मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



वसिष्ठ उवाच

अथैतदभ्युपगमे वच्मि वेद्यविदां वर ।

समस्तकलनातीते महाचिद्व्योम्नि निर्मले ॥ ४,२.१ ॥

जगदाद्यङ्कुरस्तत्र यद्यस्ति तदसौ तदा ।

कैरिवोदेति कथय कारणैः सहकारिभिः ॥ ४,२.२ ॥

हे वेद्यविदां वर । अथाहमेतत्बीजत्वम् । अङ्गीकृत्य । वच्मि कथयामि । किं वक्षीत्यपेक्षायामाह समस्तेति । समस्तकलनातीते सर्वकार्यकारणभावादिकलनातीते । निर्मले चेत्याख्यमलादूषिते । सहकारिभिः कारणैः सहकारिकारणैः । युग्मम् ॥ ४,१२ ॥

 

 

 

सहकारिकारणानामभावे वाङ्कुरोद्गतिः ।

वन्ध्याकन्या च दृष्टेह न कदाचन केनचित् ॥ ४,२.३ ॥

वाशब्दः पादपूरणार्थः । चशब्दः समुच्चये ॥ ४,१.३ ॥

 

 

 

सहकारिकारणानामभावे यच्च वोदितम् ।

मूलकारणमेवात्मा तत्स्वभावे स्थितं तथा ॥ ४,२.४ ॥

यत्च जगदाख्यं कार्यम् । सहकारिकारणानामभावे उदितं कारणातन्यतया प्रादुर्भूतं भवति । तत्तथा तेन प्रकारेण । स्वभावे स्वस्वरूपे । स्थितम् । मूलकारणमात्मा मूलकारणभूत आत्मैव भवति । न कार्यम् । सहकारिकारणसम्भव एव कार्यत्वदर्शनात् ॥ ४,१.४ ॥

 

 

 

सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति ।

यथास्थितमनाकारं क्व जन्यजनकक्रमः ॥ ४,२.५ ॥

सर्गादौ चेत्योन्मुखतासमये ॥ ४,१.५ ॥

 

 

 

अथ पृथ्व्यादयोऽन्ये वा कुतोऽप्यागत्य कुर्वते ।

सहकारिकारणत्वं तत्पूर्वैवात्र दूषणा ॥ ४,२.६ ॥

पूर्वा दूषणेति । सर्गागमे या दूषणा अस्ति सा एव सहकार्यभिमतपृथ्व्याद्यागमेऽप्यस्तीत्यर्थः ॥ ४,१.६ ॥

 

 

 

फलितमाह

तस्मात्परे जगच्छान्तमास्ते तत्सहकारणैः ।

विना प्रसरतीत्युक्तिर्बालस्य न विपश्चितः ॥ ४,२.७ ॥

तस्मात्ततो हेतोः । जगत्परे शान्तं बीजत्वेन स्थितमस्ति । सहकारणैः सहकारिकारणैः विना । तत्प्रसरति इत्युक्तिः बालस्य मूर्खस्य । भवति । विपश्चितः पण्डितस्य । न भवति ॥ ४,१.७ ॥

 

 

 

परमफलितं कथयति

तस्माद्राम जगन्नासीन्न चास्ति न भविष्यति ।

चेतनाकाशमेवाच्छं कचतीत्थमिवात्मनि ॥ ४,२.८ ॥

हे राम । तस्मात्जगत्नासीत्न चास्ति न च भविष्यति सहकारिकारणाभावात् । पुनः किमेतत्स्फुरतीत्य् । अत्राह चेतनेति । अच्छं चेत्यरहितम् । चेतनाकाशं चिन्मात्राकाशम् । आत्मनि इत्थं जगद्रूपेण । स्फुरति इव कचति इव ॥ ४,१.८ ॥

 

 

 

अत्यन्ताभाव एवास्य जगतो विद्यते यदा ।

तदा ब्रह्मेदमखिलमिति सद्राम नान्यथा ॥ ४,२.९ ॥

अन्यथा असत् ॥ ४,१.९ ॥

 

 

 

ननु प्रागभावादिरेव कथं नात्रास्ति । किमत्यन्ताभावेनेत्य् । अत्राह

पूर्वप्रध्वंसनान्योऽन्याभावैर्यदुपशाम्यति ।

अशान्तमेव तच्चित्ते न शाम्यत्येव तद्यतः ॥ ४,२.१० ॥

पूर्वप्रध्वंसनान्योऽन्याभावैः प्रागभावेन प्रध्वंसाभावेन अन्योऽन्याभावेन च । यत्शाम्यति ततशान्तमेव भवति । यतः तत्वस्तु । चित्ते मनसि । न शाम्यति संस्कारत्वेन स्थितत्वात् । तस्मादत्यन्ताभाव एवात्र युक्त इति भावः ॥ ४,१.१० ॥

 

 

 

अत्यन्ताभावमेवातो जगद्दृश्यस्य सर्वदा ।

वर्जयित्वेतरा युक्तिर्नास्त्येवानर्थसङ्क्षये ॥ ४,२.११ ॥

जगद्दृश्यस्यात्यन्ताभाव एव जगद्रूपस्यानर्थस्य क्षये युक्तिः नान्यत्किञ्चिदिति पिण्डार्थः ॥ ४,१.११ ॥

 

 

 

चिदाकाशस्य बोधोऽयं जगदादीति यत्स्थितम् ।

अयं सोऽहमिदं रूपालोकचित्तकलाद्यपि ॥ ४,२.१२ ॥

इदं जगदादीति यत्स्थितमस्ति । अयं चिदाकाशस्य बोध एव भवति । नान्यत् । आदिशब्देन प्रलयस्य ग्रहणम् । जगदादीति विशेषेण कथयति अयं सोऽहमित्यादि । चित्तकला मनस्कारः ॥ ४,१.१२ ॥

 

 

 

इदमर्कादि पृथ्व्यादि तथेदं वत्सरादि च ।

अयं कल्पः क्षणश्चायमिमे मरणजन्मने ॥ ४,२.१३ ॥

स्पष्टम् ॥ ४,१.१३ ॥

 

 

 

अयं कल्पान्तसंरम्भो महाकल्पान्त एष सः ।

अयं स सर्गप्रारम्भो भावाभावक्रमस्त्वसौ ॥ ४,२.१४ ॥

स्पष्टम् ॥ ४,१.१४ ॥

 

 

 

लक्षाणीमानि कल्पानामिमा ब्रह्माण्डकोटयः ।

इमे ब्रह्मेन्द्रनिचया इमा विष्ण्वादिशक्तयः ॥ ४,२.१५ ॥

विष्ण्वादिरूपाः शक्तयः विष्ण्वादिशक्तयः ॥ ४,१.१५ ॥

 

 

 

एते चेमे परिणता इमे भूय उपागताः ।

इमानि धिष्ण्यजालानि देशकालकला इमाः ॥ ४,२.१६ ॥

एते इमे परिणताः मृताः ॥ ४,१.१६ ॥

 

 

 

उपसंहारं करोति

महाचित्परमाकाशमनावृत्तमनन्तकम् ।

यथा पूर्वं स्थितं शान्तमित्येवं कचति स्वयम् ॥ ४,२.१७ ॥

अनावृत्तमावृत्तिरहितम् । अनन्तकमन्तरहितम् । शान्तं स्वस्मिन् स्वरूपे एव सर्वदा निलीनम् । महाचित्परमाकाशम् । इति अनेन प्रकारेण । एवं जगद्रूपेण । कचति स्फुरति ॥ ४,१.१७ ॥

 

 

 

परमाणुसहस्रांशभास एता महाचितेः ।

स्वभावभूता एवान्तःस्थिता नायान्ति यान्ति नो ॥ ४,२.१८ ॥

महाचितेः अन्तःस्थिताः । अत एव स्वभावभूताः । परमाणोः यः सहस्रांशः । तत्परिमाणाः भासः दीप्तयः । एताः सर्गपरम्पराः । न आयान्ति नो यान्ति सदा स्थितत्वात् ॥ ४,१.१८ ॥

 

 

 

स्वयमन्तश्चमत्कारो यस्समुद्गीर्यते चिता ।

तत्सर्गभानं भातीदं भारूपं न च भित्तिमत् ॥ ४,२.१९ ॥

चिता चिन्मात्रेण । अन्तःस्थितः यः चमत्कारः स्वरूपपरामर्शरूपः आस्वादः । बहिः समुद्गीर्यते सम्यकुद्गीर्यते । ततिदं समुद्गिरणम् । सर्गभानं भाति । इदं कथम्भूतम् । भारूपं ज्ञानस्वरूपम् । न भित्तिमत्भित्तिरहितम् ॥ ४,१.१९ ॥

 

 

 

नोद्यन्ति न च नश्यन्ति नायान्ति न च यान्ति च ।

महाशिलान्तर्लेखानां सन्निवेश इवाचलाः ॥ ४,२.२० ॥

सर्गा इति शेषः ॥ ४,१.२० ॥

 

 

 

इमे सर्गाः प्रस्फुरन्ति स्वतः स्वात्मनि निर्मले ।

नभसीव नभोभागा निराकारा निराकृतौ ॥ ४,२.२१ ॥

स्वतः स्वभावेन ॥ ४,१.२१ ॥

 

 

 

द्रवत्वानीव तोयस्य स्पन्दा इव सदागतेः ।

आवर्ता इव वाम्भोधेर्गुणिनो वाथवा गुणाः ॥ ४,२.२२ ॥

पूर्वश्लोकदृष्टान्तत्वेनैव योज्यम् ॥ ४,१.२२ ॥

 

 

 

विज्ञानघन एवैकमिदमित्थमिव स्थितम् ।

सोदयास्तमयारम्भमनन्तं शान्तमाततम् ॥ ४,२.२३ ॥

विज्ञानघने ज्ञानैकस्वरूपे चिन्मात्रतत्त्वे । इदं जगत् ॥ ४,१.२३ ॥

 

 

 

सहकार्यादिहेतूनामभावे शून्यता जगत् ।

स्वयम्भूर्जायते चेति किलोन्मत्तकफूत्कृतम् ॥ ४,२.२४ ॥

उन्मत्तकफूत्कृतमुन्मत्तप्रलापः ॥ ४,१.२४ ॥

 

 

 

सर्गान्तश्लोकेन फलितं कथयति

प्रशान्तसर्वार्थकलाकलङ्को

निरस्तनिःशेषविकल्पतल्पः ।

चिराय विद्रावितदीर्घनिद्रो

भवाभयो भूषितभूः प्रबुद्धः ॥ ४,२.२५ ॥

तस्मादित्यध्याहार्यम् । तस्मात्त्वं भव । कीदृश इत्यपेक्षायां विशेषणान्याह प्रशान्त इत्यादि । प्रशान्तः ब्रह्मैकताविज्ञानेन प्रकर्षेण शान्तः । सर्वार्थरूपः कलङ्कः यस्य । सः । निरस्ता निःशेषविकल्पा एव तल्पं येन । सः । विद्राविता दीर्घनिद्रा अविद्यारूपा दीर्घनिद्रा येन । सः । अत एव प्रबुद्धः सम्यग्ज्ञानयुक्तः । अतः अभयः भयरहितः । इति शिवम् ॥ ४,१.२५ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वितीयः सर्गः ॥२॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २