मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



ओमथ स्थितिप्रकरणं व्याख्यायते । ओं

प्रत्यक्ज्योतिः किमपि परमं भावयित्वाथ देवं

ध्यात्वा चित्ते भवभयहरं श्रीगणेशं विभुं च ।

मौलौ कृत्वा गुरुचरणयोर्धूलिपुञ्जं च टीका

स्थित्याख्येऽस्मिन् प्रकरणवरे तन्यते भास्करेण ॥ ४,१.० ॥

एवमुत्पत्तिप्रकरणेऽनुत्पत्तिरूपां जगदुत्पत्तिं प्रतिपाद्य तच्छ्रवणेन च तत्र श्रीरामं प्रतीतिभाजं निर्वर्ण्य तदनन्तरं योग्यं स्थितिप्रकरणारम्भं करोति

अथोत्पत्तिप्रकरणादनन्तरमिदं शृणु ।

स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् ॥ ४,१.१ ॥

अथशब्दो मङ्गलमात्रप्रयोजनः । इदं वक्ष्यमाणम् । स्थितिप्रकरणं किम् । यत्ज्ञातं श्रवणमनननिदध्यासनविषये कृतं सत् । निर्वाणं ब्रह्मणि आत्यन्तिकं लयं करोतीति तादृशम् । भवति ॥ ४,१.१ ॥

 

 

 

स्थितिप्रकरणमेव कथयति

एवं तावदिदं विद्धि दृश्यं जगदिति स्थितम् ।

अहं चेत्याद्यनाकारं भ्रान्तिमात्रमसन्मयम् ॥ ४,१.२ ॥

तावत्त्वमेवं विद्धि । अन्यत्स्वयमेव ज्ञास्यसीति भावः । एवं कथमित्यपेक्षायामाह इदमिति । जगदिति । जगदिति नामधेयेन स्थितम् । इदं दृश्यं पुरःस्फुरत् । दृशिक्रियाविषयो भावजातम् । अहमित्यादि च भवति । कथम्भूतम् । अनाकारं भ्रान्तिमात्रमसन्मयं च ॥ ४,१.२ ॥

 

 

 

अकर्तृकमनङ्गं च गगने चित्रमुत्थितम् ।

अद्रष्टृकं सानुभवमनिद्रं स्वप्नदर्शनम् ॥ ४,१.३ ॥

गगने चिदाकाशे । चित्रमालेख्यमिव । उदितं प्रादुर्भूतम् । कीदृक्चित्रम् । अकर्तृकं कर्तृरहितम् । अनङ्गं निःस्वरूपम् । पुनः किम् । स्वप्नदर्शनं स्वप्नदर्शनस्वरूपम् । स्वप्नदर्शनं कथम्भूतम् । अद्रष्टृकं द्रष्टृरहितम् । सानुभवं द्रष्ट्रनुभवविषयतां गतम् । अनिद्रं निद्रादोषादृष्टम् । अत्रालौकिकत्वकथनेन विस्मयकारित्वे एव भरः कृतः ॥ ४,१.३ ॥

 

 

भविष्यत्पुरनिर्माणं चित्रसंस्थमिवोदितम् ।

मर्कटानलतापाभमम्ब्वावर्तवदास्थितम् ॥ ४,१.४ ॥

भविष्यत्पुरस्य च नकिञ्चिद्रूपत्वं स्फुटमेव । मर्कटस्यानलत्वेनाभासमानः अनलः मर्कटानलः । तस्य यः तापः । तस्याभा यस्य । तत् । मर्कटो हि कमपि फलविशेषमग्निभ्रमेण गृह्णाति । आस्थितं स्थितियुक्तम् ॥ ४,१.४ ॥

 

 

 

सद्रूपमपि निःशून्यं तेजः सौरमिवाम्बरे ।

रत्नाभाजालमिव खे दृश्यमानमभित्तिमत् ॥ ४,१.५ ॥

सद्रूपं चिन्मात्रसारत्वात् । निःशून्यं नकिञ्चित्त्वात् । अम्बरे हि सौरं तेजः सद्रूपमपि निःशून्यमिव भातीति तस्योपमानत्वेन ग्रहणम् ॥ ४,१.५ ॥

 

 

 

सङ्कल्पपुरवत्प्रौढमनुभूतमसन्मयम् ।

कथार्थप्रतिभानात्म न क्वचित्स्थितमस्ति च ॥ ४,१.६ ॥

कथायाः अनेन कथ्यमानायाः कथायाः । यः अर्थः । तस्य यत्प्रतिभानं स्फुरणम् । तदात्म तत्स्वरूपम् । कथाः श्रवणकाले हि श्रोतुः तदर्थः पुरः इव प्रतिभाति । न क्वचित्स्थितं विचारासहत्वात् । अस्ति च प्रतिभासमानत्वात् ॥ ४,१.६ ॥

 

 

 

निःसारमप्यतीवान्तःसारं स्वप्नाचलोपमम् ।

भूताकाशमिवाकारभासुरं शून्यमात्रकम् ॥ ४,१.७ ॥

निःसारं पिण्डग्रहाभावात् । अतीवातिशयेनान्तःसारं चिन्मात्रसारत्वात् । आकारभासुरं नीलरूपयुक्ताकारभास्वरम् ॥ ४,१.७ ॥

 

 

 

शरदभ्रमिवाग्रस्थमलक्ष्यक्षयमाक्षयि ।

वर्णो व्योमतलस्येव दृश्यमानमवस्तुकम् ॥ ४,१.८ ॥

स्पष्टम् ॥ ४,१.८ ॥

 

 

 

स्वप्नाङ्गनारताकारमर्थनिष्ठमनर्थकम् ।

चित्रोद्यानमिवोत्फुल्लमरसं सरसाकृति ॥ ४,१.९ ॥

अर्थनिष्ठं रेतःस्रवाख्यार्थक्रियारतम् । अनर्थकं प्रभातेऽदृश्यमानत्वात्वृथाभातम् । पुनः कथम्भूतम् । अरसमास्वादरहितमपि । सरसाकृति सरसा इवाकृतिः यस्य । तत् । किमिव । उत्फुल्लं चित्रोद्यानमालेख्योद्यानम् । इव । तस्यापि अरसत्वेऽपि सरसाकृतित्वं प्रसिद्धम् ॥ ४,१.९ ॥

 

 

 

प्रकाशमिव निस्तेजश्चित्रार्कानलवत्स्थितम् ।

अनुभूतं मनोराज्यमिवासत्यमवास्तवम् ॥ ४,१.१० ॥

स्पष्टम् ॥ ४,१.१० ॥

 

 

 

चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् ।

शून्ये प्रकचितं नानावर्णमाकारितात्मकम् ॥ ४,१.११ ॥

शून्ये अचेत्यचिन्मात्राख्यायां शून्यभित्तौ । आकारितः आकारयुक्तः । आत्मा यस्य । तादृशम् ॥ ४,१.११ ॥

 

 

 

परमार्थेन शुष्यद्भिर्भूतपेलवपल्लवैः ।

ततं जडमसारात्म कदलीस्तम्भभासुरम् ॥ ४,१.१२ ॥

ततं व्याप्तम् ॥ ४,१.१२ ॥

 

 

 

स्फारितेक्षणदृश्यान्धकारचक्रकवत्ततम् ।

अत्यन्तमभवद्रूपमपि प्रत्यक्षवत्स्थितम् ॥ ४,१.१३ ॥

स्फारितेक्षणस्य दृश्यानि यानि अन्धकारचक्रकाणि । तद्वत्ततम् । अभिनयगम्यश्चायमर्थः ॥ ४,१.१३ ॥

 

 

 

वार्बुद्बुद इवाभोगि शून्यमन्तः स्फुरद्वपुः ।

रसात्मकं सत्यरसमविच्छिन्नक्षयोदयम् ॥ ४,१.१४ ॥

रसात्मकमिच्छास्वरूपं जलस्वरूपं च । सत्यरसम् । सत्यस्य चिन्मात्रतत्त्वस्य । रसः यस्य । तत् । चिन्मात्रतत्त्वेनैव पुष्टिं गतमित्यर्थः ॥ ४,१.१४ ॥

 

 

 

नीहार इव विस्तारि गृहीतं सन्न किञ्चन ।

जडं शून्यास्पदं शून्यं केषाञ्चित्परमाणुवत् ॥ ४,१.१५ ॥

केषाञ्चित्स्थूलबुद्धीनां तार्किकाणाम् ॥ ४,१.१५ ॥

 

 

 

किञ्चिद्भूतमयोऽस्तीति स्थितं शून्यमभूतकम् ।

गृह्यमाणमसद्रूपं निशातम इवोत्थितम् ॥ ४,१.१६ ॥

अयं संसारः किञ्चित्भूतमयः अस्तीति स्थितं भासमानम् । एतैर्विशेषणैः समस्तः स्थितिप्रकरणार्थः सङ्गृह्योक्तः । स्थितिप्रकरणे एवंरूपाया जगत्स्थितेर्वक्तुमिष्टत्वात् ॥ ४,१.१६ ॥

 

 

 

श्रीरामः पृच्छति

महाकल्पक्षये दृश्यमास्ते बीज इवाङ्कुरम् ।

परे भूय उदेत्येतत्तत एवेति किं वद ॥ ४,१.१७ ॥

इति किमेतदेव किमस्ति अथ वा नेति । वद कथय ॥ ४,१.१७ ॥

 

 

 

एवम्बोधाः किमज्ञाः स्युरुत तज्ज्ञा इति स्फुटम् ।

यथावद्भगवन् ब्रूहि सर्वसंशयशान्तये ॥ ४,१.१८ ॥

एवं पूर्वश्लोकोक्तरूपः । बोधः येषाम् । ते । तादृशाः ॥ ४,१.१८ ॥

 

 

 

श्रीवसिष्ठ उत्तरमाह

इदं बीजेऽङ्कुर इव दृश्यमास्ते महाक्षये ।

ब्रूते यः परमज्ञत्वमेतत्तस्यातिशैशवात् ॥ ४,१.१९ ॥

अतिशैशवाततिमौर्ख्यात् ॥ ४,१.१९ ॥

 

 

 

हेतुकथनमवश्योपदेश्यत्वेनाह

स्पर्शे किं तदसम्बद्धं कथमेतदवास्तवम् ।

विपरीतो बोध एष वक्तुः श्रोतुश्च मौर्ख्यकृत् ॥ ४,१.२० ॥

असम्बद्धं तत्किं भवति । न किञ्चिदपीत्यर्थः । एततवास्तवमसम्बद्धम् । कथं भवति । स्पर्शे आमुखे इत्य् । एष विपरीतः बोधः वक्तुः श्रोतुश्च मौर्ख्यकृत्भवति । एततनेन हेतुना असम्बद्धं भवति इति वक्तुः वक्तव्यम् । अनेन हेतुना एततवास्तवं न भवतीति श्रोतुः पर्यनुयोगः कार्यः । अन्यथा तयोः मौर्ख्यमेवेति भावः ॥ ४,१.२० ॥

 

 

 

फलितमाह

बीजकालेऽङ्कुर इव जगदास्ते इतीह या ।

बुद्धिः सासत्प्रलापार्था मूढा शृणु कथं किल ॥ ४,१.२१ ॥

अत इत्यध्याहार्यम् । असत्प्रलापार्था असत्प्रलापस्येवार्थः यस्याः । सा । असत्प्रलापरूपेति यावत् । मूढा जडा । कथं केन हेतुना । हेत्वकथने ममापि मौर्ख्यापातः स्यादिति भावः ॥ ४,१.२१ ॥

 

 

 

बीजं भवेत्स्वयं दृश्यं चित्तादीन्द्रियगोचरः ।

वटधानादि धान्यादि युक्तमत्राङ्कुरोद्भवः ॥ ४,१.२२ ॥

चित्तादीन्द्रियगोचरः । अत एव दृश्यं वटधानादि तथा धान्यादि बीजं भवेत् । अत्र धानादिरूपे तथा धान्यादिरूपे बीजे । अङ्कुरोद्भवः युक्तं भवति ॥ ४,१.२२ ॥

 

 

 

मनःषष्ठेन्द्रियातीतं यः खादतितरामपि ।

बीजं तद्भवितुं शक्तं स्वयम्भूर्जगतः कथम् ॥ ४,१.२३ ॥

मनः षष्ठं येषाम् । तानि मनःषष्ठानि । तादृशानि च तानीन्द्रियाणि । तान्यतीतम् । स्वयम्भूः चिन्मात्रम् ॥ ४,१.२३ ॥

 

 

 

आकाशादपि सूक्ष्मस्य परस्य परमात्मनः ।

सर्वाक्षानुपलभ्यस्य कीदृशी बीजता कथम् ॥ ४,१.२४ ॥

स्पष्टम् ॥ ४,१.२४ ॥

 

 

 

सत्सूक्ष्ममसदाभासमसदेव ह्यतद्दृशाम् ।

कीदृशी बीजता तत्र बीजाभावे कुतोऽङ्कुरः ॥ ४,१.२५ ॥

सतपि यत्चिन्मात्राख्यं वस्तु । अतद्दृशां न तस्मिन् दृक्येषाम् । ते । तादृशाम् । चिन्मात्रज्ञानरहितानामिति यावत् । असदेव भवति । अत्र हेतुमाह । असदाभासमिति । असद्वताभासः यस्य । तत् । तादृशम् । अत्रापि हेतुत्वेन विशेषणमाह सूक्ष्ममिति । सूक्ष्मत्वादसदाभासत्वम् । असदाभासत्वादसत्त्वमित्यर्थः । तत्र तस्मिन् चिन्मात्राख्ये वस्तुनि । बीजता कीदृशी भवति । न भवति । स्थूलस्यैव बीजत्वयोगादित्यर्थः । बीजाभावे अङ्कुरः जगदाख्यः अङ्कुरः । कुतः भवति । नैव युक्त इत्यर्थः ॥ ४,१.२५ ॥

 

 

 

गगनाङ्गादपि स्वच्छे शून्ये तत्र परे पदे ।

कथं सन्ति जगन्मेरुसमुद्रगगनादयः ॥ ४,१.२६ ॥

गगनाङ्गात्स्वच्छत्वं जाड्याख्यमालिन्यरहितत्वात्ज्ञेयम् ॥ ४,१.२६ ॥

 

 

 

नकिञ्चिद्यत्कथं किञ्चित्तत्रास्ते वस्त्ववस्तुनि ।

अस्ति चेत्तत्कथं तत्र विद्यमानं न दृश्यते ॥ ४,१.२७ ॥

यत्चिन्मात्रम् । बाह्यान्तःकरणातीतत्वात्नकिञ्चिद्भवति । तत्र तस्मिन् । अवस्तुनि नकिञ्चिद्रूपे चिन्मात्रे । इन्द्रियगम्यत्वेन किञ्चिद्रूपं वस्तु जगदाख्यं वस्तु । कथमास्ते । तथापि चेतस्ति तत्र विद्यमानं कथं न दृश्यते । तर्हि विद्यमानत्वमेवास्य युक्तं स्यादिति भावः । ननु जगतः विद्यमानत्वं कथं नास्ति इति चेत् । विचारासहत्वान्नास्तीति ब्रूमः । यो हि विचारं सहते तस्यैव विद्यमानत्वम् । यथा रज्जुसर्पापेक्षया रज्जोः ॥ ४,१.२७ ॥

 

 

 

नकिञ्चिदात्मनः किञ्चित्कथमेति कुतोऽथ वा ।

शून्यरूपाद्घटाकाशाज्जातोऽद्रिः क्व कुतः कदा ॥ ४,१.२८ ॥

पूर्वश्लोकव्याख्ययैव गतार्थोऽयं श्लोकः ॥ ४,१.२८ ॥

 

 

 

प्रतिपक्षे कथं किञ्चिदास्ते छायातपे यथा ।

कथमास्ते तमो भानौ कथमास्ते हिमेऽनलः ॥ ४,१.२९ ॥

किञ्चित्किमपि । प्रतिपक्षे कथमास्ते । प्रतिपक्षे अवस्थानं कस्यापि न युक्तमिति भावः । विशेषेणैतदेव दर्शयति च्छायेत्यादि ॥ ४,१.२९ ॥

 

 

 

मेरुरास्ते कथमणौ कुतः किञ्चिदनाकृतौ ।

तदतद्रूपयोरैक्यं क्व च्छायातपयोरिव ॥ ४,१.३० ॥

दृष्टान्तानि विशेषतयोक्त्वा दार्ष्टान्तिकमपि तत्तयैव कथयति कुतः किञ्चिदिति । किञ्चितिन्द्रियगम्यत्वात्किञ्चिद्रूपं जगत् । अनाकृतौ इन्द्रियागम्यत्वेनाकाररहिते चिन्मात्रे । कुतः न युक्तमेतदिति भावः । नन्वेकत्वे न बीजाङ्कुरत्वमनयोरस्तीत्यत्राह तदतदिति । तदतद्रूपयोः अत्यन्तभिन्नयोः ॥ ४,१.३० ॥

 

 

 

साकारे वटधानादावङ्कुरोऽस्तीति युक्तिमत् ।

अनाकारे महाकारं जगदस्तीत्ययुक्तिमत् ॥ ४,१.३१ ॥

स्पष्टम् ॥ ४,१.३१ ॥

 

 

 

देशान्तरे यच्च नरान्तरे च

बुद्ध्यादिसर्वेन्द्रियशक्त्यदृश्यम् ।

नास्त्येव तत्तद्विधबुद्धिबोधे

नकिञ्चिदित्येव तदुच्यते च ॥ ४,१.३२ ॥

देशान्तरे च अस्मिन् देशे अन्यस्मिन् देशे च । नरान्तरे च त्वयि अन्येषु नरेषु च । कालस्याप्येतदुपलक्षणम् । तेन कालान्तरे चेत्यपि ज्ञेयम् । तेनायमर्थः । बुद्ध्यादीनां सर्वेन्द्रियशक्तीनां चादृश्यं यत्वस्तु । देशान्तरे नरान्तरे च तत्तद्विधबुद्धिबोधे । तत्तद्विधाः तत्तत्प्रकाराः । याः बुद्धयः । तासां यः बोधः । तत्र । नास्ति । तद्विषयो नास्तीति यावत् । पण्डितैः तत्नकिञ्चिदित्येव उच्यते कथ्यते ॥ ४,१.३२ ॥

 

 

 

ततः किमित्यत्राह

कार्यस्य तत्कारणतां प्रयातम्

वक्तीति यस्तस्य विमूढबोधः ।

कैर्नाम तत्कार्यमुदेति तस्मात्

स्वैः कारणौघैः सहकारिरूपैः ॥ ४,१.३३ ॥

तत्नकिञ्चिदिति नामार्हं वस्तु । कार्यस्य कारणतां प्रयातं भवति । इति यः वक्ति । तस्य विमूढबोधः भवति । नासौ तज्ज्ञ इति भावः । सहकारिकारणाभावेन तस्य कारणतां निवारयति तत्कार्यमिति । स्वैः निजैः । सर्वस्य नकिञ्चिद्रूपचिन्मात्रस्वरूपत्वेन सहकारिकारणसत्ता नास्तीति भावः ॥ ४,१.३३ ॥

 

 

 

एतेन सिद्धं सिद्धान्तं सर्गान्तश्लोकेन कथयति

दुर्बुद्धिभिः कारणकार्यभावं

सङ्कल्पितं दूरतरे व्युदस्य ।

यदेव तत्सत्यमनादिमध्यं

जगत्तदेव स्थितमित्यवेहि ॥ ४,१.३४ ॥

दुर्बुद्धिभिः कुबुद्धियुक्तैः । सङ्कल्पितं स्वसङ्कल्पेनोल्लिखितम् । न तु परमार्थसन्तं कार्यकारणभावं जगद्ब्रह्मविषयं कार्यकारणभावम् । व्युदस्य परित्यज्य । त्वमिति अवेहि सत्यतया निश्चिनु इति । किमिति । अनादिमध्यमादिमध्ययोरपि साक्षित्वेन स्थितत्वातादिमध्यरहितम् । यतेव । तत्प्रसिद्धम् । सत्यं सत्यभूतं चिन्मात्राख्यं वस्तु अस्ति । तदेव न तु तत्कार्यम् । जगतस्ति । इति शिवम् ॥ ४,१.३४ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां जन्यजनकनिराकरणं स्थितिप्रकरणे प्रथमः सर्गः ॥१॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १