पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ००६

From HinduismPedia
Jump to navigation Jump to search

Template:पद्मपुराणम्/खण्डः ६

नारदउवाच-
एवं द्वंद्वेषु युद्धेषु संप्रवृत्तेष्वनेकशः
जघानाथ हरिः क्रुद्धो गदया कालनेमिनम् १
विहाय मूर्च्छां संचित्य विष्णुं बाणैर्जघान सः
ततः क्रुद्धेन हरिणा स क्षितौ पातितो व्यसुः २
राजन्जघान संचिंत्य राहुं खड्गेन चंद्रमाः
राहुस्तु तं परित्यज्य तदा सूर्यमधावत ३
सहस्राशुं रणे जित्वा राहुश्चंद्रमधावत
जघान तं च खङ्गेन समरे रजनीपतिः ४
सैंहिकेयांगकाठिन्यात्खङ्गं चूर्णमभूत्तदा
जघान मुष्टिना गाढं कठिनेन विधुंतुदः ५
चंद्रमुत्थाप्य तं कंठे धृत्वा वेगान्महामृधे
गिलित्वा राहुणा चंद्रोप्युद्गीर्णश्च ततः पुनः ६
मृगं स्वचिह्नमुरसि निधाय विससर्ज ह
स उच्चैःश्रवसं गृह्य हयरत्नं विधुंतुदः ७
जालंधरांतिकं नीत्वा भक्त्या तस्मै न्यवेदयत्
दुर्वारणो रणे क्रुद्धस्तं यमं गदया हनत् ८
निशितैर्मार्गणैर्भिन्नः शक्रपुत्रेण चाहवे
धृत्वा जयंतं संह्रादः परिघाघातमूर्च्छितम् ९
ऐरावतं समारुह्य ययौ जालंधरं प्रति
हतवांश्चैव गदया निह्रादं धनदो रणे १०
रुद्रास्त्रिशूलनिर्घातैर्निशुंभं जघ्नुरोजसा
निशुंभो बाणजालैश्च पीडयामास तानति ११
शुंभासुरो देवगणान्पूरयामास मार्गणैः
मृत्युं मायामय मयो बद्ध्वा पाशैर्निनायतम् १२
ददौ जालंधरायासौ पौलोम्ने सोऽपि सिंधवे
अब्धिना च मुखे क्षिप्तो लोको जीवतु निर्भयः १३
बद्ध्वा च नमुचिं पाशैर्वासवोऽपि रसातलम्
निन्ये विश्वस्य हंतारं अथ जालंधरो ययौ १४
अथेंद्रबलयोर्युद्धमभूद्राजन्सुदारुणम्
बलांगरोचिषो भांति दिशो दश रवेरिव १५
सर्वाण्यस्त्राणि शक्रस्य शीर्णान्यंगे बलस्य च
बलीयसा बलेनेंद्रो मुद्गरेण हतो हृदि १६
ननादेंद्रस्ततो भीमं तच्छ्रुत्वा स बलोहसत्
हसतस्तस्य निश्चेरुर्मुखतो मौक्तिकानि च १७
तस्यांगस्याभिलाषेण न युद्धमकरोत्तदा
तुष्टाव वासवोऽत्यर्थं तं बलं बलसागरम् १८
वरं वृणु सुरश्रेष्ठेत्युक्तः प्राह बलं प्रति
यदि तुष्टोऽसि दैत्येश स्वं वपुर्दातुमर्हसि १९
तदिंद्र वचनं श्रुत्वा भित्त्वा शस्त्रैर्गृहाण माम्
इत्युवाच बलं सोऽपि किमदेयं महात्मनाम् २०
(गीरिव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः (अतिरिक्त श्लोकाः)
परेषु पुष्पमालेव श्रीः कदर्यस्य निष्फला १
महात्मानो न गृह्णंति हिंसमानान्रिपूनपि
सपत्नीः प्रापयंत्यब्धिं सिंधवो नगनिम्नगाः २
सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि
छिन्नोऽपि चंदनतरुः सुरभयतिमुखं कुठारस्य ३
देवं परं विनश्यति तनुरपि न श्रीर्निवेदितासत्सु
अवशिष्यते हिमांशोः सैव कलाशिरसि या शंभोः ४
ते साधवो भुवनमंडलमौलिभूता ये साधुतामनुपकारिषु दर्शयंति
आत्मप्रयोजनवशात्कृतछिन्नदेहाः पूर्वापकारिषु खलोपि हितानुरक्तः५)
तथेत्युक्त्वा सहस्राक्षो मुद्गरेणाहनद्बलम्
न बिभेद तदा देहः शक्रश्चिंतामवाप ह २०
सस्मारितो मातलिना वज्रेणांगं जघान तत्
तेन वज्रप्रहारेण बलांगं तद्व्यशीर्यत २१
बलांगस्यैकभागस्तु पपात कनकाचले
तुहिनाद्रौ द्वितीयस्तु तृतीयो गोनगेऽपतत् २२
चतुर्थो देवनद्यां च पंचमो मंदरे तथा
वज्राकरे पपातांशः षष्ठश्च विजयांगजः २३
तस्य जातिविशुद्धस्य परिशुद्धेन कर्मणा
कायस्यावयवाः सर्वे रत्नबीजत्वमागताः २४
वज्रादस्थिकणाः कीर्णाः षट्कोणा मणयोऽभवन्
अक्षिभ्यामिन्द्रनीला वै माणिक्यं श्रुतिसंभवम् २५
क्षतजात्पद्मरागाः स्युः मेदसो मरकतास्तथा
प्रवालानि च जिह्वातो दंता मुक्तास्तथाभवन् २६
मज्जोद्भवं मरकतं गारुत्मतमभून्नसा
कांस्यं पुरीषं रजतं वीर्यं ताम्रं च मूत्रजम् २७
अंगस्योद्वर्तनाज्जातं पित्तलं ब्रह्मवीतिकाः
नादाद्वैदूर्यमुत्पन्नं रत्नं चारुतरं तथा २८
नखेभ्यः कनकोत्पत्ती रुधिराच्च रसोद्भवः
मेदसः स्फटिकं जातं प्रवालं मांससंभवम् २९
बलदेहोद्भवान्यासन्रत्नानि पृथिवीतले
पुण्योपचयसंपत्त्या भोक्ष्यंते विमलैर्जनैः ३०
अत्रांतरे हतं श्रुत्वा बलं मघवता मृधे
प्रभावती नाम राज्ञी ययौ तच्चरणांतिकम् ३१
विललाप पतिं दृष्ट्वा विकीर्णावयवं रणे
प्रभावत्यश्रुपूर्णाक्षी मुक्तकेशी घनस्तनी ३२
हा नाथ बलविक्रांत कांतदेह जगत्प्रिय
मां त्वं विहाय किं चात्र कैवल्यं गतवानसि ३३
जराकुष्ठादिभिर्व्याप्तं बुद्ध्वा देहं त्यजंति न
देहिनोऽन्ये परं कांतं त्वया देहो वृथोज्झितः ३४
तव देहेन दिव्येन हारकं भूष्यते प्रिय
रणोत्सुकेन भवता या वेणी ग्रथिता मम ३५
तामुद्ग्रथय वैधव्यदुःखार्त्तायाः स्वयं प्रिय
एवं विलपतीं वीक्ष्य बलराज्ञीं समुद्रजः
दुःखितः शुक्रमित्याह बलं जीवय भार्गव ३६
शुक्र उवाच-
इच्छयामरणं प्राप्तं तं कथं जीवयाम्यहम्
तथापि मंत्रसामर्थ्याद्वाचमुच्चारयिष्यति ३७
जालंधर उवाच-
बलस्य रूप वचनं श्रोतुमिच्छामि भार्गव
जालंधरेणैवमुक्तः क्षणं ध्यानपरोऽभवत् ३८
अथोदतिष्ठद्वदनात्स्वनः श्रोत्रमनोरमः
प्रभावतीं प्रति व्यक्तं वाद्यभांडा दिवोत्थितः ३९
प्रभावति स्वदेहं त्वं ममांगेषु लयं नय
इति तस्य वचः श्रुत्वा नदी जाता प्रभावती ४०
बलाङ्गेष्वेव लीना सा सुमेरोः पूर्ववाहिनी
यस्यास्तोयेन संजाता रत्नानां कांतिरुत्तमा ४१

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिता यामुत्तरखंडे जालंधरोपाख्याने बलदैत्य स्वर्गारोहणं नाम षष्ठोऽध्यायः ६

Page is sourced from

sa.wikisource.org पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ००६