महाभारतम्-10-सौप्तिकपर्व-006

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सौप्तिकपर्व

अश्वत्थाम्नः शिबिरद्वारस्थमहाभूतदर्शनम्।। 1 ।। भूतजिगीषया द्रौणिविसृष्टानामस्त्रशस्त्राणां भूतेन ग्रसनम्।। 2 ।। ततश्चिंतातान्तश्च द्रौणेर्महादेवोपासनाध्यवसायः।। 3 ।।

धृतराष्ट्र उवाच। 10-6-1x
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ।
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे।।
10-6-1a
10-6-1b
स़ञ्जय उवाच। 10-6-2x
कृतवर्माणमामन्त्र्य कृपं च स महारथः।
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत्।।
10-6-2a
10-6-2b
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्।
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं रोमहर्षणम्।।
10-6-3a
10-6-3b
वसानं चर्म वैयाघ्रं वसारुधिरविस्रवम्।
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्।।
10-6-4a
10-6-4b
बाहुभिः स्वायतैर्भीमैर्नानाप्रहरणोद्यतैः।
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम्।।
10-6-5a
10-6-5b
दंष्ट्राकरालवदनं व्यादितास्यं भयानकम्।
नयनानां सहस्रैश्च विचित्रैरभिभूषितम्।।
10-6-6a
10-6-6b
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च।
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः।।
10-6-7a
10-6-7b
तस्यास्यनासिकाभ्यां च श्रवणाभ्यां च सर्वशः।
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः।।
10-6-8a
10-6-8b
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः।
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः।।
10-6-9a
10-6-9b
तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम्।
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत्।।
10-6-10a
10-6-10b
द्रौणिमुक्ताञ्छरांस्तांस्तु तद्भूतं महदग्रसत्।
उदधेरिव वार्योघान्पावको बडबामुखः।।
10-6-11a
10-6-11b
अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान्निरर्थकान्।
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव।।
10-6-12a
10-6-12b
सा तमाहत्य दीप्ताग्रा रथशक्तिरदीर्यत।
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता।।
10-6-13a
10-6-13b
अथ हेमत्सरुं दिव्यं खङ्गमाकाशवर्चसम्।।
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम्।।
10-6-14a
10-6-14b
ततः खङ्गवरं धीमान्भूताय प्राहिणोत्तदा।
स तदासाद्य भूतं वै विलयं तूलवद्ययौ।।
10-6-15a
10-6-15b
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्।
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत्।।
10-6-16a
10-6-16b
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः।
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः।।
10-6-17a
10-6-17b
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः।
अचिन्तयत्सुसन्त्रस्तः कृपभोजवचः स्मरन्।।
10-6-18a
10-6-18b
ब्रुवतामप्रियं पथ्यं सुहृदां न शृमोति यः।
स शोचत्यापदं प्राप्य थाऽहमवमत्य तौ।।
10-6-19a
10-6-19b
शास्त्रदृष्टानविद्वान्यः समतीत्य जिघांसति।
स पथः प्रच्युतो धर्म्यात्कुपथे प्रतिहन्यते।।
10-6-20a
10-6-20b
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा।
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च।।
10-6-21a
10-6-21b
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च मातयेत्।
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा।।
10-6-22a
10-6-22b
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्।
अमार्गेणैवमारभ्य घोरामापदमागतः।।
10-6-23a
10-6-23b
तां चापदं घोरतरां प्रवदन्ति मनीषिणः।
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते।।
10-6-24a
10-6-24b
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह।
न हि दैवाद्गरीयो वै मानुष्यं किञ्चिदिष्यते।।
10-6-25a
10-6-25b
मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति।
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते।।
10-6-26a
10-6-26b
प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः।
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते।।
10-6-27a
10-6-27b
तदिदं दुष्प्रणीतेन भयं मा समुपस्थितम्।
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन।।
10-6-28a
10-6-28b
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्।
न चैतदभिजानामि चिन्तयन्नपि सर्वथा।।
10-6-29a
10-6-29b
ध्रुवं येयमधर्मेण प्रहिता कलुषा मतिः।
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते।।
10-6-30a
10-6-30b
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम्।
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन।।
10-6-31a
10-6-31b
सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम्।
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति।।
10-6-32a
10-6-32b
कपर्दिनं प्रपद्येऽहं देवदेवमुमापतिम्।
कपालमालिनं रुद्रं भगनेत्रहरं हरम्।।
10-6-33a
10-6-33b
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च।
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम्।।
10-6-34a
10-6-34b
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि षष्ठोऽध्यायः।। 6 ।।

10-6-12 रथशक्तिं चक्रम्।। 10-6-13 युग्मान्ते सूर्यमिति झ.पाठः तत्र युग्मान्ते मिथुनराशेरन्ते अतिदीप्तं इत्यर्थः।। 10-6-15 विलं नकुलवद्ययौ इति झ.पाठः।। 10-6-17 अनाकाशं निरवकाशम्।। 10-6-6 षष्ठोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/सौप्तिकपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-10-सौप्तिकपर्व-006