महाभारतम्-09-शल्यपर्व-039

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

सरस्वत्याः सप्तधाविभागे कारणाभिधानम्।। 1 ।।
सप्तभागानां कस्मिंश्चित्तीर्थे एकीभवनात्तत्तीर्थस्य सप्तसारस्वतनामप्राप्तिः।। 2 ।।
मङ्कणमुनिचरितप्रतिपादनम्।। 3 ।।

जनमेजय उवाच। 9-39-1x
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः।
कथं सिद्धः स भगवान्कश्चास्य नियमोऽभवत्।।
9-39-1a
9-39-1b
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम।
एतन्मे सर्वमाचक्ष्व यथातत्त्वं महामुने।।
9-39-2a
9-39-2b
वैशम्पायन उवाच। 9-39-3x
सप्तनद्यः सरस्वत्या याभिर्व्याप्तमिदं जगत्।
आहूता बलवद्भिर्हि तत्रतत्र सरस्वती।।
9-39-3a
9-39-3b
सुप्रभा काञ्चनाक्षी च विशाला च मनोरमा।
सरस्वती चौघवती सुरेणुर्विमलोदका।।
9-39-4a
9-39-4b
पितामहस्य महतो वर्तमाने महामखे।
वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु।।
9-39-5a
9-39-5b
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा।
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा।।
9-39-6a
9-39-6b
तत्र चैव महाराज दीक्षिते प्रपितामहे।
यजतस्तस्य सत्रेण सर्वकामसमृद्विना।।
9-39-7a
9-39-7b
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा।
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्रतत्र ह।।
9-39-8a
9-39-8b
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः।
वादित्राणि च दिव्यानि वादयामासुरञ्जसा।।
9-39-9a
9-39-9b
तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवतागणाः।
विस्मयं परमं जग्मुः किमु मानुषयोनयः।।
9-39-10a
9-39-10b
वर्तमाने यथा यज्ञे पुष्करस्थे पितामहे।
अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः।।
9-39-11a
9-39-11b
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती।
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम्।।
9-39-12a
9-39-12b
पितामहेन यजता आहूता पुष्करेषु वै।
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती।।
9-39-13a
9-39-13b
तां दृष्ट्वा मुनयस्तुष्टास्त्वरायुक्तां सरस्वतीम्।
पितामहं मानयन्तीं क्रतुं ते बहुमेनिरे।।
9-39-14a
9-39-14b
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती।
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम्।।
9-39-15a
9-39-15b
नैमिषे मुनयो राजन्समागम्य समासते।
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर।।
9-39-16a
9-39-16b
यत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः।
ते समागम्य मुनयः सस्मारुर्वै सरस्वतीम्।।
9-39-17a
9-39-17b
सा तु ध्याता महाराज मुनिभिः सत्रयाजिभिः।
समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम्।
आजगाम महाभागा तत्र पुण्या सरस्वती।।
9-39-18a
9-39-18b
9-39-18c
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रायाजिxxxम्।
आगता सरितां श्रेष्ठा तत्र भारत पूजित।।
9-39-19a
9-39-19b
गयस्य यजमानस्य गयेष्वेव महाक्रतुम्।
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती।।
9-39-20a
9-39-20b
गयस्य यजमानस्य गयेष्वेव महाक्रतुम्।
विशालां तु गयस्याहुर्ऋषयः संशितव्रता।।
9-39-21a
9-39-21b
सरित्सा हिमवत्पार्श्वात्प्रस्रुता शीघ्रगामिनी।
औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत।।
9-39-22a
9-39-22b
समेते सर्वतः स्फीते मुनीनां मण्डले तदा।
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः।।
9-39-23a
9-39-23b
औद्दालकेन यजता पूर्वं ध्याता सरस्वती।
आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात्।।
9-39-24a
9-39-24b
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः।
मनोहरेति विख्याता सा हि तैर्मनसा वृता।।
9-39-25a
9-39-25b
[सुरणुऋषभे द्वीपे पुण्ये राजर्षिसेविते।]
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः।
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती।।
9-39-26a
9-39-26b
9-39-26c
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना।
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती।।
9-39-27a
9-39-27b
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती।
सुवेणिरिति विख्याता प्रस्रुता शीघ्रगामिनी।।
9-39-28a
9-39-28b
विमलोदा भगवती ब्रह्मणा यजता पुनः।
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ।।
9-39-29a
9-39-29b
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः।
सप्तसारस्वतं तीर्थं ततस्तु प्रथितं भुवि।।
9-39-30a
9-39-30b
इति सप्तसरस्वत्यो नामतः परिकीर्तिताः।
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम्।।
9-39-31a
9-39-31b
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः।
आपगामवगाढस्य राजन्प्रक्रीडितं महत्।।
9-39-32a
9-39-32b
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत।
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम्।
9-39-33a
9-39-33b
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि।।
तद्रेतः स तु जग्राह कलशे वै महातपाः।
9-39-34a
9-39-34b
`ऋषिः परमधर्मात्मा तदा पुरुषसत्तम'।।
सप्तधा प्रविभागं तु कलशस्थं जगाम ह।
9-39-35a
9-39-35b
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः।।
वायुवेगो वायुबलो वायुहा वायुमण्डलः।
9-39-36a
9-39-36b
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान्।
0
महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम्।।
9-39-37a
9-39-37b
9-39-37c
पुरा मङ्कणकः सिद्भः कुशाग्रेणेति नः श्रुतम्।
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्।।
9-39-38a
9-39-38b
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्।। 9-39-39a
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत्।
प्रनृत्तमुभयं वीर सेजसा तस्य मोहितम्।।
9-39-40a
9-39-40b
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः।
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि।।
9-39-41a
9-39-41b
9-39-41c
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह।
सुगणां हितकामार्थं महादेवोऽभ्यभाषत।।
9-39-42a
9-39-42b
भोभो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान्।
हर्षस्थानं किमर्थं च तवेदमधिकं मुने।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम।।
9-39-43a
9-39-43b
9-39-43c
ऋषिरुवाच। 9-39-44x
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम्।
यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो।।
9-39-44a
9-39-44b
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्।
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम्।।
9-39-45a
9-39-45b
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता।
अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽभवत्।।
9-39-46a
9-39-46b
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम्।। 9-39-47a
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः।
मेने देवं महादेवमिदं चोवाच विस्मितः।।
9-39-48a
9-39-48b
नान्यं देवादहं मन्ये रुद्रात्परतरं महत्।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक्।।
9-39-49a
9-39-49b
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः।
त्वामेव सर्वं विशति पुनरेव युगक्षये।।
9-39-50a
9-39-50b
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया।
त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः।।
9-39-51a
9-39-51b
त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ।
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह।।
9-39-52a
9-39-52b
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः।
`त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः।।
9-39-53a
9-39-53b
त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः।
त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम्।।
9-39-54a
9-39-54b
स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम्।
ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर।।
9-39-55a
9-39-55b
अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम्।
ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः।।
9-39-56a
9-39-56b
न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर।
यस्मात्त्वयोपकरणात्करोमि कमलेक्षण।।
9-39-57a
9-39-57b
प्रपद्ये शरणं शंभुं सर्वदा सर्वतः स्थितम्।
कर्मणा मनसा वाचा तमेवाभिभजाम्यहम्।।
9-39-58a
9-39-58b
जनमेजय उवाच।' 9-39-59x
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत्।। 9-39-59a
यदिदं चापलं देव कृतमेतत्स्मयादिकम्।
ततः प्रसादयमि त्वां तपो मे न क्षरेदिति।।
9-39-60a
9-39-60b
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्।
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा।।
9-39-61a
9-39-61b
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा।
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः।।
9-39-62a
9-39-62b
न तस्य दुर्लभं किञ्चिद्धवितेह परत्र वा।
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः।।
9-39-63a
9-39-63b
एतन्मङ्कणकस्यापि चरितं भूरितेजसः।
स हि पुत्रः सुकन्यायामुत्पन्नो मातरिश्वना।।
9-39-64a
9-39-64b
।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि एकोनचत्वारिंशोऽध्यायः।। 39 ।।

9-39-4 विशाला सुतनुस्तथा। सरस्वत्योघमाला च सुवेणी निर्मलोदका इति ङ.पाठः। सरस्वत्यूर्मिमाला च सुवेणी विमलोदका इति क.पाठः।। 9-39-17 सस्मरुः स्मृतवन्तः।। 9-39-20 गयेषु गयदेशेषु।। 9-39-25 मनोरमेति विख्याता सा हि तैर्मनसा कृता इति झ.पाठः।। 9-39-28 सुरेणुरिति झ.पाठः।। 9-39-32 राजन्प्रजपितं महत् इति क.पाठः।। 9-39-33 स्नायन्तीं स्नान्तीम्।। 9-39-36 मरुतां प्राणवायूनां एकोनपञ्चाशताम्। एतेषां तपसा मरुतो दित्यामुत्पन्ना इति कल्पान्तरविषयोऽयमर्थः।। 9-39-60 स्मयादिकं गर्दादिकम्।। 9-39-39 एकोनचत्वारिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-039