मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १९

From HinduismPedia
Jump to navigation Jump to search


Template:मोक्षोपायटीका/स्थितिप्रकरणम् <poem> अतिदुर्बोधत्वेन पुनरपि पूर्वोक्तमेवार्थं कथयति

जीवबीजं परं ब्रह्म सर्वत्र खमिव स्थितम् ।

तेन जीवोदरजगत्यपि जीवोऽस्त्यनेकधा ॥ ४,१९.१ ॥

जीवानां बीजं प्रादुर्भवस्थानम् । परं ब्रह्म खमिवाकाशवत् । सर्वत्र दृश्यतयाभिमते समस्ते जगज्जाले । स्थितं स्वरूपसारतया स्थितं भवति । तेन ततो हेतोः । जीवस्य यतुदरं मध्यप्रदेशः । तत्रस्थितं यत्जगत्स्वप्नादिरूपं जगत् । तस्मिनपि अनेकधा नानाविधस्थावरजङ्गमात्मकप्रकारेण नानाप्रकारो । जीवोऽस्ति ॥ ४,१९.१ ॥




ततः किमित्यपेक्षायामाह

चिद्घनैकघनात्मत्वाज्जीवान्तर्जीवजातयः ।

कदलीदलवत्सन्ति कीटा इव नरोदरे ॥ ४,१९.२ ॥

अतः चिद्घनेन एकं केवलम् । घनः आत्मा यस्य । सः । तस्य भावः चिद्घनैकात्मत्वम् । तस्माथेतोः । जीवान्तः जीवानां मध्ये । जीवजातयः कदलीदलवत्सन्ति । कदलीदलेषु ह्यन्तरन्यानि दलानि सन्ति । जीवजातयः के इव । कीटा इव । यथा नरोदरे कीटाः सन्ति । तथेत्यर्थः ॥ ४,१९.२ ॥




ननु जीवः कुत उत्पद्यते इत्य् । अत्राह

यो यो राम यथा ग्रीष्मे कल्कस्वेदाद्भवेत्क्रिमिः ।

तत्तन्नाम तथा चित्त्वात्खं जीवीभवति स्वतः ॥ ४,१९.३ ॥

हे राम । ग्रीष्मे ग्रीष्मकाले । कल्कस्वेदात् । कल्को मलम् । स च स्वेदश्च । तत्कल्कस्वेदम् । तस्मात् । यः यः क्रिमिः यथा येन रूपेण । भवेत्जायते । खमाकाशम् । चित्त्वात्तथा तेन रूपेण । स्वतः जीवीभवति । खं कथम्भूतम् । तत्तन्नाम तस्य तस्य क्रिमेर्नाम यस्य । तत् । अयं भावः । ग्रीष्मे तावत्नानाविधाः क्रिमयः कल्कस्वेदात्जायन्ते । तेषां शरीरं तावत्कल्कस्वेदमयं भवतु । तच्चालकस्तु जीवः जीवत्वान्यथानुपपत्त्या चित्त्वयुक्तमाकाशमेव । कल्कस्वेदस्य शरीरमात्रसम्पादने परिसमाप्तत्वात्तदन्यस्यासन्निधानाच्च । अतस्सर्वे जीवाः आकाशारूपा एवेति ॥ ४,१९.३ ॥




यथा यथा यतन्ते ते जीवकाः स्वात्मसिद्धये ।

तथा तथा भवन्त्याशु विचित्रोपासनक्रमैः ॥ ४,१९.४ ॥

ते आकाशमयाः । जीवकाः । स्वात्मसिद्धये यथा यथा यतन्ते विचित्रोपासनाक्रमैः यतनरूपैः नानाविधैरुपासनाक्रमैः । तथा तथा भवन्ति ॥ ४,१९.४ ॥




सामान्येनोक्त्वा विशेषेण कथयति

देवान् देवयजो यक्षयजो यक्षान् व्रजन्ति हि ।

ब्रह्म ब्रह्मयजो यान्ति यदतुच्छं तदाश्रयेत् ॥ ४,१९.५ ॥

फलितमाह यदिति । अत इत्यध्याहारः । अतः पुरुषः यततुच्छं भवति । तताश्रयेत् ॥ ४,१९.५ ॥




ननु तर्हि शुक्रः कथं स्वयतनं विना नानारूपतां गत इत्य् । अत्राह

स शुक्रो भृगुपुत्रो हि निर्मलत्वात्स्वसंविदः ।

बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः ॥ ४,१९.६ ॥

सः पूर्वप्रकरणोक्तः । भृगुपुत्रः शुक्रः । हि निश्चये । इदम्प्रथमतावरोहेण स्वसंविदः निर्मलत्वात्प्रथमदृष्टेन दृश्येन स्वभावतः प्रयतनं विनाशु बद्धः स्वोन्मुखः कृतः । अतो न विरोध इति भावः ॥ ४,१९.६ ॥




अभिजातापरिम्लाना बाला यत्प्रथमं पुरः ।

संवित्प्राप्नोति तद्रूपा भवत्यन्या न काचन ॥ ४,१९.७ ॥

अभिजाता शुद्धा । अत एवापरिम्लाना तावत्कालुष्यमगता । बाला ब्रह्मणः सद्यः उत्थिता । संवित् । प्रथममादौ । यत्पुरः पश्यति । तद्रूपा भवति । अन्या ब्रह्मणः पूर्वतरमुत्थिता । काचन संवित् । न भवति यत्नं विना न भवति । यत्नेन तु भवत्येव । अन्यथा मोक्षाभावप्रसङ्गात् ॥ ४,१९.७ ॥




पूर्वं स्फुरितं प्रश्नं श्रीरामः अस्मिन् समये पृच्छति

जाग्रत्स्वप्नदशाभेदं भगवन् वक्तुमर्हसि ।

कथं च जाग्रज्जाग्रत्स्यात्स्वप्नोऽजाग्रत्कथं भवेत् ॥ ४,१९.८ ॥

किं कथयामीत्यपेक्षायामाह कथमिति । जाग्रत्जाग्रत्कथं स्यात् । स्वप्नः अजाग्रत्स्वप्नः । कथं भवेत् । एतदेव कथय मे इति भावः ॥ ४,१९.८ ॥




श्रीवसिष्ठ उत्तरं कथयति

स्थिरप्रत्यययुक्तं यत्तज्जाग्रदिति कथ्यते ।

अस्थिरप्रत्ययं यत्स्यात्स स्वप्नः समुदाहृतः ॥ ४,१९.९ ॥

स्थिरप्रत्ययेन स एवायमित्येवंरूपप्रत्यभिज्ञायां क्षमेण स्थिरज्ञानेन । युक्तं यत्भवति । पण्डितैः तज्जाग्रदिति कथ्यते । यतस्थिरप्रत्ययं प्रत्यभिज्ञाक्षमास्थिरज्ञानयुक्तम् । स्यात् । पण्डितैः सः स्वप्नः समुदाहृतः कथितः ॥ ४,१९.९ ॥




जाग्रत्स्वप्नयोः कदाचित्सम्भवयुक्तं स्वप्नजाग्रत्त्वं कथयति

जाग्रच्चेत्क्षणदृष्टः स्यात्स्वप्नः कालान्तरस्थितः ।

तज्जाग्रत्स्वप्नतामेति स्वप्नो जाग्रत्त्वमृच्छति ॥ ४,१९.१० ॥

जाग्रल्लक्षणया जाग्रज्ज्ञानविषयीभूतं वस्तु । चेत्यदि । क्षणदृष्टः क्षणमेव दृष्टः । स्यात् । अर्थात्ततः नष्टः । तथा स्वप्नः स्वप्नज्ञानविषयीभूतं वस्तु । कालान्तरस्थितः स्वप्नकालादन्यस्मिन् कालेऽपि स्थितः । चेत्स्यात् । कदाचिद्धि स्वप्नदृष्टमपि वस्तु प्रभाते प्रत्यक्षं दृश्यते । तत्तदा । जाग्रत्जाग्रद्वस्तुग्राहकं ज्ञानम् । स्वप्नतामेति अस्थिरप्रत्ययत्वात् । स्वप्नः स्वप्नवस्तुग्राहकं ज्ञानम् । जाग्रत्त्वमृच्छति स्थिरप्रत्ययत्वात् ॥ ४,१९.१० ॥




ननु कथमेतदित्य् । अत्राह

जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरतां विना ।

समः सदैव सर्वत्र समस्तानुभवोऽनयोः ॥ ४,१९.११ ॥

यतः जाग्रत्स्वप्नदशाभेदः स्थिरतास्थिरतां विना न भवति । अतः क्षणिकजाग्रतः स्वप्नत्वं स्थिरस्वप्नस्य जाग्रत्त्वं युक्तमेवेति भावः । अत्र समस्तानुभवं प्रमाणत्वेन कथयति सम इति । अनयोः जाग्रत्स्वप्नयोः । समस्तेषु स्थितः अनुभवः समस्तानुभवः । सदा सर्वेषु कालेषु । सर्वत्र सर्वेषु देशेषु । समः एव भवति । स्थिरास्थिरतां विनेति अत्रापि सम्बन्धनीयम् ॥ ४,१९.११ ॥




फलितमाह

यदेव स्थिरतामेति तज्जाग्रदिति कथ्यते ।

क्षणभङ्गात्मकः स्वप्नो यथा भवति तच्छृणु ॥ ४,१९.१२ ॥

अतः यदेव स्थिरतामेति पण्डितैः तत्स्वप्नोऽपि सन् जाग्रदिति कथ्यते । यः क्षणभङ्गात्मकः सः जाग्रदपि सन् स्वप्नः भवति । यथैतद्भवति त्वं तत्शृणु । यथा जाग्रत्स्वप्नयोः स्थिरत्वास्थिरत्वमस्ति तथा शृण्वित्यर्थः ॥ ४,१९.१२ ॥




तदेव कथयति

जीवधातुः शरीरेऽन्तर्विद्यते येन जीव्यते ।

तेजो वीर्यं जीवधातुरित्याद्यभिधमङ्ग तत् ॥ ४,१९.१३ ॥

जीवाख्यः धातुः जीवधातुः । शरीरेऽन्तः विद्यते । येन जीवधातुना । शरीरं जीव्यते प्राणधारणक्रियां कार्यते । जीव्यत इति णिचन्तः प्रयोगः । हे अङ्ग । तत्सः जीवधातुः । तेजो वीर्यं जीवधातुरित्याद्यभिधं भवति । अत्र च धातुशब्दः मज्जादिवत्शरीरान्तश्चारित्वसादृश्यातुपचारेण प्रयुक्तः ॥ ४,१९.१३ ॥




व्यवहारी यदा कायो मनसा कर्मणा गिरा ।

भवेत्तदा स सम्पन्नो जीवधातुः प्रसर्पति ॥ ४,१९.१४ ॥

यदा यस्मिन् काले । कायः । मनसा कर्मणा स्वाश्रितया क्रियया । गिरा च । व्यवहारी व्यवहारयुक्तो । भवेत् । तदा सः जीवधातुः सम्पन्नः सम्पूर्णः सन् । प्रसर्पति सर्वस्मिञ्शरीरे सञ्चारं करोतीत्यर्थः ॥ ४,१९.१४ ॥




ततः किमित्य् । आह

तस्मिन् प्रसर्पत्यङ्गेषु स्पर्शात्संविदुदेति हि ।

पुष्टत्वात्सैति चित्ताख्यामन्तर्लीनजगद्भ्रमा ॥ ४,१९.१५ ॥

तस्मिन् संविन्मये जीवधातौ । प्रसर्पति सति । अङ्गेषु स्पर्शात्जीवधातुस्पर्शात् । हि निश्चये । संवित्जीवधातुस्पन्दभूता शीतोष्णादिसञ्चेतनरूपा संवित् । उदेति प्रादुर्भवति । सा संवित् । अन्तर्लीनजगद्भ्रमा सती । पुष्टत्वात्जीवधातुप्रसर्पणेन पुष्टत्वात् । चित्ताख्यामेति । ननु अन्तर्लीनजगद्भ्रमत्वं संविदः कथमिति चेत् । सत्यम् । संवित्तावत्जीवधातोः उत्पद्यते । जीवधातुश्च पितृजीवधातोः उत्थानसमये जगद्भ्रमयुक्त एव उत्तिष्ठति । पितृजीवधातोरन्तर्लीनजगद्भ्रमत्वात् । अतः संविदोऽप्यन्तर्लीनजगद्भ्रमत्वं सिद्धम् ॥ ४,१९.१५ ॥




सेक्षणादिषु रन्ध्रेषु प्रसर्पन्ती बहिर्मयम् ।

नानाकारविकाराढ्यं रूपमात्मनि पश्यति ॥ ४,१९.१६ ॥

सा संवित् । ईक्षणादिरन्ध्रेषु प्रसर्पन्ती सती । बहिर्मयं बहिःस्वरूपम् । नानाकारविकारैः घटपटादिरूपैः आकारविकारैः । आढ्यं रूपम् । आत्मनि पश्यति विमृशति । अन्तरिव सङ्कल्पसिद्धघटपटादिताम् । न चैतत्कथमिति वाच्यम् । स्वप्ने दृष्टत्वात् । यथा स्वप्ने संविदेव नानारूपैर्भाति । तथा बहिरपीति न विरोधः ॥ ४,१९.१६ ॥




तत्स्थिरत्वात्तयैवाथ जाग्रदित्यवगम्यते ।

जाग्रत्क्रम इति प्रोक्तः सुषुप्तादिक्रमं शृणु ॥ ४,१९.१७ ॥

तया एव संविदा एव । न त्वन्येन देहादिना जडेन । तत्नानाकारविकाराढ्यं निजं स्वरूपम् । स्थिरत्वात्कमपि कालं तथैव स्थितत्वात् । जाग्रदित्यवगम्यते ज्ञायते । जाग्रत्प्रक्रियोपसंहारपूर्वं सुषुप्तादिप्रक्रियां वक्तुं प्रतिजानीते जाग्रत्क्रम इति ॥ ४,१९.१७ ॥




सुषुप्तादिक्रममेव कथयति

मनसा कर्मणा वाचा यदा क्षुभ्यति नो वपुः ।

शान्त आतिष्ठति स्वच्छो जीवधातुस्तदा त्वसौ ॥ ४,१९.१८ ॥

न क्षुभ्यति श्रान्तत्वात् । व्यवहारं न करोतीत्यर्थः । तदा तस्मिन् काले । जीवधातुः स्वच्छः सुप्तप्रसर्पणाख्यमलः । अत एव शान्तः क्षोभरहितः । आ समन्तात् । तिष्ठति । तुशब्दो निश्चये । यद्यपि सुषुप्तविषयः श्रीरामकृतः प्रश्नो नास्ति तथापि जाग्रत्स्वप्नयोरवश्यं मध्यवर्तित्वात्सुषुप्तिनिर्णयः । न हि जाग्रतः निर्गत्य सुषुप्तिमगत्वा स्वप्नगमनं पुरुषस्य युक्तम् । सेतुवत्सर्वत्र मर्यादात्वेन सुषुप्तेः स्थितत्वात् । यद्यपि शुद्धचिदपि सर्वत्र मध्ये सेतुत्वेन वर्तत एव तथापि विद्युद्द्योतरत्नवत्स्थूलदृष्ट्यविषयत्वात्तस्याः सेतुत्वाकथनम् । सूक्ष्मदृष्टीन् प्रति त्वनुपयोगात्कथनं न युक्तम् ॥ ४,१९.१८ ॥




तदा किं सम्पत्स्यते इत्य् । अत्राह

समतामागतैर्वातैः क्षोभ्यते न हृदन्तरे ।

निर्वातसदने दीपो यथालोकैककारकः ॥ ४,१९.१९ ॥

समतां मनःकृतक्षोभाभावात्समवाहित्वम् । आगतैः वातैः प्राणैः । असौ जीवधातुः हृदन्तरे न क्षोभ्यते क्षोभयुक्तो न क्रियते । अनेन मनोनाशेन प्राणरोधः प्राणरोधेन च मनोनाशः सम्पत्स्यते इति सूचितम् । तत्रापि केषाञ्चित्प्राणरोधेन मनोनाशः मतः । अस्माकं तु सम्यग्ज्ञानसाधितेन मनोनाशेनैव प्राणरोधः । स चेत्तत्र सहकारी तन्न दोषः । ततः सर्वथा मनोनाशः प्राणरोधेन । मनोनाशस्तु मदिरादिप्रयुक्तमनोनाशवन्नात्यन्तिक इति मतम् । अत्र प्रतिभान्विता एव प्रमाणमित्यलं बहुना । जीवधातुः क इव । दीप इव । यथा निर्वातसदने वातैः आलोकैककारकः दीपो न क्षोभ्यते । तथेत्यर्थः ॥ ४,१९.१९ ॥




ततः किं सम्पद्यत इत्य् । अत्राह

ततः सरति नाङ्गेषु संवित्क्षुभ्यति तेन नो ।

न चेक्षणादीन्यायाति रन्ध्राण्यायाति नो बहिः ॥ ४,१९.२० ॥

ततः स जीवधातुः । अङ्गेषु न सरति सञ्चारं न करोति । तेन जीवधातुसरणेन । संवित्जीवधातुस्पन्दरूपा संवित् । नो क्षुभ्यति न उदेति । सा संवितीक्षणादीनि रन्ध्राणि न चायाति बहिः नो आयाति ॥ ४,१९.२० ॥




तदासौ कुत्र तिष्ठतीत्यपेक्षायामाह

जीवेऽन्तरेव स्फुरति तैलसंविद्यथा तिले ।

शीतसंविद्धिम इव स्नेहसंविद्यथा घृते ॥ ४,१९.२१ ॥

असौ संवित्जीवेऽन्तः स्वधर्मिभूतजीवमध्ये एव । स्फुरति । का इव । तैलसंविदिव तैलाकारा संवित् । तैलसंवित्तैलमिति यावत् । यथा सा तिले स्फुरति । तथेत्यर्थः । एवमन्यस्मिन् दृष्टान्तद्वयेऽपि योज्यम् ॥ ४,१९.२१ ॥




ननु तदा जीवः किं करोतीत्य् । अत्राह

जीवः कालकलां काञ्चित्तिष्ठन् शान्ततयात्मनि ।

दशामायाति सौषुप्तीं सौम्यवातां विचेतनाम् ॥ ४,१९.२२ ॥

तदा जीवः काञ्चिततिसूक्ष्मतया वक्तुमशक्याम् । कालकलां काललेशं तावत् । शान्ततया आत्मनि ज्ञानात्मनि स्वरूपे । तिष्ठन् प्रथमं तिष्ठन् । ततः विचेतनामज्ञानमयीम् । सौम्यवातां समवाहिप्राणाम् । सौषुप्तीं दशामायाति । अनेन जाग्रत्सुषुप्तयोर्मध्ये सूक्ष्मदृष्टिभिः वेद्यः मध्यधामप्रवेशः उक्तः । अनेनैव चाभिप्रायेण निद्रादौ जागरस्यान्त इत्याद्युक्तम् । इत्यलं रहस्योद्घाटनेन ॥ ४,१९.२२ ॥




ननु सुषुप्त एव जीवः क्षोभराहित्यात्कथं न तुर्यवानस्तीत्यपेक्षायामाह

ज्ञात्वा चेतस्युपरते शाम्यन् व्यवहरन्नपि ।

जाग्रत्स्वप्नसुषुप्तेषु प्रबुद्धस्तुर्यवान् स्मृतः ॥ ४,१९.२३ ॥

ज्ञात्वा शुद्धचिन्मात्ररूपं स्वात्मानं सम्यग्ज्ञात्वा । चेतसि विकल्पस्वरूपे मनसि । उपरते लीने सति । व्यवहरन्नपि शरीरयात्रानिमित्तं व्यवहारं कुर्वन्नपि । शाम्यन् व्यवहारकृतं क्षोभमत्यन्तनैपुण्यातगच्छन् । तथा जाग्रत्स्वप्नसुषुप्तेषु प्रबुद्धः कीदृग्रूपाण्येतानीति सम्यग्ज्ञानयुक्तः । न तु जडः । पण्डितैः तुर्यवान् स्मृतः । सुषुप्तस्तु नैतादृशोऽस्तीति नासौ तुर्यवानिति भावः ॥ ४,१९.२३ ॥




स्वप्नं निरूपयितुं प्रस्तौति

सौषुप्तात्सोम्यतां यातैः प्राणैः सञ्चाल्यते यदा ।

स जीवधातुस्सा संवित्ततश्चित्ततयोदिता ॥ ४,१९.२४ ॥

सुषुप्तमेव सौषुप्तम् । तस्मात् । सोम्यतां यातैः वातैः । यदा सुषुप्तपरिणामकाले । स जीवधातुः चाल्यते । ततः तदा । सा संवित्जीवधातुस्पन्दरूपा संवित् । चित्ततया चित्तभावेन । उदिता प्रादुर्भूता । भवति ॥ ४,१९.२४ ॥




चित्ततया उदित्य किं करोतीत्य् । अत्राह

स्वान्तःसंस्थं जगज्जालं भागभागैः क्रमभ्रमैः ।

पश्यति स्वान्तरेवाशु स्फारं बीजमिव द्रुमम् ॥ ४,१९.२५ ॥

ततः सा चित्तरूपा संवित्स्वान्तःसंस्थं संस्काररूपेण स्वात्मनि स्थितम् । जगज्जालं स्वान्तरेव न तु बाह्ये । आशु क्रमभ्रमैः न तु सहजक्रमयुक्तैः । भागभागैः पदार्थरूपैः लेशलेशैः । पश्यति अनुभवति । किमिव । बीजमिव । यथा स्फारमङ्कुरोन्मुखम् । बीजम् । द्रुमं स्वान्तः पश्यति । अन्यथा तन्निर्गमानुपपत्तेः । तथेत्यर्थः ॥ ४,१९.२५ ॥




तदेव विशेषतः कथयति

जीवधातुर्यदा वातैः किञ्चित्सङ्क्षोभ्यते भृशम् ।

तदोह्यतेऽम्बर इव पश्यत्यात्मनि खे गतिम् ॥ ४,१९.२६ ॥

वातबाहुल्यस्वभाव एवायं यत्पुरुषः स्वप्ने खे गतिं पश्यतीति वाक्यार्थः ॥ ४,१९.२६ ॥




यदाम्भसा प्लाव्यतेऽसौ तदा वार्यादिसम्भ्रमम् ।

अन्तरेवानुभवति स्वामोदं कुसुमं यथा ॥ ४,१९.२७ ॥

असौ जीवधातुः । अम्भसा कफरूपेण जलेन । प्लाव्यते पूर्यते । वार्यादिसम्भ्रममुदकप्लवादिरूपं सम्भ्रमम् ॥ ४,१९.२७ ॥




यदा पित्तादिनाक्रान्तस्तदाग्न्यौष्ण्यादिसम्भ्रमम् ।

अन्तरेवानुभवति स्फारं बहिरिवाखिलम् ॥ ४,१९.२८ ॥

परमार्थतस्तु न बहिः स्फारमिति इवशब्दोपादनम् ॥ ४,१९.२८ ॥




रक्तापूर्णो रक्तवर्णान् देशकालान् बहिर्यदा ।

पश्यत्यनुभवात्मत्वात्तत्रैव च निमज्जति ॥ ४,१९.२९ ॥

यदा रक्तापूर्णः रक्तपूरितः । स्यात् । तदा बहिः रक्तवर्णान् देशकालान् पश्यति । न केवलं पश्यति । तत्रैव च निमज्जति ॥ ४,१९.२९ ॥




ननु नानाव्यवहारान् कथं पश्यतीत्य् । अत्राह

सेवते वासनां यां तां सोऽन्तः पश्यति निद्रितः ।

पवनक्षोभितै रन्ध्रैर्बहिरक्षादिभिर्यथा ॥ ४,१९.३० ॥

सः जीवधातुः । यां शुभाशुभरूपाम् । वासनां सेवते निद्रितः सन् । तामन्तः पश्यति । कथं तथा । तथा कथं पवनक्षोभितः अक्षादिभिः रन्ध्रैः नेत्रादिद्वारैः । यथा बहिः पश्यति ॥ ४,१९.३० ॥




सङ्गृह्य स्वप्नलक्षणं कथयति

अनाक्रन्तेन्द्रियच्छिद्रो यदक्षुब्धोऽन्तरेव सः ।

संविदानुभवत्याशु स स्वप्न इति कथ्यते ॥ ४,१९.३१ ॥

सः जीवधातुः । अनाक्रन्तेन्द्रियच्छिद्रः अन्तरेव अक्षुब्धः बाह्यक्षोभरहितः सन् । संविदा संविदाख्येन धर्मेण । स्वप्ने यतनुभवति जगद्विषयमनुभवं करोति । पण्डितैः स स्वप्न इति कथ्यते ॥ ४,१९.३१ ॥




जाग्रल्लक्षणं कथयति

समाक्रन्तेन्द्रियच्छिद्रो यत्क्षुब्धो बाह्यसंविदा ।

परिपश्यति तज्जाग्रदित्याहुर्मतिमत्तमाः ॥ ४,१९.३२ ॥

अतिशयेन मतिमन्तः मतिमत्तमाः । जाग्रत्स्वप्नयोरेव पृष्टत्वात्तयोरेवेहोपसंहारे सङ्ग्रहेण लक्षणाभिधानम् । न सुषुप्तेः ॥ ४,१९.३२ ॥



सर्गान्तश्लोकेनैतदुपसंहरति

इति विदितवता त्वयाधुनान्तः

प्रथितमहामतिनेह सत्यतास्था ।

असति जगति नैव भावनीया

मृतिहृतिसंसृतिदोषभावनीया ॥ ४,१९.३३ ॥

इति एवम् । विदितवता ज्ञातवता । अत एव प्रथिता विसृतिं गता । महामतिः यस्य । तादृशेन त्वया । असति जगति अधुना अन्तः मनसि । सत्यतास्था सत्यमिदमित्येवंरूपा आस्था । न भावनीया भावनाविषयतां न नेया । सत्यतास्था का । या । मृतिश्च हृतिश्च संसृतिश्च ताः मृतिहृतिसंसृतयः । ता एव दोषाः । तान् भावयति सम्पादयतीति तादृशी । भवति । संसारसत्यतास्थायां हि तद्गताः मृत्यादिदोषाः बाधन्ते । तदसत्यतास्थायां तु ता अपि असत्यभूता एव कां बाधां कर्तुं शक्नुवन्ति । न हि वन्ध्यापुत्रः कञ्चिद्बाधते । इति शिवम् ॥ ४,१९.३३ ॥




इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे एकोनविंशः सर्गः ॥१९॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १९