महाभारतम्-07-द्रोणपर्व-024

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

धृतराष्ट्रेण पुत्रान्प्रति शोचनपूर्वकं सञ्जयम्प्रति युद्धकथनचोदना।। 1 ।।

धृतराष्ट्र उवाच। 5-24-1x
व्यथयेयुरिमे सेनां देवानामपि सञ्जय।
आहवे ये न्यवर्तन्त वृकोदरमुखा नृपाः।।
5-24-1a
5-24-1b
सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः।
तस्मिन्नेव च सर्वार्थाः प्रदृश्यन्ते पृथग्विधाः।।
5-24-2a
5-24-2b
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी।
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः।।
5-24-3a
5-24-3b
स एव महतीं सेनां समावर्तयदाहवे।
किमन्यद्दैवसंयोगान्मम पुत्राभवाय च।।
5-24-4a
5-24-4b
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः।
स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति।।
5-24-5a
5-24-5b
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः।
स पुनर्भागधेयेन सहायानुपलब्धवान्।।
5-24-6a
5-24-6b
अर्थे मे केकया लब्धाः काशिका कोसलाश्चये।
चेदीनां चार्धमपरे मामे व समुपाश्रिताः।।
5-24-7a
5-24-7b
पृथिवी भूयसी तात मम पार्थस्य नो तथा।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा।।
5-24-8a
5-24-8b
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः।
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः।।
5-24-9a
5-24-9b
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम्।
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान्।।
5-24-10a
5-24-10b
समनुप्राप्तकृच्छ्रोऽहं मोहं परममागतः।
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे।।
5-24-11a
5-24-11b
यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम्।
दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह।।
5-24-12a
5-24-12b
नृशंसं तु परं तात त्यक्त्वा दुर्योधनं यदि।
पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत्।।
5-24-13a
5-24-13b
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः।
सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति।।
5-24-14a
5-24-14b
अद्य चाप्यस्य राष्ट्रस्य कृतोच्छेदस्य सञ्जय।
अवशेषं न पश्यामि ककुदे मृदिते सति।।
5-24-15a
5-24-15b
कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः।
यौ नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ।।
5-24-16a
5-24-16b
व्यक्तमेव च मे शंस यथा युद्धमवर्तत।
केऽयुध्यन्के व्यपाकुर्वन्के क्षुद्राः प्राद्रवन्भयात्।।
5-24-17a
5-24-17b
धनुञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः।
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात्।।
5-24-18a
5-24-18b
यथाऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय।
मम सैन्यावशेषस्य सन्निपातः सुदारुणः।।
5-24-19a
5-24-19b
कथं च वो मनस्तात निवृत्तेष्वभवत्तदा।
मामकानां च ये शूराः के कांस्तत्र न्यवारयन्।।
5-24-20a
5-24-20b
।। इति श्रीमन्महाभारते द्रोणपर्वणि
संशप्तकवधपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।

5-24-2 संप्रयुक्तः सम्बद्धः। भवति उत्पद्यते। तस्मिन् दिष्ट एव।। 5-24-18 भ्रातृव्यादमित्रात्।। 5-24-24 चतुर्विशोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-024