महाभारतम्-09-शल्यपर्व-035

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

जनमेजयेन वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः।। 1 ।।
तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे हेतुकथनम्।। 2 ।।

जनमेजय उवाच। 9-35-1x
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते।
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः।।
9-35-1a
9-35-1b
साहाय्यं धार्तराष्ट्रस्य न च कर्ताऽस्मि केशव।
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्।।
9-35-2a
9-35-2b
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः।
तस्य चागमनं भूयो ब्रह्मञ्शं सितुमर्हसि।।
9-35-3a
9-35-3b
आख्याहि मे विस्तरशः कथं राम उपस्थितः।
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम।।
9-35-4a
9-35-4b
वैशम्पायन उवाच। 9-35-5x
उपप्लाव्ये निविष्टेषु पाण्डवेषु महात्मसु।
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः।।
9-35-5a
9-35-5b
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्।।
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च।
9-35-6a
9-35-6b
उक्तवान्वचनं पथ्यं हितं चैव विशेषतः।। 9-35-7a
न च तत्कृतवान्राजा यथाऽख्यातं हि तत्पुरा।। 9-35-8a
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः।
आगच्छत महाबाहुरुपप्लाव्यं जनाधिप।।
9-35-9a
9-35-9b
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः।
आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम्।
यथोक्तं च यथावृत्तं गत्वा पाण्डवमब्रवीत्।।
9-35-10a
9-35-10b
9-35-10c
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः।
निर्गच्छध्व पाण्डवेयाः पुष्येण सहिता मया।।
9-35-11a
9-35-11b
ततो विभज्यमानेषु बलेषु बलिनां वरः।
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः।।
9-35-12a
9-35-12b
तेषामपि महाबाहो साहाय्यं मधुसूदन।
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा।।
9-35-13a
9-35-13b
ततो मन्युपरीतात्मा जगाम यदुनन्दनः।
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः।
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः।।
9-35-14a
9-35-14b
9-35-14c
आश्रयामास भोजस्तु दुर्योधनमरिन्दमः।
युयुधानेन सहितो वासुदेवस्तु पाण्डवान्।।
9-35-15a
9-35-15b
रौहिणेये गते शूरे पुष्येण मधुसूदनः।
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कूरून्।।
9-35-16a
9-35-16b
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह।
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च।।
9-35-17a
9-35-17b
आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा।
सुवर्णरजनं चैव धैनूर्वासांसि वाजिनः।।
9-35-18a
9-35-18b
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च।
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्।।
9-35-19a
9-35-19b
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः।
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्।।
9-35-20a
9-35-20b
एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः।
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा।।
9-35-21a
9-35-21b
सरस्वत्याः प्रतिस्रोतः समुद्रादभिजग्मिवान।
रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन्।।
9-35-22a
9-35-22b
ऋत्विग्भिश्च सुहृद्भिश्च यथाऽन्यैर्द्विजसत्तमैः।
रथैर्गजैस्तथाऽश्वैश्च प्रेष्यैश्च भरतर्षभ।
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः।।
9-35-23a
9-35-23b
9-35-23c
श्रान्तानां क्लान्तबपुषां शिशूनां विपुलायुषाम्।
देशेदेशे तु देयानि दानानि विविधानि च।।
9-35-24a
9-35-24b
अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा।
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत।।
9-35-25a
9-35-25b
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः।। 9-35-26a
योयो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा।
तस्यतस्य तु तत्रैवमुपजह्रुस्तदा नृष।।
9-35-27a
9-35-27b
तत्रतत्र स्थिता राजन्रौहिणेयस्य शासनात्।
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः।।
9-35-28a
9-35-28b
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च।
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम्।।
9-35-29a
9-35-29b
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत।
तत्रतत्रैव सर्वस्य क्लृप्तं सर्वमपश्यत।।
9-35-30a
9-35-30b
यथासुखं जनः सर्वो याति तिष्ठति वै तदा।
यातुकामस्य यानानि पानानि तृषितस्य च।।
9-35-31a
9-35-31b
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ।
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च।।
9-35-32a
9-35-32b
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः।
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्।।
9-35-33a
9-35-33b
नित्यप्रमुदितोपेतः स्वादुभक्ष्यो जलान्वितः।
विपण्यापणपण्यानं नानाजनशतैर्वृतः।
नानाद्रुमलतोपेतो नानारत्नविभूषितः।।
9-35-34a
9-35-34b
9-35-34c
ततो महात्मा नियतो मनस्विनां
पुण्येषु तीर्थेषु वसूनि राजन्।
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च
यदुप्रवीरो हलभृत्प्रतीतः।।
9-35-35a
9-35-35b
9-35-35c
9-35-35d
दोग्ध्रीश्च धेनूश्च सहस्रशो वै
सुवाससः काञ्चनबद्धशृङ्गीः।
हयांश्च नानाविधदेशजातान्
यानानि दासांश्च शुभान्द्विजेभ्यः।।
9-35-36a
9-35-36b
9-35-36c
9-35-36d
रत्नानि मुक्तामणिविद्रुमं चा--
प्यग्र्यं सुवर्णं रजतं सुशुन्द्वम्।
अयस्मयं ताम्रमयं च भाण्डं
ददौ द्विजातिप्रवरेषु रामः।।
9-35-37a
9-35-37b
9-35-37c
9-35-37d
एवं स वित्तं प्रददौ महात्मा
सरस्वतीतीर्थगतेषु भूरि।
ययौ क्रमेणाप्रतिमप्रभाव--
स्ततः कुरुक्षेत्रमुदारवृत्तः।।
9-35-38a
9-35-38b
9-35-38c
9-35-38d
जनमेजय उवाच। 9-35-39x
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे।
फलं च द्विपदां श्रेष्ठ कर्म निर्वृत्तिमेव च।।
9-35-39a
9-35-39b
यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः।
ब्रूहि ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे।।
9-35-40a
9-35-40b
वैशम्पायन उवाच। 9-35-41x
तीर्थानां च फलं राजन्गुणोत्पत्तिं चं सर्वशः।
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः।।
9-35-41a
9-35-41b
पूर्वं महाराज यदुप्रवीर
ऋत्विक्सुहृद्विप्रगणैश्च सार्धम्।
पुण्यं प्रभासं समुपाजगाम
यत्रोडुराढ्यक्ष्मणा क्षीयमाणः।।
9-35-42a
9-35-42b
9-35-42c
9-35-42d
विमुक्तशापः पुनराप्य तेजः
सर्वं जगद्भासयते नरेन्द्र।
एतत्तु तीर्थप्रवरं पृथिव्यां
प्रभासनात्तस्य ततः प्रभासः।।
9-35-43a
9-35-43b
9-35-43c
9-35-43d
।। इति श्रीमन्महाभारते
शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टदशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः।। 35 ।।

9-35-14 मैत्रनक्षत्रयोगे अनुराधायां।। 9-35-15 भोजः कृतवर्मा।। 9-35-16 पुष्येण हि पाण्डवेभ्यः प्रयाणं अनुराधातस्तीर्थयात्रार्थमिति विवेकः।। 9-35-34 विपणिः पाण्यवीथिका। आपणा हट्टाः। पण्यानि विक्रेयद्रव्याणि।। 9-35-35 कृतदक्षिणाश्चेति क.ङ.पाठः।। 9-35-39 गुणान् रमणीयत्वादीन्। उत्पत्तिं सम्भवम्। कर्मनिर्वृत्तिं तीर्थयात्राविदिसिद्धम्। निवृत्तिमपि कर्मणाम् इति क.ङ.पाठः।। 9-35-40 यथाकमेण तीर्थकमापेक्षया अनुपूर्वशः गुणोत्पत्त्यादिक्रमापेक्षया।। 9-35-43 प्रभासः प्रभासत्वम्।। 9-35-35 पञ्चत्रिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-035