मध्यमव्यायोगः

From HinduismPedia
Jump to navigation Jump to search

Template:भासस्य कृतयः

पात्राणि

पुरुषपात्राणि

वृद्ध: - ब्राह्मण: केशवदासनामा।

प्रथम: - वृद्धस्य द्वितीय: पुत्र:।

द्वितीय: - वृद्धस्य द्वितीय: पुत्र: मध्यमनामा।

तृतीय: - वृद्धस्य कनिष्ठ: पुत्र:।

घटोत्कच: - राक्षस:, हिडिम्वाभीमसेनयो: सूनु:।

भीमसेन: - मध्यम: कुन्तीपुत्र:।

स्त्रीपात्राणि

ब्राह्मणी - वृद्धस्य भार्या।

हिडिम्बा - राक्षसी, भीमसेनस्य पत्नी।

नाटकम्

(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)

सूत्रधारः- पायात्स वोऽसुरवधूहृदयावसादः

पादो हरेः कुवलयामलखङ्गनीलः।

यः प्रोद्यतस्त्रिभुवनक्रमणे रराज

वैडूर्यसंङ्क्रम इवाम्बरसागरस्य ।। 1 ।।

एवमार्यमिश्रान्विज्ञापयामि। अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते। अङ्ग पश्यामि।

(नेपथ्ये)

भोस्तात! को नु खल्वेषः।

सूत्रधारः- भवतु, विज्ञातम्।

भोः शब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः।

त्रास्यते निर्विशङ्केन केनचित्पापचेतसा ।। 2 ।।

(पुनर्नेपथ्ये)

भोस्तात! को नु खल्वेषः।

सूत्रधारः- हन्त दृढं विज्ञातं। एष खलु पाण्डवमध्यमस्यात्मजो हिडिम्बारणिसम्भूतो राक्षसाग्निरकृतवैरं ब्राह्मणजनं वित्रासयति। भोः कष्टम्। अत्र हि

भ्रान्तैः सुतैः परिवृतस्तरुणैः सदारैः

सन्त्रस्तवत्सक इवाकुलतामुपैति ।। 3 ।।

(निष्क्रान्ताः।)

स्थापना।

ततः प्रविशति सुतत्रयकलत्रपरिवृतो ब्राह्मणः पृष्ठतो घटोत्कचश्च।)
ब्राह्मणः- भोः को नु खल्वेषः।
तरुणरविकरप्रकीर्णकेशो
भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः।
सतडिदिव घनः सकण्ठसूत्रो
युगनिधने प्रतिमाकृतिर्हरस्य ।। 4 ।।
प्रथमः- भोस्तात! को नु खल्वेषः।
ग्रहयुगलनिभाक्षः पीनविस्तीर्णवक्षाः
कनककपिलकेशः पीनकौशेयवासाः।
तिमिरनिवहवर्णः पाण्डरोद्वृत्तदंष्ट्रो
नव इव जलगर्भो लीयमानेन्दुलेखः ।। 5 ।।7
द्वितीयः- क एष भोः!
कलभदशनदंष्ट्रो लाङ्गलाकारनासः
करिवरकरबाहुर्नीलजीमूतवर्णः।
हुतहुतवहदीप्तो य स्थितो भाति भीम-
स्त्रिपुरपुरनिहन्तुः शङ्करस्येव रोषः ।। 6 ।।
तृतीयः- भोस्तात! को नु खल्वयमस्मान्पीडयति।
वज्रपातोऽचलेन्द्राणां श्येनः सर्वपतत्रिणाम्।
मृगेन्द्रो मृगसङ्घानां मृत्युः पुरुषविग्रहः ।। 7 ।।
ब्राह्मणी- अय्य को एसो अम्हाअं सन्दावेह। (आर्य! क एषोऽस्मान् सन्तापयति।)
घटोत्कचः- भो ब्राह्मण! तिष्ठ तिष्ठ।
किं यासि मद्भयविनाशितधैर्यसारो
वित्रस्तदारसुतरक्षणहीनशक्ते!
ताक्ष्र्याग्रपक्षपवनोद्धतरोषवह्नि-
स्तीव्रः कलत्रसहितो भुजगो यथार्तः ।। 8 ।।
भो ब्राह्मण! न गन्तव्यं न गन्तव्यम्।
वृद्धः- ब्राह्मणि! न भेतव्यम्। पुत्रकाः न भेतव्यम्। सविमर्शा ह्यस्य वाणी।
घटोत्कचः- भोः! कष्टम्।
जानामि सर्वत्र सदा च नाम
द्विजोत्तमाः पूज्यतमाः पृथिव्याम्।
अकार्यमेतच्च मयाद्य कार्यं
मातुर्नियोगादपनीय शङ्काम् ।। 9 ।।
वृद्धः- ब्राह्मणि! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तं-अनपेतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति। तदेवोत्पन्नं भयम्।
ब्राह्मणी- किं दाणिं अय्यो मज्झत्थवण्णो विअ दिस्सदि। (किंमिदानीमार्यो मध्यस्थवर्ण इव दृश्यते।)
वृद्धः- किं करिष्यामि मन्दभाग्यः।
ब्राह्माणी- णं विक्कोसामो। (ननु विक्रोशामः)
प्रथमः- भवति कस्य वयं विक्रोशामः।
इदं हि शून्यं तिमिरोत्करप्रभै-
र्नगप्रकारैरवरुद्धदिक्पथम्।
खगैर्मृगैश्चापि समाकुलान्तरं
वनं निवासाभिमतं मनस्विनाम् ।। 10 ।।
वृद्धः- ब्राह्मणि! न भेतव्यं, न भेतव्यम्। मनस्विजननिवासयोग्यमिति श्रुत्वा विगत इव मे संत्रासः। शङ्के नातिदूरेण पाण्डवाश्रमेण भवितव्यम्।
पाण्डवास्तु,
युद्धप्रियाश्च शरणागतवत्सलाश्च
दीनेषु पक्षपतिताः कृतसाहसाश्च।
एवंविधप्रतिभयाकृतिचेष्टितानां
दण्डं यथार्हमिह धारयितुं समर्थाः ।। 11 ।।
प्रथमः- भोस्तात! नात्र पाणडवा इति मन्ये।
वृद्धः- कथं त्वं जानीषे।8
प्रथमः- श्रुतं मया तस्मादागच्छता केनचिद्ब्राह्मणेन शतकुम्भं नाम यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति।
वृद्धः- हन्त हताः स्मः।
प्रथमः- तात! न तु सर्व एव। आश्रमपरिपालनार्थमिह स्थापितः किल मध्यमः।
वृद्धः- यद्येवं सन्निहिताः सर्वे पाण्डवाः।
प्रथमः- स चाप्यस्यां वेलायां व्यायामपरिचयार्थं विप्रकृष्टदेशस्थ इति श्रूयते।
वृद्धः- हन्त निराशाः स्मः । भवतु पुत्र! व्यपाश्रयिष्ये तावदेनम्।
प्रथमः- अलमलं परिश्रमेण।
वृद्धः- पुत्र! निर्वेदप्रत्यर्थिनी खलु प्रार्थना। भवतु पश्यामस्तावत्। भो भोः पुरुष! अस्त्यस्माकं मोक्षः।
घटोत्कचः- मोक्षोऽस्ति समयतः।
वृद्धः- कः समयः।
घटोत्कचः- अस्ति मे तत्रभवती जननी। तयाहमाज्ञाप्तः। पुत्र! ममोपवासनिसर्गार्थमस्मिन्वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्यानेतव्य इति। ततो मयासादितो भवान्।
पत्न्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि।
बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ।। 12 ।।
वृद्धः- हं भो राक्षसापसद! किमहमब्राह्मणः।
ब्राह्मणः श्रुतवान्वृद्धः पुत्रं शीलगुणान्वितम्।
पुरुषादस्य दत्वाहं कथं निर्वृतिमाप्नुयाम् ।। 13 ।।
घटोत्कचः- यद्यर्थितो द्विजश्रेष्ठ! पुत्रमेकं मुञ्चसि।
सकुटुम्बः क्षणेनैव विनाशमुपयास्यसि ।। 14 ।।
वृद्धः- एव एव मे निश्चयः।
कृतकृत्यं शरीरं मे परिणामेन जर्जरम्।
राक्षसाग्नौ सुतापेक्षी होष्यामि विधिसंस्कृतम् ।। 15 ।।
ब्राह्मणी- अय्य! मा मा एवं। पदिमत्तधम्मिणी पदिव्वदत्ति णाम। गहीदफलेण एदिणा सरीरेण अय्यं कुलं च रक्खिदुमिच्छामि। (आर्य, मा मैवम्।
पतिमात्रधर्मिणी पतिव्रतेति नाम। गृहीतफलेनैतेन शरीरेणार्यं कुलं च रक्षितुमिच्छामि।)
घटोत्कचः- भवति! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या।
वृद्धः- अनुगमिष्यामि भवन्तम्।
घटोत्कचः- आः वृद्धस्त्वमपसर।
प्रथमः- भोस्तात! ब्रवीमि खलु तावÏत्कचित्।
वृद्धः- ब्रूहि ब्रूहि शीघ्रम्।
प्रथमः- मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम्।
रक्षणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ।। 16 ।।
द्वितीयः- आर्य! मा मैवम्।
ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसंप्रियः।
ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ।। 17 ।।9
तृतीयः- आर्यै! मा मैवम्।
ज्येष्ठो भ्रातापितृसमः कथितो ब्रह्मवादिभिः।
ततोऽहं कर्तुमस्म्यर्हो गुरूणां प्राणरक्षणम् ।। 18 ।।
प्रथमः- वत्स! मा मैवम्।
आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण तार्यते।
ततोऽहमेव यास्यामि गुरूणां प्राणरक्षणात्।। 19 ।।
वृद्धः- ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम्।
ब्रह्मणी- यह अय्यो ज्येष्ठमिच्छदि तह अहं पि कणिट्ठमिच्छामि (यथार्यो ज्येष्ठमिच्छति तथाहमपि कनिष्ठमिच्छामि।)
द्वितीयः- पित्रोरनिष्टः कस्येदानीं प्रियः।
घटोत्कचः- अहं प्रीतोऽस्मि। शीघ्रमागच्छ।
द्वितीयः- धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः।
बन्धुस्नेहाद्धि महतः कायस्नेहस्तु दुर्लभः ।। 20 ।।
घटोत्कचः- अहो स्वजनवात्सल्यमस्य ब्राह्मणवटोः।
द्वितीयः- भोस्तात! अभिवादये।
वृद्धः- एह्येहि पुत्र।
विनिमाय गुरुप्राणान् स्वैः प्राणैर्गुरुवत्सल।
अकृतात्मदुरावापं ब्रह्मलोकमवाप्नुहि ।। 21 ।।
घटोत्कचः- चिरायते खलु ब्राह्मणवटुः। अतिक्रामति मातुराहारकालः। किं नु खलु करिष्ये। भवतु दृष्टम्। भो ब्राह्मण! आहूयतां तव पुत्रः।
वृद्धः- आः अतिराक्षसं खलु ते वचनम्।
घटोत्कचः- कथं रुष्यति। मर्षयतु भवान्मर्षयतु। अयं मे प्रकृतिदोषः। अथ किंनामा तव पुत्रः।
वृद्धः- एददपि न श्क्यं श्रोतुम्।
घटोत्कचः- युक्तं भोः! ब्राह्मणकुमार! किंनामा ते भ्राता।
प्रथमः- तपस्वी मध्यमः।
घटोत्कचः- मध्यम इति सदृशमस्य। अहमेवाह्वयामि। भो मध्यम! मध्यम! शीघ्रमागच्छ।
(ततः प्रविशति भीमसेनः।)
भीमः- भोः कस्यायं स्वरः।
खगशतविरुते विरौति तारं
द्रुमगहने दृढसंकटे वनेऽस्मिन्।
जनयति च मनोज्वरं स्वरोऽयं
बहुसदृशो हि धनञ्जयस्वरस्य ।। 25 ।।
घटोत्कचः- चिरायते खलु ब्राह्मणवटुः। अतिक्रामति मातुराहारकालः। किं नु खलु करिष्ये। भवतु दृष्टम्। उच्चैः शब्दापयामि। भो मध्यम! शीघ्रमागच्छ।
भीमः- भोः। को नु खल्वेतस्मिन्वनान्तरे मम व्यायामविघ्नमुत्पाद्य मध्यम इति मां शब्दापयति। भवतु पश्यामस्तावत्। (परिक्रम्यावलोक्य सविस्मयं) अहो
दर्शनीयोऽयं पुरुषः। अयं हि,10
सिंहास्यः सिंहदंष्ट्रो मधुनिभनयनः स्निग्धगम्भीरकण्ठो
बभ्रुभ्रूः श्येननासो द्विरदपतिहनुर्दीप्तविशिलष्टकेशः।
व्यूढोरा वज्रमध्यो गजवृषभगतिर्लम्बपीनांसबाहुः
सुव्यक्तं राक्षसीजो विपुलबलयुतो लोकवीरस्य पुत्रः ।। 26 ।।
घटोत्कचः- चिरायते खलु ब्राह्मणबटुः। उच्चैः शब्दापयामि। भो भो मध्यम! शीघ्रमागच्छ।
भीमः- भोः! प्राप्तोऽस्मि।
घटोत्कचः- न खल्वयं ब्राह्मणवटुः। अहो दर्शनीयोऽयं पुरुषः। य एषः-
सिंहाकृतिः कनकतालसमानबाहुः
मध्ये तनुर्गरुडपक्षविलिप्तपक्षः।
विष्णुर्भवेद्विकसिताम्बुजपत्रनेत्रो
नेत्रे ममाहरति बन्धुरिवागतोऽयम् ।। 27 ।।
भो मध्यम! त्वां खल्वहं शब्दापयामि।
भीमः- अतः खल्वहं प्राप्तः।
घटोत्कचः- किं भवानपि मध्यमः।
भीमः- न तावदपरः।
मध्यमोऽहमवध्यानामुत्सिक्तानां च मध्यमः।
मध्यमोऽहं क्षितौ भद्र भ्रातॄणामपि मध्यमः ।। 28 ।।
घटोत्कचः- भवितव्यम्।
भीमः- अपि च,
मध्यमः पञ्चभूतानां पार्थिवानां च मध्यमः।
भये च मध्यमो लोके सर्वकार्येषु मध्यमः ।। 29 ।।
वृद्धः- मध्यमस्त्विति समप्रोक्ते नूनं पाण्डवमध्यमः।
अस्मान्मोक्तुमिहायातो दर्पान्मृत्योरिवोत्थितः ।। 30 ।।
(प्रविश्य)
मध्यमः- अस्यामाचम्य पद्मिन्यां परलोकेषु दुर्लभम्।
आत्मनैवात्मनो दत्तं पद्मपत्रोज्जवलं जलम् ।। 31 ।।
भो पुरुष ! प्राप्तोऽस्मि
घटोत्कचः- प्राप्तवानिदानीं खल्वसि मध्यमः। मध्यम! इत इतः।
वृद्धः- (भीमसेनमुपगम्य) भो मध्यम! परित्रायस्व ब्राह्मणकुलम्।
भीमः- न भेतव्यम् न भेतव्यम्। मध्यमोऽहमभिवादये।
वृद्धः- वायुरिव दीर्घायुर्भव।
भीमः- अनुगृहीतोऽस्मि। कुतो भयमार्यस्य।
वृद्धः- श्रूयताम्। अहं खलु कुरुराजेन युधिष्ठिरेणाधिष्ठितपूर्वे कुरुजाङ्गले यूपग्रामवास्तव्यो माठरसगोत्रश्च कल्पशाखाध्वर्युः केशवदासो नाम ब्राह्मणः।
तस्य ममोत्तरस्यां दिशि उद्यामकग्रामवासी मातुलः कौशिकसगोत्रो यज्ञबन्धुर्नामास्ति। तस्य पुत्रोपनयनार्थं सकलत्रोऽस्मि प्रस्थितः।11
भीमः- अरिष्टोऽस्तु पन्थाः। ततस्ततः।
वृद्धः- ततो मामेष हि-
सजलजलदगात्रः पद्मपत्रायताक्षो
मृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः।
जगति विगतशङ्कस्त्वद्विधानां समक्षं
ससुतपरिजनं भो! हन्तुकामोऽभ्युपैति ।। 32 ।।
भीमः- एवम्। अनेन ब्राह्मणजनस्य मार्गविघ्नः कृतः। भवतु निग्रहिष्यामि तावदेनम्। भोः पुरुष! तिष्ठ तिष्ठ।
घटोत्कचः- एष स्थितोऽस्मि।
भीमः- किमर्थं ब्राह्मणजनमपराध्यसि।
पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च।
वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवोत्थितः ।। 33 ।।
घटोत्कचः- अथ किम्। राहुरेव।
भीमः- आः,
निवृत्तव्यवहारोऽयं सदारस्तनयैः सह।
सर्वापराधेऽवध्यत्वान्मुच्यतां द्विजसत्तमः ।। 34 ।।
घटोत्कचः- न मुच्यते।
भीमः- (आत्मगतम्) भोः। कस्य पुत्रेणानेन भवितव्यम्।
भ्रातृणां मम सर्वेषां कोऽयं भोः! गुणतस्करः।
दृष्टै्वतद्वालशौण्डीर्यं सौभद्रस्य स्मराम्यहम्।। 34 ।।
घटोत्कचः- न मुच्यते।
मुच्यतामिति विस्त्रब्धं ब्रवीति यदि मे पिता।
मुच्यते न तथा ह्येष गृहीतो मातुराज्ञया ।। 36 ।।
भीमः- (आत्मगतम्) कथं मातुराज्ञेति। अहो गुरुशुश्रूषुः खल्वयं तपस्वी।
माता किल मनुष्याणां दैवतानां च दैवतम्।
मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः ।। 37 ।।
(प्रकाशम्)ः- भो पुरुष! प्रष्टव्यं खलु तावदस्ति।
घटोत्कचः- ब्रूहि ब्रूहि, शीघ्रम्।
भीमः- का नाम भवतो माता।
घटोत्कचः- श्रूयतां, हिडिम्बा नाम राक्षसी,
कौरव्यकुलदीपेन पाण्डवेन महात्मना।
सनाथा या महाभागा पूर्णेन द्यौरिवेन्दुना ।। 38 ।।
भीमः- (सहर्षमात्मगतम्) एवं हिडिम्बायाः पुत्रोऽयम्। सदृशो ह्यस्य गर्वः।
रूपं सत्त्वं बलं चैव पितृभिः सदृशं बहु।
प्रजासु वीतकारुण्यं मनश्चैवास्य कीदृशम् ।। 39 ।।
(प्रकाशम्) भोः पुरुष! मुच्यताम्।
घटोत्कचः- न मुच्यते12
भीमः- भो ब्राह्मण! गृह्यतां तव पुत्रः। वयमेनमनुगमिष्यामः।
द्वितीयः- मा मा भवानेवम्।
त्यक्ताः प्रागेव मे प्राणाः गुरुप्राणेष्वपेक्षया।
युवा रूपगुणोपेतो भवांस्तिष्ठतु भूतले ।। 40 ।।
भीमः- आर्य! मा मैवम्। क्षत्रियकुलोत्पन्नोऽहम्। पूज्यतमाः खलु ब्राह्मणाः। तस्मान्मच्छरीरेण ब्राह्मणशरीरं विनिमातुमिच्छामि।
घटोत्कचः- एवं क्षत्रियोऽयं, तेनास्य दर्पः। भवतु, इममेव हत्वा नेष्यामि। अथ केनायं वारितः।
भीमः- मया।
घटोत्कचः- किं त्वया।
भीमः- अथ किम्।
घटोत्कचः- तेन हि भवानेवागच्छतु।
भीमः- एवमतिबलवीर्यान्नानुगच्छामि। यदि ते शक्तिरस्ति बलात्कारेण मां नय।
घटोत्कचः- किं मां प्रत्यभिजानीते भवान्।
भीमः- मत्पुत्र इति जाने।
घटोत्कचः- कथं कथं तव पुत्रोऽहम्।
भीमः- कथं रुष्यति। मर्षयतु भवान्। सर्वाः प्रजाः क्षत्रियाणां पुत्रशब्देनाभिधीयन्ते। अत एवं मयाभिहितम्।
घटोत्कचः- भीतानामायुधं गृहीतम्।
भीमः- शपामि सत्येन भयं न जाने
ज्ञातुं तदिच्छामि भवत्समीपे।
किंरूपमेतद्वद भद्र तस्य
गुणागुणज्ञः सदृशं प्रपत्स्ये ।। 41 ।।
घटोत्कचः- एष ते भयमुपदिशामि। गृह्यतामायुधम्।
भीमः- आयुधमिति, गृहीतमेतत्।
घटोत्कचः- कथमिव।
भीमः- काञ्चनस्तम्भसदृशो रिपूणां निग्रहे रतः।
अयं तु दक्षिणो बाहुरायुधं सहजं मम ।। 42 ।।
घटोत्कचः- इदमुपपन्नं पितुर्मे भीमसेनस्य।
भीमः- अथ कोऽयं भीमो नाम।
विश्वकर्ता शिवः कृष्णः शक्रः शक्तिधरो यमः।
एतेषु कथ्यतां भद्र केन ते सदृशः पिता ।। 43 ।।
घटोत्कचः- सर्वेः।
भीमः- धिगनृतमेतत्।
घटोत्कचः- कथं कथमनृतमित्याह। क्षिपसि मे गुरुम्। भवत्विमं स्थूलं वृक्षमुत्पाट्य प्रहरामि। (उत्पाट्य प्रहरति।) कथमनेनापि नशक्यते हन्तुम्। किं नु खलु
करिष्ये। भवतु, दृष्टम्। एतद्गिरिकूटमुत्पाट्य प्रहरामि।13
शैलकूटं मया क्षिप्तं प्राणानादाय यास्यति।
भीमः- रुष्टोऽपि कुञ्जरो वन्यो न व्याघ्रं घर्षयेद्वने ।। 44 ।।
घटोत्कचः- (प्रहृत्य) कथमनेनापि न शक्यते हन्तुम्। किं न खलु करिष्ये। बवतु दृष्टम्।
नन्वहं भीमसेनस्य पुत्रः पौत्रो नभस्वतः।
तिष्ठेदानीं सुसन्नद्धो नियुद्धे नास्ति मत्समः ।। 45 ।।
(इत्युभौ नियुद्धं कुरुतः।)
घटोत्कचः- (भीमसेनं बद्ध्वा)
व्रजसि कथमिह त्वं वीर्यमुल्लङ्घ्य बाह्वो-
र्गज इव दृढपाशैः पीडितो मद्भुजाभ्याम्।
भीमः- (आत्मगतम्) कथं गृहीतोऽस्म्यनेन। भोः सुयोधन! वर्धते ते शत्रुपक्षः। कृतरक्षो भव। (प्रकाशम्) भोः पुरुष! अवहितो भव।
घटोत्कचः- अवहितोऽस्मि।
भीमः- (नियुद्धबन्धमवधूय)
व्यपनय बलदर्पं दृष्टसारोऽसि वीर!
न हि मम परिखेदो विद्यते बाहुयुद्धे ।। 46 ।।
घटोत्कचः- कथमनेनापि न शक्यते हन्तुम्। किं नु खलु करिष्ये। भवतु दृष्टम्। अस्ति मातृप्रासदलब्धो मायापाशः। तेन बध्वैनं नेष्यामि। कुतः खल्वापः। भो
गिरे! आपस्तावत्। हन्त स्त्रवति। (आचम्य मन्त्रं जपति।) भोः पुरुष।
मायापाशेन बद्धस्त्वं विवोशोऽनुगमिष्यसि।
राजसे रज्जुभिर्बद्धः शक्रध्वज इवोत्सवे ।। 47 ।।
भीमः- कथं मायापाशेन बद्धोऽस्मि। किमिदानीं करिष्ये। भवतु दृष्टम्। अस्ति मे महेश्वरप्रसादाल्लब्धो मायापाशमोक्षो मम्त्रः। तं जपामि। कुतः खल्वापः।
भो ब्राह्मणकुमार! आनय कमण्डलुगता आपः।
बृद्धः- इमा आपः।
(भीमः आदायाचम्य मन्त्रं जप्त्वा मायामपनयति।)
घटोत्कचः- अये पतितः पाशः। किमिदानीं करिष्ये। भवतु, दृष्टम्। भोः पुरुष! पूर्वसमयं स्मर।
भीमः- समयमिति। एष स्मरामि। गच्छाग्रतः। (उमौ परिक्रामतः।)
वृद्धः- पुत्रकाः किं कुर्मः। अयं गच्छति वृकोदरः।
आक्रम्य राक्षसमिमं ज्वलदुग्ररूप-
मुग्रेण बाहुबलवीर्णगुणेन युक्तम्।
एष प्रयाति शनकैरवधूय शीघ्र-
मासारवर्षमिव गोवृषभस्सलीलम् ।। 48 ।।
घटोत्कचः- इह तिष्ठ। त्वदागमनमम्बायै निवेदयामि।
भीमः- बाढम्। गच्छ।
घटोत्कचः- (उपसृत्य) अम्ब! अयमभिवादये। चिराभिलषितो भवत्या आहारार्थमानीतो मानुषः।
(प्रविश्य)14
हिडिम्बा- जाद! चिरं जीव। (जात! चिरं जीव।)
घटोत्कचः- अनुगृहीतोऽस्मि।
हिडिम्बा- जाद! कीदिसो माणुसो आणीदो। (जात, कीदृशो मानुष आनीतः।)
घटोत्कचः- भवति रूपमात्रेण मानुषः। न वीर्येण।
हिडिम्बा- किं बह्मणो। (किं ब्राह्मणः।)
घटोत्कचः- न ब्राह्मणः।
हिडिम्बा- आदु थेरो। (अथवा स्थविरः।)
घटोत्कचः- न वृद्धः।
हिडिम्बा- किं वाळो। (किं बालः।)
घटोत्कचः- न बालः।
हिडिम्बा- जइ एव्वं, पेक्खामि दावणं। (उभौ परिक्रामतः।) (यद्येवं पश्यामि तावदेनम्।)
हिडिम्बा- किं एसो ममाणुसो आणीदो। (किमेष मानुष आनीतः।)
घटोत्कचः- अम्ब! कोऽयम्।
हिडिम्बा- उम्मत्तअ दव्वदं खु अम्हाअं। (उन्मत्तक दैवतं खल्वस्माकम्।)
घटोत्कचः- आः कस्य दैवतम्।
हिडिम्बा- तव अ, मम अ। (तव च, मम च।)
घटोत्कचः- कः प्रत्ययः।
हिडिम्बा- अअं पञ्चओ। जेदु अय्यउत्तो। (अयं प्रत्ययः! जयत्वार्यपुत्रः।)
भीमः- (विलोक्य) का पुनरियम्। अये देवी हिडिम्बा।
अस्माकं भ्रष्टराज्यानां भ्रमतां गहने वने।
जातकारुण्यया देवि! सन्तापो नाशितस्त्वया ।। 49 ।।
हिडिम्बे! किमिदम्।
हिडिम्बा- (कर्णे) अय्यउत्त! ईदिसं विअ। (आर्यपुत्र! ईदृशमिव।)
भीमः- जात्या राक्षसी, न समुदाचारेण।
हिडिम्बा- उम्मत्तअ! अभिवादेहि पिदरं। (उन्मत्तक! अभिवादय पितरम्।)
घटोत्कचः- भोस्तात!
आज्ञानात्तु मया पूर्वं यद्भवान्नाभिवादितः।
अस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ।। 50 ।।
अहं स धार्तराष्ट्रवनदवाग्निर्घटोत्कचोऽभिवादये। पुत्रचापलं क्षन्तुमर्हसि।
भीमः- एह्येहि पुत्र! व्यतिक्रमकृतं क्षान्तमेव। (इति परिष्वज्य) अयं स धार्तराष्ट्रवनदवाग्निः। पुत्रापेक्षीणि खलु पितृहृदयानि। पुत्र, अतिबलपराक्रमो भव।
घटोत्कचः- अनुगृहीतोऽमि।15
वृद्धः- एवं भीमसेनपुत्रोऽयं घटोत्कचः।
भीमः- पुत्र! अभिवादयात्रभवन्तं केशवदासम्।
घटोत्कचः- भगवन्नभिवादये।
वृद्धः- पुतृसदृशगुणकीर्तिर्भव।
घटोत्कचः- अनुगृहीतोऽस्मि।
वृद्धः- भो वृकोदर! रक्षितमस्मत्कुलं, स्वकुलमुद्धृतं च। गच्छामस्तावत्।
भीमः- अनुग्राहात्तु भवतः सर्वमासीदिदं शुभम्।
आश्रमोऽदूरतोऽस्माकं तत्र विश्रम्य गम्यताम् ।। 51 ।।
वृद्धः- कृतमातिथ्यमनेन जीवितप्रदानेन। तस्माद्गच्छामस्तावत्।
भीमः- गच्छतु भवान् सकुटुम्बः पुनर्दर्शनाय।
वृद्धः- बाढम्। प्रथमः कल्पः।
भीमः- हिडिम्बे! इतस्तावत्। वत्स घटोत्कच! इतस्तावत्। तत्रभवन्तं केशवदासं आश्रमपदद्वारमात्रमपि सम्भावयिष्यामः।
यथा नदीनां प्रभवः समुद्रो
यथाहुतीनां प्रभवो हुताशनः।
यथेन्द्रियाणां प्रभवं मनोऽपि
तथा प्रभुर्नो भगवानुपेन्द्रः ।। 52 ।।

(निष्क्रान्ताः सर्वे।)

मध्यमव्यायोगं नाम नाटकं समाप्तम्

वर्गः:नाटकानि

Page is sourced from

sa.wikisource.org मध्यमव्यायोगः