महाभारतम्-07-द्रोणपर्व-044

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

अभिमन्युपराक्रमवर्णनम्।। 1 ।।

Template:Footerवर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-044

सञ्जय उवाच। 5-44-1x
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्‍डुषु।
सुघोरमभवद्युद्धं त्वदीयानां परैः सह।।
5-44-1a
5-44-1b
प्रविश्याथार्जुनिः सेनां सत्यसन्धो दुरासदः।
व्यक्षोभयत तेजस्वी मकरः सागरं यथा।।
5-44-2a
5-44-2b
तं तथा शरवर्षेण छादयन्तमरिंदमम्।
यथा प्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः।।
5-44-3a
5-44-3b
तेषां तस्य च सम्मर्दो दारुणः समपद्यत।
सृजतां शरवर्षाणि प्रसक्तममितौजसाम्।।
5-44-4a
5-44-4b
रथव्रजेन संरुद्धस्तैरमित्रैस्तथाऽऽर्जुनिः।
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम्।।
5-44-5a
5-44-5b
तं च विव्याध बलवांस्तस्य चाश्वानजिह्मगैः।
वातायमानैस्तैरश्वैर्विसंज्ञोऽपहृतो रणात्।।
5-44-6a
5-44-6b
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम्।
रथव्रजास्ततो हृष्टाः साधुसाध्विति चुक्रुशुः।।
5-44-7a
5-44-7b
तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन्।
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम्।।
5-44-8a
5-44-8b
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्कैरवाकिरत्।
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे।।
5-44-9a
5-44-9b
तमयस्मयवर्माणमिषुणा दूरपातिना।
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ।।
5-44-10a
5-44-10b
वसातीयं हतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः।
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः।।
5-44-11a
5-44-11b
विष्फारयन्तश्चापानि नानारूपाण्यनेकशः।
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह।।
5-44-12a
5-44-12b
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च।
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः।।
5-44-13a
5-44-13b
सखङ्गाः साङ्गुलित्राणाः सपट्टसपरश्वथाः।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः।।
5-44-14a
5-44-14b
स्रग्भिराभरणैर्वस्त्रैः पतितैर्विविधैर्ध्वजैः।
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः।।
5-44-15a
5-44-15b
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः।
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः।।
5-44-16a
5-44-16b
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः।
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही।।
5-44-17a
5-44-17b
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः।
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत।।
5-44-18a
5-44-18b
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा।
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत।।
5-44-19a
5-44-19b
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च।
धनुषश्च शराणां च तदपश्याम केवलम्।।
5-44-20a
5-44-20b
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम्।
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम्।।
5-44-21a
5-44-21b
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे चतुश्चत्वारिंशोऽध्यायः।। 44 ।।