पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ००३

From HinduismPedia
Jump to navigation Jump to search

Template:पद्मपुराणम्/खण्डः ६

सूत उवाच-
एकदा नारदो द्रष्टुं पांडवान्दुःखकर्शितान्
ययौ काम्यवनं विप्रः सत्कृतस्तैर्यथाविधि १
अथ नत्वा मुनिश्रेष्ठं युधिष्ठिर उवाच ह
भगवन्कर्मणा केन दुःखाब्धौ पतिता वयम् २
तमुवाच ऋषिर्दुःखं त्यज त्वं पांडुनंदन
सुखदुःखसमाहारे संसारे कः सुखी नरः ३
ईश्वरोपि हि न स्थायी पीड्यते देहसंचयैः
न दुःखरहितः कश्चिद्देही दुःखसहो यतः ४
शरीरं सवितुर्यस्माद्राहुस्तद्ग्रसते बली
राहोरपि शिरश्छिन्नं शौरिणामृतभोजने ५
सोऽपि शार्ङ्गधरो देवः क्षिप्तः सागरगह्वरे
जालंधरेण वीरेण निहतः सोऽपि शंभुना ६
युधिष्ठिर उवाच-
कोऽसौ जालंधरो वीरः कस्य पुत्रः कुतो बली
कथं जालंधरं संख्ये हतवान्वृषभध्वजः ७
एतत्सर्वं समाचक्ष्व विस्तरेण तपोधन
राज्ञा स एव मुक्तस्तु कथयामास नारदः ८
नारद उवाच-
शृणु भूप कथां दिव्यामशेषाघौघनाशिनीम्
ईशानसिंधुसून्वोश्च संग्रामं परमाद्भुतम् ९
एकदा गिरिशं स्तोतुं प्रययौ पाकशासनः
अप्सरोगणसंकीर्णो देवैर्बहुभिरावृतः १०
गंधर्वैरावृतो देवस्तंत्रीशिक्षासु कोविदैः
रंभा तिलोत्तमा रामा कर्पूराकदली तथा ११
मदना भारती कामा सर्वाभरणभूषिताः
नर्तक्यश्च तथा चान्याः समाजग्मुः सुरांतिकम् १२
गंधर्वयक्षसिद्धास्तु नारदस्तुंबुरुस्तथा
किन्नरा मुहुराजग्मुस्तथा किंनरयोषितः १३
वायुश्च वरुणश्चैव कुबेरो धनदस्तथा
यमश्चाग्निर्निर्ऋतिश्च ये चान्ये देवतागणाः १४
विमानसंस्थो मघवा विमानस्थाः सुरांगनाः
स्ववाहनगतादेवाः कैलासं प्रययुर्जवात् १५
ददृशुस्ते ततो देवाः कैलासं पर्वतोत्तमम्
महीधराणां सर्वेषां पृथिव्या इव मंडनम् १६
सर्वतः सुखदं शुद्धं सिद्धिराशिमिवस्थितम्
यत्र वृक्षाः कल्पवृक्षाः पाषाणाश्चिंतितप्रदाः १७
पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः
अशोकैः पाटलैश्चूतैर्मंदारैः शोभितो गिरिः १८
पर्यंतकवनामोदवाहका यत्र वायवः
पंगुत्वं बहुचारेण यांति ते मलयानिलाः १९
वाप्यः स्फटिकसोपाना ह्यगाध विमलोदकाः
वैडूर्यनालसंसक्तसौवर्णनिभ पंकजाः २०
कुमुदानां द्युतिर्यत्र राजते सर्वतोदिशम्
कह्लारैः शौभितावाप्यः पिनद्धाः पद्मरागवत् २१
हरिन्मणिनिबद्धाश्च गोमेदैः सर्वतो वृताः
पद्मरागशिलाबद्धा नानाधातुविचित्रिताः २२
ददृशुः सुंदरतरं नाकाधिकविनिर्मितम्
कैलासं पर्वतश्रेष्ठं दृष्ट्वा ते विस्मयंगताः २३
विमानादवतीर्णाश्च मघवा देवताश्च ताः
द्वारपालमथागम्य नंदिनं वाक्यमब्रुवन् २४
भो भो गणवरश्रेष्ठ शृणु मे वाक्यमुत्तमम्
समाज्ञापय शीघ्रं त्वं नृत्यार्थमिहमागतम् २५
ईश्वरं प्रतिदेवेशं सर्वदेवैः समावृतम्
इंद्रस्य वचनं श्रुत्वा गिरिशं नंदिरब्रवीत् २६
प्रभोऽयमागतः सर्वैर्देवराजः पुरंदरः
नृत्यार्थमथ तं प्राहानय शीघ्रं शचीपतिम् २७
प्रवेशयामास तदा नंदी तैः सह वासवम्
स दृष्ट्वा गिरिशं देवं तुष्टाव वृषभध्वजम् २८
रंभाद्यास्तास्तदा सर्वा नर्त्तक्यो हरसन्निधौ
मृदंगवीणावादित्रैः मुदा नाट्यं प्रचक्रिरे २९
कांस्यवाद्यान्प्रगृह्यान्या वंशतालान्सकाहलान्
चक्रुस्ता नृत्यसंरंभं स्वयंदेवः पुरंदरः ३०
अतीवनर्तनं चक्रे सुंदरं देवदुर्ल्लभम्
ईश्वरस्तोषमापन्नो वासवं वाक्यमब्रवीत् ३१
प्रसन्नोऽहं सुरश्रेष्ठ जातस्ते व्रियतां वरः
इत्युक्तवति देवेशे स्वबाहुबलगर्वितः ३२
प्रत्युवाच हरं वाक्यं संग्रामः सवृतो मया
यत्र त्वत्सदृशो योद्धा तद्युद्धं देहि मे प्रभो ३३
इत्युक्त्वा निर्गतो जिष्णुर्लब्ध्वा शंभोर्वरं प्रभोः
तस्मिन्गते तदा शक्रे गिरिशो वाक्यमब्रवीत् ३४
गणा मे श्रूयतां वाक्यं देवराजोऽतिगर्वितः
इत्युक्त्वा क्रोधसंयुक्तो बभूव च ततो हरः ३५
आविरासीत्ततः क्रोधो मूर्त्तिमान्पुरतः स्थितः
घनान्धकारसदृशो मृडं क्रोधस्ततोऽब्रवीत् ३६
देहि मे त्वं हि सन्देशं किं करोमि तव प्रभो
उमापतिस्तदोवाच गच्छ त्वं वासवं जय ३७
स्वर्गसिंधुं समासाद्य सागरस्य च वीर्यवान्
इत्युक्तोंतर्दधे क्रोधो गणास्ते विस्मयं ययुः ३८
ईशानकल्पे जाते तु कामेनार्णवसंगमे
नाकसिंधुस्तदा मत्ता स्वयौवनभरोष्मणा ३९
तां दृष्ट्वा सिंधुराजश्च जलकल्लोलवानभूत्
तदा बभूव राजेंद्र गंगासागरसंगमः ४०
महानदी तदा प्राप्य रेमे चात्मबलेन च
अत्रांतरे समुद्रस्य बभूव सुभटस्ततः ४१
सूनुस्तस्यां महानद्यां समुद्रादभवद्बली
महार्णवतनूजेन जातमात्रेण पार्थिव ४२
रुदतोत्कंपिता पृथ्वी त्रिलोकी नादिताभवत्
समाधिबद्धमुद्रां च संतत्याज चतुर्मुखः ४३
अत्रांतरे परित्रस्तां तां संवीक्ष्य जगत्त्रयीम्
धाता सुरेंद्रवाक्येन प्रजगाम महार्णवम् ४४
आश्चर्यमिति संचिंत्य हंसारूढो जवाद्ययौ
ब्रह्माणमागतं वीक्ष्य सपर्यां विदधेऽर्णवः
तमुवाच ततो ब्रह्मा किं गर्जसि वृथांबुधे ४५
समुद्र उवाच-
नाहं गर्जामि देवेश मत्सुतो बलवान्प्रभो
शिशोर्वै कुरु रक्षां च दुर्ल्लभं तव दर्शनम् ४६
संदृश्यतां च तनयो भार्यां प्राहातिशोभनाम्
ययौ सा भर्तुरादेशात्सपुत्रा ब्रह्मणोंतिके ४७
उत्संगदेशे चतुराननस्य विधाय पुत्रं चरणौ ननाम
तदा समुद्रात्मजमद्भुतं तं दृष्ट्वा विधातुः किल विस्मयोऽभूत् ४८
गृहीतकूर्चस्य शिशोः करं च यदा विरिंचिर्न शशाक मोचितुम्
तदा समुद्रः प्रहसन्प्रयातः कूर्चं प्रगृह्यार्भकरं विमोचयन् ४९
तादृशं तस्य बालस्य दृष्ट्वा विक्रममात्मभूः
प्रीत्या जालंधरेत्याह नाम्ना जालंधरोऽभवत् 6.3.५०
वरं ददावथो तस्य प्रणयेन प्रजापतिः
अयं जालंधरो देवैरजेयश्च भविष्यति ५१
पातालसहितं नाकं मत्प्रसादेन भोक्ष्यति
इत्युक्त्वांतर्दधे ब्रह्मा हंसमारुह्य सत्वरः ५२
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां युधिष्ठिरनारदसंवादे उत्तर
खंडे जालंधरोत्पत्ति ब्रह्मागमोनाम तृतीयोऽध्यायः ३

Page is sourced from

sa.wikisource.org पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ००३