महाभारतम्-08-कर्णपर्व-038

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/कर्णपर्व

शल्यकर्णयोर्वाक्कलहः।। 1 ।। दुर्योधनेन तयोः सान्त्वनम्।। 2 ।।

कर्ण उवाच। 8-38-1x
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
उन्यमानं मया सम्यक्त्वमेकाग्रमनाः शृणु।।
8-38-1a
8-38-1b
ब्राह्मणः किल नो गेहमध्यगच्छत्पुराऽतिथिः।
आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत्।।
8-38-2a
8-38-2b
मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम्।
दृष्टाश्च बहवो देशा नानाधर्मसमावृताः।।
8-38-3a
8-38-3b
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः।
सर्वाश्चाप्याचरन्धर्मं यदुक्तं वेदपारगैः।।
8-38-4a
8-38-4b
अटता तु मया देशान्नानाधर्मसमाकुलान्।
आगच्छता महाराज बाह्लीकेषु निशामितम्।।
8-38-5a
8-38-5b
तत्र वै ब्राह्मणो भूत्वा पुनर्भवति क्षत्रियः।
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः।।
8-38-6a
8-38-6b
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः।
द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते।।
8-38-7a
8-38-7b
भवन्त्येककुले विप्राः शिष्टा ये कामचारिणः।
गान्धारा मद्रकाश्चैव बाह्लीकाश्चाप्यतेजसः।।
8-38-8a
8-38-8b
एतन्मया श्रुतं तत्र धर्मसङ्करकारकम्।
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः।।
8-38-9a
8-38-9b
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितं।।
8-38-10a
8-38-10b
आनीयेहाक्षता काचिदारट्टात्किल दस्युभिः।
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः।।
8-38-11a
8-38-11b
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ।
तस्मात्कुमार्यः स्वैरिण्यो भविष्यन्ति कुलेषु वः।।
8-38-12a
8-38-12b
न चैवास्मात्प्रमोक्षध्वं घोराच्छापान्नराधमाः।
तस्मात्तेषां भागहरः कथं धर्मान्वदिष्यसि।।
8-38-13a
8-38-13b
कुरवः सहपाञ्चालाः साल्वा मात्स्याः सनैमिशाः।
कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा।।
8-38-14a
8-38-14b
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम्।
नानादेशेष्वसन्तश्च प्रायो बाह्यालयानृते।।
8-38-15a
8-38-15b
आमत्स्येभ्यः कुरुपाञ्चालसाल्वा
आनैमिशाच्चेदयो ये विशिष्टाः।
धर्मं पुराणमुपजीवन्ति सन्तो
मद्रानृते पाञ्चनदांश्च जिह्मान्।।
8-38-16a
8-38-16b
8-38-16c
8-38-16d
एवं विद्वान्धर्मकथासु राजं--
स्तूष्णींभूतः शल्य भवेः सदा त्वम्।
त्वं तस्य गोप्ता च जनस्य राजा
षड्भागहर्ता शुभदुष्कृतस्य।।
8-38-17a
8-38-17b
8-38-17c
8-38-17d
अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता।
रक्षिता पुण्यभाग्राजा प्रजानां त्वं ह्यपुण्यभाक्।।
8-38-18a
8-38-18b
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते।
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः।।
8-38-19a
8-38-19b
व्रात्यानां दाशकीयानां कृतेऽप्यशुभकर्मणाम्।
ब्रह्मणा निन्दितान्धर्मान्कश्चित्सिद्धात्मकोऽब्रवीत्।।
8-38-20a
8-38-20b
इति पाञ्चनदं धर्मवमेने पितामहः।
स्वधर्मस्थेषु वर्णेषु सोऽप्येतान्नाभ्यपूजयत्।।
8-38-21a
8-38-21b
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
कल्माषपादः सरसि निम?ज्जन्राक्षसोऽब्रवीत्।।
8-38-22a
8-38-22b
क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम्।
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम्।।
8-38-23a
8-38-23b
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम्।
अपृच्छत्तेन चाख्यातं तच्छृणुष्व नराधिप।।
8-38-24a
8-38-24b
मानुषाणां मलं म्लेच्छा म्लेच्छानां मुष्टिका मलम्।
मुष्टिकानां मलं षण्ढाः षण्ढानां राजयाजकाः।।
8-38-25a
8-38-25b
राजयाजकयाज्यानां मद्रकाणां च यन्मलम्।
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि।।
8-38-26a
8-38-26b
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च।
विद्वद्भिर्भेषजं दृष्टं संसिद्धवचनोत्तरम्।।
8-38-27a
8-38-27b
ब्राहयाः पञ्चालाः कौरवेयास्तु धर्म्याः
सत्या मत्स्याः शूरसेनाश्च याज्याः।
प्राच्या दासा वृषला दाक्षिणात्याः
स्तेना बाह्लीकाः सङ्कार वै सुराष्ट्राः।।
8-38-28a
8-38-28b
8-38-28c
8-38-28d
कृतघ्नता परवित्तापहारो
मद्यपानं गुरुदारावमर्दः।
वाक्पारुष्यं गोवधो रात्रिचर्या
बहिर्गेहं परवस्त्रोपभोगः।।
8-38-29a
8-38-29b
8-38-29c
8-38-29d
शिष्टान्धर्मानुपजीवन्ति वृद्धाः।। 8-38-30f
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः।
दक्षिणा पितृभिर्गुप्ता यमेन शुभकर्मणा।।
8-38-31a
8-38-31b
प्रतीचीं वरुणः पाति पालयन्नसुरान्बहून्।
उदीचीं भगवान्सोम ब्रह्मा च ब्राह्मणैः सह।।
8-38-32a
8-38-32b
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः।
ध्रुवं सर्वाणि भूतानि विष्णुः पाति सुरोत्तमः।।
8-38-33a
8-38-33b
इङ्गित5आश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः।
अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दाक्षिणापथाः।।
8-38-34a
8-38-34b
पार्वतीयाश्च विषया यथैव गिरयस्तथा।
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः।
म्लेच्छाः स्वसंज्ञानियता नानुक्तमितरे जनाः।।
8-38-35a
8-38-35b
8-38-35c
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः।
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि।।
8-38-36a
8-38-36b
एवं ज्ञात्वा जोषमास्स्व प्रतीपं
मा स्म क्रुद्धः पापभृतां वरिष्ठ।
पूर्वं हत्वा त्वां सपुत्रं बलैश्च
पश्चाद्धंस्ये वासुदेवार्जुनौ च।।
8-38-37a
8-38-37b
8-38-37c
8-38-37d
शल्य उवाच। 8-38-38x
आतुराणां परित्यागः स्वदारसुतविक्रयः।
अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान्।।
8-38-38a
8-38-38b
रथातिरथसङ्ख्यायां यत्त्वां भीष्मस्तदाब्रवीत्।
तान्विदित्वाऽत्मनो दोषान्निर्मन्युर्भव मा क्रुधः।।
8-38-39a
8-38-39b
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः।
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः।।
8-38-40a
8-38-40b
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह।
अन्योन्येन रताः क्षीबा देशेदेशे च मैथुनम्।।
8-38-41a
8-38-41b
परवाच्येषु निपुणः सर्वो भवति सर्वदा।
आत्मवाच्यं न जानीते जानन्नपि च मुह्यति।।
8-38-42a
8-38-42b
सर्वत्र सन्ति राजनः स्वंस्वं धर्ममनुव्रताः।
दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः।।
8-38-43a
8-38-43b
न कर्ण देशसामान्यात्सर्वः पापं निषेवते।
यादृशाः स्वस्वभावेन देशांस्तांस्तादृशान्विदुः।।
8-38-44a
8-38-44b
सञ्जय उवाच। 8-38-45x
तततो दुर्योधनो राजा कर्णशल्याववारयत्।
सखिभावेन राधेयं शल्यं सौजन्यकेन च।।
8-38-45a
8-38-45b
ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष।
प्हहस्य तत्र राजेन्द्रं यादि शल्येत्यचोदयत्।।
8-38-46a
8-38-46b
।। इति श्रीमन्महाभारते कर्णपर्वणि
अष्टत्रिंशोऽध्यायः।। 38 ।।

8-38-5 निशामिर्त श्रुतम्।। 8-38-6 ब्राह्मणो भूत्केत्यादि तज्जातीयकर्माचरणनिवन्धनम्।। 8-38-8 विप्राः प्रसृष्टा इति पाठे कुले एकएव विप्रो भवत्यन्ये भ्रातरः प्रसृष्टाः सङ्कीर्णिक्रिया इत्यर्थः।। 8-38-9 तत्र बाह्लीकेषु। धर्मसङ्करकारको विपर्ययः श्रुत इति लिङ्गं विपरिणेयम्। विपर्ययो विहितवैपरीत्यम्।। 8-38-20 कृते कृतयुगे।। 8-38-21 नाभ्यपूजयत् न प्रशंसितवान्।। 8-38-25 म्लेच्छाः पापरता धर्माधर्मविचारहीनाः। म्लेच्छः पापरते जातिभेदे स्यादपभाषणे इति विश्वः। षंढा वर्षवराः।। 8-38-27 रक्षोपसृष्टेषु रक्षसा उपद्रुतेषु।। 8-38-28 प्राच्या दासाः शूद्रधर्माणः। दाशा इति पाठे मत्स्यजीविनः। वृषं धर्मं लान्ति आददते ते वृषलाः धर्मसङ्ग्रहपराः धर्मद्रोहिण इति वा।। 8-38-29 बहिर्गेहं रात्रिचर्या प्रच्छन्नं चौर्यपारदार्यादि।। 8-38-31 प्राचीमित्यत्र जातवेद इत्यनेनाम्नेयीसहिता प्राची देवानामाश्रया दक्षिणा पितॄणां तत्रैव श्राद्धादिधर्मो दृश्यते।। 8-38-32 एवं प्रतीचीं वरुणः उदीचीं सोम इति कुबेरेशानयोर्ग्रहणम्। परिशेषान्नैर्ऋत्यां वायव्यां च बाह्लीकाश्रयायां नैर्ऋतास्त्वादृशा वातूलाश्च सन्तीत्यर्थः।। 8-38-33 तथा रक्षःपिशाचाश्च हिमवन्तं नगोत्तमम्। गुह्यकाश्च महाराज पर्वतं गन्धमादनम् इति झ पाठः। एवमपि सबाह्लीकान्सनैर्ऋतान् देशान् विष्णुः पाति पर्जन्यवत् न देशान्तरेष्विव बाह्लीकेषु विशेषतो देवतानुग्रहो दृश्यत इत्यभिप्रायः।। 8-38-34 अतएव तेषां मौढ्यं वर्णयति इङ्गितज्ञाश्चति। अर्धोक्ताः कुरुपाञ्चालाः साल्वाः कृत्स्नानुशासनाः इति झ. पाठः।। 8-38-35 विषमाः दुःखसाध्याः। सर्वं जानन्तोऽपि यवना म्लेच्छाश्च स्वसंज्ञायां स्वीयैः कृतो यो धर्मसंकेतस्तत्रैव नियताः। वैदिकं धर्मं न मानयन्तीत्यर्थः। इतरे त्वनुक्तं हितं नावबुध्यन्ते।। 8-38-36 प्रतिरथा इतिपाठे हितवादिति प्रतिकूलाः। गुरुद्रोहिण इत्यर्थः। तादृशश्च त्वं हितोपदेष्टारं मां निन्दसीत्यर्थः।। 8-38-38 अष्टत्रिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/कर्णपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-08-कर्णपर्व-038