महाभारतम्-07-द्रोणपर्व-029

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

अर्जुनेन सगजस्य भगदत्तस्य वधः।। 1 ।।


धृतराष्ट्र उवाच।
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः।
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम्।। 5-29-1a

सञ्जय उवाच।
प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ।
मृत्युदंष्ट्रान्तिकं प्राप्तौ सर्वभूतानि मेनिरे।। 5-29-2a

तथा तु शरवर्षाणि पातयत्यनिशं प्रभो।
गजस्कन्धान्महाराज कृष्णयोः स्यन्दनस्थयोः।। 5-29-3a

अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः।
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः।। 5-29-4a

अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः।
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः सुवाससः।। 5-29-5a

तस्य पार्थो धनुश्छित्त्वा परिवारं निहत्य च।
लालयन्निव राजानं भगदत्तमयोधयत्।। 5-29-6a

सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश।
अप्रेषयत्सव्यसाची द्विधैकैकमथाच्छिनत्।। 5-29-7a

ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः।
शरजालेन महता तद्व्यशीर्यत भूतले।। 5-29-8a

शीर्णवर्मा स तु गजः शरैः सुभृशमर्दितः।
बभौ धारानिपाताक्तो व्यभ्रः पर्वतराडिव।। 5-29-9a

ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम्।
व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत्।। 5-29-10a

ततश्छत्रं ध्वजं चैव च्छित्त्वा राज्ञोऽर्जुनः शरैः।
विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वतेश्वरम्।। 5-29-11a

सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः।
भगदत्तस्ततः क्रुद्धः पाण्डवस्य जनाधिपः।। 5-29-12a

व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्नाद च।
तैरर्जुनस्य समरे किरीटं परिवर्तितम्।। 5-29-13a

परिवृत्तं किरीटं तद्यमयन्नेव पाण्डवः।
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत्।। 5-29-14a

एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम्।
अभ्यवर्षत्स गोविन्दं धनुरादाय भास्वरम्।। 5-29-15a

तस्य पार्थो धनुश्छित्त्वा तूणीरान्सन्निकृत्य च।
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत्।। 5-29-16a

विद्धस्ततोऽतिव्यथितो वैष्णवास्त्रमुदीरयन्।
अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि।। 5-29-17a

विसृष्टं भगदत्तेन तदस्त्रं सर्वघाति वै।
उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः।। 5-29-18a

वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि।
पद्मकोशविचित्रा सा सर्वर्तुकुसुमोत्करा।। 5-29-19a

ज्वलनार्केन्दुवर्णाभा पावकोज्ज्वलपल्लवा।
तया पद्मपलाशिन्या वातकम्पितपत्रया।। 5-29-20a

शुशुभेऽभ्यधिकं शौरिरतसीपुष्पसन्निभः।
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत।। 5-29-21a

अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन।
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि।। 5-29-22a

यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे।
ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते।। 5-29-23a

सबाणः सधनुश्चाहं ससुहासुरमानुषान्।
शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव।। 5-29-24a

ततोऽर्जुनं वासुदेवः प्रत्युवाचार्यवद्वचः।
शृणु गुह्यमिदं पार्थ पुरावृत्तं यथाऽनघ।। 5-29-25a

`येयं भूतधरा देवी सर्वभूतधरा धरा।
सकामा लोककर्तारं नारायणमुपस्थिता।। 5-29-26a

स सङ्गत्य तया सार्धं प्रीतस्तस्या वरं ददौ।
सा वव्रे विष्णुसदृशं पुत्रमस्त्रं च वैष्णवम्।। 5-29-27a

बभूव च सुतस्तस्या नरको नाम विश्रुतः।
अस्त्रं च वैष्णवं तस्मै ददौ नारायणः स्वयम्।। 5-29-28a

तदेवं नरकस्यासीदस्त्रं सर्वाहितान्तकम्।
तस्मात्प्राग्ज्योतिषं प्राप्तं सर्वशस्त्रविघातनम्।। 5-29-29a

नास्यावध्योऽस्ति लोकेऽस्मिन्मदन्यः कश्चिदर्जुन।
तस्मान्मया कृतं ह्येतन्मा भूत्ते बुद्धिरन्यथा।। 5-29-30a

सञ्जय उवाच।
अनुनीय तु दाशार्हः पाण्डवं त्वरितोऽब्रवीत्।
जहि प्राग्ज्योतिषं क्षिप्रं वाक्यशेषं च मे शृणु'।। 5-29-31a

चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः।
आत्मानं प्रविभज्येह लोकानां हितमादधे।। 5-29-32a

एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता।
अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी।। 5-29-33a

अपरा कुरुते कर्म मानुषं लोकमाश्रिता।
शेते चतुर्थीं त्वपरा निद्रां वर्षसहस्रिकीम्।। 5-29-34a

याऽसौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम।
वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा।। 5-29-35a

तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा।
अयाचत वरं यन्मां नरकार्थाय तच्छृणु।। 5-29-36a

देवानां दानवानां च अवध्यस्तनयोऽस्तु मे।
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि।। 5-29-37a

एवं वरमहं श्रुत्वा जगत्यास्तनये तदा।
अमोघमस्त्रं प्रायच्छं वैष्णवं परमं पुरा।। 5-29-38a

अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे।
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति।। 5-29-39a

अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः।
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा।। 5-29-40a

तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी।
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः।। 5-29-41a

तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम्।
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष।। 5-29-42a

तन्मया त्वत्कृते चैतदन्यथैवोपनिर्मितम्।
वियुक्तं परमास्त्रेण जहि पार्थ महासुरम्।। 5-29-43a

अवध्योऽयं महास्त्रेण भगदत्तः सुरासुरैः'।
वैरिणं जहि दुर्धर्षं भगदत्तं सुरद्विषम्।
यथाऽहं जघ्निवान्पूर्वं हितार्थं नरकं तथा।। 5-29-44a

सञ्जय उवाच।
एवमुक्तस्तदा पार्थः केशवेन महात्मना।
भगदत्तं शितैर्बाणैः सहसा समवाकिरत्।। 5-29-45a

ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः।
कुम्भयोरन्तरे नागं नाराचेन समार्पयत्।। 5-29-46a

स समासाद्य तं नागं बाणो वज्र इवाचलम्।
अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः।। 5-29-47a

स करी भगदत्तेन प्रेर्यमाणो मुहुर्मुहुः।
न करोति वचस्तस्य दरिद्रस्येव योषिता।। 5-29-48a

स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ।
नदन्नार्तस्वनं प्राणानुत्ससर्ज महाद्विपः।। 5-29-49a

ततो गाण्डीवधन्वानमभ्यभाषत केशवः।
अयं महत्तरः पार्थ पलितेन समावृतः।। 5-29-50a

वलीसञ्छन्ननयनः शूरः परमद्रुर्जयः।
अक्ष्णोरुन्मीलनार्थाय बद्धपट्टो ह्यसौ नृपः।। 5-29-51a

देववाक्यात्प्रचिच्छेद शरेण भृशमर्जुनः।
छिन्नमात्रेंऽशुके तस्मिन्रुद्धनेत्रो बभूव सः।। 5-29-52a

तमोमयं जगन्मेने भगदत्तः प्रतापवान्।
ततश्चन्द्रार्धबिम्बेन बाणेन नतपर्वणा।। 5-29-53a

बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः।
स भिन्नहृदयो राजा भगदत्तः किरीटिना।। 5-29-54a

शरासनं शरांश्चैव गतासुः प्रमुमोच ह।
शिरसस्तस्य विभ्रष्टं पपात च वरांशुकम्।
नालताडनविभ्रष्टं पलाशं नलिनादिव।। 5-29-55a

स हेममाली तपनीयभाण्डात्पपात नागाद्गिरिसन्निकाशात्।
सुपुष्पितो मारुतवेगभग्नो महीधराग्रादिव कर्णिकारः।। 5-29-56a

निहत्य तं नरपतिमिन्द्रविक्रमं सस्वायमिन्द्रस्य तदैन्द्रिराहवे।
ततोऽपरांस्तव जयकाङ्क्षिणो नरान् बभञ्ज वायुर्बलवान्द्रुमानिव।। 5-29-57a

।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकोनत्रिंशोऽध्यायः।। 29 ।।


Template:टिप्पणी


Template:Footer

वर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-029