महाभारतम्-09-शल्यपर्व-032

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

युधिष्ठिरकटुभाषणरुष्टेन सुयोधनेन गदयासह हदादुत्थानम्।। 1 ।।
युधिष्ठिरदुर्योधनयोः संवादः।। 2 ।।

धृतराष्ट्र उवाच। 9-32-1x
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः।
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः।।
9-32-1a
9-32-1b
न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन।
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्।।
9-32-2a
9-32-2b
[यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा।
खेदायैवाभिमानित्वात्सहेत्सैवं कथं गरिः।।]
9-32-3a
9-32-3b
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्।
प्रसादाद्भ्रियते यस्य प्रत्यक्षं तव सञ्जय।।
9-32-4a
9-32-4b
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः।
विहीनश्च स्वकैर्भृत्यैर्निर्जिते चावृतो भृशम्।।
9-32-5a
9-32-5b
स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः।
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय।।
9-32-6a
9-32-6b
सञ्जय उवाच। 9-32-7x
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः।
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह।।
9-32-7a
9-32-7b
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः।
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनःपुनः।।
9-32-8a
9-32-8b
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनःपुनः।
मनश्चकार युद्धाय राजानं चाभ्यभाषत।।
9-32-9a
9-32-9b
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः।
अहमेकः परिद्यूनो विरथो हतवाहनः।।
9-32-10a
9-32-10b
आत्तशस्त्रै रथोपेतैर्बहुभिः परिवास्तिः।
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सह।।
9-32-11a
9-32-11b
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर।
न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि।।
9-32-12a
9-32-12b
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः।
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः।।
9-32-13a
9-32-13b
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्।
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः।।
9-32-14a
9-32-14b
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः।
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः।।
9-32-15a
9-32-15b
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप।
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम्।।
9-32-16a
9-32-16b
अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे।
अन्वभ्याशं गतान्सर्वान्निहनिष्यामि भारत।।
9-32-17a
9-32-17b
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन्।
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये।।
9-32-18a
9-32-18b
तेजसा नाशयिष्यामि स्थिरीभवत पाण्‍डवाः।
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनां।।
9-32-19a
9-32-19b
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः।
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः।।
9-32-20a
9-32-20b
मद्रराजस्य शल्यस्य भूरिश्रवस एव च।
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च।।
9-32-21a
9-32-21b
मेत्राणां सुहृदां चैव बान्धवानां तथैव च।
प्रानृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह।।
9-32-22a
9-32-22b
सञ्जय उवाच। 9-32-23x
एतावदुक्त्वा वचनं विरराम जनाधिपः।
`सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव।।'
9-32-23a
9-32-23b
युधिष्ठिर उवाच। 9-32-24x
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन।
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज।।
9-32-24a
9-32-24b
दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम्।
यस्त्वमेको हि नः सर्वान्सङ्गरे योद्भुमिच्छसि।।
9-32-25a
9-32-25b
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम्।
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः।।
9-32-26a
9-32-26b
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम्।
हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि।।
9-32-27a
9-32-27b
दुर्योधन उवाच। 9-32-28x
एकश्चेद्योद्भुमाक्रन्दे वरोऽद्य मम दीयताम्।
आयुधानामियं चापि मता मे सतं गदा।।
9-32-28a
9-32-28b
भ्रातणां भवतामेकः शक्यं मां योऽभिमन्यते।
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह।।
9-32-29a
9-32-29b
वृत्तानि रथयुद्धानि विचित्रामि पदेपदे।
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्।।
9-32-30a
9-32-30b
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः।
युद्धानामपि पर्यायो भवत्वनुमते तव।।
9-32-31a
9-32-31b
गदया त्वां महाबाहो विजेष्यामि सहानुजम्।
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः।
न हि मे सम्भ्रामो जातु शक्रादपि युधिष्ठिर।।
9-32-32a
9-32-32b
9-32-32c
युधिष्ठिर उवाच। 9-32-33x
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन।
एक एकेन सङ्गम्य संयुगे गदया बली।।
9-32-33a
9-32-33b
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः।
अद्य ते जीवितं नास्ति यदीन्द्रोपि तवाश्रयः।।
9-32-34a
9-32-34b
सञ्जय उवाच। 9-32-35x
एतत्स नरशार्दूलो नामृष्यत तवात्मजः।
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्।।
9-32-35a
9-32-35b
तथाऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः।
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव।।
9-32-36a
9-32-36b
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्।
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्।
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन्।।
9-32-37a
9-32-37b
9-32-37c
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम्।
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिवानिव।।
9-32-38a
9-32-38b
ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम्।
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः।।
9-32-39a
9-32-39b
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्।
प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम्।।
9-32-40a
9-32-40b
*सगदो भारतो भाति प्रतपन्भास्करो यथा*।। 9-32-41a
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम्।
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम्।।
9-32-42a
9-32-42b
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्।
ददृशुः शर्वपाञ्चालाः पुत्रं तव जनाधिप।।
9-32-43a
9-32-43b
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः।
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः।।
9-32-44a
9-32-44b
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव।
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्।।
9-32-45a
9-32-45b
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः।
प्रत्युवाच ततस्तान्वै पाण्डवान्सह केशवान्।।
9-32-46a
9-32-46b
दुर्योधन उवाच। 9-32-47x
अस्यावहासस्य फलं प्रतिमोक्ष्यथ पाण्डवाः।
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम्।।
9-32-47a
9-32-47b
उत्थिन्तश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव।
अतिष्ठत गदापाणी रुधिरेण समुक्षितः।।
9-32-48a
9-32-48b
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्।
शरीरं स्म तदा भाति स्रवन्निव महीधारः।।
9-32-49a
9-32-49b
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः।
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम्।।
9-32-50a
9-32-50b
स मेघनिनदो हर्षान्नर्दन्निव च गोवृषः।
आजुहाव ततः पार्थान्गदया युधि वीर्यवान्।।
9-32-51a
9-32-51b
दुर्योधन उवाच। 9-32-52x
एकैकेन च मां यूयमासीदत युधिष्ठिर।
न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि।।
9-32-52a
9-32-52b
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः।
भृशं विक्षतगात्रश्च हतवाहनसैनिकः।।
9-32-53a
9-32-53b
[अवश्यमेव योद्वव्यं सर्वैरेव मया सह।
युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा]।।
9-32-54a
9-32-54b
युधिष्ठिर उवाच। 9-32-55x
मा भूदियं तव प्रज्ञा कथमेकं सुयोधन।
यदाऽभिमन्युं बहवो जघ्नुर्युधि महारथाः।।
9-32-55a
9-32-55b
[क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम्।
अन्यथा तु कथं हन्युरभिमन्युं तथागतम्।।
9-32-56a
9-32-56b
सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः।
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा।।
9-32-57a
9-32-57b
यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु।
तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम्।।
9-32-58a
9-32-58b
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम्।
पदस्थः पिहितं द्वारं परलोकस्य पश्यति।।]
9-32-59a
9-32-59b
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च।
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत।।
9-32-60a
9-32-60b
इममेकं च ते कामं वीर भूयो ददाम्यहम्।
पञ्चानां पाण्‍डवेयानां येन त्वं योद्धुमिच्छसि।।
9-32-61a
9-32-61b
तं हत्वा वै भवाराजा हतो वा स्वर्गमाप्नुहि।
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम्।।
9-32-62a
9-32-62b
सञ्जय उवाच। 9-32-63x
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम्।
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्।।
9-32-63a
9-32-63b
सोऽवबद्वशिरस्त्राणः शुभकाञ्चनवर्मभृत्।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव।।
9-32-64a
9-32-64b
सन्नद्धः सगतो राजन्सज्जः सङ्ग्राममूर्धनि।
अब्रवीत्पाण्‍डवान्सर्वान्पुत्रो दुर्योधनस्तव।।
9-32-65a
9-32-65b
भ्रातॄणां भवतामेको युध्यतां गदया मया।
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा।।
9-32-66a
9-32-66b
अथवा फल्गुनेनाद्य त्वया वा भरतर्षभ।
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे।।
9-32-67a
9-32-67b
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्।
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया।।
9-32-68a
9-32-68b
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये।
गदया वो हनिष्यामि सर्वानेव समागतान्।।
9-32-69a
9-32-69b
न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन।
न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः।
अथवा सफलं ह्येतत्करिष्ये भवतां पुरः।।
9-32-70a
9-32-70b
9-32-70c
अस्मिन्महूर्ते सत्यं वा मिथ्या वै तद्भविष्यति।]
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह।।
9-32-71a
9-32-71b
।। इति श्रीमन्महाभारते
शल्यपर्वणि द्वात्रिंशोऽध्यायः।। 32 ।।

9-32-3 आतपत्रेण दुर्योधनः सूर्याद्रक्षित इत्येष प्रवादोऽपि यस्य न स इति भावः।। 9-32-10 परिद्यूनः परिश्रान्तः।। 9-32-27 नः अस्माकं पञ्चानां मध्ये एकमपि हत्वा त्वं राजा भवेत्यन्वयः।। 9-32-34 अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः इति क.ङ.पाठः।। 9-32-56 क्षत्रधर्मं अस्तीति शेषः। धर्मोऽस्त्री पुण्यआचारे इति मेदिनी।। 9-32-32 द्वात्रिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-032