मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १८

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



ओम् । ननु कथं तन्मात्रयुक्त्या चेतः अन्यैः सह मिलतीत्य् । अत्राह

सर्वसंसृतिषण्डेषु बीजरूपकलात्मनः ।

तन्मात्रप्रतिभासस्य प्रतिभासे न भिन्नता ॥ ४,१८.१ ॥

बीजरूपा बीजस्वरूपा । या कला । तदात्मनः तत्स्वरूपस्य । स्थूलभूतबीजरूपस्येति यावत् । तन्मात्रप्रतिभासस्य पञ्चतन्मात्राकारस्य प्रतिभासस्य । सर्वसंसृतिषण्डेषु समस्तेषु सर्गरूपेषु षण्डेषु । प्रतिभासे स्फुरणे । भिन्नता नास्ति । मृद इव घटादिषु स्फुरणे । अतः तन्मात्रयुक्त्या चित्तस्यान्यमेलनं युक्तमेवेति भावः । तन्मात्राणि च स्थूलभूतबीजभूतानि संस्कारमात्रशरीराणि आकाशादिभ्यो बुद्ध्या पृथक्कृतानि पञ्च शब्दादीनि ज्ञेयानि ॥ ४,१८.१ ॥

 

 

 

न केवलं सर्गैः सह मेलनमेव तन्मात्रयुक्त्या भवति किं तु ब्रह्मणि मेलनमपि तयैवेत्यभिप्रायेणाह

प्रवृत्तिर्वा निवृत्तिर्वा तन्मात्रापत्तिपूर्वकम् ।

सर्वस्य जीवजातस्य सुषुप्तत्वादनन्तरम् ॥ ४,१८.२ ॥

सर्वस्य जीवजातस्य जीवसमूहस्य । सुषुप्तत्वात्सुषुप्तभावात् । अनन्तरं पश्चात् । प्रवृत्तिः वा अन्यसर्गैः सह मेलनं वा । निवृत्तिर्वा सर्गेभ्यः निवृत्तिरूपं ब्रह्मणि मेलनं वा । तन्मात्रापत्तिपूर्वकं तन्मात्रयोगपूर्वकमेव । भवति । सुषुप्तौ सर्गाणां बीजत्वेनावस्थानात्निवृत्त्यसम्भवः सर्गाणां प्राकट्येनानवस्थानात्प्रवृत्त्यसम्भव इति सुषुप्तत्वादनन्तरमित्युक्तम् । अनन्तरमिति कथनेन च सुषुप्तेरत्रावश्यम्भावः सूचितः । ब्रह्मसर्गयोः सेतुत्वेन स्थितायाः सुषुप्तेरवश्यम्भावस्य सुस्पष्टत्वात् । अत्र च प्रवृत्तिः जीवन्मुक्तानां निवृत्तिः विदेहमुक्तानामिति विषयविभागो द्रष्टव्यः । इतरेषां प्रवृत्तिस्तु अज्ञानमूलत्वेन नेह वक्तुं युक्ता ॥ ४,१८.२ ॥

 

 

 

प्रकृतत्वात्प्रवृत्तेः तन्मात्रापत्तिपूर्वकत्वं पृथक्कथयति

प्रवृत्तिभाजो ये जीवास्ते तन्मात्रपदं गताः ।

तन्मात्रैकतया सर्गान्मिथः पश्यन्ति कल्पितान् ॥ ४,१८.३ ॥

ये जीवाः जीवन्मुक्तस्वभावाः जीवाः । प्रवृत्तिभाजः सत्त्वशेषतया प्रवृत्तियुक्ताः भवन्ति । ते तन्मात्रैकतया तन्मात्रयुक्त्या । कल्पितान् परमार्थतया कल्पितस्वरूपान् । सर्गान् । मिथः अन्योऽन्यम् । पश्यन्ति । जीवन्मुक्तानां मनांस्यन्योऽन्यं मिलन्तीत्यत्र परमं रहस्यम् ॥ ४,१८.३ ॥

 

 

 

तन्मात्रैक्यप्रणालेन चित्राः सर्गजलाशयाः ।

परस्परं सम्मिलन्ति घनतां यान्ति चाभितः ॥ ४,१८.४ ॥

तन्मात्राणां पञ्चतन्मात्राणाम् । यदैक्यम् । तदेव प्रणालः जलप्रवाहमार्गः । तेन । घनतां घनीभावम् ॥ ४,१८.४ ॥

 

 

 

ननु सर्वे सर्गौघाः तन्मात्रैक्यप्रणालेन मिलन्त्यथ वा कतिपये एवेत्य् । अत्राह

केचित्पृथक्स्थितिमिताः पृथगेव लयं गताः ।

केचिन्मिथः सम्मिलिता जगत्षण्डाः स्थिताः कृताः ॥ ४,१८.५ ॥

केचिदशुद्धमतयः । उत्तरार्धे केचित्शुद्धमतयः । कृताः कल्पिताः । न तु सहजाः ॥ ४,१८.५ ॥

 

 

 

नन्वेतादृशाः सर्गौघाः कस्मिन्नाधारे स्थिताः भवन्तीत्य् । अत्राह

जगत्षण्डसहस्राणि यत्रासङ्ख्यान्यणावणौ ।

अपरस्परलग्नानि काननं ब्रह्म नाम तत् ॥ ४,१८.६ ॥

अपरस्परलग्नानि अन्योऽन्यमसङ्कीर्णानि । अणौ अणौ प्रत्यंशम् ॥ ४,१८.६ ॥

 

 

 

मिथः स मेलनं नैति घनतां समुपागतः ।

यद्यद्यत्र यथा रूढं तत्तत्पश्यति नेतरत् ॥ ४,१८.७ ॥

घनतां घनीभावम् । गतः सर्गः । मिथः स मेलनं नैति न गच्छति । यतः सः सर्गः । लक्षणया तत्रस्थः प्रमाता । यत्यत्यत्र रूढं परिचितम् । तत्तत्तत्र पश्यति । न इतरत् । अत्र प्रमातुरशुद्धमतित्वं हेतुत्वेन बहुशः उक्तम् ॥ ४,१८.७ ॥

 

 

 

वर्तमानमनोराज्यवशाज्जीवपरम्पराः ।

परस्परं सम्मिलिताः सर्गाणां रूढिभावनाः ॥ ४,१८.८ ॥

वर्तमानं यत्मनोराज्यं सङ्कल्पः । तद्वशात् । जीवपरम्पराः परस्परं सम्मिलिताः भवन्ति । समानमनोराज्यत्वाज्जीवाः परस्परं मिलन्तीति भावः । जीवपरम्पराः कथम्भूताः । सर्गाणां रूढौ सत्यतायाम् । भावनाः यासाम् । ताः । अयं भावः । शुद्धमतीनां सर्गाः तन्मात्रैक्यप्रणालेन सर्वदा मिलन्ति । अशुद्धमतीनां तु कदाचिदेकसङ्कल्पत्वेनेति ॥ ४,१८.८ ॥

 

 

 

ननु कथमियं देहसत्ता प्राकट्यं गता यद्वशोदितसङ्कल्पाख्यमलावृतबुद्धीनां तन्मात्रैक्यप्रणालेनान्यसर्गैः सह मेलनं न भवतीत्य् । अत्राह

देहसत्ता भृशं रूढा देहाभावस्तु विस्मृतः ।

देहत्वपरिरूढत्वाच्चिद्व्योम्ना विस्मृतात्मना ॥ ४,१८.९ ॥

चिद्व्योम्ना देहत्वपरिरूढत्वात्चिद्व्योमकर्तृकात्देहभावे परिरूढत्वात् । चिद्व्योम्ना स्वात्मत्वेन भावितात्देहभावातिति यावत् । देहसत्ता रूढा प्ररोहं गता । तु पक्षान्तरे । देहाभावः परमार्थसन् देहप्रतियोगिकस्त्रैकालिकोऽभावः । चिद्व्योम्ना कथम्भूतेन । विस्मृतात्मना विस्मृतस्वरूपेण । विस्मृतः विस्मृतिं नीतः ॥ ४,१८.९ ॥

 

 

 

अथान्येन दृष्टान्तेनान्यसर्गैः सम्मेलनं कथयति

यथा शुद्धप्राणमरुत्परप्राणाभिवेधनात् ।

वेत्ति वेध्यमनोराज्यं तथा सर्गान्नराश्रयी ॥ ४,१८.१० ॥

यथा शुद्धप्राणमरुत्प्राणायामादिना शुद्धप्राणः । प्राणयोगीति यावत् । परप्राणाभिवेधनात् । परप्राणेषु यतभिवेधनमभिव्याप्तिः । तस्मात् । परपुरप्रवेशादिति यावत् । वेध्यमनोराज्यम् । वेध्यस्य अभिव्याप्यस्य पुरुषस्य । मनोराज्यं वेत्ति । तथा तद्वत् । नराश्रयी तन्मात्रप्रणालेनान्यपुरुषाविष्टः जीवन्मुक्तः पुरुषः ब्रह्मणः प्रथममुत्थितः पुरुषो वा । सर्गानाश्रितपुरुषसर्गान् । वेत्ति ॥ ४,१८.१० ॥

 

 

 

एवं श्रीरामकृते प्रश्ने उत्तरं सम्यगुक्त्वा पूर्वत्र यत्र तत्रोक्तानि विशीर्णानि उपदेशवाक्यानि कथयति

सर्वेषां जीवराशीनामात्मावस्थात्रयं श्रितः ।

जग्रत्स्वप्नसुषुप्ताख्यमत्र देहो न कारणम् ॥ ४,१८.११ ॥

अत्र अवस्थात्रयाश्रयणे ॥ ४,१८.११ ॥

 

 

 

एवमात्मनि जीवत्वमन्यावस्थात्रयात्मनि ।

तापाम्भसीव वीचित्वमस्मिन् कचति देहता ॥ ४,१८.१२ ॥

अन्यावस्थात्रयात्मनि । अन्यत्स्वव्यतिरिक्तत्वेन भासमानम् । यतवस्थात्रयं जाग्रदाद्यवस्थात्रयम् । तत् । आत्मा स्वरूपं यस्य । तादृशे । अस्मिन् जीवत्वावच्छिन्ने । आत्मनि ॥ ४,१८.१२ ॥

 

 

 

चित्कलापदमासाद्य सुषुप्तान्तपदे स्थितम् ।

बुद्धो निवर्तते जीवो मूढः सर्गे प्रवर्तते ॥ ४,१८.१३ ॥

चित्कलापदं तुर्याख्यं पदम् । बुद्धः चित्कलाविमर्शनसमर्थः । निवर्तते पुनः विषयेष्वासक्तिं न भजते । प्रवर्तते विषयासक्तिं भजते ॥ ४,१८.१३ ॥

 

 

 

स्वभावशुद्धिर्हि यदा तदा मैत्री प्रवर्तते ।

द्वयोरेकत्वरूपैव सुसौहार्दनिदर्शना ॥ ४,१८.१४ ॥

मैत्री कथम्भूता एव । द्वयोः एकत्वरूपा एव । द्वयोरेकत्वमेव हि मैत्रीशब्दार्थः । पुनः कथम्भूता । सुसौहार्दनिदर्शना । सुसौहार्दं प्रशस्तमित्रभावः । निदर्शनं दृष्टान्तः यस्याः । सा । सुसौहार्दे हि द्वयोरेकत्वमेव भवति ॥ ४,१८.१४ ॥

 

 

 

अज्ञः सुषुप्तात्सम्बुद्धो जीवः कश्चित्स्वसर्गभाक् ।

सर्वगत्वाच्चितः कश्चित्परसर्गेण नीयते ॥ ४,१८.१५ ॥

स्वसर्गभाक्सुषुप्तावस्थायाः पूर्वं यादृक्स्वभाव आसीत् । तादृक्स्वभाव एवेत्यर्थः । परसर्गेण नयनं स्वभावपरिवृत्तिः ज्ञेया । शुक्रादिसर्गदृष्टान्तेन वा परसर्गनयनं योज्यम् ॥ ४,१८.१५ ॥

 

 

 

ननु तस्मिन् सर्गेऽन्यः सर्गः कुत्रास्ति येनासौ नीयत इत्य् । अत्राह

सर्गे सर्गे पृथग्रूपं सन्ति सर्गान्तराण्यपि ।

तेष्वप्यन्तःस्थसर्गौघाः कदलीदलपीठवत् ॥ ४,१८.१६ ॥

यथा कदलीदलेष्वन्तरन्यानि दलानि सन्ति तेष्वन्तरप्यन्यानि तथा सर्गेष्वपि सर्गान्तराणि सन्ति । तेष्वन्तरप्यन्यानि सन्तीति पिण्डार्थः ॥ ४,१८.१६ ॥

 

 

 

सर्गे सर्गान्तरापूरपत्त्रपीवरवृत्तिमान् ।

स्वभावशीतलो ब्रह्मकदलीदलमण्डपः ॥ ४,१८.१७ ॥

सर्गे एकस्मिन् सर्गे । यः सर्गान्तरापूरः अन्यसर्गसमूहः । स एव पत्त्राणि । तैः पीवरा बृंहणरूपा । वृत्तिः स्थितिः यस्य । सः । तादृशः ॥ ४,१८.१७ ॥

 

 

 

कदल्यामन्यता नास्ति यथा पत्त्रशतेष्वपि ।

ब्रह्मतत्त्वेऽन्यता नास्ति तथा सर्गशतेष्वपि ॥ ४,१८.१८ ॥

स्पष्टम् ॥ ४,१८.१८ ॥

 

 

 

बीजात्फलं रसाद्भूत्वा यथा बीजं पुनर्भवेत् ।

तथा ब्रह्म मनो भूत्वा बोधाद्ब्रह्म पुनर्भवेत् ॥ ४,१८.१९ ॥

यथा फलं बीजातुपादानभूतात्बीजात् । भूत्वा प्रादुर्भूय । रसाथेतोः । पुनः बीजं भवेत् । तथा ब्रह्म मनो भूत्वा बोधात् । पुनः ब्रह्म भवेत् ॥ ४,१८.१९ ॥

 

 

 

रसकारणकं बीजं फलभावेन जृम्भते ।

ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते ॥ ४,१८.२० ॥

स्पष्टम् ॥ ४,१८.२० ॥

 

 

 

रसस्य कारणं किं स्यादिति वक्तुं न युज्यते ।

स्वभावो निर्विशेषत्वात्परं वक्तुं न युज्यते ॥ ४,१८.२१ ॥

कथं न युज्यत इत्य् । अत्राह स्वभाव इति । स्वभावः परं केवलम् । निर्विशेषत्वात् । वक्तुमभियोगविषयतां नेतुम् । न युज्यते । स्वभावस्याभियोगे क्रियमाणे अविशेषात्सर्वेषु स्वभावेष्वभियोगः प्राप्नोतीति निर्विशेषत्वादिति पदस्याभिप्रायः ॥ ४,१८.२१ ॥

 

 

 

न चासत्ता सर्वमये वक्तुं क्वचन शक्यते ।

नाकारणे कारणादि परे वास्त्यादिकारणे ॥ ४,१८.२२ ॥

असतः सर्वमयत्वायोगातिति भावः । नाकारण इति । अकारणे न विद्यते कारणं यस्य । तादृशे । आदिकारणे परे उत्कृष्टे चिन्मात्रे । कारणादि न अस्ति । आदिकारणत्वापायादिति भावः ॥ ४,१८.२२ ॥

 

 

 

बीजं जहन्निजवपुः फलीभूतं विलोक्यते ।

ब्रह्माजहन्निजवपुः फलं बीजं च संस्थितम् ॥ ४,१८.२३ ॥

ब्रह्मणः बीजत्वावस्थाने निजवपुषः अहानमेव हेतुः ॥ ४,१८.२३ ॥

 

 

 

बीजस्याकृतिमत्सर्वं तेनानाकृति तत्पदम् ।

न युज्यते समीकर्तुं तस्मान्नास्त्युपमा शिवे ॥ ४,१८.२४ ॥

सर्वं समस्तं स्वरूपम् । बीजस्याकृतिमत्भवति । तेन ततो हेतोः । शिवे शुद्धचिन्मात्रतत्त्वे । उपमा नास्ति ॥ ४,१८.२४ ॥

 

 

 

खमेव जायते खाभान्न च तज्जायतेऽन्यदृक् ।

अतो न जातं वा जातं विद्धि ब्रह्मनभो जगत् ॥ ४,१८.२५ ॥

खाभातत्यन्तनैर्मल्येनाकाशतुल्यात्ब्रह्मणः । खमेव जायते । ननु कथमेतदित्याह । न चेति । चशब्दो हेतौ । यतः तत्जगन्नाम खम् । अन्यदृक्ब्रह्मेतरदृग्रूपम् । न जायते नोत्पद्यते । फलितं कथयति अत इति । अतः परमार्थतो । न जातम् । आभासतः जातं वा । जगत्ब्रह्मनभः ब्रह्माकाशम् । विद्धि ॥ ४,१८.२५ ॥

 

 

 

दृश्यं पश्यन् स्वमात्मानं न द्रष्टा सम्प्रपश्यति ।

प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः ॥ ४,१८.२६ ॥

द्रष्टा दृश्यं दृशिक्रियाविषयीभूतं भावजातम् । पश्यन् । स्वमात्मानं द्रष्टृरूपं निजमात्मानम् । न पश्यति नानुभवति । प्रपञ्चेनाक्रान्ता स्वोन्मुखतां नीता । संवित्तिः यस्य । तादृशस्य । कस्य पुरुषस्य । निजा स्थितिः स्वं स्वरूपम् । उदेति स्फुरति । न कस्यापीत्यर्थः ॥ ४,१८.२६ ॥

 

 

 

मृगतृष्णाजलभ्रान्तौ सत्यां केव विदग्धता ।

विदग्धतायां सत्यां तु केवासौ मृगतृष्णिका ॥ ४,१८.२७ ॥

अतो विदग्धता एव सत्सङ्गमादिना पोषणीयेति भावः ॥ ४,१८.२७ ॥

 

 

 

आकाशविशदो द्रष्टा सर्वगोऽपि न पश्यति ।

नेत्रं निजमिवात्मानं दृशीभूतमहो भ्रमः ॥ ४,१८.२८ ॥

आकाशवद्विशदः शुद्धचिन्मात्ररूपत्वेनात्यन्तनिर्मलः । द्रष्टा । दृशीभूतं दृश्यभावं गतम् । आत्मानं द्रष्टाख्यमात्मानम् । न पश्यति । किमिव । नेत्रमिव । यथा नेत्रं निजमात्मानं न पश्यति । तथेत्यर्थः । अहो भ्रमः भवति ॥ ४,१८.२८ ॥

 

 

 

आकाशविशदं ब्रह्म यत्नेनापि न लभ्यते ।

दृश्ये दृश्यतयादृष्टे त्वस्य लाभः सुदूरतः ॥ ४,१८.२९ ॥

कुतो न लभ्यते इत्य् । अत्राह दृश्य इति । तेन दृश्ये दृश्यत्वादर्शनमेव ब्रह्मलब्धिरिति भावः ॥ ४,१८.२९ ॥

 

 

 

त्वादृक्स्थूलोऽवधानेन विना यत्र न दृश्यते ।

तत्रातिदूरोदस्तैव द्रष्टुः सूक्ष्मस्य दृश्यता ॥ ४,१८.३० ॥

यत्र यस्मिन् विषये । अवधानेन विना त्वादृक्स्थूलः न दृश्यते । तत्र तस्मिन् विषये । सूक्ष्मस्य द्रष्टुः दृश्यता अतिदूरोदस्ता एव भवति । त्वादृगिति देहाभिप्रायेणोक्तिः ॥ ४,१८.३० ॥

 

 

 

द्रष्टा द्रष्टैव भवति न तु स्पृशति दृश्यताम् ।

दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते ॥ ४,१८.३१ ॥

द्रष्टा दृशिक्रियाकर्ता । द्रष्टा एव भवति । असौ द्रष्टा दृश्यतां दृश्यभावम् । न स्पृशति । हे राम । तेन द्रष्ट्रा । दृश्यं दृश्यते येन । दृश्यस्य दृश्यत्वमस्तीति भावः । तेन द्रष्ट्रा । द्रष्टा द्रष्टृरूपः स्वात्मा । न दृश्यते । अतिसूक्ष्मत्वादिति भावः ॥ ४,१८.३१ ॥

 

 

द्रष्टैव सम्भवत्येको न तु दृश्यमिहास्ति हि ।

द्रष्टा सर्वात्मको दृश्यं स्थितश्चेत्केव दृश्यता ॥ ४,१८.३२ ॥

सम्भवतीति । तस्यैव विचारसहत्वादिति भावः । सर्वात्मकः द्रष्टा दृश्यं स्थितः दृश्यतया स्थितः । चेत्भवति । तदा दृश्यता का इव भवति । अवश्यं च स्वप्नन्यायेन द्रष्टुः दृश्यतयावस्थानमङ्गीकर्तव्यम् ॥ ४,१८.३२ ॥

 

 

 

ननु कथं द्रष्टा दृश्यत्वेन तिष्ठतीत्याशङ्क्य दृष्टान्तं कथयति

सर्वशक्तिमता राज्ञा यत्यत्सम्पाद्यते यथा ।

तत्तत्तथा भवत्याशु स एवोदेति तत्तया ॥ ४,१८.३३ ॥

यथा सर्वशक्तिमता सम्राट्त्वेन सर्वशक्तियुक्तेन । राज्ञा । यत्यत्वस्तु । यथा सम्पाद्यते सम्पादनक्रियाविषयतां नीयते । तत्तत्वस्तु । आशु तथा भवति सम्पद्यते । विचारे क्रियमाणे स एव राजा एव । तत्तया तत्तद्वस्तुरूपेण । उदेति स्फुरति । अयं भावः । यथा सर्वशक्तिमान् राजा स्वाव्यतिरिक्तज्ञानद्वारेण ज्ञानविवर्तभूतसम्पद्यमानवस्तुतया स्फुरति । तथा द्रष्टा स्वाव्यतिरिक्तदृशिक्रियाद्वारेण दृशिक्रियाविवर्तभूतदृश्यमानपदार्थतया स्फुरतीति ॥ ४,१८.३३ ॥

 

 

 

यथा मधुरसोल्लासः षण्डो भवति भासुरः ।

रसतामजहच्चैव फलपुष्पदलोन्नतः ॥ ४,१८.३४ ॥

चिदुल्लासस्तथा जीवो भूत्वा भवति देहकः ।

चिन्मात्रतां तामजहदेव दर्शनदृङ्मयः ॥ ४,१८.३५ ॥

दर्शनदृङ्मयः कर्मसाधनोऽयं दर्शनशब्दः । तेन दृश्यदृङ्मयः इत्यर्थः । युग्मम् ॥ ४,१८.३४३५ ॥

 

 

 

नानाषण्डसहस्रौघैरद्वितीयैर्निजात्मनः ।

यथोदेति रसो भौमश्चित्तथोदेत्यहम्भ्रमैः ॥ ४,१८.३६ ॥

भौमः भूमिसम्बन्धी ॥ ४,१८.३६ ॥

 

 

 

चिद्रसोल्लासवृक्षाणां कचतामात्मनात्मनि ।

दृश्यशाखाशताढ्यानामिह नान्तोऽवगम्यते ॥ ४,१८.३७ ॥

चिदेव रसः । तस्य यः उल्लासः । तस्य वृक्षाणां जगतामिति यावत् ॥ ४,१८.३७ ॥

 

 

 

षण्डः प्रत्येकमेवान्तर्यथा रसचमत्कृतिम् ।

स्वादयत्येवमेषा चित्पृथक्पश्यति संसृतीः ॥ ४,१८.३८ ॥

रसेन कृतामुच्छूनतारूपां चमत्कृतिं रसचमत्कृतिम् ॥ ४,१८.३८ ॥

 

 

 

या योदेति यथा यस्या जीवशक्तेः स्वसंसृतिः ।

तां तां तथैति सा स्वान्तश्चिद्भूतभुवनस्थितिम् ॥ ४,१८.३९ ॥

उदेति स्फुरति । चित्चित्स्वरूपा । सा जीवशक्तिः । स्वान्तः स्वमध्ये । तां तां भूतभुवनस्थितिम् । भूतानां तदाधारभूतानाम् । भुवनानां च संस्थितिं संस्थाम् । एति प्राप्नोति ॥ ४,१८.३९ ॥

 

 

 

जीवसंसृतयः काश्चित्प्रमिलन्ति परस्परम् ।

स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः ॥ ४,१८.४० ॥

काश्चित्शुद्धमतियुक्ताः । चिरकालतः देहपातानन्तरम् ॥ ४,१८.४० ॥

 

 

 

सूक्ष्मया परया दृष्ट्या स्वं पश्यस्यनया तथा ।

जगज्जालसहस्राणि परमाण्वन्तरेष्वपि ॥ ४,१८.४१ ॥

त्वम् । स्वं चिन्मात्राख्यं स्वात्मानम् । अनया अस्मिन् प्रकरणे प्रोक्तया । परया उत्कृष्टया । सूक्ष्मया सूक्ष्मवस्तुविषयत्वेन सूक्ष्मरूपया । दृष्ट्या सम्यग्ज्ञानेन । पश्यसि अनुभवसि । तथाशब्दः समुच्चये । तथा परमाण्वन्तरेष्वपि जगज्जालसहस्राणि पश्यसि । अपिशब्दः परमाण्वन्तरेषु जगज्जालसहस्रदर्शनासम्भवद्योतकः ॥ ४,१८.४१ ॥

 

 

 

भित्तौ नभसि पाषाणे ज्वालायामनिले जले ।

सन्ति संसारलक्ष्याणि तिले तैलमिवाखिले ॥ ४,१८.४२ ॥

जगद्बीजभूतचिन्मात्रसारत्वेनेति भावः ॥ ४,१८.४२ ॥

 

 

 

शुद्धमेति यदा चेतस्तदा जीवो भवेच्चितिः ।

शुद्धा च सा सर्वगता तेन सम्मेलनं मिथः ॥ ४,१८.४३ ॥

सा चित् । तेन श्ंोट्_४,१८.उद्धत्वेन ॥

 

 

 

४३॥

सर्वेषां पद्मजादीनां स्वसत्ताभ्रमपूरकः ।

जगद्दीर्घमहास्वप्नः स्वयमन्तः समुत्थितः ॥ ४,१८.४४ ॥

स्वसत्ताभ्रमपूरकः स्वसत्ताभ्रमकारीत्यर्थः ॥ ४,१८.४४ ॥

 

 

 

स्वप्नात्स्वप्नान्तरं यान्ति काश्चिद्भूतपरम्पराः ।

तेनोपलम्भः कुड्यादावासां दृढतरः स्थितः ॥ ४,१८.४५ ॥

काश्चिद्भूतपरम्पराः भूतपङ्क्तयः । स्वप्नातेकस्मात्संसृतिरूपात्स्वप्नात् । स्वप्नान्तरमन्यसंसृतिरूपं स्वप्नम् । यान्ति । तेन ततः हेतोः । आसां स्वप्नात्स्वप्नान्तरं गतानां भूतपङ्क्तीनाम् । कुड्यादौ दृढतरः उपलम्भः स्थितः अस्ति । इदं कुड्यमित्यादिरूपं ज्ञानमस्ति ॥ ४,१८.४५ ॥

 

 

 

यद्यत्र चिद्भावयति तत्तत्राशु भवत्यलम् ।

तया स्वप्नेऽपि यद्दृष्टं तत्काले सत्यमेव तत् ॥ ४,१८.४६ ॥

तया चिता ॥ ४,१८.४६ ॥

 

 

 

चिदणोरन्तरे सन्ति समस्तानुभवाणवः ।

यथा बीजान्तरे पत्त्रलतापुष्पफलाणवः ॥ ४,१८.४७ ॥

समस्ताः समस्तघटपटाद्याकाराः । अनुभवाणवः अनुभवलेशाः ॥ ४,१८.४७ ॥

 

 

 

परमाणुं जगदन्तर्धत्ते चित्परमाणुकः ।

लीनमाकाशमाकाशे द्वैतैक्यभ्रममुत्सृज ॥ ४,१८.४८ ॥

चित्परमाणुकः चिद्रूपः परमाणुः । जगत्परमाणुं जगद्रूपं परमाणुम् । अन्तः स्वात्मभित्तौ । धत्ते धारयति । फलितमाह लीनमिति । अतः आकाशं जगदाख्यमाकाशम् । आकाशे चिदाख्य आकाशे । लीनं भवति । एतस्य फलं कथयति द्वैतैक्यमिति । अतः त्वं द्वैतैक्यभ्रममुत्सृज त्यज । एकतयापि वक्तुमशक्यस्य केवलस्य चिन्मात्रस्य स्थितत्वात् ॥ ४,१८.४८ ॥

 

 

 

देशकालक्रियाद्याख्यैः स्वैरेवाणुभिरेव चित् ।

अणूननुभवत्यन्तरितराणोरसम्भवात् ॥ ४,१८.४९ ॥

स्वैरेव स्वरूपभूतैरेव । अणून्नानाभूतरूपानणून् । अन्तः स्वस्मिन् । इतराणोः देशादिरूपस्य चिद्व्यतिरिक्तस्याणोः ॥ ४,१८.४९ ॥

 

 

 

स्वयं सर्वस्य कचितः स्वच्छश्चिदणुषण्डकः ।

ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः ॥ ४,१८.५० ॥

देहदृष्ट्या अनुभावितः अनुभवविषयतां नीतः । कीटनिष्ठस्य कीटावसानस्य । अनुभावित इत्यत्र स्वार्थे णिचार्षः ॥ ४,१८.५० ॥

 

 

 

कचितं किञ्चिदेवेह वस्तुतस्तु न किञ्चन ।

स्वयं स्वत्वं स्वादयन्ते द्वैतं चित्परमाणवः ॥ ४,१८.५१ ॥

पुनः किमेतत्स्फुरतीत्य् । अत्राह स्वयमिति । चित्परमाणवः चिल्लेशाः । द्वैतं घटपटादिरूपद्वैतस्वरूपम् । स्वत्वं स्वभावम् । स्वादयन्ते चमत्कारविषयतां नयन्ति ॥ ४,१८.५१ ॥

 

 

 

स्वयं प्रकचति स्फारदेहश्चिदणुषण्डकः ।

नेत्रादिकुसुमद्वारैः संविदामोदमुद्गिरन् ॥ ४,१८.५२ ॥

स्फारदेहः स्फारस्वरूपः । संविदामोदं घटपटादिज्ञानरूपमामोदम् ॥ ४,१८.५२ ॥

 

 

 

सम्पश्यतीतरान् कश्चिद्बहीरूपेण चिद्घनान् ।

सर्वगत्वादनाशत्वाद्दृश्यबीजस्य वै चितेः ॥ ४,१८.५३ ॥

कश्चित्पुरुषः । जाग्रदवस्थाविष्ट इति यावत् । चितेः दृश्यबीजस्य चिदाख्यस्य दृश्यबीजस्य । सर्वगत्वात्तथा अनाशत्वात् । चिद्घनान् चित्स्वरूपत्वेन चिद्भरितान् । इतरान् स्वतो भिन्नत्वेन भातान् पदार्थान् । बहीरूपेण पश्यति बाह्या एते इति अनुभवति ॥ ४,१८.५३ ॥

 

 

 

अन्तरेवाखिलं कश्चित्पश्यत्यविकलं जगत् ।

तत्रातिकालं कलनादुन्मज्जति निमज्जति ॥ ४,१८.५४ ॥

कश्चित्स्वप्नावस्थाविष्ट इति यावत् । अन्तरेव स्वस्मिन्नेव । न तु बाह्ये ॥ ४,१८.५४ ॥

 

 

 

स्वप्नात्स्वप्नान्तरं तत्र तथा पश्यन् पुनः पुनः ।

मिथ्यावटेषु लुठितः शिलेव शिखरच्युता ॥ ४,१८.५५ ॥

कश्चित्किं कुर्वन् । स्वप्नात्स्वप्नान्तरं पुनः पुनः पश्यनिति पूर्वेणैव सम्बन्धः । कश्चित्कथम्भूतः । मिथ्या व्यर्थम् । अवटेषु भावाभावाख्येष्ववटेषु । लुठितः । का इव । शिखरच्युता शिला इव ॥ ४,१८.५५ ॥

 

 

 

केचित्सम्मीलिताः केचिदात्मन्येव भ्रमे स्थिताः ।

मग्नाः स्वसंविद्रसतः स्फुरन्तो देहिषण्डकाः ॥ ४,१८.५६ ॥

केचित्सुषुप्त्यवस्थाविष्टाः । सम्मीलिताः निद्राग्रस्ताः । आत्मनि अज्ञानवलिते स्वात्मनि । देहिषण्डकाः जीवसमूहाः ॥ ४,१८.५६ ॥

 

 

 

तुर्यावस्थाविष्टान् कथयति

स्वयमन्तः प्रपश्यन्ति ये जगज्जीवसम्भ्रमम् ।

तैः कैश्चित्तत्तथा दृश्यमसत्स्वप्नवदाश्रितम् ॥ ४,१८.५७ ॥

ये जीवन्मुक्ताः जीवाः । जगज्जीवसम्भ्रमं जगदाख्यं जीवसम्भ्रमम् । अन्तः मनसि । पश्यन्ति । न तु बहिः । तैः कैश्चित्तत्दृश्यं तथा आश्रितमन्तस्त्वेनैवाश्रितम् । कथम् । असत्स्वप्नवत् । तुर्यावस्थाविष्टा जीवन्मुक्ता हि बाह्यमपि जगत्स्वप्नवदन्तःस्थमेवानुभवन्ति भ्रमस्वरूपत्वदर्शनात् ॥ ४,१८.५७ ॥

 

 

 

सर्वात्मत्वात्स्वभावस्य तद्दृश्यं सत्यमात्मनि ।

सर्वगो विद्यते यत्र तत्र सर्वमुदेति हि ॥ ४,१८.५८ ॥

तत्दृश्यमात्मनि स्वस्मिन् स्वरूपे । सत्यं भवति । कुतः । स्वभावस्य चिन्मात्राख्यस्य स्वभावस्य । सर्वात्मत्वात्सर्वरूपेण वर्तमानत्वात् । अयं भावः । दृश्यं द्रष्ट्रपेक्षया सिद्धेन दृश्यत्वेनासत्यमपि सत् । सर्वरूपत्वावस्थितचिन्मात्रापरपर्यायस्वभावसारत्वेन स्वस्वरूपे सत्यमेवेति । ननु कथमेतदित्य् । अत्राह सर्वग इति । हि यस्मात् । सर्वगः सर्वव्यापकं स्वभावापरपर्यायं चिन्मात्रत्वम् । यत्र विद्यते । तत्र सर्वं दृश्यम् । उदेति प्रादुर्भवति । अतः स्वभावभूतचिन्मात्रवत्तत्सत्ताविनाभावि दृश्यमपि सत्यमेवेति भावः ॥ ४,१८.५८ ॥

 

 

 

जीवान्तः प्रतिभासस्य सर्गस्य पुनरन्तरे ।

जीवषण्ड उदेत्युच्चैस्तस्यान्तरितरोऽपि च ॥ ४,१८.५९ ॥

स्पष्टम् ॥ ४,१८.५९ ॥

 

 

 

जीवान्तर्जायते जीवस्तस्यान्तरपि जीवकः ।

सर्वत्र रम्भादलवज्जीवबीजं प्रजीवति ॥ ४,१८.६० ॥

प्रजीवति प्रकृष्टायाः जीवनक्रियायाः कर्तृत्वं भजति ॥ ४,१८.६० ॥

 

 

 

दृश्यबुद्धिपरावृद्धि सममेतदनन्तकम् ।

हेम्नीव कटकादित्वं परिज्ञप्त्यैव नश्यति ॥ ४,१८.६१ ॥

अनन्तकमन्तरहितत्वेन भासमानम् । एतत्दृश्यम् । परिज्ञप्त्यैव चिन्मात्रमेवेदमिति ज्ञानेनैव । न त्वन्येन केनापि हेतुना । समं युगपत् । न तु क्रमेण । नश्यति अदर्शनं याति । चिन्मात्ररूपत्वेनानुभूयमानत्वसिद्धेरित्यर्थः । एतत्कथम्भूतम् । दृश्यबुद्ध्या दृश्यमिदमिति बुद्ध्या । परा उत्कृष्टा । आ समन्तात् । वृद्धिः यस्य । तत् । एतत्किमिव । कटकादित्वमिव । यथा हेम्नि स्थितं कटकादित्वं परिज्ञप्त्या हेमैवेदमिति ज्ञानेन नश्यति । तथेत्यर्थः ॥ ४,१८.६१ ॥

 

 

 

विचारो यस्य नोदेति कोऽहं किमिदमित्यलम् ।

तस्याद्यन्ताविमुक्तोऽसौ दीर्घो जीवज्वरभ्रमः ॥ ४,१८.६२ ॥

आद्यन्ताविमुक्तः अविच्छिन्नप्रवाहः । जीवोऽहमिति ज्वररूपः भ्रमः जीवज्वरभ्रमः ॥ ४,१८.६२ ॥

 

 

 

विचारः फलितस्तस्य विज्ञेयो यस्य सन्मतेः ।

दिनानुदिनमायाति तानवं भोगगृध्नुता ॥ ४,१८.६३ ॥

विज्ञेय इत्य् । अत्र पण्डितैरिति शेषः । भोगगृध्नुता भोगाकाङ्क्षा ॥ ४,१८.६३ ॥

 

 

 

यथा देहोपयुक्तं हि करोत्यारोग्यमौषधम् ।

तथेन्द्रियजये न्यस्तो विवेकः फलितो भवेत् ॥ ४,१८.६४ ॥

देहोपयुक्तं देहे प्रयुक्तम् । फलितः मोक्षाख्यव्यवहिते फलयुक्तः । इन्द्रियजयस्यैव मोक्षं प्रति साक्षादुपायत्वादिति भावः ॥ ४,१८.६४ ॥

 

 

 

विवेकोऽस्ति वचस्येव चित्रेऽग्निरिव भास्वरः ।

यस्य तेन परित्यक्ता दुःखायैव विवेकिता ॥ ४,१८.६५ ॥

यस्येत्यस्य पूर्वार्धेन सम्बन्धः । परित्यक्तेति चित्ताभिप्रायेणोक्तम् ॥ ४,१८.६५ ॥

 

 

 

यथा स्पर्शेन पवनः सत्तामायाति नो गिरा ।

तथेच्छातानवेनैव विवेकोऽस्येति बुध्यते ॥ ४,१८.६६ ॥

स्पष्टम् ॥ ४,१८.६६ ॥

 

 

 

चित्रामृतं नामृतमेव विद्धि

चित्रानलं नानलमेव विद्धि ।

चित्रेऽङ्गना नूनमनङ्गनैव

वाचा विवेकस्त्वविवेक एव ॥ ४,१८.६७ ॥

यथा चित्रस्थस्यामृतादेः तृप्त्याद्यर्थक्रियाकारित्वाभावातनमृतादिरूपत्वमेव । तथा केवलं वाचैव कथ्यमानस्य । अत एव इन्द्रियजयासाधकस्य विवेकस्य मोक्षाख्यार्थक्रियाकारित्वाभावादविवेकत्वमेवेति भावः ॥ ४,१८.६७ ॥

 

 

 

पुनः कीदृक्पुरुषो विवेकी अस्त्य् । अत्र सर्गान्तश्लोकेनाह

पूर्वं विवेकेन तनुत्वमेति

रागोऽथ वैरं च समूलमेव ।

पश्चात्परिक्षीयत एव यत्र

स पावनस्तत्र विवेकितास्ति ॥ ४,१८.६८ ॥

यत्र यस्मिन् पुरुषे । रागः अथ वैरं च द्वेषः । विवेकेन विचारेण । पूर्वं प्रथमम् । तनुत्वं तानवम् । एति गच्छति । पश्चात्तनुत्वानन्तरम् । क्षीयते एव नश्यत्येव । सः पुरुषः । पावनः अस्ति । तत्र तस्मिन् पुरुषे । विवेकिता विचारयुक्तत्वम् । अस्ति । न तु वाक्यमात्रेण सदसन्निर्णायके इत्यर्थः । इति शिवम् ॥ ४,१८.६८ ॥

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्सोपायटीकायां स्थितिप्रकरणेऽष्टादशः सर्गः ॥१८॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १८