महाभारतम्-10-सौप्तिकपर्व-007

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सौप्तिकपर्व

द्रौणिना शिवस्तुतिः।। 1 ।। द्रौणेः पुरतः काञ्चनवेद्यामग्न्युद्भवः।। 2 ।। द्रौणेः समीपे नानाविधभीषणभूतगणानामागमनम्।। 3 ।। शिवेन आत्मनो हविष्ट्वकल्पनपूर्वकमग्नौ प्रविष्टाय द्रौणये खङ्गदानपूर्वकं तच्छरीरप्रवेशः।। 4 ।। पुनरश्वत्थाम्नः शिबिरगमनम्।। 5 ।।

सञ्जय उवाच। 10-7-1x
एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते।
अवतीर्य रथोपस्थाद्दध्यौ स प्रयतः स्थितः।।
10-7-1a
10-7-1b
द्रौणिरुवाच। 10-7-2x
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्।
गिरिशं वरदं देवं भवभावनमव्ययम्।।
10-7-2a
10-7-2b
शितिकण्ठमजं रुद्रं दक्षक्रतुहरं हरम्।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्।।
10-7-3a
10-7-3b
श्मशानवासिनं दृप्तं महागणपतिं विभुम्।
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम्।।
10-7-4a
10-7-4b
मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा।
अद्य भूतोपहारेण यक्ष्ये त्रिपुराघातिनम्।।
10-7-5a
10-7-5b
xxतुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम्।
विलोहितं नीलकण्ठमसह्यं दुर्निवारणम्।।
10-7-6a
10-7-6b
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च।
व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम्।।
10-7-7a
10-7-7b
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्।
धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम्।।
10-7-8a
10-7-8b
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्।
कुत्तिवाससमत्युग्रमातोषणतत्परम्।।
10-7-9a
10-7-9b
परं परेभ्यः परमं परं यस्मान्न विद्यते।
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम्।।
10-7-10a
10-7-10b
हिरण्यकवचं देवं चन्द्रमौलिविभूषणम्।
प्रपद्ये शरणं देवं परमेण समाधिना।।
10-7-11a
10-7-11b
इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम्।
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्।।
10-7-12a
10-7-12b
इति तस्य व्यवसितं ज्ञात्वा योगात्सुकर्मणः।
पुरस्तात्काञ्चनी वेदी प्रादुरासीन्महात्मनः।।
10-7-13a
10-7-13b
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत।
स दिशो विदिशः खं च ज्वालाभिरिव पूरयन्।।
10-7-14a
10-7-14b
दीप्तास्यनयनाश्चात्र नैकपादशिरोधराः।
[रत्नचित्राङ्गदधराः समुद्यतकरास्तथाः।।]
10-7-15a
10-7-15b
द्विपाः शैलप्रतीकाशाः प्रादुरासन्महागणाः।
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः।।
10-7-16a
10-7-16b
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा।
काकवक्त्राः प्लुवमुखाः शुकवक्त्रास्तथैव च।।
10-7-17a
10-7-17b
महाजगरवक्त्राश्च हंसवक्त्राः शितप्रभाः।
दार्वाघाटमुखाश्चापि चाषवक्त्राश्च भारत।।
10-7-18a
10-7-18b
कूर्मनक्रमुखाश्चैव शिंशुमारमुखास्तथा।
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च।।
10-7-19a
10-7-19b
हरिवक्त्राः क्रौञ्चमुखाः कपोताभमुखास्तथा।
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च।।
10-7-20a
10-7-20b
पाणिकर्णाः सहस्राक्षास्तथैव च महोदराः।
निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत।।
10-7-21a
10-7-21b
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः।
प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च।।
10-7-22a
10-7-22b
ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः।
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप।।
10-7-23a
10-7-23b
शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च।
शङ्खमालापरिकराः शह्खध्वनिसमस्वनाः।।
10-7-24a
10-7-24b
जटाधराः प़ञ्चशिखास्तथा मुण्डाः कृशोदराः।
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः।।
10-7-25a
10-7-25b
मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः।
उष्णीषिणः कुण्डलिनश्चारुवक्त्राः स्वलङ्कृताः।।
10-7-26a
10-7-26b
पद्मोत्पलापीडधरास्तथा मुकुटधारिणः।
महात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः।।
10-7-27a
10-7-27b
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः।
भुशुण्डीपाशहस्ताश्च दण्‍डहस्ताश्च भारत।।
10-7-28a
10-7-28b
पृष्ठेषु बद्धेषुधयश्चित्रबाणोत्कटास्तथा।
सध्वजाः सपताकाश्च सघण्टाः सपरश्वथाः।।
10-7-29a
10-7-29b
महापाशोद्यतकरास्तथा लगुडपाणयः।
स्थूणाहस्ताः खङ्गहस्ताः सर्पोच्छ्रितकिरीटिनः।।
10-7-30a
10-7-30b
महासर्पाङ्गदधराश्चित्राभरणधारिणः।
रजोध्वजाः पङ्कदिग्धाः सर्वे चित्राम्बरस्रजः।
नीलाङ्गाः पिङ्गलाङ्गाश्च मुण्डवक्तास्तथैव च।।
10-7-31a
10-7-31b
10-7-31c
भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान्।
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः।।
10-7-32a
10-7-32b
गायमानास्तथैवान्ये संहृष्टाः पुरुषर्षभाः।
लङ्घयन्तः प्लुवन्तश्च वल्गन्तश्च महारथाः।।
10-7-33a
10-7-33b
धावन्तो जवनाश्चण्डाः पावकोद्वूतमूर्धजाः।
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः।।
10-7-34a
10-7-34b
सुभीमा घोररूपाश्च शूलपट्टसपाणयः।
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः।।
10-7-35a
10-7-35b
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा।
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः।।
10-7-36a
10-7-36b
पातारोऽसृग्वसाज्यानां मांसान्त्रकृतभोजनाः।
चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः।।
10-7-37a
10-7-37b
अतिहस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः।
विकटाः काललंबोष्ठा बृहच्छेफाण्डपिण्डिकाः।।
10-7-38a
10-7-38b
महार्हनानाविकटा मुण्डाश्च जटिलाः परे।
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले।।
10-7-39a
10-7-39b
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम्।
ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः।।
10-7-40a
10-7-40b
कामकारकरा नित्यं त्रैलोक्यस्येश्वरेश्वराः।
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः।।
10-7-41a
10-7-41b
प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम्।
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः।।
10-7-42a
10-7-42b
मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः।
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान्।।
10-7-43a
10-7-43b
पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा।
चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा।।
10-7-44a
10-7-44b
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च।
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः।।
10-7-45a
10-7-45b
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः।
महाभूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः।।
10-7-46a
10-7-46b
नानावादित्रहसितक्ष्वेडितोत्कृष्टगर्जितैः।
सन्त्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः।।
10-7-47a
10-7-47b
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः।
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः।।
10-7-48a
10-7-48b
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः।
भीमोग्रपरिघालातशूलपट्टसपाणयः।
घोररूपाः समाजग्मुर्भूतसङ्घाः सहस्रशः।।
10-7-49a
10-7-49b
10-7-49c
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात्।
न च तान्प्रेक्षमाणोऽपि व्यथामुपजगाम ह।।
10-7-50a
10-7-50b
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान्।
स्वयमेवात्मनात्मानमुपहारमुपाहरत्।।
10-7-51a
10-7-51b
धनूंषि समिधस्तत्र पवित्राणि सिताः शराः।
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि।।
10-7-52a
10-7-52b
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान्।
उपहारं महामन्युरथात्मानमुपाहरत्।।
10-7-53a
10-7-53b
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्।
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः।।
10-7-54a
10-7-54b
द्रौणिरुवाच। 10-7-55x
इममात्मानमद्याहं जातमाङ्गिरसे कुले।
स्वग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम्।।
10-7-55a
10-7-55b
भवद्भक्त्या महादेव पस्मेण समाधिना।
अस्यामापदि विश्वात्मन्नुपाकुर्मी तवाग्रतः।।
10-7-56a
10-7-56b
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै।
गुणानां हि प्रधानानां कैवल्यं त्वयि तिष्ठति।।
10-7-57a
10-7-57b
सर्वभूताश्रय विभो हविर्भूतमवस्थितम्।
प्रतिगृहाण मां देव यद्यशक्याः परे मया।।
10-7-58a
10-7-58b
इत्युक्त्वा द्रौणिरास्थाय तां देवीं दीप्तपावकाम्।
सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत्।।
10-7-59a
10-7-59b
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्।
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव।।
10-7-60a
10-7-60b
सत्यशौचार्जवत्यागैस्तपसा नियमेन च।
क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा।।
10-7-61a
10-7-61b
यथावदहमाराद्वः कृष्णेनाक्लिष्टकर्मणा।
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते।।
10-7-62a
10-7-62b
कुर्वता तात सम्मानं त्वां च जिज्ञासता मया।
पाञ्चालाः सर्वदा गुप्ता मायाश्च बहुशः कृताः।।
10-7-63a
10-7-63b
कृतस्तस्यैव सम्मानं पाञ्चालान्रक्षता मया।
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम्।।
10-7-64a
10-7-64b
एवमुक्त्वा महात्मानं भगवानात्मनस्तनुम्।
आविवेश ददौ चास्मै विमलं खङ्गमुत्तमम्।।
10-7-65a
10-7-65b
अथाविष्टो भगवता भूयो जज्वाल तेजसा।
वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजसा।।
10-7-66a
10-7-66b
तं दृष्ट्वा तानि भूतानि रक्षांसि च समाद्रवन्।
अभितः शिबिरं यान्तं द्रोणपुत्रं महारथम्।
देवदेवं हरं स्थाउं यान्तं साक्षादिवेश्वरम्।।
10-7-67a
10-7-67b
10-7-67c
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि सप्तमोऽध्यायः।। 7 ।।

10-7-1 रथोपस्थाद्दध्यौ स प्रयतः स्थितः इति क.पाठः।। 10-7-5 सोऽहमात्मोपहारेणेति झ.पाठः।। 10-7-9 उमाभूषणतत्परमिति झ.पाठः।। 10-7-11 हिरण्यदण्डकवचं चारुमौलिविभूषणमिति क.पाठः।। 10-7-17 प्लुवमुखाः मण्डूकवक्ताः।। 10-7-18 दार्वाघाटः पक्षिविशेषः। महागजसवकाश्चेति क.पाठः।। 10-7-38 पिण्डिका जानुनोरधः---पश्चाद्भागः।। 10-7-53 सौम्येन सोमदैवत्येन मन्त्रेण।। 10-7-7 सप्तमोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/सौप्तिकपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-10-सौप्तिकपर्व-007