महाभारतम्-09-शल्यपर्व-038

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

बलभद्रस्य सरस्वतीतीरस्थानानातीर्थयात्राप्रकारवर्णनम्।। 1 ।।
तत्तत्तीर्थमहिमानुवर्णनं च।। 2 ।।

वैशम्पायन उवाच। 9-38-1x
ततो विनशनं राजन्नाजगाम हलायुधः।
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती।
तस्मात्तामृषयो नित्यं प्राहुर्विनशनेति च।।
9-38-1a
9-38-1b
9-38-1c
तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः।
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे।।
9-38-2a
9-38-2b
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः।
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः।।
9-38-3a
9-38-3b
तत्र देवाः सगन्धर्वा मासिमासि जनेश्वर।
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम्।।
9-38-4a
9-38-4b
तत्र नृत्यन्ति गन्धर्वास्तथैवाप्सरसां गणाः।
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम्।।
9-38-5a
9-38-5b
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः।
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः।।
9-38-6a
9-38-6b
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा।
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे।।
9-38-7a
9-38-7b
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः।
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम्।।
9-38-8a
9-38-8b
शय्याश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्।
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः।।
9-38-9a
9-38-9b
विश्वावसुमुखास्तत्र गन्धर्वाप्सरसां गणाः।
नृत्तवादित्रगीतं च कुर्न्वति सुमनोरमम्।।
9-38-10a
9-38-10b
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु।
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा।।
9-38-11a
9-38-11b
भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः।
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः।।
9-38-12a
9-38-12b
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः।
गर्गस्रोतो महातीर्थमाजगामैककुण्डली।।
9-38-13a
9-38-13b
तत्र गर्गेण वृद्धेन तपसा भावितात्मना।
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः।।
9-38-14a
9-38-14b
उत्पाता दारुणाश्चैक शुभाश्च जनमेजय।
सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना।।
9-38-15a
9-38-15b
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम्।। 9-38-16a
तत्र गर्गं महाभागमृषयः सुव्रता नृप।
उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो।।
9-38-17a
9-38-17b
तत्र गत्वा महाराज बलः श्वेतानुलेपनः।
विधिवद्वि धनं दत्त्वा मुनीनां भावितात्मनाम्।।
9-38-18a
9-38-18b
उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः।
नीलवासास्तदाऽगच्छच्छङ्घतीर्थं महायशाः।।
9-38-19a
9-38-19b
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम्।
श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम्।
सरस्वत्यास्तटे जातं नगं तालध्वजो बली।।
9-38-20a
9-38-20b
9-38-20c
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः।
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः।।
9-38-21a
9-38-21b
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः।
व्रतैश्च नियमैश्चैव कालेकाले स्म भुञ्जते।।
9-38-22a
9-38-22b
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक्।
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ।।
9-38-23a
9-38-23b
एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः।
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्।।
9-38-24a
9-38-24b
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः।
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च।।
9-38-25a
9-38-25b
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः।
पुण्यं नैसर्गिकं राजन्नाजगाम हलायुधः।।
9-38-26a
9-38-26b
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः।
आप्लुत्य सलिले चापि पूजयामास वै द्विजान्।।
9-38-27a
9-38-27b
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान्।
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम्।।
9-38-28a
9-38-28b
गत्वा चैवं महाबाहुर्नातिदूरे महायशाः।
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः।।
9-38-29a
9-38-29b
यत्र पन्नगराजस्य वासुकेः सन्निवेशनम्।
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्।।
9-38-30a
9-38-30b
ऋषिणां हि सहस्राणि तत्र नित्यं चतुर्दश।
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्।
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि।।
9-38-31a
9-38-31b
9-38-31c
पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव।। 9-38-32a
तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान्।
प्रायात्प्राचीं दिशं राजंस्तत्र तीर्थान्यनेकशः।।
9-38-33a
9-38-33b
सहस्रशतसङ्ख्यानि प्रथितानि पदेपदे।
आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः।।
9-38-34a
9-38-34b
दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः।
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः।।
9-38-35a
9-38-35b
ततो रामोऽगमत्तीर्थमृषिभिः सेक्तिं महत्।
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती।।
9-38-36a
9-38-36b
ऋषीणां नैमिषेयाणावमेक्षार्थं महात्मनाम्।
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली।
वभूव विस्मितो राजन्बलः श्वेतानुलेपनः।।
9-38-37a
9-38-37b
9-38-37c
जनमेजय उवाच। 9-38-38x
कस्मात्सरस्वती ब्रह्मन्निवृत्ता कप्राङ्मुखी भवत्।
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम।।
9-38-38a
9-38-38b
कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः।
निवृत्ता हेतुना केन कथमेव सरिद्वरा।।
9-38-39a
9-38-39b
वैशम्पायन उवाच। 9-38-40x
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः।
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके।।
9-38-40a
9-38-40b
ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे।
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि।।
9-38-41a
9-38-41b
निवृत्ते नैमिषे ये वै सत्रे द्वादशवार्षिके।
आजग्मुर्ऋषयस्तत्र बहवस्तीर्थकारणात्।।
9-38-42a
9-38-42b
ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते।
तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे।।
9-38-43a
9-38-43b
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः।
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः।।
9-38-44a
9-38-44b
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्।
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः।।
9-38-45a
9-38-45b
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम्।
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः।।
9-38-46a
9-38-46b
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः।
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे।।
9-38-47a
9-38-47b
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः।
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः।।
9-38-48a
9-38-48b
आसन्वै मुनयस्तवत्र सरस्वत्याः समीपतः।
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः।।
9-38-49a
9-38-49b
शतशश्च समापेतुर्ऋषयः सत्रयाजिनः।
तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः।
तेऽवकाशं च ददृशुः कुरुक्षेत्रं (त्रे) महाव्रताः।।
9-38-50a
9-38-50b
9-38-50c
ततो यज्ञोपवीतैः स्वैस्तत्र कृत्वा सरस्वतीम्।
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः।।
9-38-51a
9-38-51b
ततस्तमृपिसङ्घातं निराशं चिन्तयान्वितम्।
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती।।
9-38-52a
9-38-52b
ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरस्वती।
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय।।
9-38-53a
9-38-53b
ततो निवृत्त्य राजेन्द्र तेषामर्थे सरस्वती।
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा।।
9-38-54a
9-38-54b
अमोघा गमनं कृत्वा तेषां भूयो जगाम ह।
अत्यद्भुतं महच्चक्रे तदा राजन्महानदी।।
9-38-55a
9-38-55b
एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः।
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम्।।
9-38-56a
9-38-56b
तत्र कुञ्जान्बहून्दृष्ट्वा निवृत्तां च सरस्वतीम्।
बभूव विस्मयस्तत्र रामस्याथ महात्मनः।।
9-38-57a
9-38-57b
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः।
दत्त्वा देयान्द्विजातिभ्यो भाण्डानि विविधानि च।।
9-38-58a
9-38-58b
भक्ष्यं भोज्यं कच विविधं ब्राह्मणेभ्यः प्रदाय च।
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः।।
9-38-59a
9-38-59b
सरस्वतीतीर्थवरं नानाद्विजगणायुतम्।
बदरेङ्गुदश्यामाकाप्लुक्षाश्वत्थबिभीतकैः।।
9-38-60a
9-38-60b
कङ्कोलैश्च पलाश्चैश्च करीरैः पीलुभिस्तथा।
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा।।
9-38-61a
9-38-61b
करुषकवरैश्चैव बिल्वैराम्रातकैस्तथा।
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम्।।
9-38-62a
9-38-62b
कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम्।
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि।।
9-38-63a
9-38-63b
तथाऽश्मकुट्टैर्वातेयैर्मुनिभिर्बहुभिर्वृतम्।
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम्।।
9-38-64a
9-38-64b
अहिंस्रैर्धर्मपरमैर्नृभिरत्यर्थरोवितम्।
सप्तसारस्वतं तीर्थमाजगाम हलायुधः।
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः।।
9-38-65a
9-38-65b
9-38-65c
।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि अष्टविंशोऽध्यायः।। 38 ।।

9-38-1 शूद्राभीरान्द्विष्टमाना---इति क.पाठः।। 9-38-3 शुभ्राः शुचयः।। 9-38-9 छायाश्च विपुला इति ङ.पाठः।। 9-38-10 गन्धर्वाप्सरसान्विंताः इति ङ.पाठः।। 9-38-17 कालज्ञानार्थम्।। 9-38-20 शङ्खं शङ्खनामानम्। नगं वृक्षम्।। 9-38-26 पुण्यं द्रैतवनं इति झ.पाठः।। 9-38-37 अवेक्षार्यमिष्टसिद्ध्यर्थम्।। 9-38-38 इच्छामि श्रोतुमिति शेषः।। 9-38-51 यज्ञोपवीतैः यज्ञसूत्रैः निराशं सरस्वतीजललाभे इत्यर्थः।। 9-38-53 कुज्जान् आत्मनो वासस्थानानि तिर्थविशेषानित्यर्थः।। 9-38-38 अष्टत्रिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-038