महाभारतम्-10-सौप्तिकपर्व-002

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सौप्तिकपर्व

कृपेण द्रौणिम्प्रति कर्तव्योपदेशः।। 1 ।।

कृप उवाच। 10-2-1x
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो।
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज।।
10-2-1a
10-2-1b
आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते।।
10-2-2a
10-2-2b
न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम।
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः।।
10-2-3a
10-2-3b
ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः।
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः।।
10-2-4a
10-2-4b
पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम्।
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम्।।
10-2-5a
10-2-5b
उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम्।
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः।।
10-2-6a
10-2-6b
सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते।
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी।।
10-2-7a
10-2-7b
तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते।
प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः।।
10-2-8a
10-2-8b
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ।
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च।।
10-2-9a
10-2-9b
कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति।
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्।।
10-2-10a
10-2-10b
उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम्।
अभलं दृश्यते लोके सम्यगप्युपपादितम्।।
10-2-11a
10-2-11b
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते।।
10-2-12a
10-2-12b
प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्।।
10-2-13a
10-2-13b
चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि।।
10-2-14a
10-2-14b
शक्नोति जीवितुं दक्षो नालसः सुखमेधते।
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः।।
10-2-15a
10-2-15b
यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम्।
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति।।
10-2-16a
10-2-16b
नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित्।
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः।।
10-2-17a
10-2-17b
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा।
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः।।
10-2-18a
10-2-18b
हीनं पुरुषकारेण यदि दैवेन वा पुनः।
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्।।
10-2-19a
10-2-19b
हीनं पुरुषकारेण कर्म त्विह न सिध्यति।। 10-2-20a
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते।
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते।।
10-2-21a
10-2-21b
सम्यगीहा पुनरियं या बृद्धानुपसेवते।
आपृच्छति च यच्छ्रेयः करोति च हितं वचः।।
10-2-22a
10-2-22b
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः।
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते।।
10-2-23a
10-2-23b
वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्।
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्।।
10-2-24a
10-2-24b
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः।
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः।।
10-2-25a
10-2-25b
सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना।
असमर्थः समारब्धो मूढत्वादविचिनन्तितः।।
10-2-26a
10-2-26b
हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह।
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः।।
10-2-27a
10-2-27b
पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति।
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः।।
10-2-28a
10-2-28b
अनुवर्तामहे यत्तु तं वयं पापपूरुषम्।
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्।।
10-2-29a
10-2-29b
अेन तु ममाद्यापि व्यसनेनोपतापिता।
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते।।
10-2-30a
10-2-30b
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः।
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति।।
10-2-31a
10-2-31b
ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः'।
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्।।
10-2-32a
10-2-32b
ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम्।
उपपृच्छामहे गत्वा विदुरं च महामतिम्।।
10-2-33a
10-2-33b
ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम्।
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः।।
10-2-34a
10-2-34b
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्।। 10-2-35a
कृते पुरुषकारे तु येषां कार्यं न सिध्यति।
दैवेनोपहतास्ते तु नात्र कार्या विचारणा।।
10-2-36a
10-2-36b
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि द्वितीयोऽध्यायः।। 2 ।।

10-2-2 दैवे आसमन्तात् बद्धाः पुरुषकारे निहीनतया बद्धाः। तेन दैवं प्रधानं पुरुषकार उपसर्जनमित्युक्तं भवति। आरम्भा मानुषाः सर्वे इति क.पाठः।। 10-2-6 उत्थानमिति। दैवस्य प्रधानस्योत्थानं पुरुषकारो व्यर्थं भवति तथाऽनुत्थानमुत्थानहीनं दैवमपि व्यर्थमिति पक्षद्वयं सर्वत्र व्यवस्यति तत्र पूर्वएव पक्षः श्रेयानित्यर्थः।। 10-2-9 विचेष्टन्तः प्रवृत्ता दृश्यन्ते लोकदृष्ठ्येत्यर्थः।। 10-2-13 कर्माकृत्वा दुःखं पश्येदित्यापि प्रायशोऽस्ति।। 10-2-14 दुर्दर्शौ दुर्लभौ।। 10-2-16 स्पर्शं चास्याधिगच्छतीति छ.पाठः। तत्र अस्य कर्मणः स्पर्शं लोकस्य सम्बन्धं चाधिगच्छति लोकप्रियः स्यादित्यर्थः।। 10-2-17 अकृत्वा कर्म यो लोके फलं विन्दति धिष्ठित इति झ.पाठः। तत्र अदक्षस्तु परप्रयत्नार्जितेन जीवन्नपि भोक्तुमेवायं समर्थो नार्जयितुमिति निन्द्यत इति भावः।। 10-2-18 एतत् दैवदाक्ष्ययोः साहित्यम्। अन्यथा तयोरन्यतरालम्बनेन।। 10-2-23 योगे अलब्धलाभे।। 10-2-25 अनीशः अजितचित्तः। अवमानी परमवजानन्।। 10-2-2 द्वितीयोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/सौप्तिकपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-10-सौप्तिकपर्व-002