पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ००७

From HinduismPedia
Jump to navigation Jump to search

Template:पद्मपुराणम्/खण्डः ६

नारद उवाच-
ततो जालंधरः क्रुद्धः प्राह तं दैत्यसूदनम्
कपटेन बलं हत्वा क्व यास्यसि बलाधम १
इत्युक्त्वा तं शतमखं सिंधुसूनुः प्रतापवान्
ससूताश्वध्वजरथं छादयामास मार्गणैः २
पपात मूर्च्छितः शक्रो रथोपरि शरैः क्षतः
दृष्ट्वा तं पतितं शक्रं जगर्जार्णवनंदनः ३
मूर्च्छां त्यक्त्वा मुमोचेंद्रो वज्रं जालंधरं प्रति
तदाद्रिदलनं हस्ते गृहीत्वा सिंधुसंभवः ४
वज्रं कक्षापुटे धृत्वा रथादुत्तीर्य सत्वरम्
अभ्यधावत दैत्येंद्रो देवेंद्रं धर्तुमाहवे ५
ततो दुद्राव मघवा रथं त्यक्त्वा हरिं स्मरन्
रथमिंद्रस्य मदवानारुह्यार्णवनंदनः ६
यंतारं मातलिं कृत्वा ययौ प्राप्तमनोरथः
रथमिंद्रस्य तरसा यत्र यत्र ययौ बले ७
जालंधरो महाबाहुः स्वयं चांबुधरो यथा
ततः स कोपात्पुरुषोत्तमः स्वयं खड्गं समुद्यम्य च नंदकं रणे ८
संप्रेरयित्वा गरुडं मनोजवं जघान कोपेन च दैत्यवाहिनीम्
रथान्हयान्कुंजरपत्तिसंघान्स पातयामास बलात्सहस्रशः ९
जनार्दनः कश्यपसूनुसंवृतश्चकार संख्ये चरितं भयावहम्
केशास्थिमज्जारुधिरौघवाहिनीं पिशाचवेतालविहंगसेविताम् १०
करोरुजंघायुधशस्त्रपूरितां सुदुस्तरां व्याघ्रगजेंद्र सेविताम्
रक्तांत्रहारांगदभूषितांतां विघूर्णनेत्रोत्सवकांतिवाससम् ११
विष्णुना निहतं सैन्यं दृष्ट्वा दानवपुंगवाः
जालंधराज्ञया सर्वे रुरुधुः परितो हरिम् १२
दैत्यास्ते तत्र बाणौघान्वर्षमाणा यथांबुदाः
यथाद्विरेफाः कमलं पर्वतं जलदा इव १३
चूतं यथा पक्षिगणा गगनं धूपसंचयः
न दृश्योऽभूत्तदा विष्णुर्न तार्क्ष्यो रणसंकटे १४
सर्वे ते रथमारूढा सर्वशस्त्रैर्महासुराः
वैकुंठाधिपतिं जघ्नुर्गर्जंतो भीमनिस्वनैः १५
तान्सर्वान्भीमरूपेण दैत्यारिः कुपितस्तदा
रणे निपातयामास वायुः पर्णचयं यथा १६
शैलरोमा ततो विष्णुं दैत्यः कोपादधावत
हरेरपि शरास्तस्य शरीरे शीर्णतां गताः १७
शैलरोमा च दैत्यारि शरीरं चाहनच्छरैः
हरिः खड्गं विनिर्धूय शिरस्तस्य जहार ह १८
छिन्ने शिरसि दैत्यस्य कबंधो विक्रमन्रणे
शैलरोमा भुजाभ्यां च तार्क्ष्यं जग्राह पक्षयोः १९
शिरश्चोत्पत्य तरसा विलग्नं स्कंधयोर्दृढम्
ततस्तत्रास्ययुद्धेन हृषीकेशोऽपि विस्मितः २०
शिरः संलग्नमालोक्य गरुडो न्यपतद्भुवि
पुनश्चोत्पत्य वेगेन शिरःस्थानं समाश्रयत् २१
शैलरोमा ततो विष्णुं जहार गरुडाद्बली
हरिर्जघ्ने तलेनाशु गतायुश्चापतद्भुवि २२
ततो जालंधरः सूतं खड्गरोमाणमब्रवीत्
संप्रेषय रथं तत्र यत्र देवो जनार्दनः २३
जालंधरस्य वचनात्खङ्गरोमानयद्रथम्
दृष्ट्वा तं पुरतो विष्णुमुवाचार्णवनंदनः २४
निःशंकं जहि मां विष्णो नाहं त्वा हन्मि माधव
तस्य तद्वचनं श्रुत्वा क्रोधसंरक्तलोचनः २५
नारायणः प्राणहरैः शरैरेनमपूरयत्
विष्णुना च विभिन्नांगोऽर्णवसूनुः प्रतापवान् २६
हरिं संपूरयामास मार्गणौघैर्निरंतरम्
नारायणः प्राणहरैः शरैरेनमपूरयत् २७
गरुडं पतितं दृष्ट्वासिंधुसूनोः शरैर्भुवि
रथं संस्मारयामास वैकुंठस्थं जनार्दनः २८
सरथस्तस्य संप्राप्तः सूतहीनो हयैर्वृतः
अश्वैर्युतं रथं दृष्ट्वा विस्मितो भगवान्रणे २९
संबोधयित्वा गरुडं सारथ्ये समयोजयत्
स धृत्वा मुकुटं मूर्ध्नि कौस्तुभं हृदये मणिम् ३०
पुरुषार्थान्हयान्कृत्वा ययौ जालंधरं हरिः
मेदिनीं रथचक्रेण दारयंश्च सुरैः सह ३१
जघान तरसा बाणैर्दानवानां च वाहिनीम्
देवराजेन संदिष्टो वीतिहोत्रो रणांगणे ३२
ददाह दानवानीकं समीरणसमन्वितम्
तदाह तं भगवता दैत्यसैन्यं सुरैः सह ३३
जालंधरः स्वल्पशेषं दध्यौ दृष्ट्वा बलं स्वकम्
अथाह भार्गवं राजा मत्सैन्यं निहतं सुरैः ३४
त्वयि तिष्ठति मंत्रज्ञे विख्यातो विद्यया भवान्
किं तया विद्यया ब्रह्मन्क्षत्रेणाथ बलेन च ३५
या न रक्षति रोगार्तान्यद्बलं शरणागतान्
जालंधरवचः श्रुत्वा भार्गवस्तमभाषत ३६
पश्य राजन्मम बलं ब्राह्मणस्य रणांगणे
इत्युक्त्वा वारिणा स्पृष्टा हुंकारेण प्रबोधिताः ३७
उत्थापितास्ते कविना शरौघैः प्राणहारकैः
देवाहता रणे पेतुः समंतात्सिंधुसूनुना ३८
बाणैर्जर्जरदेहास्ते धृतप्राणा नराधिप
न मृतास्त्वमरत्वाच्च बाणैर्भिन्नाश्च सत्तम ३९
ततो नारायणो देवो बृहस्पतिमभाषत
धिग्बलं दैवतगुरो यो न जीवयसे सुरान् ४०
धिषणस्तु जगन्नाथमुवाच त्वरितं तदा
ओषधीभिरहं स्वामिन्जीवयिष्यामि निर्जरान् ४१
इत्युक्त्वा धिषणः सोऽपि ययौ क्षीरार्णवस्थितम्
द्रोणमद्रिं तदा गत्वा सुखं गृह्यौषधीः स्वयम् ४२
गुरुस्तासां च योगेन जीवयामास निर्जरान्
उत्थितास्ते ततो देवा जघ्नुर्दानववाहिनीम् ४३
देवान्समुत्थितान्दृष्ट्वा बभाषे सिंधुजः कविम्
विना त्वद्विद्यया काव्य कथमेते समुत्थिताः ४४
इति दैत्योक्तमाकर्ण्य शुक्रः प्राहार्णवात्मजम्
क्षीरसागरमध्यस्थो द्रोणोनाम महागिरिः ४५
औषध्यस्तत्र तिष्ठंति जीवयंति च या मृतान्
तत्र गत्वा सुराचार्यो गृहीत्वोषधिसंचयम् ४६
रणे विनिहतान्देवानुत्थापयति मंत्रतः
भार्गवोक्तमथाकर्ण्य सैन्यभारं महाबलः ४७
शुंभे निक्षिप्य तरसा ययौ जालंधरोऽर्णवम्
अथ प्रविष्टः क्षीराब्धौ वेश्मदिव्यं महाप्रभम् ४८
प्रविश्य तत्र क्षीराब्धेः क्रीडास्थानं ददर्श सः
नोष्णो न शीतलो वायुर्न तमो यत्र दृश्यते ४९
यत्र गायंति नृत्यंति क्रीडंति च वरस्त्रियः
सुपीनस्तनभाराढ्याः कृशोदर्यः सुदंतिकाः 6.7.५०
नेत्रविभ्रमविक्षेपैर्नितंबपरिवर्त्तनैः
अंगैः संमोहनै रम्यैर्बाहुवल्लीविचालनैः ५१
पादविन्यासरणि तैर्मधुरैर्वचनस्तवैः
सौगंध्यसौख्यदैर्वासैर्नेत्रभ्रमरहुंकृतैः ५२
चामरांदोललीलाभिः स्रग्भिः स्मितविलोकितैः
सेवां चक्रुर्विलासिन्यस्तत्र सुतः।।५३।।
क्रीडंतं तत्र दुग्धाब्धिं संवीक्ष्य समरोत्सुकः
अथाह प्रणिपत्यासौ क्षीराब्धिं तात हंसि माम्
द्रोणाचलौषधीर्व्याजादंबुभिः प्लावयस्वतः ५४
क्षीरसागर उवाच-
तं प्राप्तं शरणं पुत्र प्लावयाम्यूर्मिभिः कथम्
मुनींद्रास्तं न शंसंति यस्त्यजेच्छरणागतम् ५५
पितृव्यवचनं श्रुत्वा संक्रोधात्संततं गिरिम्
तलप्रहरणेनैव ताडयामास दैत्यराट् ५६
ततो द्रोणगिरी राजन्भीतो जालंधराद्भृशम्
अथाजगाम रूपेण प्राह जालंधरं प्रति ५७
तवाहमभवं दासो रक्ष मां शरणागतम्
रसातलं महाबाहो यास्यामि तव शासनात् ५८
यावत्त्वं कुरुषे राज्यं तावत्स्थास्याम्यहं प्रभो
ओषधीनां विरावेण सिद्धानां रोदनेन च ५९
रसातलं जगामाद्रिः सिंधुसूनोः प्रपश्यतः
ततो जालंधरो वीर आजगाम महारणम् ६०
पूर्वकल्पितमारुह्य रथस्थं केशवं ययौ
रथस्थं माधवं दृष्ट्वा जहासोच्चैर्नदीसुतः ६१
तावत्त्वं तिष्ठ शकटे यावद्धन्यामरीनहम्
एवमुक्त्वा जघानाशु शरैस्तां देववाहिनीम् ६२
बाणैर्विदारिता देवास्त्राहीत्यूचुर्बृहस्पतिम्
ततो बृहस्पतिः शीघ्रमगमत्क्षीरसागरम् ६३
अदृष्ट्वा तं ततो द्रोणमभूच्चिन्तापरो नृप
अथागत्य रणं तूर्णममरान्प्राह गीष्पतिः ६४
पलायध्वं सुराः सर्वे द्रोणाद्रिः क्षयमागतः
एवमुक्तवतस्तस्य गुरोश्चिच्छेद सिंधुजः ६५
यज्ञोपवीतं केशांश्च बाणैस्तीक्ष्णैर्हसन्सुरान्
ततो दुद्राव वेगेन गुरुः प्राणभयार्दितः ६६
देवाः सर्वे रणं हित्वा पलायांचक्रिरे नृप
एवं विद्राव्य देवान्वै जनार्द्दनमधावत ६७
हृषीकेशोऽपि दैत्येशमन्वधावद्रणोत्सुकः
ततो युद्धमभूद्धोरं विष्णोर्जालंधरस्य च ६८
दुर्द्धर्षणो बाणजालैः प्लावयामास केशवम्
तान्बाणान्खंडशः कृत्वा पूरयित्वा शरैर्महान् ६९
वासुदेवोसुरं बाणैर्जालंधरमपीडयत्
जालंधरो रथं त्यक्त्वा शरपीडितविग्रहः ७०
विष्णुं विजेतुं दुद्राव संयतिस्थमथ द्रुतम्
तमायांतं रणे दृष्ट्वा हरिर्विव्याध सायकैः ७१
बाणानंगेसहद्विष्णोः प्राप्तोऽसौ रथसंनिधौ
हस्तेनैकेन गरुडं द्वितीयेन रथं हरेः ७२
भ्रामयित्वांबरे शश्वत्श्वेतद्वीपे न्यपातयत्
जालंधरकरक्षिप्तो गरुडोऽपि पपात ह ७३
क्रौंचद्वीपे स तत्रैव विश्राममकरोच्चिरम्
अच्युतः प्रच्युतस्तस्माद्भ्रमतो रथमंडलात् ७४
रणमागत्य दैत्येशं तिष्ठतिष्ठेत्यभाषत
दृष्ट्वा तमागतं भूयः केशवं समरप्रियः ७५
पूरयन्मार्गणैर्भूमिं जगर्जार्णवनंदनः ७६
विव्याध दैत्यं हरिराशु शक्त्या हृदि स्फुरंत्या स ततः पपात
सूतो न यत्तं समरान्निवासं तं प्राह रे केन कृतोस्म्यलज्जः ७७
दैत्यारि जालंधरयोर्महत्तदा बभूव युद्धं धरणीतलस्थयोः
प्रेम्णा श्रियस्तं न जघान दानवं स्वयं हरिस्तस्य शरैः पपात ७८
ततो निरीक्ष्य गोविंदं पतितं धरणीतले
प्रगृह्यार्णवजो दैत्य आरुरोह निजं रथम्
ततस्तमिंदिरा प्राप्ता रुदंती विष्णुवल्लभा ७९
संस्थिता कमला तत्र पतिं कमललोचनम्
पतितं तु पतिं वीक्ष्य लक्ष्मीः प्राहार्णवात्मजम् ८०
शृणुष्व वचनं भ्रातर्जितो विष्णुर्धृतस्त्वया
भगिन्या न च वैधव्यं दातुं युक्तं महाबल ८१
श्रुत्वा तु वचनं तस्या मुमोच जगतः पतिम्
जालंधरो महाबाहुः स्वस्रे भक्त्या ननाम च ८२
ववंदे चरणौ विष्णोः स्वसुः स्नेहात्तदांजसा
विष्णुर्जालंधरं प्राह तुष्टोऽस्मि तव कर्मणा
वरं वरय दैत्येश किं प्रयच्छामि ते वरम् ८३
जालंधर उवाच-
यदि त्वं मम तुष्टोऽसि शौर्येणानेन केशव
स्थातव्यं मत्पितुः स्थाने त्वया कमलया सह ८४
तथेत्युक्त्वा च संस्मृत्य गरुडं धरणीधरः
आरुह्य च जगन्नाथः क्षीराब्धिं प्रियया सह ८५
तदाप्रभृति कृष्णस्य वासः श्वशुरमंदिरे
अब्धौ वसति देवेशो लक्ष्म्याः प्रियचिकीर्षया ८६
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिता-
यामुत्तरखंडे युधिष्ठिरनारदसंवादे सप्तमोऽध्यायः ७

Page is sourced from

sa.wikisource.org पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ००७