महाभारतम्-09-शल्यपर्व-049

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

बलरामस्य बदरपाचनतीर्थगमनम्।। 1 ।। श्रुतावत्यरुन्धत्योर्महिमानुवर्णनम्।। 2 ।।

वैशम्पायन उवाच। 9-49-1x
ततस्तीर्थवरं रामो ययौ बदरपाचनाम्।
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता।।
9-49-1a
9-49-1b
भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि।
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी।।
9-49-2a
9-49-2b
तपश्चचार सात्युग्रं नियमैर्बहुभिर्वृता।
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी।।
9-49-3a
9-49-3b
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह।
चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान्सुदुश्चरान्।।
9-49-4a
9-49-4b
तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते।
भक्त्या च भगवान्प्रीतः परया पाकशासनः।।
9-49-5a
9-49-5b
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः।
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः।।
9-49-6a
9-49-6b
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्।
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत।।
9-49-7a
9-49-7b
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो।।
9-49-8a
9-49-8b
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत।
शक्त्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन।।
9-49-9a
9-49-9b
व्रतैश्च नियमैश्चैव तपसा च तपोधन।
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः।।
9-49-10a
9-49-10b
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम्।
उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत।।
9-49-11a
9-49-11b
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते।
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः।।
9-49-12a
9-49-12b
तच्च सर्वं यथाभूतं भविष्यति वरानने।
तपसा लभ्यते सर्वं यथाभूतं भविष्यति।।
9-49-13a
9-49-13b
यथा स्थानानि दिव्यानि विबुधानां शुभानने।
तपसा तानि प्राप्याणि तपोमूलं महात्सुखम्।।
9-49-14a
9-49-14b
इति कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः।
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम।।
9-49-15a
9-49-15b
प़ञ्च चैतानि सुभगे बदराणि शुभव्रते।
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः।।
9-49-16a
9-49-16b
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः।
अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम्।।
9-49-17a
9-49-17b
तच्च तीर्थं महाराज यत्र जप्यं जजाप सः।
इन्द्रतीर्थेतिविख्यातं त्रिषु लोकेषु मानद।।
9-49-18a
9-49-18b
तस्य जिज्ञासनार्थं स भगवान्पाकशासनः।
बदराणामपचनं चकार विबुधाधिपः।।
9-49-19a
9-49-19b
ततः प्रतप्ता सा राजन्वाग्यता विगतक्लमा।
तत्परा शुचिसंवीता पावके समधिश्रयत्।
अपचद्राजशार्दूल बदराणि महाव्रता।।
9-49-20a
9-49-20b
9-49-20c
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ।
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्।।
9-49-21a
9-49-21b
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः।
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्।।
9-49-22a
9-49-22b
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना।
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ।।
9-49-23a
9-49-23b
चरणे दह्यमाने च नाचिन्तयदनिन्दिता।
दुःखं कमलपत्राक्षी महर्षिप्रियकाम्यया।।
9-49-24a
9-49-24b
न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत्।
शरीरमग्निना दीप्य जलमध्ये यथा स्थिता।।
9-49-25a
9-49-25b
तच्चास्याः पचने यत्नं न न्यवर्तत भारत।
सर्वथा बदराण्येव पक्तव्यानीति कन्यका।।
9-49-26a
9-49-26b
सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा।
अपचद्बदराण्येव न चापच्यन्त भारत।।
9-49-27a
9-49-27b
तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम्।
न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा।।
9-49-28a
9-49-28b
अथ तत्कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः।
ततः सन्दर्शयामास कन्यायै रूपमात्मनः।।
9-49-29a
9-49-29b
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्।
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च।।
9-49-30a
9-49-30b
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे।
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि।।
9-49-31a
9-49-31b
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति।
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्।।
9-49-32a
9-49-32b
9-49-32c
अस्मिन्खलु महाभागे शुभे तीर्थवरेऽनघे।
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम्।।
9-49-33a
9-49-33b
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः।
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल।।
9-49-34a
9-49-34b
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने।
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी।।
9-49-35a
9-49-35b
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः।
अरुन्धत्यपि कल्याणी तपोनित्याऽभवत्तदा।।
9-49-36a
9-49-36b
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम्।
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा।।
9-49-37a
9-49-37b
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः।
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे।।
9-49-38a
9-49-38b
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना।
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय।।
9-49-39a
9-49-39b
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते।
इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया।
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी।।
9-49-40a
9-49-40b
9-49-40c
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा।
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी।।
9-49-41a
9-49-41b
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः।
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः।।
9-49-42a
9-49-42b
ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात्।
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः।।
9-49-43a
9-49-43b
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन्।
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च।।
9-49-44a
9-49-44b
ततः सन्दर्शयामास स्वरूपं भगवान्हरः।
ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत्।।
9-49-45a
9-49-45b
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम्।
अस्यास्च यत्तपो विप्रा न समं तन्मतं मम।।
9-49-46a
9-49-46b
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्।
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः।।
9-49-47a
9-49-47b
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः।
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि।।
9-49-48a
9-49-48b
साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि।
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम्।।
9-49-49a
9-49-49b
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम्।
तथाऽस्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः।।
9-49-50a
9-49-50b
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्।
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम्।।
9-49-51a
9-49-51b
सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा।
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्।
अश्रान्तां चाविवर्णां च क्षुत्पिपासाऽसमायुताम्।।
9-49-52a
9-49-52b
9-49-52c
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया।
यथा त्वया महाभागे मदर्थे संशितव्रते।।
9-49-53a
9-49-53b
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः।
तथा चेदं ददाम्यद्य नियमेन सुतोषितः।
विशेषं तव कल्याणि प्रयच्छामि वरं वरे।।
9-49-54a
9-49-54b
9-49-54c
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना।
तस्य चाहं प्रभावेन तव कल्याणि तेजसा।
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि।।
9-49-55a
9-49-55b
9-49-55c
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः।
सस्नात्वा प्राप्स्यते लोकान्देहन्यासात्सुदुर्लभान्।।
9-49-56a
9-49-56b
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान्।
श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः।।
9-49-57a
9-49-57b
गते वज्रधरे राजंस्तत्र वर्षं पपात ह।
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम्।।
9-49-58a
9-49-58b
दवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः।
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते।।
9-49-59a
9-49-59b
उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम्।
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत।।
9-49-60a
9-49-60b
जनमेजय उवाच। 9-49-61x
का तस्या भगवन्माता क्व संवृद्धा च शोभना।
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे।।
9-49-61a
9-49-61b
वैशम्पायन उवाच। 9-49-62x
भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः।
दृष्ट्वाऽप्सरसमायान्ती घृताचीं पृथलोचनाम्।।
9-49-62a
9-49-62b
स तु जग्राह तद्रेतः करेण जपतां वरः।
तदाऽपतत्पर्णपुटे तत्र सा सम्भवत्सुता।।
9-49-63a
9-49-63b
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः।
नाम चास्याः स कृतवान्भरद्वाजो महामुनिः।।
9-49-64a
9-49-64b
श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि।
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम्।।
9-49-65a
9-49-65b
तत्राप्युपस्पृश्य महानुभावो
वसूनि दत्त्वा च महाद्विजेभ्यः।
जगाम तीर्थं सुसमाहितात्मा
शक्रस्य वृष्णिप्रवरस्तदानीम्।।
9-49-66a
9-49-66b
9-49-66c
9-49-66d
।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि एकोनपञ्चाशोऽध्यायः।। 49 ।।

9-49-23 उपावर्तयत अग्रेऽग्रे प्रसारितवती।। 9-49-26 तच्चास्या वचनं नित्यमवर्तद्वृदि भारत इति झ.पाठः।। 9-49-49 एकोनपञ्चाशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-049