 

 

 

ननु तत्र किं करोतीत्य् । अत्राह

तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया ।

रमते नाम यो मैत्र्या नित्यं हृदयसंस्थया ॥ ४,२३.३६ ॥

सः तज्ज्ञः तत्रस्थः मनोविमानस्थः । लोकसुन्दर्या लोकप्रियया । नित्यं हृदयस्थया सततं शीतलाङ्गया मैत्र्या मैत्र्याख्यया स्त्रिया । रमते । कदाचिदन्तर्मुखः सन्मैत्रीमय एव भवतीति भावः ॥ ४,२३.३६ ॥

 

 

 

न केवलं मैत्र्येव तस्य कान्तास्ति यावदन्ये द्वे अपीत्याह

द्वे कान्ते तिष्ठतस्तस्य पार्श्वयोः सत्यतैकते ।

इन्दोरिव विशाखे द्वे समाह्लादितचेतसी ॥ ४,२३.३७ ॥

स्पष्टम् ॥ ४,२३.३७ ॥

 

 

 

ज्ञ इमानखिलांल्लोकान् दुःखक्रकचदारितान् ।

वाल्मीकानिव पीठस्थः पृष्ठादर्क इवेक्षते ॥ ४,२३.३८ ॥

लोकान् कथम्भूतान् । दुःखमेव क्रकचः । तेन दारितान् पीडितान् । वाल्मीकान् पिपीलिकाः । पृष्ठाद्पृष्ठमारुह्येत्यर्थः ॥ ४,२३.३८ ॥

 

 

 

चिरं पूरितसर्वाशः सर्वसम्पत्तिसुन्दरः ।

अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते ॥ ४,२३.३९ ॥

सर्वसम्पत्त्या सर्वसम्पदा । सुन्दरः ॥ ४,२३.३९ ॥

 

 

 

सेव्यमानोऽपि भोगौघो न खेदायास्य जायते ।

कालकूटः किलेशस्य कण्ठे प्रत्युत राजते ॥ ४,२३.४० ॥

खेदाय नाशद्वारेणेति भावः ॥ ४,२३.४० ॥

 

 

 

ननु कथं नासावस्य खेदाय भवतीत्य् । अत्राह

परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये ।

विज्ञायाश्वासितो मैत्रीमेति चौरो न शत्रुताम् ॥ ४,२३.४१ ॥

परिज्ञाय सम्यक्निश्चित्यात्मरूपत्वेन ज्ञात्वेत्यर्थः । आत्मरूपत्वेन हि ज्ञातो भोगः नष्टोऽपि खेदं न ददाति स्वात्मरूपतया स्थितत्वात् । न चात्मनो नाशः युक्तः । नाशेऽपि नाशसाक्षितया स्थितत्वात् ॥ ४,२३.४१ ॥

 

 

 

नरनारीनटौघानां कलहे दूरगामिना ।

ज्ञेन यात्रेव सुभगा भोगश्रीरवलोक्यते ॥ ४,२३.४२ ॥

अन्योऽपि निपुणः नटौघानां कलहे दूरं गच्छति । यात्रां तदारब्धं नाट्यं च पश्यति ॥ ४,२३.४२ ॥

 

 

 

अशङ्कितोपसम्प्राप्ता ग्रामयात्रा यथाध्वगैः ।

प्रेक्ष्यते तद्वदेवाज्ञैर्व्यवहारमयी क्रिया ॥ ४,२३.४३ ॥

निरनुसन्धानमेव प्रेक्षत इति भावः ॥ ४,२३.४३ ॥

 

 

 

अयत्नोपनतेष्वक्षि दिग्द्रव्येषु यथा पुरः ।

नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ ४,२३.४४ ॥

अयत्नोपनतेषु दिग्द्रव्येषु यथा अक्षि नेत्रम् । नीरागं रागरहितम् । पतति । धीरधीः तज्ज्ञबुद्धिः । कार्येषु तद्वत्पतति । रागरहितमेवासौ कार्याणि करोतीति भावः ॥ ४,२३.४४ ॥

 

 

 

इन्द्रियाणां न हरति प्राप्तमर्थं कदाचन ।

न ददाति तथा प्राप्तं सम्पूर्णो ज्ञोऽवतिष्ठते ॥ ४,२३.४५ ॥

सम्पूर्णत्वं ह्येतदेव यत्प्राप्तस्य ग्रहणमप्राप्तस्यावाञ्छनमिति ॥ ४,२३.४५ ॥

 

 

 

अप्राप्तचिन्ताः सम्प्राप्तसमुपेक्षाश्च सन्मतिम् ।

नाकल्पयन्ति तरला पिञ्छघाता इवाचलम् ॥ ४,२३.४६ ॥

न आकल्पयन्ति न चञ्चलीकुर्वन्ति ॥ ४,२३.४६ ॥

 

 

 

संशान्तसर्वसन्देहो गलिताखिलकौतुकः ।

सङ्क्षीणकल्पनाजालो ज्ञः संराडिव शोभते ॥ ४,२३.४७ ॥

स्पष्टम् ॥ ४,२३.४७ ॥

 

 

 

आत्मन्येव न मात्यन्तः स्वात्मनात्मनि जृम्भते ।

सम्पूर्णापारपर्यन्तः क्षीरार्णव इवात्मवान् ॥ ४,२३.४८ ॥

न माति । आनन्दनिर्भरत्वात्स्वात्मनात्मनि जृम्भते । नान्तः कञ्चिदन्यं पश्यतीति भावः । सम्पूर्णश्चासौ अपारपर्यन्तश्च सम्पूर्णापारपर्यन्तः ॥ ४,२३.४८ ॥

 

 

 

भोगेच्छाकृपणाञ्जन्तून् दीनान् दीनेन्द्रियाणि च ।

अनुन्मत्तमनाः शान्तो हसत्युन्मत्तकानिव ॥ ४,२३.४९ ॥

तदासक्तौ तु का कथेति भावः ॥ ४,२३.४९ ॥

 

 

 

इच्छतोऽन्यनिजां जायां यथैवान्येन हस्यते ।

इन्द्रियस्येच्छतो भोगं तथैव ज्ञेन हस्यते ॥ ४,२३.५० ॥

यथा अन्यस्य निजामन्यनिजाम् । तादृशीं भाविनीं भार्यामिच्छतः । अन्यार्थं भार्यामिच्छत इति यावत् । पुरुषस्य । यथा अन्येन हस्यते हासः क्रियते । तथैव इन्द्रियस्य भोगमिच्छतः अज्ञस्य । ज्ञेन हस्यते ॥ ४,२३.५० ॥

 

 

 

त्यजन्तं स्वसुखं साम्यं मनो विषयविद्रुतम् ।

अङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत् ॥ ४,२३.५१ ॥

साम्यं स्वसुखं साम्याख्यमात्मानन्दम् । विचारेण किंसारा इमे भोगा इत्येवंरूपेण ॥ ४,२३.५१ ॥

 

 

 

भोगेषु प्रसरो यस्या मनोवृत्तेः प्रदीयते ।

साप्यादावेव हन्तव्या विषस्येवाङ्कुरोद्गतिः ॥ ४,२३.५२ ॥

सा मनोवृत्तिः । आदौ प्रसरदानात्प्राक् । यस्याः तु न दीयते तस्याः का कथेत्यपिशब्दाभिप्रायः ॥ ४,२३.५२ ॥

 

 

 

ननु प्रथमं हतायाः पश्चात्प्रसरदाने किं फलमित्य् । अत्राह

ताडितस्य हि यः पश्चात्सम्मानः सोऽप्यनन्तकः ।

शालेर्ग्रीष्मोपतप्तस्य कुसेकोऽप्यमृतायते ॥ ४,२३.५३ ॥

सम्मानः आदरः । प्रसरदानमिति यावत् ॥ ४,२३.५३ ॥

 

 

 

ननु कथमेतदित्य् । अत्राह

अनार्तेन हि सम्मानो बहुमानो न बुध्यते ।

पूर्णानां सरितां प्रावृट्पूरः स्वल्पं विराजते ॥ ४,२३.५४ ॥

हि यस्मात् । अनार्तेनादृष्टपीडनेन । सम्मानः बहुमानः न बुध्यते न ज्ञायते । एतद्दृष्टान्तेन समर्थयति पूर्णानामिति । पूर्णानां सरितां प्रावृट्पूरः स्वल्पं तोकम् । विराजते । जनमनआह्लादकारित्वाभावादित्यर्थः । जनमनो हि क्षीणानां नदीनां प्रावृट्पूरदर्शनेन सानन्दं भवति ॥ ४,२३.५४ ॥

 

 

 

पूर्णस्तूपकृतोऽप्यन्यत्पुनरप्यभिवाञ्छति ।

जगत्पूरणयाप्यम्बु गृह्णात्येकार्णवोऽखिलम् ॥ ४,२३.५५ ॥

जगत्पूरणया युक्तोऽपीति शेषः ॥ ४,२३.५५ ॥

 

 

 

मनसो निगृहीतस्य या पश्चाद्भागमण्डना ।

तामेवालब्धविस्तारलब्धत्वाद्बहु मन्यते ॥ ४,२३.५६ ॥

भागमण्डना लेशेन पूरणा । तामेव भागमण्डनामेव । अलब्धविस्तारश्चासौ लब्धश्च अलब्धविस्तारलब्धः । तस्य भावः तत्त्वम् । तस्मात् । अलब्धविस्तारः लब्धः हि स्वल्पमपि बहु मन्यते ॥ ४,२३.५६ ॥

 

 

 

बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति ।

परैरबद्धो नाक्रान्तो राज्येनापि न तुष्यति ॥ ४,२३.५७ ॥

आदौ बद्धः पश्चान्मुक्तः बद्धमुक्तः । तथा निगृहीतं मनः भोगलेशेनैव तुष्यतीति भावः ॥ ४,२३.५७ ॥

 

 

 

इन्द्रियनिग्रहद्वारेण मनोनिग्रहस्य साध्यत्वादिन्द्रियनिग्रहमेव कथयति

हस्तं हस्तेन सम्पीड्य दन्तैर्दन्तान् विचूर्ण्य च ।

अङ्गान्यङ्गैरिवाक्रम्य जय स्वेन्द्रियशात्रवान् ॥ ४,२३.५८ ॥

विषयेषु प्रवृत्तानि इन्द्रियाणि सम्यग्ज्ञानबलेन प्रत्याहरणीयानीति भावः ॥ ४,२३.५८ ॥

 

 

 

जेतुमन्यं कृतोत्साहैः पुरुषैरुद्बुभूषुभिः ।

पूर्वं हृदयशत्रुत्वाज्ज्ञातव्यानीन्द्रियाण्यलम् ॥ ४,२३.५९ ॥

अन्यं राजादिरूपम् । उद्भवितुमिच्छुभिः उद्बुभूषुभिः । ज्ञातव्यानि शत्रुत्वेनेति शेषः । हृदयशत्रुत्वं चेन्द्रियाणां भोगान् प्रत्याकर्षणकारित्वेन ज्ञेयम् ॥ ४,२३.५९ ॥

 

 

 

मनोजययुक्तानां प्रशंसां करोति

एतावति धरणितले

सुभगास्ते साधुचेतनाः पुरुषाः ।

पुरुषकथासु च गण्या

न जिता ये न चेतसा स्वेन ॥ ४,२३.६० ॥

स्पष्टम् ॥ ४,२३.६० ॥

 

 

 

सर्गान्तश्लोकेनाप्येतदेव कथयति

हृदयबिले कृतकुण्डल

उल्बणकलनाविषो मनोभुजगः ।

यस्योपशान्तिमागत

उदितं तमरिन्दमं वन्दे ॥ ४,२३.६१ ॥

स एव सर्वोत्कृष्ट इति भावः । इति शिवम् ॥ ४,२३.६१ ॥

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे त्रयोविंशः सर्गः ॥२३॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २३