महाभारतम्-08-कर्णपर्व-045

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/कर्णपर्व

सञ्जय उवाच8-31-1x
दृष्ट्वा कर्ण महावीर्य युयुत्सुं समास्थितम् ।8-31-1a
चुक्रुशुः कुरवः सर्वे हृष्टरुपाः समन्ततः ॥8-31-1b

ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च ।8-31-2a
कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ।8-31-2b
निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम् ॥8-31-2c

प्रयाते तु ततः कर्णे रथेषु मुदितेषु च ।8-31-3a
चचाल च मही सर्वा ररास च सुविस्वरम् ॥8-31-3b

निः सरतो व्यदृश्यन्त सूर्यात्सप्ता महाग्रहाः ॥8-31-4a

उल्कापाताश्च संजज्ञुर्दिग्दाहाश्चैव दारुणाः ।8-31-5a
तथाऽश्न्यश्च संपेतुर्ववुर्वाताश्च भैरवाः ॥8-31-5b

मृगपक्षिगणाश्चैव पृतनां बहुशस्तव ।8-31-6a
अपसव्यं तदा चक्रुर्वेद्यन्तो महाभयम् ॥8-31-6b

प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।8-31-7a
अस्थिवर्ष च पतितमन्तरिक्षाद्भयानकम् ॥8-31-7b

जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।8-31-8a
अश्रूणि च् व्यमुञ्चन्त वाहनानि विशांपते ॥8-31-8b

एते चान्ये च बहव उत्पातास्तत्र मारिप ।8-31-9a
समुत्मेतुर्विनाशाय कौरवाणां सुदारुणाः ॥8-31-9b

न च तान्गणयमासुः सर्वे दैवेन मोहिताः ।8-31-10a
प्रस्थितं सूतपुत्रं च जयेत्यूचर्नराधिपाः॥8-31-10b

शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम् ।8-31-11a
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः ॥8-31-11b

ततो रथस्थः परवीरहन्ता भीष्मद्रोणावतिवीर्यौ समीक्ष्य ।8-31-12a
समुज्ज्वलन्भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषा ॥8-31-12b

स शल्यमाभाष्य जगाद् वाक्यं पार्थस्य दृष्ट्वाऽप्रतिमं च कर्म ।8-31-13a
मानेन दर्णेण विदह्यमानः क्रोधेन दीप्यन्निव निः श्वसंश्च ॥8-31-13b

नाहं महेन्द्रादपि वज्रपाणेः क्रुध्दाद्विभेम्यात्तधनू रथस्यः ।8-31-14a
दृष्ट्वाऽपि भीष्मप्रमुखाञ्शयानान्नत्वेव मां सा स्थिरता जहाति ॥8-31-14b

महेन्द्रविष्णुप्रतिमावनिन्दितौ रथाश्चनागप्रवरप्रमाथिनौ ।8-31-15a
अवध्यकल्पौ निहतौ यदा परैस्तथापि मे नास्ति रणेऽद्य साध्वसम्॥8-31-15b

समीक्ष्य सङ्ख्येऽतिबलान्नराधिपान् ससूतमातङ्गरथान्परैर्हतान् ।8-31-16a
कथं न सर्वानहितान्रणेऽवधीन्महास्त्रविद्वाह्मणपुङ्गवो गुरुः ॥8-31-16b

स संस्मरन्द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत ।8-31-17a
नवो मदन्यः प्रसहेद्रणेऽर्जुनं समागतं मृत्युमिवोग्ररुपिणम् ॥8-31-17b

शिक्षा प्रसादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च ।8-31-18a
स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये ॥8-31-18b

नेह ध्रुवं किंचिदपि प्रचिन्तयन् वदामि लोके कर्मणो नित्ययोगात् ।8-31-19a
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते ॥8-31-19b

न नूनमस्त्राणि बलं पराक्रमः क्रियाः सुनीतं परमायुधानि वा ।8-31-20a
अलं मनुष्यस्य सुखाय वर्तितुं तथाहि युध्दे निहतः परैर्गुरुः ॥8-31-20b

हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरंदरोपमम् ॥8-31-21a
नये बृहस्पत्युशनः समं सदा न चैनमस्त्रं तदुपास्त दुःसहम् ॥8-31-21b

संप्रक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।8-31-22a
कृत्यं मया नाद्य जानामि शल्य प्रयाहि तस्माद्विषतामनीकम् ॥8-31-22b

स यत्र राजा पाण्डवः सत्यसन्धो व्यवस्थितो भीमसेनार्जुनौ च ।8-31-23a
स वासुदेवः सात्यकिः सृञ्जयाश्च यमौ च कस्तान्विषहेन्मदन्यः ॥8-31-23b

तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च ।8-31-24a
तान्वा हिनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखो यमाय ॥8-31-24b

नत्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति शल्याद्य विध्दि ।8-31-25a
मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥8-31-25b

प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसन्निभस्य ।8-31-26a
अतो विद्वन्नभियोत्स्यामि पार्थ दिष्टं न शक्यं व्यतिवर्तितुं वै ॥8-31-26b

कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत् ।8-31-27a
तस्यार्थसिध्द्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च ॥8-31-27b

वैयाघ्रचर्माणमकूजनाक्षं हैमं त्रिकोशं रजतत्रिवेणुम् ।8-31-28a
रथप्रवर्ह तुरगप्रवर्है र्युक्तं प्रादान्मह्यमिमं हि रामः ॥8-31-28b

धनूंषि चित्राणि निरिक्ष्य शल्य ध्वजान्गदाः सायकांश्चोग्ररुपान् ।8-31-29a
असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥8-31-29b

पताकिनंवज्रनिपातनिः स्वनं सिताश्वयुक्तं शुभतूणशोभितम् ।8-31-30a
इमं समास्थाय रथर्षभं रणे दृढं हनिष्याम्यहमर्जुनं बलात् ॥8-31-30b

तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे पाण्डुपुत्रम् ।8-31-31a
तं वा हनिष्यामि रणे समेत्य यास्यामि वा द्रोणमुखो यमाय ॥8-31-31b

यमवारुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे ।8-31-32a
जुगुपुरिह समेत्य फल्गुनं किमु बहुना सह तैर्जयामि तम् ॥8-31-32b

सञ्जय उवाच ।
इति रणरभसस्य कत्थत स्तदुपनिशम्य वश्वः स मद्रराट ।8-31-33a
अवहसदवमन्य वीर्यवान् प्रतिषिषिधे च जगाद् चोत्तरम् ॥8-31-33b

शल्य उवाच ।
विरम् विरम् कर्ण कत्थना दतिरभसोऽप्यतिवाचमुक्तवान् ।8-31-34a
क्कच हि नरवरो धनंजयः क्क पुनरिह त्वमहो नराधमः ॥8-31-34b

यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम् ।8-31-35a
प्रसभमतिविलोड्य को हरेपुरुषवरावरजामृतेऽर्जुनात् ॥8-31-35b

 त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि ।8-31-36a
मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः ॥8-31-36b

असुरसुरमहोरगान्नरान् गरुडपिशाचसयक्षराक्षसान् ।8-31-37a
इषुभिरजयदग्निगौरवात् खभिलपितं च हविर्ददौ जयः ॥8-31-37b

स्मरसि ननु यदा परैर्हृतः सहधृतराष्ट्रसुतो विमोक्षितः ।8-31-38a
अधिरथज नरोत्तमैर्युतान् कुरुषु बहून्विनिहत्य तानरीन् ॥8-31-38b

प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः ।8-31-39a
स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः ॥8-31-39b

समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे ।8-31-40a
सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः ॥8-31-40b

इदमपरमुपस्थितं पुनस्तव निधनाय सुयुध्दमद्य वै ।8-31-41a
यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज ॥8-31-41b

सञ्जय उवाच ।
इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् ।8-31-42a
भृशमभिरुषितः परंतपः कुरुपृतनापतिराह मद्रपम् ॥8-31-42b

कर्ण उवाच ।
भ्वतु भवतु किं विकत्थसे ननु मम तस्य हि युध्दमुद्यतम् ।8-31-43a
यदि स जयति मामिहाहवे तत इदमस्तु सुकत्थितं तव ॥8-31-43b

सञ्जय उवाच ।
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।8-31-44a
याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया ॥8-31-44b

स रथः प्रययौ शत्रून्निध्नतः शल्यसारथिः ।8-31-45a
निध्नन्नमित्रान्समरे तमोध्नः सविता यथा ॥8-31-45b

ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाऽथ कर्णः ।8-31-46a
स चालोक्य ध्वजिनीं पाण्ड्वानां धनंजयं त्वरया पर्यपृच्छत् ॥8-31-46b

वर्गः:महाभारतम्/कर्णपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-08-कर्णपर्व-045