महाभारतम्-07-द्रोणपर्व-030

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

अर्जुनयुद्धवर्णनम्।। 1 ।।

सञ्जय उवाच। 5-30-1x
प्रियमिन्द्रस्य सततं सखायममितौजसम्।
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत।।
5-30-1a
5-30-1b
ततो गान्धारराजस्य सुतौ परपुरञ्जयौ।
अर्देतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ।।
5-30-2a
5-30-2b
तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्वितौ।
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम्।।
5-30-3a
5-30-3b
वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम्।
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः।।
5-30-4a
5-30-4b
ततोऽर्जुनः शरव्रातैर्जानाप्रहरणैरपि।
गान्धारानाकुलांश्चक्रे सौबलप्रमुखान्पुनः।।
5-30-5a
5-30-5b
ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान्।
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः।।
5-30-6a
5-30-6b
हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः।
आरुरोह रथं भ्रातुरन्यश्च धनुराददे।।
5-30-7a
5-30-7b
तावेकरथमारूढौ भ्रातरौ वृषकाचलौ।
शरवर्षेण बीभत्सुमविध्येतां मुहुर्मुहुः।।
5-30-8a
5-30-8b
स्यालौ तव महात्मानौ राजानौ वृषकाचलौ।
भृशं विजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव।।
5-30-9a
5-30-9b
लब्धलक्षौ तु गान्धारावहतां पाण्डवं पुनः।
नैदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा।।
5-30-10a
5-30-10b
तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ।
संश्चिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणाऽर्जुनः।।
5-30-11a
5-30-11b
तौ रथात्सिंहसंकाशौ लोहिताक्षौ महाभुजौ।
राजन्सम्पेततुर्वीरौ सोदर्यावेकलक्षणौ।।
5-30-12a
5-30-12b
तयोर्भूमिं गतौ देहौ रथाद्बन्धुजनप्रियौ।
यशो दशः दिशः पुण्यं गमयित्वा व्यवस्थितौ।।
5-30-13a
5-30-13b
दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ।
भृशं मुमुचुरश्रूणि पुत्रास्तव विशांपते।।
5-30-14a
5-30-14b
निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः।
कृष्णौ सम्मोहन्मायां विदधे शकुनिस्ततः।।
5-30-15a
5-30-15b
लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः।
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टसाः।।
5-30-16a
5-30-16b
सकम्पनर्ष्टिनखरा मुसलानि परश्वथाः।
क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः।।
5-30-17a
5-30-17b
चक्राणि विशिखाः प्रासा विविधान्यायुधानि च।
प्रपेतुः शतशो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति।।
5-30-18a
5-30-18b
खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचित्रकाः।
ऋक्षाः सालावृका गृध्राः कपयश्च सरीसृपाः।।
5-30-19a
5-30-19b
विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति।
सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च।।
5-30-20a
5-30-20b
ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः।
विसृजन्निषुजालानि सहसा तान्यताडयत्।।
5-30-21a
5-30-21b
ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः।
विरुवन्तो महारावान्विनेशुः सर्वतो हताः।।
5-30-22a
5-30-22b
ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति।
तस्माच्च तमसो वचाः क्रूराः पार्थमभर्त्सयन्।।
5-30-23a
5-30-23b
तत्तमो भैरवं घोरं भयकर्तृ महाहवे।
उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत्।।
5-30-24a
5-30-24b
हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः।
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः।
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम्।।
5-30-25a
5-30-25b
5-30-25c
एवं बहुविधा मायाः सौबलस्य कृताः कृताः।
जघानास्त्रबलेनाशु प्रहसन्नर्जुनोऽब्रवीत्।।
5-30-26a
5-30-26b
`दुर्द्यूतदेविन्गान्धारे नाक्षान्क्षिपति गाण्डिवम्।
ज्वलितान्निशितांस्तीक्ष्णाञ्शरान्क्षिपतिगाण्डिवं'।।
5-30-27a
5-30-27b
तदा हतासु मायासु त्रस्तोऽर्जुनशराहतः।
अपायाञ्जवनैरश्वैः शकुनिः प्राकृतो यथा।।
5-30-28a
5-30-28b
ततोऽर्जुनोऽस्त्रविच्छैघ्र्यं दर्शयन्नात्मनोऽरिषु।
अभ्यवर्षच्छरौधेण कौरवाणामनीकिनीम्।।
5-30-29a
5-30-29b
सा हन्यमाना पार्थेन तव पुत्रस्य वाहिनी।
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम्।।
5-30-30a
5-30-30b
द्रोणमेवान्वपद्यन्त केचित्तत्र नरर्षभाः।
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना।।
5-30-31a
5-30-31b
नापश्याम ततस्त्वेनं सैन्ये वै रजसावृते।
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया।।
5-30-32a
5-30-32b
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निःस्वनम्।
गाण्डीवस्य तु निर्घोषो व्यतिक्रम्यास्पृशद्दिवम्।।
5-30-33a
5-30-33b
ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम्।
सुयुद्धं चार्जुनस्यासीदहं द्रोणमन्वियाम्।।
5-30-34a
5-30-34b
यौधिष्ठिराभ्यनीकानि प्रहरन्ति ततस्ततः।
नानाविधान्यनीकानि पुत्राणां तव भारत।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः।।
5-30-35a
5-30-35b
5-30-35c
तं वासवमिवायान्तं भूरिवर्षं शरौघिणम्।
महेष्वासा नरव्याघ्रा नोग्रं केचिदवारयन्।।
5-30-36a
5-30-36b
ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम्।
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः।।
5-30-37a
5-30-37b
तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः।
शलभा इव सम्पेतुः संवृण्वाना दिशो दश।।
5-30-38a
5-30-38b
तुरगं रथिनं नागं पदातिमपि मारिष।
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः।।
5-30-39a
5-30-39b
न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः।
पृथगेकशरारुग्णा निपेतुस्ते गतासवः।।
5-30-40a
5-30-40b
हतैर्मनुष्यौर्द्विरदैश्च सर्वतः
शराभिसृष्टैश्च हयैर्निपातितैः।
तदाऽश्वगोमायुबलाभिनादितं
विचित्रमायोधशिरो बभूव तत्।।
5-30-41a
5-30-41b
5-30-41c
5-30-41d
पिता सुतं त्यजति सुहृद्वरं सुहृत्
तथैव पुत्रः पितरं शरातुरः।
स्वरक्षणे कृतमतयस्तदा जना
सत्यजन्ति वाहानपि पार्थपीडिताः।।
5-30-42a
5-30-42b
5-30-42c
5-30-42d
।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि

5-30-10 वर्षशब्दोऽयमृतुवचनः। निदाघर्तुसम्बन्धिनावित्यर्थः। घर्मांशुभिस्तीक्ष्णकिरणैः। लोकं घर्मोम्बुभिर्यथा इति क.ङ.पाठः।। 5-30-17 कम्पनयष्ट्यः। क्षुरा क्षुराकृतिफलकाः। क्षुरप्रास्तूग्रमध्यफलकाः। नालीका नलिकया क्षेप्याः। वत्सदन्ता गोपोतकदन्ताकारफलकाः। अस्थिसन्धयोऽस्थिमयफलकाः।। 5-30-18 विशिखाः फणित्राकारफलकाः।। 5-30-19 सूमरा गवयाः। चित्रको व्याघ्रभेदः। सालावृकाः श्वानः।। 5-30-32 एनमर्जुनम्।। 5-30-41 शराभिसृष्टैर्बाणाभिहतैः। आयोधशिरो रणाङ्गणम्।। 5-30-30 त्रिंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-030