मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १७

From HinduismPedia
Jump to navigation Jump to search


Template:मोक्षोपायटीका/स्थितिप्रकरणम् <poem> ओम् । श्रीरामः पृच्छति

भगवन् भृगुपुत्रस्य प्रतिभा सानुभूतितः ।

यथास्य सफला जाता तथान्यस्य न किं भवेत् ॥ ४,१७.१ ॥

हे भगवन् । अस्य समनन्तरोक्तेन वृत्तान्तेन वर्णितस्य । भृगुपुत्रस्य । सा प्रतिभा तत्नानायोनिगमनरूपं प्रतिभानम् । अनुभूतितः अनुभवाथेतोः । सफला अर्थक्रियाख्यफलयुक्ता । जाता । अन्यथा हि भृगुसम्बन्धी स्वसम्बन्धी वा समङ्गातापसविषयोऽनुभवः न युक्तः स्यातिति भावः । तथा तद्वत् । अन्यस्य शुक्रव्यतिरिक्तस्य पुरुषस्य । सा प्रतिभा सफला किं कथम् । न भवेत् । न हि स्वप्ने प्रतिभातं स्वस्मिन् गजादित्वं प्रत्यक्षमनुभूयते ॥ ४,१७.१ ॥




श्रीवसिष्ठोऽत्रोत्तरं कथयति

इदम्प्रथममुत्पन्ना सा तदा ब्रह्मणः पदात् ।

शुद्धा मतिर्भार्गवस्य नान्यजन्मकलङ्किता ॥ ४,१७.२ ॥

इदम्प्रथमं तत्पूर्वम् । यतः भार्गवस्य शुक्रस्य । ब्रह्मणः पदात्सद्यः उत्थितत्वात् । सा नानायोनिप्रतिभानविषया । बुद्धिः । शुद्धा पूर्वजन्मवासनानिचयाकलुषिता । आसीत् । ततः तस्य सा नानायोनिगमनरूपा प्रतिभा सफला जाता । अन्ये तु पूर्वतममुत्पन्नत्वात्मध्ये नानाजन्मान्तरोत्थवासनाजालकलङ्किताः सन्तः न स्वप्रतिभानं प्रत्यक्षमनुभवन्तीति भावः ॥ ४,१७.२ ॥




नन्वस्याः शुद्धायाः मतेः स्वरूपं कीदृगस्तीत्य् । अत्राह सर्वैषणानामिति ।

सर्वैषणानां संशान्तौ शुद्धा चित्तस्य या स्थितिः ।

तत्सत्त्वमुच्यते सैषा विमला चिदुदाहृता ॥ ४,१७.३ ॥

सर्वैषणानां नानाभोग्यजालविषयाणां समस्तानामिच्छानाम् । शान्तौ सुषुप्त्यादिप्रभावेन सम्यग्ज्ञानादिना वा शमने सति । चित्तस्य मनसः । या स्थितिः यतवस्थानम् । अस्ति । पण्डितैः तत्सत्त्वमुच्यते । सा एव विमला चित्विमला मतिः । उदाहृता । किं च इयमेव शुद्धा मतिः इदम्प्रथममुत्पन्नस्य च भवति जीवन्मुक्तस्य च भवति । इदम्प्रथममुत्पन्नस्य बाह्योन्मुखा । जीवन्मुक्तस्य तु त्यज्यमानबाह्येति विशेषः ॥ ४,१७.३ ॥




विशेषणेनोक्त्वा सामान्येन कथयति

मनो निर्मलसत्त्वात्म यद्भावयति यादृशम् ।

तत्तथाशु भवत्येव यथावर्तोऽर्णवेऽम्भसः ॥ ४,१७.४ ॥

निर्मलसत्त्वात्म पूर्वश्लोकोक्तनिर्मलसत्त्वस्वरूपम् । मनः । यत्यादृशं येन प्रकारेण युक्तम् । भावयति अनुसन्धानविषयतां नयति । तत्वस्तु । आशु तथा तेन प्रकारेण युक्तम् । भवति । तत्वस्तु क इव । आवर्तः इव । यथा अर्णवे स्थितः अम्भसः आवर्तः सद्यः अन्यप्रकारयुक्तो भवति । तथेत्यर्थः ॥ ४,१७.४ ॥




अनेन वृत्तान्तेन सिद्धं स्वमनीषितं कथयति

यथा भृगुसुतस्यैष विभ्रमः प्रोदितः स्वयम् ।

प्रत्येकमप्येवमेव दृष्टान्तोऽत्र भृगोः सुतः ॥ ४,१७.५ ॥

यथा भृगुसुतस्य एषः समनन्तरोक्तः । विभ्रमः नानायोनिप्रतिभासरूपो विभ्रमः । स्वयं स्वभावेन । प्रोदितः प्रादुर्भूतः । एवमेव तथैव । प्रत्येकं प्रतिपुरुषम् । उदेति । सर्वे एव स्वमनःप्रतिभासरूपमेव जगत्पश्यन्तीति भावः । अस्यार्थस्य दृढीकरणार्थं पुनरपि शुक्रस्य दृष्टान्तत्वं कथयति दृष्टान्तोऽत्रेति ॥ ४,१७.५ ॥




एतदेव नानादृष्टान्तैः सुगमं करोति

बीजस्याङ्कुरपत्त्रादि स्वं चमत्कुरुते यथा ।

सर्वेषां भूतसङ्घानां भ्रमषण्डस्तथैव हि ॥ ४,१७.६ ॥

यथा बीजस्य स्वं न त्वन्यबीजसाधारणम् । अङ्कुरपत्त्रादि । चमत्कुरुते उच्छूनतारूपमानन्दं करोति । हि निश्चये । सर्वेषां भूतसङ्घानां भूतसमूहानाम् । स्वः अनन्यसाधारणः भ्रमषण्डः जगद्रूपः भ्रमषण्डः । तथैव चमत्कुरुते नानास्वादसौख्यं करोति । साधारणत्वेन भासमानोऽप्ययं संसारः प्रत्येकं भिन्न एवेति भावः ॥ ४,१७.६ ॥




यदिदं दृश्यते विश्वमेवमेवाखिलं हि तत् ।

प्रत्येकमुदितं मिथ्या मिथ्यैवास्तमुपैति च ॥ ४,१७.७ ॥

अस्माभिः यदिदं विश्वं संसारः । दृश्यते अनुभूयते । हि निश्चये । एवमेवानेन प्रकारेण । स्थितमेव तत् । अखिलं विश्वम् । मिथ्या प्रत्येकमुदितमुदेति । वर्तमाने क्तः । मिथ्या एवास्तमुपैति च परचित्स्वरूपत्वेन सर्वदैव तथैव स्थितत्वात् । सत्यभूतोदयास्तमयविषयत्वायोगादिति भावः ॥ ४,१७.७ ॥




नास्तमेति न चोदेति जगत्किञ्चन कस्यचित् ।

भ्रान्तिमात्रमिदं माया मुधैव परिजृम्भते ॥ ४,१७.८ ॥

इदं जगत् । माया मायारूपम् ॥ ४,१७.८ ॥




यथास्मत्प्रतिभासस्थः सोऽयं संसारषण्डकः ।

तथा तेषां सहस्राणि मिथोऽदृष्टानि सन्ति हि ॥ ४,१७.९ ॥

यथा अस्मत्प्रतिभासस्थः सः अयं सर्वेन्द्रियातीतचिन्मात्ररूपत्वेनेन्द्रियातीतोऽपि सनिदन्तया स्फुरितः संसारषण्डः अस्ति । तथा तेषां संसारषण्डानाम् । सहस्राणि सन्ति । ननु कथं तानि न दृश्यन्ते इत्यपेक्षायां विशेषणमाह मिथोऽदृष्टानीति । मिथः अन्योऽन्यम् । अदृष्टानि दर्शनविषयतां न नीतानि ॥ ४,१७.९ ॥




मिथोऽदर्शनदृष्टान्तं कथयति

स्वप्नसङ्कल्पनगरव्यवहाराः परस्परम् ।

पृथग्यथा न दृश्यन्ते तथैते संसृतिभ्रमाः ॥ ४,१७.१० ॥

यथा अन्यस्य स्वप्नादि अन्यो नानुभवति तथान्यस्य संसारमन्यो नानुभवतीति पिण्डार्थः । ननु कथं सर्गानां प्रतिपुरुषं भेदः इति चेत् । न । एकस्मिन्नेव वस्तुनि पुरुषभेदेन हेयत्वोपादेयत्वदर्शनात् ॥ ४,१७.१० ॥




उपसंहारं करोति

एवं नगरवृन्दानि नभःसङ्कल्परूपिणाम् ।

सन्ति तानि न दृश्यन्ते मिथो ज्ञानदृशं विना ॥ ४,१७.११ ॥

एवं सति । नभसि यः सङ्कल्पः पुरादिसङ्कल्पः । तद्वत्रूपं येषाम् । तादृशानां नगराणां वृन्दानि समूहाः । सन्ति । समासे उपसर्जनीभूतस्य नगरपदस्य विशेषणदानमार्षम् । तैः नगरवृन्दैः तानि नगरवृन्दानि । ज्ञानदृशं विना चिन्मात्रज्ञानाख्यां दृष्टिं विना । मिथः अन्योऽन्यम् । न दृश्यन्ते नानुभूयन्ते । ज्ञानदृशा तु दृश्यन्ते एव । अत एवाहं तान् पश्यामि त्वं न पश्यसीति भावः ॥ ४,१७.११ ॥




सर्वप्रसिद्धानां पिशाचादीनामप्येतद्रूपत्वं कथयति

पिशाचयक्षरक्षांसि सन्त्येवंरूपकाणि हि ।

सङ्कल्पमात्रदेहानि सुखदुःखमयानि च ॥ ४,१७.१२ ॥

स्पष्टम् ॥ ४,१७.१२ ॥




स्वस्मिन्नप्येतद्रूपत्वमेवातिदिशति

एवमेव वयं चेमे सम्पन्ना रघुनन्दन ।

स्वसङ्कल्पात्मकाकारा मिथ्यासत्यत्वभाविताः ॥ ४,१७.१३ ॥

मिथ्यासत्यत्वे स्वसत्यतायाम् । भाविताः भावनायुक्ताः ॥ ४,१७.१३ ॥




एवं स्तोकं विशेषेणोक्त्वा पुनरपि सामान्येन कथयति

एवंरूपैव हि परे वर्तते सर्गसंसृतिः ।

न वास्तवी वस्तुतस्तु संस्थितेयमवस्तुनि ॥ ४,१७.१४ ॥

एवंरूपा प्रतिभासरूपा । परे उत्तीर्णे चिन्मात्रे । सर्गेति नामधेया संसृतिः सर्गसंसृतिः । न वास्तवी असत्यरूपा । तु पक्षान्तरे । वस्तुतः परमार्थतः । इयं सर्गसंसृतिः । अवस्तुनि शून्ये । स्थिता भवति । वस्तुत्वेन स्थिते चिन्मात्रे अवस्तुभूतसर्गाधारत्वायोगात् ॥ ४,१७.१४ ॥




पूर्वोक्तन्यायेन सिद्धस्य स्वाभीष्टस्योपसंहारं करोति

प्रत्येकमुदितं विश्वमेवमेव मुधैव हि ।

नवगुल्मकरूपेण वासन्तिकरसो यथा ॥ ४,१७.१५ ॥

एवं पूर्वोक्तप्रकारेण । वासन्तिकरसः वसन्तसम्बन्धी रसः ॥ ४,१७.१५ ॥




प्रथमोऽयं स्वसङ्कल्पः सुप्रथामागतस्तथा ।

यथातिपारमार्थ्येन दृढेनेत्थं विभाव्यते ॥ ४,१७.१६ ॥

अयं प्रथमः ब्रह्मणः तत्पूर्वत्वेनोत्थितः । स्वसङ्कल्प एव । तथा तेन प्रकारेण । सुप्रथामतिरूढिम् । गतः । यथा इत्थमनेन प्रकारेण । दृढेनाविचलता । अतिपारमार्थ्येनातिपरमार्थभावेन । विभाव्यते निश्चीयते । जनैरिति शेषः ॥ ४,१७.१६ ॥




प्रत्येकमुदितं चित्तं स्वस्वभावोदरस्थितम् ।

इदमित्थंसमारम्भं जगत्पश्यद्विनश्यति ॥ ४,१७.१७ ॥

स्वः आत्मीयः । स्वभावः चिन्मात्राख्यं स्वरूपम् । तस्योदरे उदर इवोदरे । न तु साक्षादुदरे । स्थितं वर्तमानम् । प्रत्येकमेकस्मिनेकस्मिन् प्रत्येकम् । उदितमुत्पन्नम् । चित्तम् । इत्थंसमारम्भं दृश्यमानारम्भयुक्तम् । इदं जगत्पश्यतनुभवत् । विनश्यति स्वरूपपरामर्शात्भ्रश्यतीत्यर्थः ॥ ४,१७.१७ ॥




प्रतिभासवशादस्ति नास्ति वस्त्ववलोकनात् ।

दीर्घः स्वप्नो जगज्जालमालानं चित्तदन्तिनः ॥ ४,१७.१८ ॥

प्रतिभासवशात् । न हि असतः प्रतिभासः युक्त इति भावः । वस्त्ववलोकनात्परमार्थावलोकनात् । न हि सम्यग्ज्ञानेन जगत्तिष्ठति । जगज्जालं कः । दीर्घः स्वप्नः ॥ ४,१७.१८ ॥




चित्तसत्तैव हि जगज्जगत्सत्तैव चित्तकम् ।

एकाभावे द्वयोर्नाशस्तच्च सत्यविचारणात् ॥ ४,१७.१९ ॥

ततेकाभावः । सत्यविचारणात्सत्यविचारात् ॥ ४,१७.१९ ॥




श्रीरामकृतस्य प्रश्नस्योत्तरमनुस्मरति

शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः ।

निष्कलङ्के हि लगति पटे कुङ्कुमरञ्जना ॥ ४,१७.२० ॥

अत्र दृष्टान्तमाह निष्कलङ्क इति । निष्कलङ्के मलरहिते ॥ ४,१७.२० ॥




अन्येनानाहृतस्यान्यो गुणोऽवश्यं विवर्धते ।

अनाक्रान्तस्य सङ्कल्पैः प्रतिभोदेति चेतसः ॥ ४,१७.२१ ॥

अनाहृतस्य अनाक्रान्तस्य । दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति अनाक्रान्तस्येति । प्रतिभा प्रतिभासः । उदेति सफलत्वेन प्रादुर्भवति ॥ ४,१७.२१ ॥




सुवर्णो न स्थितिं याति मलवत्यंशुके यथा ।

एका दृष्टिः स्थितिं याति न म्लाने चित्तके तथा ॥ ४,१७.२२ ॥

सुवर्णः शोभनः शुक्लादिवर्णः । म्लाने सङ्कल्परूषिते ॥ ४,१७.२२ ॥




प्रमार्जनादिव मणेस्ताम्रस्येव च युक्तितः ।

चिरमेकदृढाभ्यासाच्छुद्धिर्भवति चेतसः ॥ ४,१७.२३ ॥

एकस्मिन् सम्यग्ज्ञानादौ । यः दृढाभ्यासः नैरन्तर्येण तच्चिन्तनम् । तस्मात् ॥ ४,१७.२३ ॥




श्रीरामः पृच्छति

प्रतिभासात्मनि जगत्येते कालक्रियाक्रमाः ।

सोदयास्तमया जाताः कथं शुक्रस्य चेतसः ॥ ४,१७.२४ ॥

प्रतिभासात्मनि जगति स्फुरितानां कालक्रियाक्रमाणां सोदयास्तमयत्वं न युक्तम् । तच्च शुक्रचेतसः कथं जातमिति भावः ॥ ४,१७.२४ ॥




श्रीवसिष्ठः उत्तरमाह

यादृग्जगदिदं दृष्टं शुक्रेण पितृमातृतः ।

तादृक्तस्य स्थितं चित्ते मयूराण्डे मयूरवत् ॥ ४,१७.२५ ॥

पितृमातृतः उत्पन्नेन शुक्रेण यादृकिदं जगत्दृष्टम् । तत्तस्य शुक्रस्य । चित्ते तादृक्स्थितमासीत् । कथम् । मयूरवत् । यथा मयूराण्डे मयूरः अस्ति । तथेत्यर्थः ॥ ४,१७.२५ ॥




स्वभावकोशात्स्वदितं तदनेन क्रमोदितम् ।

बीजेनाङ्कुरपत्त्रादिलतापुष्पफलं यथा ॥ ४,१७.२६ ॥

ततः अनेन शुक्रेण । तत्चित्तस्थं जगत् । स्वभावकोशात्चित्तरूपः यः स्वभावः । तद्रूपात्कोशात् । क्रमोदितं सत्स्वदितमास्वादविषयीकृतम् । अत्र दृष्टान्तमाह बीजेनेति ॥ ४,१७.२६ ॥




जीवो यद्वासनासारस्तदेवान्तः प्रपश्यति ।

स्वप्न एवात्र दृष्टान्तो दीर्घस्वप्नस्त्विदं जगत् ॥ ४,१७.२७ ॥

ननु कथमत्र स्वप्नः दृष्टान्तः अस्तीत्य् । अत्राह दीर्घस्वप्न एवेति । दीर्घत्वं चात्र चिरप्रतिभासवशाज्ज्ञेयम् ॥ ४,१७.२७ ॥




प्रत्येकमुदितो राम ननु संसारषण्डकः ।

रात्रौ सैन्यनरस्वप्नजालवत्स्वात्मनि स्फुटः ॥ ४,१७.२८ ॥

रात्रौ हि सैन्यनरस्वरूपं स्वप्नजालं प्रत्येकं पृथग् । उदेति ॥ ४,१७.२८ ॥




श्रीरामः पृच्छति

एष संसृतिषण्डौघो मिथः सम्मिलति स्वयम् ।

नो वापि यदि तन्मे त्वं यथावद्वक्तुमर्हसि ॥ ४,१७.२९ ॥

एषः संसृतिषण्डौघः स्वयं स्वभावेन । मिथः अन्योऽन्यम् । यदि मिलति यदि वा नो मिलति अपि । त्वमेतत्यथावत्सम्यक् । वक्तुमर्हसि सम्यक्कथयेति यावत् ॥ ४,१७.२९ ॥




श्रीवसिष्ठ उत्तरमाह

मलिनं हि मनोऽवीर्यं न मिथः श्लेषमर्हति ।

अयोऽयसीवासन्तप्ते शुद्धे तप्ते तु लीयते ॥ ४,१७.३० ॥

हि निश्चये । मलिनं रागादिमलदूषितम् । अत एवावीर्यम् । मनः मिथः अन्योऽन्यम् । श्लेषं मेलनम् । नार्हति । किमिव । अय इव । यथायः असन्तप्ते अयसि श्लेषं नार्हति । तथेत्यर्थः । तु पक्षान्तरे । मनः । शुद्धे मनसि । लीयते मिलति । अयश्च सन्तप्तेऽयसि लीयते ॥ ४,१७.३० ॥




चित्ततत्त्वानि शुद्धानि सम्मिलन्ति परस्परम् ।

एकरूपाणि तोयानि यान्त्यैक्यं नाबिलानि हि ॥ ४,१७.३१ ॥

स्पष्टम् ॥ ४,१७.३१ ॥




सर्गान्तश्लोकेनाप्येतदेव कथयति

शुद्धिर्हि चित्तस्य विवासनत्वम्

अभूतसंवेदनरूपमेकम् ।

तस्याः सुषुप्तात्मपदात्प्रबुध्य

तन्मात्रयुक्त्या परसङ्गमेति ॥ ४,१७.३२ ॥

हि निश्चये । अभूतसंवेदनात्म असिद्धपदार्थसंवेदनस्वरूपम् । विवासनत्वं पदार्थविषयभावनाख्यसंस्कारराहित्यम् । एकं केवलम् । चित्तस्य शुद्धिः भवति । तत्चित्तम् । सुषुप्तात्म सुषुप्तस्वरूपम् । यत्पदं स्थानम् । तस्मात् । तस्याः शुद्धेः हेतोः । प्रबुध्य तुर्याख्यं बोधं प्राप्य । तन्मात्रयुक्त्या सूक्ष्मभूतयोगेन । परसङ्गमन्यैः सह श्लेषम् । एति गच्छति । तन्मात्रयुक्त्या मेलनं च स्वेन सह सर्वस्यैकोपादानत्वज्ञानमेव ज्ञेयम् । इति शिवम् ॥ ४,१७.३२ ॥





इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे सप्तादशः सर्गः ॥१७॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १७