महाभारतम्-10-सौप्तिकपर्व-018

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सौप्तिकपर्व

कृष्णेन युधिष्ठिरम्प्रति रुद्रस्य कोपप्रसादाक्ष्यां देवानां यज्ञनाशतत्प्रवृत्तिकथनपूर्वकं तत एवाश्वत्थामद्वारा पुत्रादिवध सम्भवकथनम्।। 1 ।।

वासुदेव उवाच॥
ततो देवयुगेऽतीते देवा वै समकल्पयन् ।
यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः ॥१॥
कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः ।
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ॥२॥
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः ।
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ॥३॥
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः ।
तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह ॥४॥
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः ।
पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः ॥५॥
लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः ।
धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः ॥६॥
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत ।
यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् ॥७॥
ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् ।
आजगामाथ तत्रैव यत्र देवाः समीजिरे ॥८॥
तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् ।
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ॥९॥
न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः ।
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ॥१०॥
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः ।
तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् ॥११॥
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे ।
न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा ॥१२॥
ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा ।
अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः ॥१३॥
स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत ।
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ॥१४॥
अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान् ।
नष्टसञ्ज्ञेषु देवेषु न प्रज्ञायत किञ्चन ॥१५॥
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा ।
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ॥१६॥
प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः ।
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ॥१७॥
स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च ।
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ॥१८॥
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् ।
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ॥१९॥
ततो विधनुषं देवा देवश्रेष्ठमुपागमन् ।
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ॥२०॥
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये ।
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ॥२१॥
भगस्य नयने चैव बाहू च सवितुस्तथा ।
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव ॥२२॥
ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह ।
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् ॥२३॥
तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो ।
प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् ॥२४॥
ततस्ते निहताः सर्वे तव पुत्रा महारथाः ।
अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः ॥२५॥
न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् ।
महादेवप्रसादः स कुरु कार्यमनन्तरम् ॥२६॥  

कश्रीभगवानुवाच। 10-18-1x
ततो देवयुगेऽतीते देवा वै समकल्पयन्।
यज्ञवेदप्रमाणेन विधिवद्यष्टुमीप्सवः।।
10-18-1a
10-18-1b
कल्पयामासुरथ ते साधनानि हवींषि च।
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च।।
10-18-2a
10-18-2b
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः।
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप।।
10-18-3a
10-18-3b
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः।
तपसा यज्ञमन्विच्छन्धनुरादौ ससर्ज ह।।
10-18-4a
10-18-4b
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः।
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत्।।
10-18-5a
10-18-5b
लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः।
धनुः सृष्टमभूत्तस्य षष्टिकिष्कुप्रमाणतः।।
10-18-6a
10-18-6b
वषट्‌कारोऽभवज्ज्या तु धनुषस्तस्य भारत।
यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन्।।
10-18-7a
10-18-7b
ततः क्रुद्धो महादेवस्दुपादाय कार्मुकम्।
आजगामाथ तत्रैव यत्र देवाः समीजिरे।।
10-18-8a
10-18-8b
तमात्कार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्।
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे।।
10-18-9a
10-18-9b
न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः।
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्।।
10-18-10a
10-18-10b
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः।
तिमिरेणाकुलं सर्वमाकाशं चाभवृद्वृतम्।।
10-18-11a
10-18-11b
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे।
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा।।
10-18-12a
10-18-12b
ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा।
अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः।।
10-18-13a
10-18-13b
स तु तेनैव रूपेण दिविस्थो वै व्यराजत।
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले।।
10-18-14a
10-18-14b
अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान्।
नष्टसंज्ञेषु देवेषु न प्राज्ञायत किञ्चन।।
10-18-15a
10-18-15b
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा।
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्।।
10-18-16a
10-18-16b
प्राद्रवन् ततो देवा यज्ञाङ्गानि च सर्वशः।
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्।।
10-18-17a
10-18-17b
स तु विद्राव्य तत्सर्वं शितिकम्ठोऽवहस्य च।
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः।।
10-18-18a
10-18-18b
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्‌।
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः।।
10-18-19a
10-18-19b
ततो विधनुषं देवा देवश्रेष्ठमुपागमन्।
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः।।
10-18-20a
10-18-20b
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये।
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो।।
10-18-21a
10-18-21b
भगस्य नयने चैव बाहू च सवितुस्तथा।
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव।।
10-18-22a
10-18-22b
ततः सुस्थमिदं सर्वं बभूव पुनरेव हि।
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्।।
10-18-23a
10-18-23b
तस्मिन्क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो।
प्रसन्ने च पुनः सुस्थं जगद्भवति भारत।।
10-18-24a
10-18-24b
ततस्ते निहताः सर्वे तव पुत्रा महारथाः।
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः।।
10-18-25a
10-18-25b
न तन्मनसि कर्व्यं न च तद्द्रौणिना कृतम्।
महादेवप्रसादः स कुरुकार्यमनन्तरम्।।
10-18-26a
10-18-26b
।। इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां
वैयासिक्यां सौप्तिकपर्वणि ऐषीकपर्वणि अष्टादशोऽध्यायः।। 18 ।।
समाप्तं ऐषीकपर्व।। 2 ।।
सौप्तिकपर्व च समाप्तम्।। 10 ।।
तस्यायमाद्यः श्लोकः। 10-18-1b
जनमेजय उवाच। 10-18-1x
हते दुर्योधने चैव हते सैन्ये च सर्वशः।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने।।
10-18-1c
10-18-1d

10-18-5 लोकयज्ञो लोकेषणा सर्वो मां साधुमेव जानात्विति वासनारूपः। क्रियायज्ञः गर्भाधानादिसंस्काररूपः। गृहयज्ञः पत्नीसाध्याग्निहोत्रादिः। पञ्चभूतनृयज्ञः पञ्चभूतानां गुणैः शब्दादिभिर्या नृणां प्रीतिस्तद्रूपः। विषयजं सुखमित्यर्थः। एतैरेव चतुर्भिर्यज्ञैः सर्वं जगत्सृष्टम्।। 10-18-6 तत्र मध्यमयोः शास्त्रोक्तयोर्यज्ञयोर्नाशार्थं प्रथमचरमयज्ञाभ्यामीश्वरो धनुः कृतवान् किष्कुर्हस्तः।। 10-18-18 अष्टादशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/सौप्तिकपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-10-सौप्तिकपर्व-018