महाभारतम्-07-द्रोणपर्व-027

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

अर्जुनेन संशप्तकानां हननम्।। 1 ।।

सञ्जय उवाच। 5-27-1x
यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि।
तृच्छृणुष्व महाबाहो पार्थो यदकरोद्रणे।।
5-27-1a
5-27-1b
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिःस्वनम्।
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत्।।
5-27-2a
5-27-2b
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन।
त्वरमाणोऽभिनिष्क्रान्तो ध्रुवं तस्यैष निःस्वनः।।
5-27-3a
5-27-3b
इन्द्रादनवरः सङ्ख्ये गजयानविशारदः।
प्रथमो गजघोधानां पृथिव्यामिति मे मतिः।।
5-27-4a
5-27-4b
स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि।
सर्वशस्त्रातिगः सङ्ख्ये कृतकर्मा जितक्लमः।।
5-27-5a
5-27-5b
सहः सस्त्रनिपातानामग्निस्पर्शस्य चानघ।
स पाण्‍डवबलं सर्वमद्यैको नाशयिष्यति।।
5-27-6a
5-27-6b
`सिंहनादं महत्कृत्वा धनुर्बाणरवैः सह।
विद्राव्यमाणं सम्पश्य हतभूयिष्ठनायकम्।
दृष्ट्वा विनद्य सहसा मम सेनां प्रमृद्गति'।।
5-27-7a
5-27-7b
5-27-7c
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्।
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः।।
5-27-8a
5-27-8b
दृप्तं सङ्ख्ये द्विपबलाद्वयसा चापि विस्मितम्।
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्।।
5-27-9a
5-27-9b
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः।
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी।।
5-27-10a
5-27-10b
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः।
संशप्तकाः समारोहन्सहस्राणि चतुर्दश।।
5-27-11a
5-27-11b
दशैव तु सहस्राणि त्रिगर्तानां महारथाः।
चत्वारि च सहस्राणि वासुदेवस्य चानुगाः।।
5-27-12a
5-27-12b
दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन मानिष।
आहूयमानस्य च तैरभवद्धृदयं द्विधा।।
5-27-13a
5-27-13b
किन्नु श्रेयस्करं कर्म भवेदद्येत्यचिन्तयत्।
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम्।।
5-27-14a
5-27-14b
तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह।
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा।।
5-27-15a
5-27-15b
स सन्निवृत्तः सहसा कपिप्रवरकेतनः।
एको रथसहस्राणि निहन्तुं वासवी रणे।।
5-27-16a
5-27-16b
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः।
अर्जुनस्य वधोपाये या वै द्वैधमकल्पयत्।।
5-27-17a
5-27-17b
स तु दोलायमानोऽबूद्द्वैधीभावेन पाण्डवः।
वधेन तु नराग्र्याणामकरोत्तां मृषा तदा।।
5-27-18a
5-27-18b
ततः शतसहस्राणि शराणां नतपर्वणाम्।
असृजन्नर्जुने राजन्संशप्तकमहारथाः।।
5-27-19a
5-27-19b
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः।
न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः।।
5-27-20a
5-27-20b
तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः।
ततस्तान्प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान्।।
5-27-21a
5-27-21b
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः।
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ।।
5-27-22a
5-27-22b
द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिताः।
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः।।
5-27-23a
5-27-23b
विप्रविद्धकुथा नागाश्छिन्नभाण्डाः परासवः।
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम्।।
5-27-24a
5-27-24b
सर्ष्टिप्रासासिनखराः समुद्गरपरश्वथाः।
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना।।
5-27-25a
5-27-25b
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष।
संच्छिन्नान्यर्जुनशरैः शिरांस्युर्वी प्रपेदिरे।।
5-27-26a
5-27-26b
जज्वालालङ्कृता सेना पत्रिभिः प्राणिभोजनैः।
नानारूपैस्तदाऽमित्रान्क्रुद्धेनिघ्नति फल्गुने।।
5-27-27a
5-27-27b
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव।
धनञ्जयं भूतगणाः साधुसाध्वित्यपूजयन्।।
5-27-28a
5-27-28b
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः।
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह।।
5-27-29a
5-27-29b
कर्मैतत्पार्थ शक्रेण यमेन धनदेन च।
दुष्करं समरे यत्ते कृतमद्येति मे मतिः।।
5-27-30a
5-27-30b
युगपच्चैव सङ्ग्रामे शतशोऽथ सहस्रशः।
पतिता एव मे दृष्टाः संशप्तकमहारथाः।।
5-27-31a
5-27-31b
संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः।
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत्।।
5-27-32a
5-27-32b
।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि
द्वादशदिवसयुद्धे सप्तविंशोऽध्यायः।। 27 ।।

5-27-2 विकुर्वाणे विविधाः क्रियाः कुर्वाणे।। 5-27-6 सहः सोढा। पचाद्यच।। 5-27-9 विस्मितं रूढाहङ्कारम्।। 5-27-11 समारोहन्संवृतवन्तः।। 5-27-27 सप्तविंशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-027