मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २२

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



पूर्वोक्तमेवार्थं स्थितिप्रकरणवाच्यतया स्थितत्वात्पुनरपि कथयति

जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ।

मननं त्यजतो ज्ञत्वात्किञ्चित्परिगतात्मनः ॥ ४,२२.१ ॥

दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुषः ।

द्रष्टारं पश्यतो दृश्यमद्रष्टारमपश्यतः ॥ ४,२२.२ ॥

असुप्तस्य परे तत्त्वे जागरूकस्य जीवतः ।

सुप्तस्य घनसम्मोहमये संसारवर्त्मनि ॥ ४,२२.३ ॥

पर्यन्तात्यन्तवैरस्यादरसेषु रसेष्वपि ।

भोगेष्वाभोगरम्येषु नीरसस्य निराशिषः ॥ ४,२२.४ ॥

व्रजत्यात्माम्भसैकत्वं जीर्णजाड्ये मनस्यलम् ।

गलत्यपगतासङ्गे हिमपूर इवातपे ॥ ४,२२.५ ॥

तरङ्गितासु कल्लोलजाललोलान्तरासु च ।

शाम्यन्तीष्वथ तृष्णासु नदीष्विव घनात्यये ॥ ४,२२.६ ॥

संसारवासनाजाले खगजाल इवाखुना ।

त्रोटिते चादृढग्रन्थिश्लेषे वैरस्यरंहसा ॥ ४,२२.७ ॥

कतकं फलमासाद्य यथा वारि प्रसीदति ।

तथा विज्ञानवशतः स्वभावः सम्प्रसीदति ॥ ४,२२.८ ॥

जन्तोः पुरुषस्य । विज्ञानवशतः शुद्धात्मज्ञानवशेन । स्वभावः स्वस्वरूपम् । तथा प्रसीदति निर्मलीभवति । तथा कथम् । यथा कतकं फलमासाद्य वारि प्रसीदति । केषु सत्सु प्रसीदतीत्यपेक्षायामाह व्रजत्यात्मेत्यादि । अपगतासङ्गे नष्टासक्त्याख्यदोषे । जीर्णजाड्ये जाड्यनिर्गते । अत एव गलति गलनोन्मुखे । मनसि । आत्माम्भसा परमात्माख्यजलेन सह । एकत्वं व्रजति सति । कस्मिन्निव । आतपे तापदेशे । स्थिते हिमपूरे इव । पुनः कासु सतीषु । अथ तदनन्तरम् । तृष्णासु शाम्यन्तीषु सतीषु । कथम्भूतासु । तरङ्गितासु वृद्धियुक्तासु । कल्लोलजालैः विकल्पस्वरूपैः कल्लोलसमूहैः । लोलमन्तरं यासाम् । ताः । तादृशीषु । कास्विव । नदीष्विव । यथा ताः घनात्यये शरदि । शाम्यन्ति । तथेत्यर्थः । पुनः कस्मिन् सति । संसारवासनाजाले वैरस्यरंहसा आखुना इव खगजाले त्रोटिते सति । कथम्भूते । अदृढः । ग्रन्थीनां कामादिरूपाणां ग्रन्थीनाम् । श्लेषः सम्बन्धः यस्य । तादृशे । जन्तोः कथम्भूतस्य । कृतः विचारः कोऽहं कस्य संसार इत्येवंरूपः विवेकः येन । तादृशस्य । विगलद्वृत्तिचेतः यस्य । तादृशस्य । ज्ञस्यैव हि मननत्यागे शक्तिरस्तीति ज्ञत्वादित्युक्तम् । किञ्चित्परोक्षतया । न त्वपरोक्षतयेत्यर्थः । उपादेयमर्थात्शुद्धद्रष्टृरूपम् । दृश्यम् । द्रष्टारं द्रष्टृरूपम् । पश्यतः । अद्रष्टारं द्रष्टृव्यतिरिक्तम् । अपश्यतः । रसेष्वपि सुप्तस्येति योज्यम् । निराशिषः आशारहितस्य । कुलकम् ॥ ४,२२.१८॥

 

 

 

अन्यत्किं तस्य सम्पत्स्यते इत्य् । अत्राह

नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।

विनिर्याति मनो मोहाद्विहगः पञ्जरादिव ॥ ४,२२.९ ॥

निरुपासङ्गमासक्तिरहितम् । निरुपाश्रयं निरपेक्षम् । मोहातनात्मन्यात्माभिमानरूपादविचारात् ॥ ४,२२.९ ॥

 

 

 

शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् ।

परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते ॥ ४,२२.१० ॥

कौतुकमत्र पदार्थविषयं ज्ञेयम् । परिपूर्णं सहजानन्दनिर्भरम् । अन्तरं यस्य । तादृशम् ॥ ४,२२.१० ॥

 

 

 

जनितोत्तमसौन्दर्या दूरोदस्तनतोन्नता ।

समतोदेति सर्वत्र शान्तवात इवार्णवे ॥ ४,२२.११ ॥

जनितमुत्तमं सौन्दर्यं यया । सा । समतया हि पुरुषः सदैव प्रसन्नवदनो भवति । दूरोदस्ता नतोन्नता भावप्रधानो निर्देशः । नतोन्नतता । यस्याम् । सा ॥ ४,२२.११ ॥

 

 

 

अन्धकारमयी मूढा जाड्यजर्जरितान्तरा ।

तनुतामेति संसारवासनेव प्रगे क्षपा ॥ ४,२२.१२ ॥

इवशब्दः क्षपेत्यनेन सम्बध्यते ॥ ४,२२.१२ ॥

 

 

 

दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा ।

विकसत्यमलोद्द्योता प्रातर्द्यौरिव रूपिणी ॥ ४,२२.१३ ॥

स्पष्टम् ॥ ४,२२.१३ ॥

 

 

 

प्रज्ञा हृदयहारिण्यो भुवनाह्लादनक्षमाः ।

सत्त्वलक्ष्म्यः प्रवर्तन्ते सकलेन्दोरिवांशवः ॥ ४,२२.१४ ॥

सत्त्वलक्ष्म्यः सत्त्वगुणसम्पदः ॥ ४,२२.१४ ॥

 

 

 

उपसंहारं करोति

बहुनात्र किमुक्तेन ज्ञातज्ञेयो महामतिः ।

नोदेति नैव यात्यस्तमभूताकाशकोशवत् ॥ ४,२२.१५ ॥

न उदेति अस्तं नायाति चिन्मात्राख्यात्स्वस्वरूपान्न च्यवत इत्यर्थः । अभूताकाशकोशवत्परमाकाशमध्यवत् ॥ ४,२२.१५ ॥

 

 

 

विचारणापरिज्ञातस्वभावस्योदितात्मनः ।

अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥ ४,२२.१६ ॥

विचारणया परिज्ञातः स्वभावः स्वस्वरूपं येन । तादृशस्य । अनुकम्प्याः तेष्वपि सृष्टिनिर्माणादिक्षोभदर्शनातस्य दया जायते इत्यर्थः ॥ ४,२२.१६ ॥

 

 

 

प्रकटाकारमप्यन्तर्निरहङ्कारचेतसम् ।

नाप्नुवन्ति विकल्पास्तं मृगतृष्णाम्ब्विवैणकाः ॥ ४,२२.१७ ॥

नाप्नुवन्ति स्ववशं न कुर्वन्ति । प्रकटाकारस्य चाहङ्कारराहित्यमाश्चर्यकार्येव ॥ ४,२२.१७ ॥

 

 

 

तरङ्गवदमी लोकाः प्रयान्त्यायान्ति चाभितः ।

क्रोडीकुरुत आत्मोत्थे न ज्ञं मरणजन्मनी ॥ ४,२२.१८ ॥

क्रोडीकुरुतः वशीकुरुतः । देहाभिमानाभावेन तत्स्थमृतिजन्माभिमानाभावात् ॥ ४,२२.१८ ॥

 

 

 

आविर्भावतिरोभावौ संसारो नेतरः क्रमः ।

इति ताभ्यां समालोके रमते न स खिद्यते ॥ ४,२२.१९ ॥

इति एवंरूपाभ्याम् । ताभ्यामाविर्भावतिरोभावाभ्याम् । सः । समालोके तत्तत्त्वप्रकाशे सति । रमते । न खिद्यते । ज्ञातवस्तुतत्त्वो हि वस्तुभिः रमत एव न खिद्यते । अज्ञाततत्त्वस्यैव रज्ज्वादिषु सर्पादिभयकृतखेददर्शनात् ॥ ४,२२.१९ ॥

 

 

 

न जायते न म्रियते कुम्भे कुम्भनभो यथा ।

भूषिते दूषिते वापि देहे तद्वदिहात्मवान् ॥ ४,२२.२० ॥

देहाभिमानाभावादिति भावः ॥ ४,२२.२० ॥

 

 

 

विवेक उदिते शीते मिथ्याभ्रमभरोदिता ।

क्षीयते वासना साभ्रे मृगतृष्णा मराविव ॥ ४,२२.२१ ॥

मिथ्यारूपः यः भ्रमभरः । तेनोदिता । साभ्रे हि मरौ मृगतृष्णा क्षीयत एव । ताप एव तस्या उत्थानात् ॥ ४,२२.२१ ॥

 

 

 

कोऽहं कथमिदं वेति यावन्न प्रविचारितम् ।

संसाराडम्बरं तावदन्धकारोपमं स्थितम् ॥ ४,२२.२२ ॥

अन्धकारोऽपि किंरूपोऽयमिति विचारः । तावदेव तिष्ठति ॥ ४,२२.२२ ॥

 

 

 

मिथ्याभ्रमभरोद्भूतं शरीरं पदमापदाम् ।

आत्मभावनया नेदं यः पश्यति स पश्यति ॥ ४,२२.२३ ॥

यः इदं देहम् । आत्मभावनया न पश्यति । सः पश्यति सम्यक्पश्यति इति पिण्डार्थः ॥ ४,२२.२३ ॥

 

 

 

देशकालवशोत्थानि न ममेति गतभ्रमम् ।

शरीरसुखदुःखानि यः पश्यति स पश्यति ॥ ४,२२.२४ ॥

मम शुद्धचिन्मात्रस्य मम ॥ ४,२२.२४ ॥

 

 

 

आत्मानमितरच्चैव दृशा नित्याविभिन्नया ।

सर्वं चिज्ज्योतिरेवेति यः पश्यति स पश्यति ॥ ४,२२.२५ ॥

चिज्ज्योतिः शुद्धचित्प्रकाशरूपम् ॥ ४,२२.२५ ॥

 

 

 

अपारपर्यन्तनभोदिक्कालादि क्रियान्वितम् ।

अहमेवेति सर्वत्र यः पश्यति स पश्यति ॥ ४,२२.२६ ॥

नभश्च दिक्च कालश्च । ते आदिः यस्य जगतः । तत्नभोदिक्कालादि अपारपर्यन्तं पारपर्यन्तरहितं च तत् । नभोदिक्कालादिरूपं जगतहमेवास्मि । अहन्तासारस्य चिन्मात्रतत्त्वस्यैव सर्वमयत्वेन स्थितत्वात् । अन्यथाहमिति सर्वत्र न स्फुरेत् । जडेष्वदर्शनेऽपि चेतनवत्सत्ताभाक्त्वाविशेषात् । तत्रापि तत्स्फुरणानुमानस्य शक्यत्वात्न सर्वत्रेत्यस्यानुपपत्तेः । कथम्भूतं तत् । क्रियान्वितम् । आदिशब्दाक्षिप्ताया अपि क्रियायाः पृथक्निर्देशः प्राधान्यख्यापनार्थः । इति एवम् । सर्वत्र सर्वेषु देशेषु कालेषु च । यः पश्यति सः पश्यति । नान्य इत्यर्थः ॥ ४,२२.२६ ॥

 

 

 

वालाग्रलक्षभागात्तु कोटिशः परिकल्पितः ।

अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति ॥ ४,२२.२७ ॥

सूक्ष्मस्य व्यापित्वमाश्चर्यावहम् । सूक्ष्मत्वं चात्र बाह्यान्तःकरणातीतत्वेन द्रष्टव्यम् ॥ ४,२२.२७ ॥

 

 

 

सर्वशक्तिरनन्तात्मा सर्वभावान्तरस्थितः ।

अद्वितीयश्चिदित्यन्तर्यः पश्यति स पश्यति ॥ ४,२२.२८ ॥

चित्चिदात्मा । भवति । कथम्भूतः । सर्वशक्तिः अन्यथा नानारूपं जगत्न प्रादुर्भवेत् । अनन्तात्मा अन्तस्यापि तस्मिन्नेव निगीर्णत्वात्तद्रहितः । न हि निगीर्ण एव निगरितुः रूपमाच्छादयितुं शक्तः । सर्वेषां भावानामन्तरे स्थितः सर्वभावान्तरस्थितः । अन्यथाहमिति न स्फुरेत् । अद्वितीयः द्वितीयत्वेन मतस्यापि तद्रूपत्वानपायात्द्वितीयरहितः । इति एवम् । अन्तः मनसि । न तु चक्षुषा । यः पश्यति स पश्यतीति ॥ ४,२२.२८ ॥

 

 

 

आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् ।

देहो नाहमिति प्राज्ञो यः पश्यति स पश्यति ॥ ४,२२.२९ ॥

प्राज्ञः शुद्धचिन्मात्रतत्त्वे आत्मत्वनिश्चयवान् ॥ ४,२२.२९ ॥

 

 

 

तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा मम ।

न द्वितीयो ममास्तीति यः पश्यति स पश्यति ॥ ४,२२.३० ॥

मम शुद्धचिन्मात्ररूपस्य मम । न तु देहादिरूपस्य ॥ ४,२२.३० ॥

 

 

 

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।

चित्तन्तुरहमेवेति यः पश्यति स पश्यति ॥ ४,२२.३१ ॥

कथं त्वयि सर्वं प्रोतमित्य् । अत्राह चित्तन्तुरिति । तन्तौ हि मुक्ता प्रोताः भवन्ति । तन्तुत्वं च चितः व्यापकतया सूक्ष्मतया च ज्ञेयम् ॥ ४,२२.३१ ॥

 

 

 

नाहं न चान्यदस्तीह ब्रह्मैवास्ति न चास्ति तत् ।

इत्थं सदसतोर्मध्यं यः पश्यति स पश्यति ॥ ४,२२.३२ ॥

इह लोके । अहं परिच्छिन्नदेहादिरूपः अहम् । नास्मि । अन्यत्मत्तो भिन्नत्वेन स्थितं जगत् । न चास्ति । सुषुप्तौ अदर्शनात् । ब्रह्म व्यापकं चिन्मात्रतत्त्वम् । एवास्ति परमार्थतः सत्तां भजते । सर्वथाभावस्य वक्तुमशक्यत्वात् । न हि निरादिष्टो नो भ्रमः सम्भवति । तत्ब्रह्म । नास्ति च । बाह्यान्तःकरणातीतत्वात् । इत्थमेवम् । सदसतोः मध्यं सन्धिभूतं शुद्धचिन्मात्राख्यं वस्तु । यः पश्यति स पश्यति ॥ ४,२२.३२ ॥

 

 

 

यन्नाम किञ्चित्त्रैलोक्यं स एकोऽवयवो मम ।

तरङ्गोऽब्धाविवेत्यन्तर्यः पश्यति स पश्यति ॥ ४,२२.३३ ॥

मम शुद्धचिन्मात्ररूपस्य मम । स्वप्ने हि चिन्मात्रावयवभूतं जगत्सर्वोऽनुभवति ॥ ४,२२.३३ ॥

 

 

शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी ।

त्रिलोकी पेलवेत्युच्चैर्यः पश्यति स पश्यति ॥ ४,२२.३४ ॥

पेलवा नाशभीरुः । कनीयसी स्वसा चेदृश्येव भवति ॥ ४,२२.३४ ॥

 

 

 

आत्मतापरते त्वत्तामत्ते यस्य महात्मनः ।

भावादुपरते नूनं स पश्यति सुलोचनः ॥ ४,२२.३५ ॥

भावात्मनसः । सर्वत्र चिन्मात्रत्वदर्शनादिति भावः ॥ ४,२२.३५ ॥

 

 

 

चेत्यानुपातरहितं चिद्भैरवमयं वपुः ।

आपूरितजगज्जालं यः पश्यति स पश्यति ॥ ४,२२.३६ ॥

चेत्यानुपातरहितः यः चिद्भैरवः सर्वग्रासकत्वात्चिदाख्यः भैरवः । तन्मयं वपुः स्वरूपम् ॥ ४,२२.३६ ॥

 

 

 

सुखं दुःखं भवोऽभावो विवेककलनाश्च याः ।

अहं न वेति नूनं वा पश्यन्न परिहीयते ॥ ४,२२.३७ ॥

सुखं दुःखं भवः अभावः विवेककलनाश्चाहमस्मि इति पश्यन् । एतन्न वास्मि इति वा पश्यन् । न परिहीयते न हानिं प्राप्नोति । उभयथापि शुद्धचिन्मात्रस्वरूपत्वाप्तेः । न हि शुद्धचिन्मात्रं विना कश्चिद्व्यापकः उत्तीर्णो वा भवति ॥ ४,२२.३७ ॥

 

 

 

स्वात्मसत्तापरापूर्णे जगत्यन्येन वर्जिते ।

किं मे हेयं किमादेयमिति पश्यन् सदृग्नरः ॥ ४,२२.३८ ॥

स्वात्मनः शुद्धचिन्मात्ररूपस्य स्वात्मनः । या सत्ता स्फूर्तिरूपा सत्ता । तया परापूर्णे सारत्वेन स्थितत्वात्निर्भरिते । अन्यथाहमिति स्फुरणायोगात् । तथा अन्येन चिन्मात्रव्यतिरिक्तेन । वर्जिते जगति । किं हेयं भवति । स्वात्मनः हेयत्वायोगात्न किञ्चिदपीत्यर्थः । किमादेयं भवति । स्वात्मनः सर्वदा प्राप्तत्वात्न किञ्चिदपीत्यर्थः । इति एवम् । पश्यननुभवन् । नरः । सदृक्दृष्टिसहितो । भवति । अन्येऽन्धा इत्यर्थः ॥ ४,२२.३८ ॥

 

 

 

अप्रतर्क्यमनाभासं सन्मात्रमिदमित्यलम् ।

हेयोपादेयकलना यस्य क्षीणा नमामि तम् ॥ ४,२२.३९ ॥

इदं जगत् । अप्रतर्क्यं तर्कितुमशक्यम् । अनाभासं शान्ते स्वस्वरूपे स्थितत्वादाभासरहितम् । सन्मात्रमेवास्ति । इति अनेन निश्चयेन । यस्य पुरुषस्य । हेयोपादेयकलना क्षीणा । अहं तं पुरुषम् । नमामि । स एव सर्वेभ्य उत्कृष्ट इति भावः ॥ ४,२२.३९ ॥

 

 

 

य आकाशवदेकात्मा सर्वभावगतोऽपि सन् ।

न भावरञ्जनामेति स महात्मा महेश्वरः ॥ ४,२२.४० ॥

यः पुरुषः । आकाशवतेकात्मा सर्वव्यापकात्मा । सर्वभावगतः अपि सन् शरीरयात्रानिमित्तेषु सर्वेषु पदार्थेषु व्यवहारयुक्तोऽपि सन् । भावरञ्जनाम् । भावे मनसि । रञ्जनां हर्षामर्षरूपां रञ्जनाम् । न एति । सः महात्मा महापुरुषः । महेश्वरः भवति महाशक्तियुक्तत्वात् ॥ ४,२२.४० ॥

 

 

 

तमःप्रकाशकलनामुक्तः कालात्मतां गतः ।

यः सोम्यः सुसमः स्वस्थस्तं नौमि पदमागतम् ॥ ४,२२.४१ ॥

यः । तमःप्रकाशयोः जाड्यचित्त्वयोः । या कलना । तया मुक्तः । कालस्य क्रियावैचित्र्यरूपस्य कालस्य । आत्मतां सत्तादायकत्वेन स्वरूपताम् । गतः । सोम्यः शीतलः । स्वस्थः स्वस्वरूपे एव स्थितः । भवति । तं पदमागतं नौमि । अपूर्वश्चात्र सूर्य उक्तः ॥ ४,२२.४१ ॥

 

 

 

सर्गान्तश्लोकेनाप्येतदेव कथयति

यस्योदयास्तमयसङ्कलनाकलासु

चित्रासु चारुविभवासु जगद्गतासु ।

वृत्तिः समैव सकलैकगतेरनन्ता

तस्मै नमः परमबोधवते शिवाय ॥ ४,२२.४२ ॥

सकलैकगतेः समस्तैकशरणस्य । चारुविभवासु प्रशस्तसामर्थ्ययुक्तासु । चित्रासु नानाविधासु । उदयास्तमययोः याः सङ्कलनाः घट्टनाः । तद्रूपासु जगद्गतासु कलासु । अनन्ता नाशरहिता । वृत्तिः मनोवृत्तिः । समैव भवति । अनन्तत्वं चात्र दर्ढ्यतापेक्षमुक्तम् । तस्मै परमबोधवते परात्मतत्त्वबोधयुक्ताय । शिवाय शिवीभूताय पुरुषाय । नमः अस्तु । शिवश्च समवृत्तिः सकलैकगतिः परमबोधरूपश्च भवतीति शिवम् ॥ ४,२२.४२ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां मोक्षोपायटीकायां स्थितिप्रकरणे द्वाविंशः सर्गः ॥२२॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २२