महाभारतम्-09-शल्यपर्व-005

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/शल्यपर्व

दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम्।। 1 ।।

सञ्जय उवाच॥
एवमुक्तस्ततो राजा गौतमेन यशस्विना ।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते ॥१॥
ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः ।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः ॥२॥
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् ।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता ॥३॥
गाहमानमनीकानि युध्यमानं महारथैः ।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥४॥
सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम् ।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् ॥५॥
हेतुकारणसंयुक्तं हितं वचनमुत्तमम् ।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचते ॥६॥
राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् ।
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः ॥७॥
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु ॥७॥
तथा दौत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः ।
प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम् ॥८॥
स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते ॥८॥
विललाप हि यत्कृष्णा सभामध्ये समेयुषी ।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा ॥९॥
एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥१०॥
स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः ।
कृतागसो वयं तस्य स मदर्थं कथं क्षमेत् ॥११॥
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः ।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥१२॥
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः ।
प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत् ॥१३॥
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ ॥१४॥
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह ।
तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम ॥१५॥
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला ।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः ॥१६॥
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः ।
न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः ॥१७॥
यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता ।
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ॥१८॥
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना ॥१८॥
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा ।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥१९॥
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन ।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया ॥२०॥
कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम् ।
पाण्डवानां प्रसादेन भुञ्जीयां राज्यमल्पकम् ॥२१॥
उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा ।
युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत् ॥२२॥
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् ।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥२३॥
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ।
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन ॥२४॥
सुनीतमनुपश्यामि सुयुद्धेन परन्तप ।
नायं क्लीबयितुं कालः संयोद्धुं काल एव नः ॥२५॥
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः ।
प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ॥२६॥
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः ।
यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् ॥२७॥
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ।
पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः ॥२८॥
न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः ।
इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा ॥२९॥
गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम् ।
अधर्मः सुमहानेष यच्छय्यामरणं गृहे ॥३०॥
अरण्ये यो विमुञ्चेत सङ्ग्रामे वा तनुं नरः ।
क्रतूनाहृत्य महतो महिमानं स गच्छति ॥३१॥
कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः ।
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ॥३२॥
त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् ।
अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम् ॥३३॥
शूराणामार्यवृत्तानां सङ्ग्रामेष्वनिवर्तिनाम् ।
धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम् ॥३४॥
शस्त्रावभृथमाप्तानां ध्रुवं वासस्त्रिविष्टपे ।
मुदा नूनं प्रपश्यन्ति शुभ्रा ह्यप्सरसां गणाः ॥३५॥
पश्यन्ति नूनं पितरः पूजिताञ्शक्रसंसदि ।
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे ॥३६॥
पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः ।
अपि तैः सङ्गतं मार्गं वयमप्यारुहेमहि ॥३७॥
पितामहेन वृद्धेन तथाचार्येण धीमता ।
जयद्रथेन कर्णेन तथा दुःशासनेन च ॥३८॥
घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः ।
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ॥३९॥
उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः ।
त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः ॥४०॥
तैस्त्वयं रचितः पन्था दुर्गमो हि पुनर्भवेत् ।
सम्पतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम् ॥४१॥
ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् ।
ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे ॥४२॥
पातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान् ।
जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम् ॥४३॥
कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः ।
सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम् ॥४४॥
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् ।
सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा ॥४५॥
एवं दुर्योधनेनोक्तं सर्वे सम्पूज्य तद्वचः ।
साधु साध्विति राजानं क्षत्रियाः सम्बभाषिरे ॥४६॥
पराजयमशोचन्तः कृतचित्ताश्च विक्रमे ।
सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ॥४७॥
ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः ।
ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः ॥४८॥
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे ।
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तज्जलम् ॥४९॥
तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः ।
पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा ॥५०॥
सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः ॥५०॥

सञ्जय उवाच। 9-5-1x
एवमुक्तस्ततो राजा गौतमेन तपस्विना।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते।।
9-5-1a
9-5-1b
ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः।।
9-5-2a
9-5-2b
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम्।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता।।
9-5-3a
9-5-3b
गाहमानमनीकानि युध्यमानं महारथैः।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान्।।
9-5-4a
9-5-4b
सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम्।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम्।।
9-5-5a
9-5-5b
हेतुकारणसंयुक्तं हितं वचनमुत्तमम्।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने।।
9-5-6a
9-5-6b
राज्याद्विनिकृतोऽस्माभिः कथं सोस्मासु विश्वसेत्।। 9-5-7a
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु।।
9-5-8a
9-5-8b
तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः।
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम्।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते।।
9-5-9a
9-5-9b
9-5-9c
विललाप च यत्कृष्णा सभामध्ये समेयुषी।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा।।
9-5-10a
9-5-10b
एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो।।
9-5-11a
9-5-11b
स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः।
कृतागसो वयं तस्य हितं मे स कथं चरेत्।।
9-5-12a
9-5-12b
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः।।
9-5-13a
9-5-13b
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत्।।
9-5-14a
9-5-14b
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ।।
9-5-15a
9-5-15b
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह।
तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम।।
9-5-16a
9-5-16b
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः।।
9-5-17a
9-5-17b
कथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः।
न निवारयितुं शक्याः सङ्ग्रामत्ते परन्तपाः।।
9-5-18a
9-5-18b
यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता।
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम्।।
9-5-19a
9-5-19b
9-5-19c
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा।।
9-5-20a
9-5-20b
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया।।
9-5-21a
9-5-21b
कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम्।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम्।।
9-5-22a
9-5-22b
उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत्।।
9-5-23a
9-5-23b
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान्।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम्।।
9-5-24a
9-5-24b
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया।। 9-5-25a
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन।
सुनीतमनुपश्यामि सुयुद्धेन परन्तप।।
9-5-26a
9-5-26b
नायं क्लीबायितुं कालः संयोद्धुं काल एव नः।। 9-5-27a
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्निं च स्थितम्।।
9-5-28a
9-5-28b
भृत्या मे सुभृतास्तात दीनश्चाभ्यृद्भृतो जनः।
नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम्।।
9-5-29a
9-5-29b
जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम्।
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया।।
9-5-30a
9-5-30b
।। इति श्रीमन्महाभारते

9-5-1 9-5- 9-5- 9-5- 9-5- 9-5- 9-5- 9-5- 9-5- 9-5- 9-5- Template:Footer

वर्गः:महाभारतम्/शल्यपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-09-शल्यपर्व-005