महाभारतम्-09-शल्यपर्व-036

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

चन्द्रे स्वभार्यास्वश्विन्यादिदंक्षपुत्रीषु इतरोपेक्षणेन रोहिण्यामेवासक्ते दक्षेण रोषाच्चन्द्रे यक्ष्मप्रक्षेपः।। 1 ।।
देवै प्रसादितदक्षवचनाच्चन्द्रेण प्रभासतीर्थनिमज्जनेन क्षयरोगपरिहरणम्।। 2 ।।
बलभद्रेण तत्तीर्थे मज्जनादि।। 3 ।।

जनमेजय उवाच। 9-36-1x
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत।।
9-36-1a
9-36-1b
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने।।
9-36-2a
9-36-2b
वैशम्पायन उवाच। 9-36-3x
दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते।
स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ।।
9-36-3a
9-36-3b
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन्।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः।।
9-36-4a
9-36-4b
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन्।
अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा।।
9-36-5a
9-36-5b
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः।
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा।।
9-36-6a
9-36-6b
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः।
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः।।
9-36-7a
9-36-7b
सोमो वसति नास्मासु रोहिणीं भजते सदा।
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः।।
9-36-8a
9-36-8b
9-36-8c
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत्।।
9-36-9a
9-36-9b
तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम्।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्।।
9-36-10a
9-36-10b
विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः।
तथाऽपि सोमो भगवान्पुनरेव महीपते।
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः।।
9-36-11a
9-36-11b
9-36-11c
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्।। 9-36-12a
सोमो वसति नास्मासु नाकरोद्वचनं तव।
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके।।
9-36-13a
9-36-13b
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन।।
9-36-14a
9-36-14b
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी।
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः।।
9-36-15a
9-36-15b
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा।
सोमो वसति नास्मासु तस्मान्नः शरणं भव।।
9-36-16a
9-36-16b
रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति।।
9-36-17a
9-36-17b
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्।
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते।।
9-36-18a
9-36-18b
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत्।
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी।।
9-36-19a
9-36-19b
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः।
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः।।
9-36-20a
9-36-20b
न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति।
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे।।
9-36-21a
9-36-21b
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः।
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः।।
9-36-22a
9-36-22b
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे।
ततो देवाः समागम्य सोममूचुर्महीपते।।
9-36-23a
9-36-23b
किमिदं भवतो रूपमीदृशं सम्प्रकाशते।
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम्।।
9-36-24a
9-36-24b
श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम्।
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः।।
9-36-25a
9-36-25b
शापस्य कारमं चैव यक्ष्माणं च तथाऽऽत्मनः।
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन्।।
9-36-26a
9-36-26b
प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम्।
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते।।
9-36-27a
9-36-27b
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम्।
वीरुदोषधयश्चैव बीजानि विविधानि च।
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि।।
9-36-28a
9-36-28b
9-36-28c
एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः।
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा।।
9-36-29a
9-36-29b
हेतुना तु महाभागा निवर्तिष्यति केनचित्।
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः।।
9-36-30a
9-36-30b
सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः।
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम।।
9-36-31a
9-36-31b
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति।
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम।।
9-36-32a
9-36-32b
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति।।
9-36-33a
9-36-33b
सरस्वतीं ततः सोमः स जगामर्षिशासनात्।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह।।
9-36-34a
9-36-34b
अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः।
लोकान्प्रभासयामास शीतांशुत्वमवाप च।।
9-36-35a
9-36-35b
देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम्।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्।।
9-36-36a
9-36-36b
ततः प्रजापतिः सर्वा विससर्जाथ देवताः।
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत्।।
9-36-37a
9-36-37b
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम।।
9-36-38a
9-36-38b
स विसृष्टो महाराज जगामाथ स्वमालयम्।
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा।।
9-36-39a
9-36-39b
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत्।।
9-36-40a
9-36-40b
अमावास्यां महाराज नित्यशः शशलक्षणः।
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थउत्तमे।।
9-36-41a
9-36-41b
अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप।
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः।।
9-36-42a
9-36-42b
`लोकान्प्रभासयामास पुपोष च वपुस्तथा।
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः'।।
9-36-43a
9-36-43b
ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत।।
9-36-44a
9-36-44b
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा।।
9-36-45a
9-36-45b
उदपानमथागच्छत्त्वरावान्केशवाग्रजः।
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः।।
9-36-46a
9-36-46b
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय।
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम्।।
9-36-47a
9-36-47b
।। इति श्रीमन्महाभारते
शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे षट्‌त्रिंशोऽध्यायः।। 36 ।।

9-36-9 त्वा त्वां अधर्मः मा स्मृशेत्।। 9-36-14 विरोचन हे विशेषेण रोचमान। त्वां माशप्स्ये। तव रोचनां शापेन न हरामि तथा यतस्वेत्यर्थः।। 9-36-38 गच्छयतः इति क.पाठः।। 9-36-36 षटत्रिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-036