महाभारतम्-02-सभापर्व-004

From HinduismPedia
Jump to navigation Jump to search

Template:महाभारतम्/सभापर्व

ब्राह्मणान्भोजयित्वा युधिष्ठिरस्य सभाप्रवेशः।।1।।
ऋषीणां क्षत्रियाणां देवगन्धर्वादीनां च तत्रोपवेशनम्।। 2।।

वैशम्पायन उवाच।। 2-4-1x
`तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत्।
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः।।
2-4-1a
2-4-1b
तव विष्फारघोषेण मेघवन्निनदिष्यति।
अयं हि सूर्यसङ्काशो ज्वलनस्य रथो महान्।। 2।।
2-4-2a
2-4-2b
इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः।
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः।।
2-4-3a
2-4-3b
असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः।
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम्।।
2-4-4a
2-4-4b
ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम्।
एव वीरः सव्यसाचिन्ध्वजस्यान्ते भविष्यति।।
2-4-5a
2-4-5b
वैशम्पायन उवाच। 2-4-6x
इत्युक्त्वाऽऽलिङ्ग्य वीभत्सुं विसृष्टः प्रययौ मयः'। 2-4-6a
ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः।
अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः।।
2-4-7a
2-4-7b
साज्येन पायसेनैव मधुना मिश्रितेन च।
भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः।
कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः।।
2-4-8a
2-4-8b
2-4-8c
मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप।
चोष्यैश्च विविधै राजन्पेयैश्च बहुविस्तरैः।।
2-4-9a
2-4-9b
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि।
तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान्।।
2-4-10a
2-4-10b
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः।
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत।।
2-4-11a
2-4-11b
वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि।
पूजयित्वा कुरुश्रेष्ठो देवतानि निवेश्य च।।
2-4-12a
2-4-12b
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा।
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम्।।
2-4-13a
2-4-13b
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः।
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि।।
2-4-14a
2-4-14b
सभायामृषयस्तस्यां पाण्डवैः सह आसते।
आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः।।
2-4-15a
2-4-15b
असितो देवलः सत्यः सर्पिर्माली महाशिराः।
अर्वा वसुः सुमित्रश्च मैत्रेयः शुनको बलिः।।
2-4-16a
2-4-16b
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः।
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ।।
2-4-17a
2-4-17b
तित्तिरिर्याज्ञवल्क्यश्च ससुतो रोमहर्षणः।
अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ।।
2-4-18a
2-4-18b
दामोष्णीपस्त्रैबलीश्च पर्णादो घटजानुकः।
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः।।
2-4-19a
2-4-19b
बलिवाकः सिनीवाकः सप्तपालः कृतश्रमः।
जातूकर्णः शिखावांश्च आलम्बः पारिजातकः।।
2-4-20a
2-4-20b
पर्वतश्च महाभागो मार्कण्डेयो महामुनिः।
पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा।।
2-4-21a
2-4-21b
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः।
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः।।
2-4-22a
2-4-22b
काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः।
पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः।।
2-4-23a
2-4-23b
कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च।
मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः।।
2-4-24a
2-4-24b
एते चान्ये च बहवो वेदवेदाङ्गपारगाः।
उपासते महात्मानं सभायामृषिसत्तमाः।।
2-4-25a
2-4-25b
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः।
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते।।
2-4-26a
2-4-26b
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः।
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्।
2-4-27a
2-4-27b
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः।
कम्बोजराजः कमठः कम्पनश्च महाबलः।।
2-4-28a
2-4-28b
सततं कम्पयामास यवनानेक एव यः।
बलपौरुषसम्पन्नान्कृतास्त्रानमितौजसः।
यथाऽसुरान्कालकेयान्देवो वज्रधरस्तथा।।
2-4-29a
2-4-29b
2-4-29c
जटासुरो मद्रकानां च राजा
कुन्तिः पुलिन्दश्च किरातराजः।
तथाङ्गवाङ्गौ सहपुण्ड्रकेण
पाण्ड्योड्रराजौ च सहान्ध्रकेण ।।
2-4-30a
2-4-30b
2-4-30c
2-4-30d
अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः।
किरातराजः सुमना यवनाधिपतिस्तथा।।
2-4-31a
2-4-31b
चाणूरो देवरातश्च भोजो भीमरथश्च यः।
श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः।।
2-4-32a
2-4-32b
सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः।
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः।।
2-4-33a
2-4-33b
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः।
अनूपराजो दुर्धर्पः क्रमजिच्च सुदर्शनः।।
2-4-34a
2-4-34b
शिशुपालः सहसुतः करूपाधिपतिस्तथा।
वृष्णीनां चैव दुर्धर्पाः कुमारा देवरूपिणः।।
2-4-35a
2-4-35b
आहुको विपृथुश्चैव गदः सारण एव च।
अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः।।
2-4-36a
2-4-36b
भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान्।
केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः।।
2-4-37a
2-4-37b
केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः।
एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः।
2-4-38a
2-4-38b
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्।
अर्जुनं ये व संश्रित्य राजपुत्रा महाबलाः।।
2-4-39a
2-4-39b
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः।
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः।
2-4-40a
2-4-40b
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः।
सुधर्मा चानिरुद्धश्च शैव्यश्च नरपुङ्गवः।।
2-4-41a
2-4-41b
एते चान्ये च बहवो राजानः पृथिवीपते।
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः।।
2-4-42a
2-4-42b
उपासते महात्मानमासीनं सप्तविंशतिः।
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा।।
2-4-43a
2-4-43b
गीतवादित्रकुशलाः साम्यतालविशारदाः।
प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः।।
2-4-44a
2-4-44b
सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा।
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः।।
2-4-45a
2-4-45b
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते।
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः।।
2-4-46a
2-4-46b
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते।। 2-4-47a
।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि चतुर्थोऽध्यायः।। 4।।

2-4-29 कालकेयाः कालकाया अपत्यान्यसुराः।।

Template:Footer

वर्गः:महाभारतम्/सभापर्व

Page is sourced from

sa.wikisource.org महाभारतम्-02-सभापर्व-004