मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ११

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



अद्योद्दामतरङ्गौघझाङ्काररणितानिले ।

तीरे वरतरङ्गिण्याः तपस्तपति ते सुतः ॥ ४,११.१ ॥

वरतरङ्गिण्याः समङ्गायाः । तपति चरति ॥ ४,११.१ ॥

 

 

 

जटावानक्षवलयी जितसर्वेन्द्रियभ्रमः ।

तत्र वर्षशतान्यष्टौ संस्थितस्तपसि स्थिरे ॥ ४,११.२ ॥

स्पष्टम् ॥ ४,११.२ ॥

 

 

 

यदीच्छसि मुने द्रष्टुं तं स्वपुत्रमनोभ्रमम् ।

तत्समुन्मील्य विज्ञाननेत्रमाशु विलोकय ॥ ४,११.३ ॥

स्वपुत्राकारं मनोभ्रमं स्वपुत्रमनोभ्रमम् । स्वपुत्रमिति यावत् ॥ ४,११.३ ॥

 

 

 

इत्युक्ते जगदीशेन कालेन समदृष्टिना ।

मुनिः सञ्चिन्तयामास ज्ञानाक्ष्णा तनयेहितम् ॥ ४,११.४ ॥

स्पष्टम् ॥ ४,११.४ ॥

 

 

 

ददर्श च मुहूर्तेन प्रतिभासवशादसौ ।

पुत्रोदन्तमशेषेण बुद्धिदर्पणबिम्बितम् ॥ ४,११.५ ॥

ददर्श ज्ञानदृष्ट्या दृष्टवान् ॥ ४,११.५ ॥

 

 

 

पुनर्मन्दरसानुस्थां काले कालाग्रसंस्थिताम् ।

समङ्गायास्तटादेत्य विवेश स्वतनुं भृगुः ॥ ४,११.६ ॥

काले स्वल्पकाले । कालाग्रसंस्थितां कालपुरोवर्तिनीम् ॥ ४,११.६ ॥

 

 

 

विस्मयस्मेरया दृष्ट्या कालमालोक्य कान्तया ।

वीतरागमुवाचेदं वीतरागो मुनिर्वचः ॥ ४,११.७ ॥

कालस्य समवर्तित्वात्वीतरागित्वम् ॥ ४,११.७ ॥

 

 

 

भृगुः कथयति

भगवन् भूतभव्येश बाला वयमनाबिला ।

त्वादृशामेव धीर्देव त्रिकालामलदर्शिनी ॥ ४,११.८ ॥

बालाः मूर्खाः । अनाविलेत्यस्य उत्तरार्धेन सम्बन्धः ॥ ४,११.८ ॥

 

 

 

नानाकारं विकाराढ्या सत्येवासत्यरूपिणी ।

विभ्रमं जनयत्येषा धीरस्यापि जगद्गतिः ॥ ४,११.९ ॥

जगद्गतिः जगद्रचना ॥ ४,११.९ ॥

 

 

 

त्वमेव देव जानासि त्वदभ्यन्तरवर्ति यत् ।

रूपमस्या मनोवृत्तेरिन्द्रजालविधायकम् ॥ ४,११.१० ॥

त्वदभ्यन्तरवर्ति त्वन्मध्यवर्ति ॥ ४,११.१० ॥

 

 

 

मत्पुत्रस्यास्य भगवन्मृत्युः किल न विद्यते ।

तेनेमं मृतमालोक्य जातः सम्भ्रमवानहम् ॥ ४,११.११ ॥

शुक्रस्य चिरजीवित्वात् ॥ ४,११.११ ॥

 

 

 

अक्षीणजीवितं पुत्रं कालो मे नीतवानिति ।

नियतेर्वशतो देव त्वच्छापेच्छा ममोदिता ॥ ४,११.१२ ॥

नियतेरिति । मम या त्वच्छापेच्छा जाता सापि नियतिरेव । अतो मम न कोऽपि दोष इति भावः ॥ ४,११.१२ ॥

 

 

 

न तु विज्ञातसंसारगतयो वयमापदम् ।

सम्पदं वापि गच्छामो हर्षामर्षवशं किल ॥ ४,११.१३ ॥

प्राप्येति शेषः । आपदं प्राप्य । सम्पदं वा प्राप्येति ॥ ४,११.१३ ॥

 

 

 

अयुक्तकारिणि क्रोधः प्रसादो युक्तकारिणि ।

कर्तव्य इति रूढेयं सांसारी भगवन् स्थितिः ॥ ४,११.१४ ॥

अतः त्वय्ययुक्तकारित्वमाशङ्क्य मया क्रोधः कृत इति भावः ॥ ४,११.१४ ॥

 

 

 

इदं कार्यमिदं नेति यावज्जीवं जगत्क्रमः ।

यावदग्निः स्थिता तावदौष्ण्यदाहादिदृष्टयः ॥ ४,११.१५ ॥

स्पष्टम् ॥ ४,११.१५ ॥

 

 

 

इदं कार्यमिदं नेति हेया यस्य जगत्स्थितिः ।

तस्यैतत्सम्परित्यागो हेय एव जगद्गुरो ॥ ४,११.१६ ॥

यस्य । इदं कार्यमिदं न कार्यम् । इति एवंरूपा । जगत्स्थितिः हेया भवति । तस्य तत्सम्परित्यागोऽपि हेय एव । तत्त्यागस्यापि जगत्स्थितिरूपत्वात् । अतो मया पूर्वस्थितिः न त्यक्तेति भावः ॥ ४,११.१६ ॥

 

 

 

केवलं तानयीं चिन्तामनालोक्य यदा वयम् ।

भगवन् भवते क्षुब्धा याताः स्मस्तेन वाच्यताम् ॥ ४,११.१७ ॥

तानयीं तनयसम्बन्धिनीम् । वाच्यतां त्वत्क्रोधकारित्वरूपनिन्दायोग्यताम् ॥ ४,११.१७ ॥

 

 

 

त्वयेदानीमहं देव स्मारितस्तनयेहितम् ।

समङ्गायास्तटे तेन दृष्टोऽयं तनयो मया ॥ ४,११.१८ ॥

स्पष्टम् ॥ ४,११.१८ ॥

 

 

 

मन्ये जगति भूतानां द्वे शरीरे न सर्वग ।

मन एव शरीरं हि येनेदं भाव्यते जगत् ॥ ४,११.१९ ॥

हे सर्वग । अहं मन्ये । इहलोके भूतानां द्वे शरीरे न भवतः । हि यस्मात् । मन एव शरीरं भवति । येन मनसा । इदं जगत्भाव्यते भावनया प्रकटीक्रियते ॥ ४,११.१९ ॥

 

 

 

काल आह

सम्यगुक्तं त्वया ब्रह्मञ्शरीरं मन एव नः ।

करोति देहं सङ्कल्प्य कुम्भकारो घटं यथा ॥ ४,११.२० ॥

स्पष्टम् ॥ ४,११.२० ॥

 

 

 

करोत्यकृतमाकारं कृतं नाशयति क्षणात् ।

सङ्कल्पेन मनो मोहाद्बालो वेतालकं यथा ॥ ४,११.२१ ॥

मोहातज्ञानात् ॥ ४,११.२१ ॥

 

 

 

तथा च सम्भ्रमे स्वप्नमिथ्याज्ञानादिभास्वराः ।

गन्धर्वनगराकारा दृष्टा मनसि शक्तयः ॥ ४,११.२२ ॥

स्पष्टम् ॥ ४,११.२२ ॥

 

 

 

स्थूलदृष्टिदृशं त्वेतामवलम्ब्य महामुने ।

पुंसो मनः शरीरं च कायौ द्वाविति कथ्यते ॥ ४,११.२३ ॥

स्थूलदृष्टिरूपा दृक्स्थूलदृष्टिदृक् । ताम् ॥ ४,११.२३ ॥

 

 

 

मनोमनननिर्माणमात्रमेतज्जगत्त्रयम् ।

न सन्नासदिव स्फारमुदितं नेतरन्मुने ॥ ४,११.२४ ॥

एतत्जगत् । मनसः यत्मननं मननाख्यो धर्मः । तन्मात्रमेव भवति । कथम्भूतम् । न सत्नासतनिर्वचनीयमित्यर्थः । पुनः कथम्भूतम् । स्फारमिवोदितं स्फुरणशीलमिव प्रादुर्भूतम् । परमार्थतस्तु नोदितमितीवशब्दोपादानम् । मात्रशब्दस्यार्थं स्वकण्ठेन कथयति नेतरदिति ॥ ४,११.२४ ॥

 

 

 

चित्तदेहाङ्गलतया भेदवासनयेद्धया ।

द्विचन्द्रत्वमिवाज्ञानान्नानातेयं समुत्थिता ॥ ४,११.२५ ॥

चित्ताख्यस्य देहस्याङ्गलतया अङ्गलतारूपया । भेदवासनया द्वैतवासनया । इद्धया पुष्टया सत्या । इयं जगद्रूपा । नानाता समुत्थिता प्रादुर्भूता । किमिव । द्विचन्द्रत्वमिव । यथा द्विचन्द्रत्वमज्ञानात्समुत्तिष्ठति । तथेत्यर्थः ॥ ४,११.२५ ॥

 

 

 

भेदवासनया बह्व्या पदार्थनिचयं मनः ।

भिन्नं पश्यति सर्वत्र घटावटपटादिकम् ॥ ४,११.२६ ॥

बह्व्या विस्तीर्णया । सर्वत्र सर्वेषु देशेषु कालेषु च ॥ ४,११.२६ ॥

 

 

 

कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः ।

भावयत्स्वविकल्पोत्था याति संसारतां मनः ॥ ४,११.२७ ॥

संसारतां संसारभावम् ॥ ४,११.२७ ॥

 

 

 

मननं कृत्रिमं रूपं ममैतन्न पताम्यहम् ।

इति तत्त्यागतः शान्तं चेतो ब्रह्म सनातनम् ॥ ४,११.२८ ॥

तत्त्यागतः मननत्यागतः । सनातनमनादि ॥ ४,११.२८ ॥

 

 

 

यथेत्यादिं निरामया इत्यन्तमेकं दृष्टान्तं विस्तरेण कथयति

यथा प्रविततेऽम्बोधौ ततेऽनेकतरङ्गिणि ।

सोम्यस्पन्दमयानेककल्लोलावलिशालिनि ॥ ४,११.२९ ॥

वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले ।

अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे ॥ ४,११.३० ॥

त्र्यश्रस्तरङ्गः स्वं रूपं भावयन् स स्वभावतः ।

त्र्यश्रोऽस्मीति विकल्पेन करोति स्वेन कल्पनाम् ॥ ४,११.३१ ॥

भ्रश्यंश्चैव परिभ्रष्टरूपोऽस्मीति तलातलम् ।

भावयन् भूतलं याति तादृग्भावनया तया ॥ ४,११.३२ ॥

उत्थितं च बलादूर्ध्वमुत्थितोऽस्मीति भावितः ।

तैस्तैर्विकल्पैस्तद्भावं विकल्पयति साभिधम् ॥ ४,११.३३ ॥

ससूर्यप्रतिबिम्बस्तु प्रकाशोऽस्मीति भावितः ।

सरजःपुञ्जपातस्तु मलिनोऽस्मीति भावितः ॥ ४,११.३४ ॥

सरत्नरश्मिजालस्तु शोभते दीप्तया श्रिया ।

तुषारभरविद्धस्तु शीतलोऽस्मीति विन्दति ॥ ४,११.३५ ॥

सतटाचलदावाग्निप्रतिबिम्बोज्ज्वलद्वपुः ।

बिभेति वत दग्धोऽस्मीत्यात्तमीनश्च कम्पते ॥ ४,११.३६ ॥

प्रतिबिम्बितवेलाद्रितटपक्षिवनद्रुमः ।

महानारम्भसंरम्भसंयुतोऽस्मीति राजते ॥ ४,११.३७ ॥

विमलोल्लसनोत्पन्नध्वस्तलोलशरीरकः ।

खण्डशः परियातोऽस्मीत्यात्ताक्रन्द इवारवी ॥ ४,११.३८ ॥

न चोर्मयस्ते जलधेर्व्यतिरिक्ताः पयोरसात् ।

न चैकं रूपमेतेषां किञ्चित्सन्नप्यसन्मयम् ॥ ४,११.३९ ॥

न च ते न्यूनदैर्घ्याद्या गुणास्तेषु च तेषु च ।

नोर्मयः संस्थिता अब्धौ न च तत्र न संस्थिताः ॥ ४,११.४० ॥

केवलं स्वस्वभावस्थसङ्कल्पविकलीकृताः ।

नष्टानष्टाः पुनर्जाता जाताजाताः पुनः क्षताः ॥ ४,११.४१ ॥

परस्परपरामर्शान्नानातामुपयान्त्यलम् ।

एकरूपाम्बुसामान्यमया एव निरामयाः ॥ ४,११.४२ ॥

अनेकतरङ्गिणि अनेकतरङ्गयुक्ते । सोम्यस्पन्दमय्यः सोम्यजलस्पन्दरूपाः । अनेककल्लोलावलयः । ताभिः शालिनि । एतादृशे वार्यात्मनि । यथा सः प्रसिद्धः त्र्यश्रः त्र्यश्राकारः तरङ्गः । स्वं रूपं त्र्यश्ररूपं स्वं रूपम् । भावयन् प्रमातारं प्रति प्रकटीकुर्वन् । स्वभावतः उत्थितेन स्वेन स्वस्माद् । अव्यतिरिक्तेन त्र्यश्रोऽस्मीति विकल्पेन कल्पनां त्र्यश्राकारकल्पनाम् । करोति । न केवलमेतामेव करोति । किं त्वन्या अपि क्रियाः करोति इत्याह भ्रश्यंश्चेत्यादि । सः त्र्यश्रः तरङ्गः परिभ्रष्टोऽस्मीति भावयन् । अत एव भ्रश्यन् । ततः तलातलं तलातलाख्यम् । भूतलम् । तया तादृग्भावनया । याति गच्छति । उत्थितमिति । सः त्र्यश्रः तरङ्गः ऊर्ध्वमुत्थितोऽस्मीति भावितः । अत एव उत्थितश्च तैः तैः विकल्पैः उत्थानविकल्पैः । साभिधमभिधासहितम् । तद्भावमुत्थानभावम् । विकल्पयति विकल्पेन सम्पादयति । ससूर्येति स्पष्टम् । सरत्नेति स्पष्टम् । सतटेति । आत्तमीनः । मीनैः आत्त आत्तमीनः । प्रतिबिम्बितेति स्पष्टम् । विमल इति । विमलं यतुल्लसनम् । तेन उत्पन्नं यत्ध्वस्तं ध्वंसः । तेन लोलं शरीरं यस्य । सः । न चोर्मय इति । ते पूर्वोक्ताः । पूर्वमेकवचनं जात्यपेक्षया ज्ञेयम् । तेनेह बहुवचनप्रयोगः । न चेति । ते च ऊर्मयः । तेषु गुणेषु । न भवन्ति । केवलमिति । स्वस्वभावस्थः स्वस्वरूपस्थः । यः विकल्पः तरङ्गतासादनरूपः विकल्पः । तेन विकलीकृताः पयसः उच्छिन्नाः कृताः

। परस्परेति । परस्परमन्योऽन्यम् । यः परामर्शः निकटे अवस्थितिः । तस्मात् । नानातामुपयान्ति । कथम्भूताः । एकं रूपं यतम्बुसामान्यम् । तन्मयाः एव । अत एव निरामयाः नाशोत्पादाख्यरोगरहिताः ॥ ४,११.२९४२॥

 

 

 

दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति द्वाभ्याम्

तथैवास्मिन् प्रवितते सिते शुद्धे निरामये ।

ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि ॥ ४,११.४३ ॥

सर्वशक्तावनाद्यन्ते पृथग्वदपृथक्कृताः ।

संस्थिताः शक्तयश्चित्रा विचित्राचारचञ्चलाः ॥ ४,११.४४ ॥

सितपदस्यार्थं स्वकण्ठेन कथयति शुद्धे इति । निरामये चेत्याख्यादामयात्निष्क्रान्ते । ब्रह्ममात्रमेकं केवलम् । वपुः स्वरूपं यस्य । तादृशे । स्फारं स्फुरणशीलम् । वपुरस्यास्तीति । तादृशे । एतादृशे ब्रह्मणि । अपृथक्कृताः शक्तयः । तथैव तरङ्गवत् । पृथग्वत्संस्थिताः भवन्ति । युग्मम् ॥ ४,११.४३४४॥

 

 

 

नानाशक्ति हि नानात्वमेति स्ववपुषि स्थितम् ।

बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् ॥ ४,११.४५ ॥

ब्रह्म शुद्धं चिन्मात्रतत्त्वम् । ब्रह्मणि स्ववपुषि ब्रह्माख्ये स्वस्वरूपे । बृंहितं जगद्रूपया बृंहिततया युक्तं सत् । नानात्वं नानाभावम् । एति गच्छति । कथम्भूतम् । नानाशक्ति । अन्यथा नानात्वगमनं युक्तं न स्यादिति भावः । ब्रह्म किमिव बृंहितम् । पयसि ऊर्मिमण्डलमिव ॥ ४,११.४५ ॥

 

 

 

ननु यदि पटादिरूपेण ब्रह्मैव बृंहितमस्ति तर्हि पदार्थानां प्रत्येकं नियतं रूपं कथमस्तीत्य् । अत्राह

नानारूपकरूपत्वाद्वैरूप्यशतकारिणी ।

नियतिर्नियताकारा पदार्थमधितिष्ठति ॥ ४,११.४६ ॥

नानारूपकं यत्रूपम् । तद्युक्तत्वात्वैरूप्यशतकारिणी पदार्थानां प्रति नियतरूपाख्यविरूपताशतकारिणी । नियतिः नियत्याख्या शक्तिः । पदार्थमधितिष्ठति स्ववशं करोति । ब्रह्मणः उत्पन्नया नियतिशक्त्या एव पदार्थानां प्रत्येकं नियतं रूपमस्तीति भावः ॥ ४,११.४६ ॥

 

 

 

सामान्येनोक्त्वा स्तोकं विशेषेण कथयति

जडा जाड्यमुपादत्ते चित्त्वमायाति चिन्मयी ।

वासनारूपिणी शक्तिः स्वस्वरूपस्थितात्मनः ॥ ४,११.४७ ॥

वासनारूपिणी वासनारूपेण स्थिता । स्वस्वरूपस्थितः यः आत्मा । तस्य । शक्तिः नियतिशक्तिः । जडा जाड्यवासनारूपिणी भूत्वा । जाड्यमुपादत्ते गृह्णाति । येन स्थावरं रूपं प्रकटीकरोति । चिन्मयी चेतनत्ववासनारूपिणी भूत्वा । चित्त्वमायाति । येन जङ्गमं रूपं प्रकटीकरोति ॥ ४,११.४७ ॥

 

 

 

फलितमाह

ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते ।

नानारूपैः परिस्पन्दैः परिपूर्ण इवार्णवः ॥ ४,११.४८ ॥

हे अनघ । तेन ततः हेतोः । इदं स्फाराकारं जगत् । ब्रह्मैव विजृम्भते विलसति । क इव । परिपूर्णः अर्णवः इव । यथा सः नानारूपैः परिस्पन्दैः तरङ्गाख्यैः परिस्पन्दैः । विजृम्भते । तथेत्यर्थः ॥ ४,११.४८ ॥

 

 

 

नानातां स्वयमादत्ते नानाकारविहारतः ।

आत्मैवात्मन्यात्मनैव समुद्राम्भ इवाम्भसि ॥ ४,११.४९ ॥

नानाकारार्थं नानाकारग्रहणार्थम् । यः विहारः क्रीडा । तस्मात् ॥ ४,११.४९ ॥

 

 

 

व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा ।

व्यतिरिक्ता न सर्वेशात्समग्राः कलनास्तथा ॥ ४,११.५० ॥

सर्वेशात्सर्वनियामकत्वेन स्थितात्चिन्मात्रतत्त्वात् । कलनाः जगद्रूपाः कलनाः ॥ ४,११.५० ॥

 

 

 

स्तम्भपुष्पलतापत्त्रफलकोरकयुक्तयः ।

यथैकस्मिं स्थिता बीजे तथा ब्रह्मणि शक्तयः ॥ ४,११.५१ ॥

शक्तयः जगद्रूपाः शक्तयः ॥ ४,११.५१ ॥

 

 

 

नानाकर्तृतया नानाशक्तिता पुरुषे यथा ।

तथैवात्मनि सर्वज्ञे सर्वदा सर्वशक्तिता ॥ ४,११.५२ ॥

सर्वशक्तितायां हेतुमाह सर्वज्ञ इति । यदि हि सर्वशक्तिः न स्यात्तर्हि सर्वज्ञः न स्यात् । सर्वज्ञत्वं चात्र सर्वकर्तृतायां विश्रान्तम् । न हि यः सर्वं न जानाति सः सर्वं करोति । कुलालादौ घटादिज्ञानस्य नियतत्वेन दर्शनात् ॥ ४,११.५२ ॥

 

 

 

विचित्रवर्णता यद्वद्दृश्यते कठिनातपे ।

विचित्रशक्तिता तद्वद्देवेशे सदसन्मयी ॥ ४,११.५३ ॥

स्पष्टम् ॥ ४,११.५३ ॥

 

 

विचित्ररूपोदेतीयमविचित्रात्स्थितिः शिवात् ।

एकवर्णात्पयोवाहाच्छक्रचापलता यथा ॥ ४,११.५४ ॥

स्पष्टम् ॥ ४,११.५४ ॥

 

 

 

अजडाज्जडतोदेति जाड्यभावनहेतुका ।

ऊर्णनाभाद्यथा तन्तुर्यथा पुंसः सुषुप्तता ॥ ४,११.५५ ॥

जाड्यस्य जडत्वस्य । यत्भावनं सङ्कल्पनम् । तदेव हेतुः यस्याः । तादृशी ॥ ४,११.५५ ॥

 

 

 

अचित्तश्चैतसीं शक्तिं स्वबन्धायेच्छया शिवः ।

तनोति तान्तवं कोशं कोशकारक्रिमिर्यथा ॥ ४,११.५६ ॥

अचित्तः अत्यन्तशुद्धत्वेन चित्तरहितः । तान्तवं तन्तुसम्बन्धि ॥ ४,११.५६ ॥

 

 

 

स्वेच्छयात्मात्मनो ब्रह्मन् भावयित्वा स्वकं वपुः ।

संसारान्मोक्षमायाति स्वालानादिव वारणः ॥ ४,११.५७ ॥

आत्मा आत्मनः । आत्मसम्बन्धिन्या स्वेच्छया । स्वकं निजम् । वपुः चिन्मात्राख्यं स्वरूपम् । भावयित्वा स्वस्वरूपत्वेन भावनाविषयतां नीत्वा । संसारात्देहोऽहमिति भावनारूपात्संसारात् । मोक्षं मुक्तिम् । आयति । क इव । वारणः इव । यथासौ स्वालानात्मोक्षमायाति । तथेत्यर्थः । स्वेच्छाशब्दोऽत्र इच्छामात्रवाचकः ॥ ४,११.५७ ॥

 

 

 

यदेव भावयत्यात्मा सततं भावितः स्वयम् ।

तयैवापूर्यते शक्त्या शीघ्रमेव महानपि ॥ ४,११.५८ ॥

यदेव यामेव शक्तिम् । सततं भावितः सदा वासितः । महानपि व्यापकोऽपि सन् ॥ ४,११.५८ ॥

 

 

 

भाविता शक्तिरात्मानमात्मतां नयति क्षणात् ।

अनन्तमपि खं प्रावृण्मिहिका महती यथा ॥ ४,११.५९ ॥

भाविता भावनाविषयीकृता । आत्मताम् । शक्तिरूपः यः आत्मा । तत्ताम् । मिहिकापक्षे आत्मतां मिहिकात्वम् ॥ ४,११.५९ ॥

 

 

 

या शक्तिरुदिता शीघ्रं याति तन्मयतामजः ।

यामेव तु स्थितिं यातस्तन्मयो भवति द्रुमः ॥ ४,११.६० ॥

अजः जन्मरहितः शुद्धं चिन्मात्रतत्त्वम् । स्थितिमाधाररूपं भूमिम् । द्रुमस्य आधारभूतभूम्यनुरूपत्वेनारोहणात् ॥ ४,११.६० ॥

 

 

 

न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः ।

बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः ॥ ४,११.६१ ॥

ईशस्यात्मनः । आत्मनः ईशस्य । तर्हि बन्धमोक्षौ कस्य भवत इत्य् । अत्राह बन्धेति । बन्धमोक्षयोरुत्थानमेव परमार्थतो नास्तीति का तदाधारचिन्तेति भावः ॥ ४,११.६१ ॥

 

 

 

नास्य बन्धो न मोक्सोऽस्ति तन्मयश्चैव लक्ष्यते ।

ग्रस्तं नित्यमसत्येन मायामयमहो जगत् ॥ ४,११.६२ ॥

अस्यात्मनः । परमार्थतः बन्धः नास्ति । मोक्षोऽपि नास्ति । किं तु आमुखतः तन्मयः बन्धमोक्षमयः । लक्ष्यते । ननु तर्हि जगति बन्धमोक्षकलना कथमस्तीत्य् । अत्राह । जगच्छब्देनात्र जगद्गताः प्रमातारः लक्ष्यन्ते । अहो आश्चर्ये । जगत्जगद्गताः प्रमातारः । असत्येन असत्यभूतेन बन्धमोक्षाख्येन केनापि । ग्रस्तं स्वकलनाविष्टं कृतम् । अत्र हेतुं विशेषणद्वारेणाह मायामयमिति । मायामयत्वादेवासत्येन ग्रस्तत्वमिति भावः ॥ ४,११.६२ ॥

 

 

 

ननु कथमात्मा बन्धमोक्षादिकलनाग्रस्त इव सम्पन्न इत्य् । अत्राह

यदैव चित्तं कलितमकलेन किलात्मना ।

कोशकीटवदात्मायमनेनावलितस्तदा ॥ ४,११.६३ ॥

अकलेन अखण्डत्वात्कलारहितेन । अनेनात्मना यदैव चित्तं कलितं कलनया प्रकटीकृतम् । तदानेनात्मना कोशकीटवत्कोशकारक्रिमिवत् । आत्मा स्वस्वरूपम् । आवृतः । बन्धमोक्षादिकलनारूपेण कोशेनावृतः ॥ ४,११.६३ ॥

 

 

 

नन्वेतेनात्मना कलितं मनः कस्मादुपादानान्निर्गतमित्य् । अत्राह

अनन्यरूपास्त्वन्यत्वविकल्पितशरीरकाः ।

मनःशक्तय एतस्मादिमा निर्यान्ति कोटिशः ॥ ४,११.६४ ॥

अनन्यरूपाः अभिन्नाः । इमाः पृथक्त्वेन वर्तमानाः ॥ ४,११.६४ ॥

 

 

 

तत्स्थास्तज्जाः पृथग्रूपाः समुद्रादिव वीचयः ।

तत्स्थास्तज्जाः पृथक्स्थाश्च चन्द्रादिव मरीचयः ॥ ४,११.६५ ॥

तत्स्थाः तस्मिन् परमात्मनि स्थिताः । तज्जाः तस्मात्परमात्मनः जाताः । एताः मनःशक्तयः पृथग्रूपाः भवन्ति । का इव । वीचय इव । यथा वीचयः समुद्रात्पृथग्रूपाः भवन्ति । तथेत्यर्थः । द्वितीयं दृष्टान्तं कथयति तत्स्था इति ॥ ४,११.६५ ॥

 

 

 

अस्मिन् स्पन्दमये स्फारे परमात्ममहाम्बुधौ ।

चिज्जले वितताभोगे चिन्मात्ररसशालिनि ॥ ४,११.६६ ॥

काश्चित्स्थिता हरिब्रह्मरुद्रचिद्वलनाधिकाः ।

लहर्यः प्रस्फुरन्त्येताः स्वभावोद्भावितात्मिकाः ॥ ४,११.६७ ॥

स्पन्दमये अहंविमर्शमये । अहंविमर्शस्यैवात्र स्पन्दत्वात् । स्फारे विस्तीर्णे । चित्चेत्योन्मुखा चित् । सा एव जलं यस्मिन् । तादृशे । चिन्मात्रं चेत्यानुन्मुखा चित् । सा एव रसः यस्मिन् । तादृशे । रसः जलस्य सारभूतः आस्वादाख्यो गुणः ज्ञेयः । एतादृशे परमात्ममहाम्बुधौ । काश्चितेताः लहर्यः चिल्लहर्यः । प्रस्फुरन्ति । लहर्यः कथम्भूताः स्थिताः । हरिब्रह्मरुद्ररूपाः याः चिद्वलना चित्स्पन्दाः । ताः अधिकं यासाम् । तादृश्यः स्थिताः । पुनः कथम्भूताः । स्वभावातुद्भावितः प्रकटीभावं गतः । आत्मा यासाम् । ताः । काश्चिल्लहर्यः हरिब्रह्मरुद्ररूपतया स्फुरन्तीति भावः ॥ ४,११.६६६७ ॥

 

 

 

काश्चिद्यममहेन्द्रार्कवह्निवैश्रवणादिकाः ।

घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश्चपलैषणाः ॥ ४,११.६८ ॥

चपलाः एषणाः इच्छाः । यासाम् । ताः ॥ ४,११.६८ ॥

 

 

 

काश्चित्किन्नरगन्धर्वविद्याधरसुरादिकाः ।

उत्पतन्ति पतन्त्युग्रा लहर्यः परिवल्गिताः ॥ ४,११.६९ ॥

परिवल्गिताः स्पन्दिताह् ॥ ४,११.६९ ॥

 

 

 

काश्चित्किञ्चित्स्थिताकारा यथा कमलजादिकाः ।

काश्चिदुत्पन्नविध्वस्ता यथा सुरनरादिकाः ॥ ४,११.७० ॥

किञ्चित्कालं स्थितः आकारः यासाम् । ताः किञ्चित्स्थिताकाराः ॥ ४,११.७० ॥

 

 

 

क्रिमिकीटपतङ्गादिगोनासाजगरादिकाः ।

काश्चित्तस्मिन्महाम्भोधौ स्फुरन्त्येतेषु बिन्दुवत् ॥ ४,११.७१ ॥

एतेष्विति बहुवचनं पादपूरणार्थम् । तेनैतस्मिन्महाम्भोधाविति योज्यम् ॥ ४,११.७१ ॥

 

 

 

काश्चिच्चलाननमृगगृध्रवञ्जुलकादयः ।

स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्विव ॥ ४,११.७२ ॥

स्पष्टम् ॥ ४,११.७२ ॥

 

 

 

सुदीर्घजीविताः काश्चित्काश्चिदत्यल्पजीविताः ।

स्वतुच्छभावनात्तुच्छात्काश्चित्तुच्छशरीरिकाः ॥ ४,११.७३ ॥

काश्चित्तुच्छातसत्यात् । स्वतुच्छभावनात्स्वविषयात्तुच्छविकल्पनात् । तुच्छशरीरिकाः भवन्ति ॥ ४,११.७३ ॥

 

 

 

संसारस्वप्नसंरम्भे काश्चित्स्थैर्येण भाविताः ।

स्वविकल्पहताः काश्चिच्छङ्कन्ते सुस्थिरं जगत् ॥ ४,११.७४ ॥

स्थैर्येण स्थिरतया । भाविताः स्थिरोऽयं संसार इति वासनायुक्ताः कृताः ॥ ४,११.७४ ॥

 

 

 

अल्पाल्पभावनाः काश्चिद्दैन्यदोषवशीकृताः ।

कृशोऽतिदुःखी मूढोऽहमिति दुःखैर्दृढीकृताः ॥ ४,११.७५ ॥

अत्र भावनायाः अल्पाल्पत्वमतिमौढ्येन ज्ञेयम् ॥ ४,११.७५ ॥

 

 

 

काश्चित्स्थावरतां याताः काश्चिद्देवत्वमागताः ।

काश्चित्पुरुषतां प्राप्ताः काश्चिद्दानवतां गताः ॥ ४,११.७६ ॥

स्पष्टम् ॥ ४,११.७६ ॥

 

 

 

सर्गान्तश्लोकेन पूर्वोक्तमेवार्थं सङ्क्षिप्य कथयति

काश्चित्स्थिता जगति कल्पशतान्यनल्पाः

काश्चिद्व्रजन्ति परमं पुरुषं सुशुद्धाः ।

ब्रह्मार्णवात्समुदिता लहरीविलोलाश्

चित्संविदो हि मननापरनामवत्यः ॥ ४,११.७७ ॥

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामेकादशः सर्गः ॥११॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ११