मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २०

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



ओम् । एवं श्रीरामेण मध्ये पृष्टं जाग्रदादिस्वरूपं निर्णीय प्रकृतमेवानुसन्दधाति

एतत्ते कथितं सर्वं मनोरूपनिरूपणे ।

मया राघव नान्येन केनचिन्नाम हेतुना ॥ ४,२०.१ ॥

एतत्सर्वं यो यथा यतते सः तथा भवतीत्येतत्समस्तम् । मया । हे राघव । मनोरूपनिरूपणे मनोनिरूपणनिमित्तम् । ते कथितम् । अन्येन हेतुना न कथितं व्यर्थत्वात् ॥ ४,२०.१ ॥

 

 

 

मनोनिरूपणमेव करोति

दृढनिश्चयवच्चेतो यद्भावयति भूरिशः ।

तत्तां यात्यनलाश्लेषादयःपिण्डोऽग्नितामिव ॥ ४,२०.२ ॥

भूरिशः अभ्यासेन ॥ ४,२०.२ ॥

 

 

 

भावाभावग्रहोत्सर्गदृशश्चित्तेन कल्पिताः ।

नासत्या नापि सत्यास्ता मनश्चापलकारणाः ॥ ४,२०.३ ॥

मनश्चापलमेव कारणं यासाम् । ताः मनश्चापलकारणाः । मनश्चापलकारणं हि रज्जुसर्पादिकमर्थक्रियाकारित्वाभावेन न सत्यं भवति । भासमानत्वेनासत्यं च न भवति ॥ ४,२०.३ ॥

 

 

 

मनो हि हेतुः कर्तृ स्यात्कारणं च जगत्स्थितेः ।

विश्वरूपतयैवेदं तनोति मलिनं मनः ॥ ४,२०.४ ॥

हि निश्चये । मनः जगत्स्थितेः हेतुः निमित्तकारणं कर्तृ । कर्तृ कारकः । कारणं समवायिकारणमसमवायिकारणं च । भवति । यतः इदं मनः मलिनं वासनामलदूषितं सत् । विश्वरूपतया इदं जगत् । तनोति । नात्रान्यः कश्चित्कारकत्वं यातीति भावः । स्वप्नस्य चात्र दृष्टान्तत्वं स्फुटमेव ॥ ४,२०.४ ॥

 

 

 

मनो हि पुरुषो राम तन्नियोज्यं शुभे पथि ।

तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः ॥ ४,२०.५ ॥

नियोज्यं प्रेरणीयम् । शुभे पथि विवेकस्वरूपे । हि यस्मात् । जगति सर्वाः विभूतयः भोगमोक्षरूपाण्यैश्वर्याणि । तस्य मनसः । यः जयः शुभे पथि नियोजनम् । तेन साध्याः भवन्ति ॥ ४,२०.५ ॥

 

 

 

ननु शरीरस्य पुरुषत्वेन स्थितत्वात्कथं चक्षुषालभ्यमानस्य मनसः पुरुषत्वं कथयसीत्य् । अत्राह

शरीरं चेत्शरीरं स्यात्कथं शुक्रो महामतिः ।

अगमद्विविधं भेदं बहुदेहसमुद्भवम् ॥ ४,२०.६ ॥

शरीरं स्थूलश्रीरम् । शरीरं लक्षणया पुरुषः । चेत्स्यात् । तदा सः शुक्रः । बहुदेहेभ्यः समुद्भवः यस्य । तादृशं विविधं भेदम् । कथमगमत् । शरीरस्यैकेनैव रूपेण स्थितत्वात् ॥ ४,२०.६ ॥

 

 

 

फलितं कथयति

तस्माच्चित्तं हि पुरुषः पुरुषश्चित्तमेव हि ।

यन्मयं च भवत्येतत्तदवाप्नोत्यसंशयम् ॥ ४,२०.७ ॥

हि निश्चये । एतत्चित्तम् । यन्मयं यद्विषयानुसन्धानमयम् ॥ ४,२०.७ ॥

 

 

 

परमफलितमाह

यदतुच्छमनायासमनुपाधि गतभ्रमम् ।

यत्नात्तदनुसन्धानं कुरु तत्तां च यास्यसि ॥ ४,२०.८ ॥

अतः यत्वस्तु । अतुच्छमनायासमायाससाध्यतारहितम् । अनुपाधि तथा गतभ्रमम् । भवति । त्वं तदनुसन्धानं कुरु । ततः तत्तामतुच्छत्वादिधर्मरहितवस्तुभावम् । यास्यसि ॥ ४,२०.८ ॥

 

 

 

सर्गान्तश्लोकेनाप्येतदेव कथयति

अभिपतति मनःस्थितिं शरीरं

न तु वपुराचरितं मनः प्रयाति ।

अभिपततु तवात्र तेन सत्यं

सुभग मनः प्रजहात्वसत्यमन्यत् ॥ ४,२०.९ ॥

स्पष्टम् । इति शिवम् ॥ ४,२०.९ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे विंशः सर्गः ॥२०॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २०