मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २१

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



अत्र श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ संशयो मे महानयम् ।

हृदि व्यावर्तते लोलः कल्लोल इव सागरे ॥ ४,२१.१ ॥

व्यावर्तते स्फुरति ॥ ४,२१.१ ॥

 

 

 

दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये ।

म्लाना संविन्मनोनाम्नी कुतः केयमुपस्थिता ॥ ४,२१.२ ॥

दिक्कालादिभिः अपरिच्छिन्ने स्वपरिच्छेदकस्य परिच्छेदं कर्तुमशक्यत्वात् । आदिशब्देन वस्त्वादेः ग्रहणम् । तते व्यापके । नित्ये प्राक्प्रध्वंसात्यन्ताभावरहिते । निरामये कलनाख्यरोगरहिते । म्लाना सङ्कल्पविकल्परूपत्वेन मलिना । मनोनम्नी । इयं संवित्संविदाख्यः स्पन्दः । कुतः उपस्थिता । नैतस्या उपस्थानमत्र युक्तमिति भावः ॥ ४,२१.२ ॥

 

 

 

यस्मादन्यन्न नामास्ति न भूतं न भविष्यति ।

कुतः कीदृक्कथं तस्य कलङ्कः कुत्र विद्यते ॥ ४,२१.३ ॥

यस्मात्शुद्धचिन्मात्रतत्त्वात् । अन्यत्भिन्नं वस्तु । नाम निश्चये । नास्ति न भूतं न भविष्यति । तस्य कलङ्कः मनोरूपः कलङ्कः । कुतः विद्यते कीदृक्विद्यते कथं विद्यते । कुत्र विद्यते सर्वथा सम्भवानुपपत्तेः न विद्यते इत्यर्थः ॥ ४,२१.३ ॥

 

 

 

श्रीवसिष्ठः उत्तरं कथयति

साधु राम त्वया प्रोक्तं ज्ञाता ते मोक्षभागिनी ।

मतिरुत्तमनिःष्यन्दा नन्दनस्येव मञ्जरी ॥ ४,२१.४ ॥

उत्तमनिःष्यन्दा श्रेष्ठप्रवाहा ॥ ४,२१.४ ॥

 

 

 

पूर्वापरविचारार्थतत्परेयं मतिस्तव ।

सम्प्राप्स्यति पदं प्रोच्चैर्यत्प्राप्तं शङ्करादिभिः ॥ ४,२१.५ ॥

पूर्वापरविचाररूपः यः अर्थः । तत्र परा । प्रोच्चैः पदं मोक्षाख्यं श्रेष्ठं स्थानम् ॥ ४,२१.५ ॥

 

 

 

तर्हि मत्प्रश्नस्योत्तरं कथयेत्य् । अत्राह

प्रश्नस्यास्य तु हे राम न कालस्तव सम्प्रति ।

सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते ॥ ४,२१.६ ॥

मयायं प्रश्न उच्यते कृतोत्तरः सम्पाद्यते इति सम्बन्धः ॥ ४,२१.६ ॥

 

 

 

ननु यदि सिद्धान्तकालेऽसौ प्रश्नः तव स्मृतिपथं नायास्यति तदा किं कार्यमित्य् । अत्राह

सिद्धान्तकाले भवता प्रष्टव्योऽहमिदं पदम् ।

करामलकवत्तेन सिद्धान्तस्ते भविष्यति ॥ ४,२१.७ ॥

करामलकवत्प्रयत्नरहितम् ॥ ४,२१.७ ॥

 

 

 

नन्वस्मिन् समय एव कथं न कथयसीत्य् । अत्राह

सिद्धान्तकाले प्रश्नोक्तिरेषा तव विराजते ।

प्रावृष्येव हि केकोक्तिर्युक्ता शरदि हंसगीः ॥ ४,२१.८ ॥

स्पष्टम् ॥ ४,२१.८ ॥

 

 

 

सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये ।

प्रावृषि तु दनूदग्रपयोदपटलोत्थितः ॥ ४,२१.९ ॥

प्रावृषः क्षये शरदि । तु पक्षान्तरे । प्रावृषि नीलिमा शोभते । कथम्भूतः । दनुवत्दानवमातृवत् । उदग्रं यत्पयोदपटलम् । तस्मादुत्थितः जातः ॥ ४,२१.९ ॥

 

 

 

एतदुपसंहृत्य प्रकृतमेवानुसरति

अयं प्रकृत आरब्धो मनोनिर्णय उत्तमः ।

यद्वशाज्जनताजन्म तदाकर्णय सुव्रत ॥ ४,२१.१० ॥

अयमुत्तमः मनोनिर्णयः अस्माभिः आरब्धः । कथम्भूतः । प्रकृतः प्रकरणवशेन प्राप्तः । एनमेव शृण्विति भावः । हे सुव्रत । यद्वशात्जनताजन्म जनसमूहजन्म भवति । त्वं तदाकर्णय शृणु । मनोनिर्णयाङ्गभूतत्वादिति भावः ॥ ४,२१.१० ॥

 

 

 

तदेव कथयति

एवं प्रकृतिरेवेयं मनोमननधर्मिणी ।

कर्मेति राम निर्णीतं सर्वैरेव मुमुक्षुभिः ॥ ४,२१.११ ॥

हे राम । एवं सति । पूर्वसर्गोक्ते निश्चये परमार्थतया स्थिते सति । मनसः यत्मननमनुसन्धानाख्यो व्यापारः । तद्धर्मिणी तत्स्वरूपिणी । इयं प्रकृतिः एव जगदुपादानरूपा मूलप्रकृतिरेव । सर्वैः मुमुक्षुभिः कर्मेति निर्णीतम् । मनोमननमेव कर्मेति पिण्डार्थः ॥ ४,२१.११ ॥

 

 

 

शृणु लक्षणभेदेन तन्नानामततां कथम् ।

वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः ॥ ४,२१.१२ ॥

त्वं शृणु । तत्मनोमननरूपं कर्म । लक्षणभेदेन । वाग्मिनां वादिनाम् । नानामतताम् । कथं यातम् । तदेव कथयामीति भावः । वाग्मिनां कथम्भूतानाम् । चित्राभिः नानाविधाभिः । शास्त्रदृष्टिभिः शास्त्ररूपाभिः दृष्टिभिः । वदतां विवादं कुर्वताम् । अन्यथा मतभेदो न स्यात् ॥ ४,२१.१२ ॥

 

 

 

तदेव कथयति

यं यं भावमुपादत्ते मनो मननचञ्चलम् ।

तं तमेति घनामोदमध्यस्थः पवनो यथा ॥ ४,२१.१३ ॥

मननेन मननाख्येन धर्मेण । चञ्चलं नानापदार्थयायि । मनः । यं यं भावं शुभमशुभं वा पदार्थमननोद्भूतं वासनाविशेषम् । उपादत्ते गृह्णाति । तं तमेति तत्तदनुसन्धानमयो भवतीत्यर्थः । को यथा । पवनः यथा । यथा घनामोदमध्यस्थः पवनः आमोदमेति । तथेत्यर्थः ॥ ४,२१.१३ ॥

 

 

 

ततस्तमेव निर्णीय तमेव च विकल्पयन् ।

अन्तस्तया रञ्जनया रञ्जयन् स्वामहङ्कृतिम् ॥ ४,२१.१४ ॥

तन्निश्चयमुपादाय तत्रैव रसमृच्छति ।

तन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेष्वपि ॥ ४,२१.१५ ॥

ततः तत्मनः । तमेव भावम् । निर्णीयानुसन्धाय । तथा निश्चित्य । तमेव च न त्वन्यत् । विकल्पयन् पुनः पुनः परामृशन् । तया तद्भावरूपया । रञ्जनया रागद्रव्येण । स्वामहङ्कृतिं निजामहङ्कारवृत्तिम् । रञ्जयनुपरक्तां कुर्वन् । मम कदा एतत्स्यातिति परामृशन्निति यावत् । ततः तन्निश्चयं तस्य भावस्य निश्चयम् । चमत्कारकारि इदमित्येवंरूपं निश्चयम् । उपादाय । तत्रैव तस्मिन् शुभे अशुभे वा वासनाविशेषे एव । रसमास्वादम् । आसक्तिमिति यावत् । ऋच्छति गच्छति । ततः तदनन्तरम् । तु निश्चये । शरीरे तन्मयत्वं भवति । अन्यथा तत्स्वरूपे बाह्ये पदार्थे प्रवृत्तिपरिहाररूपायाः चेष्टाया असम्भवात्न केवलं शरीरे एव किं तु बुद्धीन्द्रियेष्वपि तन्मयत्वं भवति । अन्यथा तेषामपि तत्र पुनः पुनः स्वक्रियाकारित्वायोगात् । कर्मेन्द्रियाणां तु शरीरेणैव ग्रहणम् । तथा हि । बाह्ये पुरुषः प्रथमं कपित्थादिकं भुङ्क्ते । ततः तस्य मनः तस्य फलस्य वासनामन्तः धारयति । ततः वासनारूपस्य तस्यैवानुसन्धानं पुनः पुनः करोति । ततः वासनारूपेण तेन स्वामहङ्कृतिं रञ्जयति । ततः तदाश्रितानि बुद्धीन्द्रियाण्यपि तदेव प्रतिसम्मुखानि भवन्ति । ततः तदाश्रयं शरीरं तत्प्रत्येव चेष्टां करोतीति । युग्मम् ॥ ४,२१.१४१५॥

 

 

 

ननु कुतः एतदित्य् । अत्राह

यन्मयं हि मनो राम देहस्तदनु तद्वशात् ।

तत्तामायाति गन्धान्तः पवनो गन्धतामिव ॥ ४,२१.१६ ॥

यन्मयं यद्भावमयम् । तत्तां तन्मयताम् ॥ ४,२१.१६ ॥

 

 

 

बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस्ततः ।

स्फुरति स्वत एवोर्वीरजो लोल इवानिले ॥ ४,२१.१७ ॥

स्फुरति स्वां क्रियां प्रति सम्मुखीभवति । स्वत एव प्रेरणां विना । कर्मेन्द्रियगणः किमिव । उर्वीरज इव । यथा उर्वीरजः अनिले लोले सति । स्वत एव स्फुरति । तथेत्यर्थः ॥ ४,२१.१७ ॥

 

 

 

कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं प्रथयत्यलम् ।

कर्म निष्पद्यते स्फारं पांसुजालमिवानिलात् ॥ ४,२१.१८ ॥

स्वशक्तिं स्वकार्यं प्रति निजं सामर्थ्यम् । प्रथयति विस्तारयति । कर्म विषयादानरूपं कर्म । निष्पद्यते सम्पद्यते ॥ ४,२१.१८ ॥

 

 

 

फलितं कथयति

एवं हि मनसः कर्म कर्मबीजं मनः स्मृतम् ।

अभिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः ॥ ४,२१.१९ ॥

एवं हि सति । मनसः मनःसकाशात् । कर्म उत्पद्यते इति शेषः । पण्डितैः । मनः । कर्मैव बीजं यस्य । तत् । तादृशम् । स्मृतम् । कर्मणः मनः उत्पद्यते इति भावः । फलितमाहाभिन्नेति । अतः एतयोः कर्ममनसोः । सत्ता अभिन्नैव भवति । कयोः यथा । कुसुमगन्धयोः यथा । न हि मनोऽनुवृत्तिं विना शरीराश्रयं बाह्यमपि कर्म सम्पद्यते । न च हि कर्मसाधितवासनामात्ररूपतां विना मनो नाम किञ्चिदस्तीति भावः ॥ ४,२१.१९ ॥

 

 

 

यादृशं भावमादत्ते दृढाभ्यासवशान्मनः ।

तथा स्पन्दोऽस्य कर्माख्यस्तथा शाखा विमुञ्चति ॥ ४,२१.२० ॥

यादृशं शुभमशुभं वा । शाखाः सङ्कल्परूपाः ॥ ४,२१.२० ॥

 

 

 

तथा क्रियां तत्फलदां निष्पादयति चादरात् ।

ततस्तदेव चास्वादमनुभूयाशु बध्यते ॥ ४,२१.२१ ॥

शरीरद्वारेणेति शेषः । तदेव भावविषयीकृतं वस्त्वेव । बध्यते घनतरं तद्वासनाविष्टो भवतीत्यर्थः ॥ ४,२१.२१ ॥

 

 

 

पुनरप्येतदेव कथयति

यं यं भावमुपादत्ते तत्तद्वस्त्विति विन्दति ।

तच्छ्रेयोऽन्यत्तु नास्तीति निश्चयोऽस्य प्रजायते ॥ ४,२१.२२ ॥

वस्तु सत्यभूतम् ॥ ४,२१.२२ ॥

 

 

 

धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव हि ।

मनांसि दृढभावानि प्रतिपत्त्या स्वयैव हि ॥ ४,२१.२३ ॥

स्वया प्रतिपत्त्या न तु परप्रेरणया ॥ ४,२१.२३ ॥

 

 

 

यदर्थमियं प्रक्रिया कृता तदेव कथयति

मनोभिः कापिलानां तु प्रतिपत्तिं निजामलम् ।

उररीकृत्य निर्णीय कल्पिताः शास्त्रदृष्टयः ॥ ४,२१.२४ ॥

कापिलानां कपिलानुसारिणाम् । साङ्ख्यानामिति यावत् । मनोभिः । निजां प्रतिपत्तिं निश्चयम् । उररीकृत्य ।शास्त्रदृष्टयः प्रकृतिपुरुषप्रतिपादिकाः शास्त्रदृष्टयः । कल्पिताः ॥ ४,२१.२४ ॥

 

 

 

कापिलानेव विशिनष्टि

मोक्षे तु नान्यथा प्राप्तिरिति भावितचेतसः ।

स्वां दृष्टिं प्रविवृण्वन्तः स्थिताः स्वनियमभ्रमैः ॥ ४,२१.२५ ॥

भावितं भावनायुक्तम् । चेतः येषाम् । ते । स्वेन कृता ये नियमभ्रमाः । तैः । एषामपि मनोवशादेव मतभेदोऽस्तीति भावः ॥ ४,२१.२५ ॥

 

 

 

वेदान्तवादिनो बुद्ध्या ब्रह्मेदमिति दृढया ।

युक्तिं शमदमोपेतां निर्णीय परिकल्प्य च ॥ ४,२१.२६ ॥

मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः ।

स्वां दृष्टिं प्रविवृण्वन्तः स्थिताः स्वनियमभ्रमैः ॥ ४,२१.२७ ॥

युक्तिं श्रवणादिरूपमुपायम् ॥ ४,२१.२६२७ ॥

 

 

 

विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमरूपया ।

स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः ॥ ४,२१.२८ ॥

विज्ञानवादिनः विज्ञानाद्वैतवादिनः बौद्धाः । स्वां दृष्टिं विज्ञानमेवेदमितिरूपाम् । प्रविवृण्वन्ति प्रकटीकुर्वन्ति ॥ ४,२१.२८ ॥

 

 

 

आर्हतादिभिरन्यैश्च स्वयाभिमतयेच्छया ।

चित्राश्चित्रसमाचाराः कल्पिताः शास्त्रदृष्टयः ॥ ४,२१.२९ ॥

आदिशब्देन चार्वाकादीनां ग्रहणम् ॥ ४,२१.२९ ॥

 

 

 

निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैरिवोत्थितैः ।

स्वनिश्चयैरिति प्रौढा नानाकारा हि रीतयः ॥ ४,२१.३० ॥

निर्निमित्तोत्थाः ये सौम्याम्बुबुद्बुदौघाः । तैरिव अकस्माद् । उत्थितैर् । इत्यर्थः । रीतयः शास्त्ररीतयः ॥ ४,२१.३० ॥

 

 

 

सर्वासामेव चैतासां रीतीनामेक आकरः ।

मनो नाम महाबाहो मणीनामिव सागरः ॥ ४,२१.३१ ॥

सर्वासां साङ्ख्यादिप्रणीतानाम् । आकरः उत्पत्तिस्थानम् ॥ ४,२१.३१ ॥

 

 

 

न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ ।

यद्यथा मनसाभ्यस्तमुपलब्धं तथैव तत् ॥ ४,२१.३२ ॥

कटुस्वादू तिक्तमधुरौ । अन्यथा चित्तवृत्तिभेदेन हेयोपादेयत्वं न स्यात् । यदेव हि यस्य हेयत्वेन स्थितं तदेवान्यस्योपादेयतया ॥ ४,२१.३२ ॥

 

 

 

फलितं कथयति

यस्त्वकृत्रिम आनन्दस्तदर्थं प्रयतेत न वै ।

मनस्तन्मयतां नेयं तेनासौ समवाप्यते ॥ ४,२१.३३ ॥

अत इत्यध्याहार्यम् । यतः कस्मिंश्चिदपि बाह्ये वस्तुनि स्वभावेन स्वादुता नास्ति । अतः यः अकृत्रिमः भोगादिविषयनिरपेक्षत्वेन स्थितत्वात्स्वाभाविकः । आनन्दः स्वात्मरूपः आनन्दः । भवति । पुरुषः तदर्थम् । वै निश्चये । यतेत । ननु केन यत्नेनासौ प्राप्यते इत्य् । अत्राह मन इति । पुरुषेण मनः सङ्कल्पात्मकं चित्तम् । तन्मयतां स्वात्मभूतानन्दरूपताम् । नेयम् । अध्यात्मशास्त्रोपदिष्टमार्गेण तत्परामर्शैकप्रवणं कार्यमित्यर्थः । तेन मनसः तन्मयत्वनयनमात्रेण यत्नेनासौ अकृत्रिमः आनन्दः । प्राप्यते ॥ ४,२१.३३ ॥

 

 

 

ननु सुखदुःखवशीकृतं मनः कथं तन्मयतां नेयमित्य् । अत्राह

दृश्यं संसारडिम्बस्थं तुच्छं परिजहन्मनः ।

तज्जाभ्यां सुखदुःखाभ्यां नावशः परिकृष्यते ॥ ४,२१.३४ ॥

संसार एव डिम्बः बालः । तत्र तिष्ठतीति तादृशम् । दृश्यं दृशिक्रियाविषयं भावजातम् । जहत्स्वौन्मुख्याविषयतां नयत् । मनः । तज्जाभ्यां दृश्योत्पन्नाभ्याम् । सुखदुःखाभ्याम् । नावशः परिकृष्यते न बलात्कारेणास्वाधीनीक्रियते । अवश इति आविष्टलिङ्गम् ॥ ४,२१.३४ ॥

 

 

 

ननु दृश्ये को दोषोऽस्तीत्य् । अत्राह

अपवित्रमसद्रूपं मोहनं भयकारणम् ।

दृश्यमाभासमाभोगि बन्धं मा भावयानघ ॥ ४,२१.३५ ॥

अनघ । दृश्यभावनानर्हत्वं दृश्यं मा भावय मनोऽनुसन्धानविषयं मा कुरु । किमर्थं न भावयामीत्यपेक्षायां विशेषणान्याह अपवित्रमित्यादि । अपवित्रं रागादिरूपपापोत्पादकत्वात्पवित्रतारहितम् । असद्रूपं किंरूपमिति विचारासहत्वात्पारमार्थिकसत्तारहितम् । मोहनमनात्मन्यात्मत्वरूपमोहोत्पादकम् । भयकारणं मृत्याद्युपादानभयहेतुम् । आभासमाभासमात्रस्वरूपम् । न तु वस्तुतया स्थितम् । आभोगि विस्तारयुक्तम् । बन्धमात्मज्ञानं प्रति रोधकत्वात्बन्धस्वरूपम् ॥ ४,२१.३५ ॥

 

 

 

मायैषा सा ह्यविद्यैषा भावनैषा भयावहा ।

संविदस्तन्मयत्वं यत्तत्कर्मेति विदुर्बुधाः ॥ ४,२१.३६ ॥

एषा दृश्यभावना । सा स्वसिद्धा । माया भवति । एषा अविद्या भवति । एषा भयावहा भावना वासना । भवति । ननु तर्हि कर्म किंरूपमस्तीत्य् । अत्राह संविद इति । संविदः मनोरूपायाः संविदः । तन्मयत्वं दृश्यमयत्वम् । यद्भवति । बुधाः तत्कर्मेति विदुः । कर्मापि एषैवेति भावः ॥ ४,२१.३६ ॥

 

 

 

ननु मनः किंरूपमस्ति येन कृता दृश्यभावना मायादिनामत्वेनोक्तेत्य् । अत्राह

द्रष्टुर्दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः ।

भ्रमायैव च तन्मिथ्या महीमक्कोलकर्मवत् ॥ ४,२१.३७ ॥

द्रष्टुः दृशिक्रियाकर्तुः । दृश्यैकतानत्वं दृश्यं प्रति सम्मुखताम् । मोहनं मोहकारि । मनो विद्धि । तत्भ्रमाय भ्रमोत्पादाय सत् । मिथ्या भवति । आभासमात्रत्वेन वस्तुसत्न भवतीत्यर्थः । कथम् । मह्यां मृत्तिकायाम् । मक्कोलकर्म सुधालेपः । तद्वत् । यथा मृत्तिकायां कृतसुधालेपः वस्तुतः सन्नास्ति । मृत्तिकायाः एव तथा स्थितत्वात्सुधायाः लेपतयैव भावात् । तथा चिन्मात्रे भासमानं मनः वस्तुतः नास्ति चिन्मात्रस्यैव तथा स्थितत्वातित्यर्थः ॥ ४,२१.३७ ॥

 

 

 

ननु कथं द्रष्टृदृश्यैकतानतारूपं मनः मिथ्यारूपमस्तीत्य् । अत्राह

दृश्यतन्मयता यैषा स्वभावस्यानुभूयते ।

संसारमदिरा सेयमविद्येत्युच्यते बुधैः ॥ ४,२१.३८ ॥

अस्माभिः । स्वभावस्य द्रष्टृरूपस्य स्वभावस्य । या दृश्यतन्मयता दृश्यैकतानता । दृश्यते । बुधैः सा इयं भ्रमोत्पादकत्वात्संसारमदिरारूपा अविद्येति उच्यते । अतो मनः अविद्यारूपमेवावस्तुभूतमित्यर्थः ॥ ४,२१.३८ ॥

 

 

 

कोऽनर्थः अनयाविद्यया क्रियते इत्य् । अत्राह

अनयोपहतो लोकः कल्याणं नाधिगच्छति ।

भास्वरं तपनालोकं पटलान्धेक्षणो यथा ॥ ४,२१.३९ ॥

अनया द्रष्टुः दृश्यतन्मयतारूपया । अविद्यया । कल्याणं स्वात्मनि विश्रान्तिरूपम् । पटलं नेत्ररोगविशेषः ॥ ४,२१.३९ ॥

 

 

 

ननु सा कुत उत्पद्यत इत्य् । अत्राह

स्वयमुत्पद्यते सा च सङ्कल्पाद्व्योमवृक्षवत् ।

असङ्कल्पनमात्रेण स्वयमेव विनश्यति ॥ ४,२१.४० ॥

उत्पद्यते प्रादुर्भवति । ननु सा कथं नश्यति इत्य् । अत्राहासङ्कल्पनमात्रेति । असङ्कल्पनमात्रेण सङ्कल्पाकरणमात्रेण । अत एवाह स्वयमिति । न हि असङ्कल्पनं यत्नः । अपि तु सङ्कल्पनमेव ॥ ४,२१.४० ॥

 

 

 

नन्वविद्यानाशेन किं सम्पद्यते इत्य् । अत्राह

असङ्कल्पनमात्रेण भावनायां महामते ।

क्षीणायां स्वप्रसादेन विमर्शेन विलासिना ॥ ४,२१.४१ ॥

असंसङ्गे पदार्थेषु सर्वेषु स्थिरतां गते ।

सत्यदृष्टौ प्रसन्नायामसत्ये क्षयमागते ॥ ४,२१.४२ ॥

निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते ।

नासत्ता यस्य नो सत्ता न सुखं नापि दुःखिता ॥ ४,२१.४३ ॥

भावनायामविद्यायाम् । विमर्शेन स्वात्मविचारेण । कथम्भूतेन । स्वप्रसादेन स्वात्मप्रसादेनोत्पन्नेनेति शेषः । पुनः कथम्भूतेन । विलासिना विस्तारयुक्तेन । असंसङ्गे अनासक्तौ । सत्यविषया दृष्टिः सत्यदृष्टिः । तस्यां प्रसन्नायाम् । सिद्धायामिति यावत् । असत्ये असत्यभूते दृश्ये इत्यर्थः । आत्मा कथम्भूतः । निर्विकल्पः दृश्यविषयविकल्पनिष्क्रान्ता या चित्तद्रूपः । अच्छः आत्मा स्वरूपं यस्य । तादृशः । न तु अचिद्रूपदेहादिस्वरूप इत्यर्थः । अतो नाविद्यानाशस्य वैफल्यमिति भावः । कीदृशोऽसावात्मेत्यपेक्षायामाह नासत्तेति । यस्य आत्मनः । असत्ता न भवति । सर्वेषामात्मत्वेन स्फुरणात् । न हि कश्चिन्नाहमस्मीति ब्रवीति । ब्रुवाणश्चोपहासपात्रमेव । तथा सत्ता नो भवति । बाह्यान्तःकरणाविषयत्वात्शशशृङ्गवत् । सुखं लक्षणया सुखिता । न भवति । सुखादेरन्तःकरणाधिकरणत्वाद् । अन्यथा सुषुप्तादावपि भानप्रसङ्गात् । दुःखिता दुःखाधिकरणत्वम् । न भवति । प्रोक्तहेतोः ॥ ४,२१.४१४३ ॥

 

 

 

पुनः किं तत्रास्ति इत्य् । अत्राह

केवलं केवलीभावो यस्यान्तरुपलभ्यते ।

अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः ॥ ४,२१.४४ ॥

सम्यग्ज्ञानयुक्तेन पुरुषेण । यस्यात्मनः । अन्तः स्वभित्तौ । केवलीभावः शुद्धचिन्मात्रतां विना समस्ताभावः । केवलं लभ्यते । उपचाराल्लभ्यते इत्युक्तिः । लब्धैकरूपस्य लभ्यतायोगात् । परमार्थस्तु लभ्यानपेक्षम् । लब्धृत्वमपि तत्र न युक्तमित्यलं विकल्पापादिकया वाचा । तन्मुव्रणया वा अभव्यया भावनया न लभ्यते । चित्तेन्द्रियदृष्टिभिश्च न लभ्यते ॥ ४,२१.४४ ॥

 

 

 

आत्मनोऽनन्यभूताभिरपि यः परिवर्जितः ।

वासनाभिरनन्ताभिर्व्योमेव वनराजिभिः ॥ ४,२१.४५ ॥

यः आत्मा । आत्मनः अनन्यभूताभिरपि स्वस्वरूपभूताभिरपि । वासनाभिः परिवर्जितः भवति । शुद्धचिन्मात्रस्वरूपत्वात् । वासनानां चात्मरूपत्वं तद्विषयत्वं विनासिद्धभावप्रयुक्तमेव ज्ञेयम् । न हि चिन्मात्राविषयीकृता वासना वासना भवति । विषयीकृतिश्च स्वसम्बन्धिन एव युक्ता । सम्बन्धश्च विचारितः सनेकतायां विश्राम्यति । द्वित्वे तु विरोधलब्धसिद्धेः द्वित्वादेव सम्बन्धानुपपत्तेः । न हि विरुद्धयोः तमःप्रकाशयोः सम्बन्धः युक्त इत्यलं बहुना । यः किमिव । व्योम इव । यथा व्योम वनराजिभिः परिवर्जितः भवति । तथेत्यर्थः ॥ ४,२१.४५ ॥

 

 

 

ननु यदि केवलः स एवात्मास्ति तर्हि दृश्यरूपः बन्धः कुत आगत इत्य् । अत्राह

सन्दिग्धायां यथा रज्ज्वां सर्पत्वं तद्वदेव हि ।

चिदाकाशात्मना बन्धस्त्वबद्धेनैव कल्पितः ॥ ४,२१.४६ ॥

यथा पुरुषेण सन्दिग्धायां रज्ज्वां सर्पत्वं कल्प्यते । हि निश्चये । तद्वदेव चिदाकाशात्मना चिदाकाशस्वरूपेणात्मना । अबद्धेनैव सता । बन्धः दृश्याख्यो बन्धः । कल्पितः कल्पनया सम्पादितः ॥ ४,२१.४६ ॥

 

 

 

ननु कल्पित एष बन्धः कथं नश्यतीत्य् । अत्राह

कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यया ।

तदेवान्यत्वमादत्ते खमहोरात्रयोरिव ॥ ४,२१.४७ ॥

कल्पितं कल्पितं वस्तु सर्वं कल्पितवस्तु । अन्यया स्वस्माद्भिन्नया । प्रतिकल्पनया । तदेव सत् । अन्यतामादत्ते । किमिव । खमिव । यथा खमहोरात्रयोः तदेव सतन्यतामादत्ते । तथेत्यर्थः । अतः प्रतिकल्पनयैव कल्पितस्य नाश इति भावः ॥ ४,२१.४७ ॥

 

 

 

नन्वतुच्छत्वादिगुणविशिष्टः कल्पितो नास्तीति कथं सः कल्प्यते येन तुच्छत्वादिगुणविशिष्टसंसारकल्पना नश्यति । न च कल्पनां विना कल्पनायाः नाशः शक्यक्रियः अयसः इवायो विनेत्य् । अत्राह

यदतुच्छमनायासमनुपाधि गतभ्रमम् ।

तत्तत्कल्पनया तादृक्तत्सुखायैव कल्पते ॥ ४,२१.४८ ॥

यत्वस्तु । अतुच्छं तुच्छगुणरहितम् । अनायासमायाससाध्यत्वरहितम् । अनुपाधि उपाधित्वेनाभिमतस्यापि तत्ताव्यभिचारातुपाधिरहितम् । गतभ्रमं शुद्धसत्यबोधस्वरूपत्वात्भ्रमस्पर्शरहितम् । भवति । तत्तद्वस्तु । तत्कल्पनया तस्यातुच्छत्वादेः कल्पनया एव । तादृकतुच्छादिरूपम् । भवति । शुद्धे स्वरूपे तुच्छत्वातुच्छत्वादिसापेक्षशब्दावकाशाभावात् । ननु तर्हि तदपि हेयमेवेत्य् । अत्राह तत्सुखायैवेति । तततुच्छत्वादिगुणकं वस्तु कल्पितमपि । सुखायैव तुच्छत्वातुच्छत्वरहितशुद्धस्वरूपविश्रान्तय एव । भवति । तथा चातुच्छत्वादिगुणककल्पनया प्रतिपक्षभूतया तुच्छत्वादिगुणककल्पना नाशयितुं शाक्येति भावः ॥ ४,२१.४८ ॥

 

 

 

ननु सत्यभूतस्य दृश्यरूपस्य बन्धस्य कथं कल्पनामात्रेण नाशः शक्यक्रियः इत्य् । अत्राह

शून्य एव कुसूलेऽन्तः सिंहोऽस्तीति भयं यथा ।

शून्य एव शरीरेऽन्तर्बद्धोऽस्मीति भयं तथा ॥ ४,२१.४९ ॥

कुसूलः सिंहबन्धनार्थं यन्त्ररूपं कोष्ठकम् । दृश्यरूपो बन्धः सत्योऽपि भवतु । तथापि परमार्थतः शुद्धचिद्रूपस्य भवतः सः बन्धकारी न भवति । न ह्यम्बरं रज्जुभिः बध्यते इति भावः ॥ ४,२१.४९ ॥

 

 

 

यथा शून्ये कुसूलेऽन्तः प्रेक्ष्य सिंहो न लभ्यते ।

तथा संसारबन्धार्हः प्रेक्षितः सन्न लभ्यते ॥ ४,२१.५० ॥

स्पष्टम् ॥ ४,२१.५० ॥

 

 

 

ननु तर्हि इदं जगतयमहमित्येवं बन्धबध्यरूपा प्रतीतिः कथमस्तीत्य् । अत्राह

इदं जगदयं चाहमितीयं भ्रान्तिरुत्थिता ।

बालानां श्यामले काले छाया वैतालिकी यथा ॥ ४,२१.५१ ॥

श्यामले काले रात्रौ । इदं जगतयमहमित्येवंरूपा प्रतीतिः । भ्रान्तिरेवोत्थिता भवति इति पिण्डार्थः ॥ ४,२१.५१ ॥

 

 

 

ननु एतादृशी भ्रान्तिः कथमुत्थितेत्य् । अत्राह

कल्पनावशतो जन्तोर्भावाभावाः शुभाशुभाः ।

क्षणादसत्तामायान्ति सत्तामपि पुनः पुनः ॥ ४,२१.५२ ॥

कल्पनावशतः स्वविकल्पवशतः ॥ ४,२१.५२ ॥

 

 

 

एतदेव विशेषतः कथयति

मातैव गृहिणीभावगृहीता कण्ठलम्बिनी ।

करोति गृहिणीकार्यं सुरतानन्ददायिनी ॥ ४,२१.५३ ॥

भ्रमेणेति शेषः ॥ ४,२१.५३ ॥

 

 

 

कान्तैव मातृभावेन गृहीताकण्ठलम्बिनी ।

दूरं विस्मारयत्येव मन्मथोन्मादभावनाम् ॥ ४,२१.५४ ॥

इहापि भ्रमेणेति शेषः । इयं चावस्था मध्यमपापिप्रभृतीनां ज्ञेया । महापापिनां तु अत्रापि रतिरेव जायते ॥ ४,२१.५४ ॥

 

 

 

फलितमाह

भावानुसारिफलदं पदार्थौघमवेक्ष्य च ।

न ज्ञेनेह पदार्थेषु रूपमेकमुदीर्यते ॥ ४,२१.५५ ॥

ज्ञेन पदार्थतत्त्वज्ञेन पुरुषेण । पदार्थौघं भावानुसारिफलं ददातीति तादृशम् । अवेक्ष्य । इह लोके । पदार्थेष्वेकं रूपं न उदीर्यते न कथ्यते ॥ ४,२१.५५ ॥

 

 

 

दृढभावनया चेतो यद्यथा भावयत्यलम् ।

तत्तत्फलं तदाकारं तावत्कालं प्रपश्यति ॥ ४,२१.५६ ॥

चेतः । यत्वस्तु । दृढभावनया यथा भावयति अनुसन्धत्ते । तत्फलं भावनाफलभूतम् । तत् । तदाकारम् । तावत्कालं तस्मिन् समये । प्रपश्यति । स्वप्नश्चात्र दृष्टान्तत्वेन ज्ञेयः ॥ ४,२१.५६ ॥

 

 

 

सिद्धान्तं कथयति

न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ।

यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ॥ ४,२१.५७ ॥

निर्णीटं भावितम् । अन्यथा एकमेव वस्तु एकस्य हर्षदमन्यस्य दुःखदं न स्यादिति भावः ॥ ४,२१.५७ ॥

 

 

 

भाविताकाशमातङ्गं व्योमहस्तितया मनः ।

व्योमकाननमातङ्गीं व्योमस्थामनुधावति ॥ ४,२१.५८ ॥

भाविताकाशमातङ्गं सत् । मनः । व्योमहस्तितया व्योमहस्तिभावेन । व्योमहस्ती भूत्वेति यावत् । व्योमकाननमातङ्गीमनुधावति । कथम्भूताम् । काननाधारभूते व्योम्नि तिष्ठतीति तादृशीम् ॥ ४,२१.५८ ॥

 

 

परमफलितमाह

तस्मात्सङ्कल्पमेव त्वं सर्वभावमयात्मकम् ।

त्यज राघव सुस्वस्थः स्वात्मनैव भवात्मनि ॥ ४,२१.५९ ॥

सर्वभावमयः सर्वपदार्थस्वरूपः । आत्मा यस्य । तत् । सङ्कल्प एव हि बहिः नानाकारैः स्फुरति । त्यज मा प्रादुर्भावय । प्रादुर्भूतेऽपि उपेक्षामेव कुर्वित्यर्थः । न हि सर्वथा त्यागः विदेहमुक्तिं यावत्शक्यक्रियः ॥ ४,२१.५९ ॥

 

 

 

ननु कथमागच्छन्तं सङ्कल्पं त्यजामीत्य् । अत्राह

मणिर्हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति ।

अशक्तो जडभावेन न तु राम भवादृशः ॥ ४,२१.६० ॥

जडभावेन जडतया । भवादृशः त्वादृक्चेतनः । सङ्कल्पत्यागो हि संवेदनसाध्यः । तच्च तवास्त्येवेति भावः ॥ ४,२१.६० ॥

 

 

 

त्यागोपायं कथयति

यद्यन्मनोमणौ राम तवेह प्रतिबिम्बति ।

तदवस्त्विति निर्णीय मा तेनागच्छ रञ्जनाम् ॥ ४,२१.६१ ॥

रञ्जनामुपरक्तत्वम् ॥ ४,२१.६१ ॥

 

 

 

उपायान्तरं कथयति

तदेव सत्यमिति वाप्यभिन्नं परमात्मनः ।

मन्वानस्त्वमनाद्यन्तं भावयात्मानमात्मना ॥ ४,२१.६२ ॥

सर्वस्य परमात्मनः अभिन्नत्वभावनेन हि अनाद्यन्तात्मभावनमेव सम्पद्यते ॥ ४,२१.६२ ॥

 

 

 

चेतसि प्रतिबिम्बन्ति ये भावास्तव राघव ।

रञ्जयन्त्वन्यसक्तात्मन्मा ते त्वां स्फटिकं यथा ॥ ४,२१.६३ ॥

हे राघव । कथम्भूत । अन्यस्मिन् भावेभ्यः भिन्नस्वरूपे परमात्मनि । सक्तः आत्मा मनः यस्य । तादृश । अन्यथा प्रतिबिम्बितभावरञ्जनाभावो न युक्त इति भावः । त्वां कं यथा । स्फटिकं यथा । यथा अन्यरागयुक्तं स्फटिकमन्यरागकृता रञ्जना न रञ्जयति । तथेत्यर्थः ॥ ४,२१.६३ ॥

 

 

 

ननु कथं रञ्जनाभावो देहं तावत्शक्य इत्य् । अत्र सर्गान्तश्लोकेन कथयति

स्फटिकमपमलं यथा विशन्ति

प्रकटतया नवरञ्जना विचित्राः ।

इह हि विमननं तथा विशन्तु

प्रकटतया भुवणैषणा भवन्तम् ॥ ४,२१.६४ ॥

विमननं मननाख्यमनोधर्मरहितम् । यथा निर्मलं स्फटिकं विचित्राः रञ्जना विशन्ति । तथा मननापरपर्यायानुसन्धानराहित्येन शुद्धं भवन्तमपि पदार्थसङ्कल्पनारूपाः रञ्जना विशन्त्विति पिण्डार्थः । लेपाकारिणी रञ्जना यद्यायाति तदा न काचिद्धानिरिति भावः । इति शिवम् ॥ ४,२१.६४ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे एकविंशः सर्गः ॥२१॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २१