महाभारतम्-07-द्रोणपर्व-007

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/द्रोणपर्व

दुर्योधनेन द्रोणस्य सैनापत्येऽभिषेचनम्।। 1 ।। द्रोणयुद्धवर्णनम्।। 2 ।।

द्रोण उवाच। 5-7-1x
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम्।
त्रैय्यम्बकमथेष्वस्त्रं शस्त्राणि विविधानि च।।
5-7-1a
5-7-1b
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः।
चिकीर्षुस्तानहं सर्वान्योधयिष्यामि पाण्डवान्।।
5-7-2a
5-7-2b
पार्षतं तु रणे राजन्न हनिष्ये कथञ्चन।
स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः।।
5-7-3a
5-7-3b
योधयिष्यामि सैन्यानि नाशयन्सर्वसोमकान्।
न च मां पाण्डवा युद्धे योधयिष्यन्ति हर्षिताः।।
5-7-4a
5-7-4b
सञ्जय उवाच। 5-7-5x
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः।
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा।।
5-7-5a
5-7-5b
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः।
`स्वस्तिवादरवैश्चान्यैः श्लक्ष्णैश्चान्यैर्मनोरमैः'।
सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः।।
5-7-6a
5-7-6b
5-7-6c
ततो वादित्रघोषेण शङ्खानां च महास्वनैः।
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा।।
5-7-7a
5-7-7b
ततः पुण्याहघोषेण साशीर्वादस्वनेन च।
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम्।।
5-7-8a
5-7-8b
जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा।
सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान्।।
5-7-9a
5-7-9b
सञ्जय उवाच। 5-7-10x
सैनापत्यं तु संप्राप्य भारद्वाजो महारथः।
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह।।
5-7-10a
5-7-10b
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः।
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः।।
5-7-11a
5-7-11b
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः।
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः।।
5-7-12a
5-7-12b
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः।
दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन्।।
5-7-13a
5-7-13b
तेषां प्रपक्षाः काम्भोजाः सुदक्षिणपुस्सराः।
ययुरश्चैर्महावेगैः शकाश्च यवनैः सह।।
5-7-14a
5-7-14b
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यमालवाः।
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह।।
5-7-15a
5-7-15b
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः।
नवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः।।
5-7-16a
5-7-16b
हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह।
प्रवरः सर्वयोधानां बलेषु बलमादधम्।।
5-7-17a
5-7-17b
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम्।
तस्य दीप्तो महाकायः स्वान्यनीकानिहर्षयन्।।
5-7-18a
5-7-18b
हस्तिकक्ष्यो गहाकेतुर्बभौ सूर्यसमद्युतिः।
न भीष्मव्यसनं कश्चिदृष्ट्वा कर्णममन्यत।।
5-7-19a
5-7-19b
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह।
हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः।।
5-7-20a
5-7-20b
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः।
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान्।।
5-7-21a
5-7-21b
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्।
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना।।
5-7-22a
5-7-22b
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे।
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशांपते।।
5-7-23a
5-7-23b
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः।
अस्माकं शकटव्यूहों द्रोणेन विहितोऽभवत्।।
5-7-24a
5-7-24b
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम्।
प्रीयमाणेन विहितो धर्मराजेन भारत।।
5-7-25a
5-7-25b
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ।
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ।।
5-7-26a
5-7-26b
ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम्।
आदित्यपथगः केतुः पार्थस्यामिततेजसः।।
5-7-27a
5-7-27b
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः।
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम्।।
5-7-28a
5-7-28b
दीप्यन्दृश्येत हि तथा केतुः सर्वत्र धीमतः।
योधानामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्।।
5-7-29a
5-7-29b
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्।
चत्वार्येतानि तेजाञ्सि वहञ्श्वेतहयो रथः।।
5-7-30a
5-7-30b
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्।
एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ।।
5-7-31a
5-7-31b
तावकानां मुखे कर्णः परेषां च धनंजयः।
ततो जयाभिसंरब्धौ परस्परवधैषिणौ।।
5-7-32a
5-7-32b
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ।
ततः प्रयाते सहसा भारद्वाजे महारथे।।
5-7-33a
5-7-33b
सिंहनादेन घोरेण वसुधा समकम्पत।
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम्।।
5-7-34a
5-7-34b
वातोद्भूतं रजस्तीव्रं कौशेयनिकरोपमम्।
ववर्ष द्यौरनभ्राऽपि मांसास्थिरुधिराण्युत।।
5-7-35a
5-7-35b
गृध्राः श्येना बकाः कङ्का वायसाश्च सहस्रशः।
उपर्युपरि सेनां ते तदा पर्यपतन्नृप।।
5-7-36a
5-7-36b
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान्।
अकार्षुरपसव्यं च बहुशः पृतनां तव।।
5-7-37a
5-7-37b
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम्।
अपतद्दीप्यमाना च सनिर्घाता सकम्पना।।
5-7-38a
5-7-38b
उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः।
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्।।
5-7-39a
5-7-39b
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ।
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः।
उत्पाता युधि वीराणां जीवितक्षयकारिणः।।
5-7-40a
5-7-40b
5-7-40c
ततः प्रववृते युद्धं परस्परवधैषिणाम्।
कुरुपाण्डवसैन्यानां शब्देनापूरयज्जगत्।।
5-7-41a
5-7-41b
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह।
अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः।।
5-7-42a
5-7-42b
स पाण्डवानां महतीं महेष्वासो महाद्युतिः।
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः।।
5-7-43a
5-7-43b
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सहसृञ्जयैः।
प्रत्यगृह्णंस्तदा राजञ्छरवर्षैः पृथक्पृथक्।।
5-7-44a
5-7-44b
विक्षोभ्यमाणआ द्रोणेन भिद्यमाना महाचमूः।
व्यशीर्यत सपाञ्चाला वातेनेव वलाहकाः।।
5-7-45a
5-7-45b
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे।
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान्।।
5-7-46a
5-7-46b
ते वध्यमाना द्रोणेन वासवेनेव दानवाः।
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः।।
5-7-47a
5-7-47b
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः।
अभिनच्छरवर्षेण द्रोणानीकमनेकधा।।
5-7-48a
5-7-48b
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः।
सन्निवार्य ततः सर्वान्कुरूनप्यवधीद्बली।।
5-7-49a
5-7-49b
संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे।
स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत्।।
5-7-50a
5-7-50b
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति।
मघवान्समभिक्रुद्धः सहसा दानवानिव।।
5-7-51a
5-7-51b
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः।
पुनःपुनरभज्यन्त सिंहेनैवेतरे मृगाः।।
5-7-52a
5-7-52b
तथा पर्यपतद्रोणः पाण्डवानां बले बली।
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्।।
5-7-53a
5-7-53b
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्गिताश्वम्।
स्फटिकविमलकेतुं त्रासनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम्।।
5-7-54a
5-7-54b
।। इति श्रीमन्महाभारते
द्रोणपर्वणि द्रोणाभिषेकपर्वणि

5-7-9 सुभगानर्तितैः सौभाग्यवतीनृत्तैः।। 5-7-27 आदित्यपथगः आकाशगः।। 5-7-54 ह्लादनं योद्भुरानन्दजननम्।। 5-7-7 सप्तमोऽध्यायः।। Template:Footer

वर्गः:महाभारतम्/द्रोणपर्व

Page is sourced from

sa.wikisource.org महाभारतम्-07-द्रोणपर्व-007