नारदपुराणम्- उत्तरार्धः/अध्यायः ३८

From HinduismPedia
Jump to navigation Jump to search

Template:नारदपुराणम्- उत्तरार्धः


वसुरुवाच ।।
श्रृणु मोहिनी वक्ष्यामि तीर्थानां लक्षणं पृथक् ।।
येन विज्ञातमात्रेण पापिनां गतिरुत्तमा ।। ३८-२ ।।

सर्वेषामपि तीर्थानां श्रेष्ठा गंगा धरातले ।।
न तस्या सदृशं किंचिद्विद्यते पापनाशनम् ।। ३८-३ ।।

तच्छ्रुत्वा वचनं तस्य वसोः स्वस्य पुरोधसः ।।
प्रणता मोहिनी प्राह गंगास्नानकृतादरा ।। ३८-४ ।।

मोहिन्युवाच ।।
भगवन्वाडवश्रेष्ठ गंगामाहात्म्यमुत्तमम् ।।
सर्वेषां च पुराणानां संमतं वद सांप्रतम् ।। ३८-५ ।।

श्रुत्वा माहात्म्यमतुलं गंगायाः पापनाशनम् ।।
पश्चात्पापविनाशिन्यां स्नातुं यास्ये त्वया सह ।। ३८-६ ।।

तच्छ्रुत्वा मोहिनीवाक्यं वसुः सर्वपुराणवित् ।।
माहात्म्यं कथयामास गंगायाः पापनाशनम् ।। ३८-७ ।।

वसुरुवाच ।।
ते देशास्ते जनपदास्ते शैला स्तेऽपि चाश्रमाः ।।
येषां भागीरथी पुण्या समीपे वर्तते सदा ।। ३८-८ ।।

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।।
तां गतिं न लभेज्जंतुर्गंगां संसेव्य यां लभेत् ।। ३८-९ ।।

पूर्वे वयसि पापानि कृत्वा कर्माणि ये नराः ।।
शेषे गंगां निषेवंते तेऽपि यांति परां गतिम् ।। ३८-१० ।।

तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ।।
मासमेकं तु गंगायां स्नातस्तुल्यफलावुभौ ।। ३८-११ ।।

तिष्ठेतार्वाक्छिरा यस्तु युगानामयुतं पुमान् ।।
तिष्ठेद्यथेष्टं यश्चापि गंगायां स विशिष्यते ।। ३८-१२ ।।

भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ।।
गतिमन्वेषमाणानां न गंगासदृशी गतिः ।। ३८-१३ ।।

प्रकृष्टैः पातकै र्घोरैः पापिनः पुरुषाधमान् ।।
प्रसह्य तारयेद्गुंगा गच्छतो निरयेऽशुचौ ।। ३८-१४ ।।

ते समानास्तु मुनिभिर्नूनं देवैः सवासवैः ।।
येऽभिगच्छंति सततं गंगामभिमतां सुरैः ।। ३८-१५ ।।

अंधाञ्जडान्द्रव्यहीनांश्च गंगा संपावयेद्बृहती विश्वरूपा ।।
देवैः सेंद्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकालं समृद्ध्ये ।। ३८-१६ ।।

पक्षादौ कृष्णपक्षे तु भूमौ संनिहिता भवेत् ।।
यावत्पुण्या ह्यमावास्या दिनानि दश मोहिनि ।। ३८-१७ ।।

शुक्लप्रतिपदादेश्च दिनानि दश संख्यया ।।
पाताले सन्निधानं तु कुरुते स्वयमेव हि ।। ३८-१८ ।।

आरभ्य शुक्लैकादश्या दिनानि दश यानि तु ।।
पंचम्यं तानि सा स्वर्गे भवेत्सन्निहिता सदा ।। ३८-१९ ।।

कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परम् ।।
द्वापरे तु कुरुक्षेत्रं कलौ गंगा विशिष्यते ।। ३८-२० ।।

कलौ तु सर्वतीर्थानि स्वं स्वं वीर्यं स्वभावतः ।।
गंगायां प्रतिमुंचंति सा तु देवी न कुत्रचित् ।। ३८-२१ ।।

गंगांभः कणदिग्धस्य वायोः संस्पर्शनादपि ।।
पापशीला अपि नराः परां गतिमवाप्नुयुः ।। ३८-२२ ।।

योऽसौ सर्वगतो विष्णुश्चित्स्वरूपी जनार्दनः ।।
स एव द्रवरूपेण गंगांभो नात्र संशयः ।। ३८-२३ ।।

ब्रह्महा गुरुडा गोघ्नः स्तेयी च गुरुतल्पगः ।।
गंगांभसा च पूयंते नात्र कार्या विचारणा ।। ३८-२४ ।।

क्षेत्रस्थमृद्धृतं वापि शीतमुष्णमथापि वा ।।
गांगेयं तु हरेत्तोयं पापमामरणांतिकम् । ३८-२५ ।।

वर्ज्यं पर्युषितं तोयं वर्ज्यं पुर्युषितं दलम् ।।
न वर्ज्यं जाह्नवीतोयं न वर्ज्यं तुलसीदलम् ।। ३८-२६ ।।

मेरोः सुवर्णस्य च सर्वरत्नैः संख्योपलानामुदकस्य वापि ।।
गंगाजलानां न तु शक्तिरस्ति वक्तुं गुणाख्यापरिमाणमत्र ।। ३८-२७ ।।

तीर्थयात्राविधिं कृत्स्नमकुर्वाणोऽपि यो नरः ।।
गंगातोयस्य माहात्म्यात्सोऽप्यत्र फलभाग्भवेत् ।। ३८-२८ ।।

चिंतामणिगुणाच्चापि गंगायास्तोयबिंदवः ।।
विशिष्टा यत्प्रयच्छंति भक्तेभ्यो वांछितं फलम् ।। ३८-२९ ।।

गंडूषमात्रतो भक्त्या सकूद्गंगांभसा नरः ।।
कामधेनु स्तनोद्भूतान्भुंक्ते दिव्यरसान्दिवि ।। ३८-३० ।।

शालग्रामशिलायां यस्तु गंगाजलं क्षिपेत् ।।
अपहत्य तमस्तीव्रं भाति सूर्यो यथोदये ।। ३८-३१ ।।

मनोवाक्कायजैर्ग्रस्तः पापैर्बहुविधैरपि ।।
वीक्ष्य गंगां भवेत्पूतः पुरुषो नात्र संशयः ।। ३८-३२ ।।

गंगातोयाभिषिक्तां तु भिक्षामश्नाति यः सदा ।।
सर्पवत्कंचुकं मुक्त्वा पापहीनो भवेत्स वै ।। ३८-३३ ।।

हिमवद्विंध्यसदृशा राशयः पापकर्मणाम् ।।
गंगांभसा विनश्यंति विष्णुभक्त्या यथापदः ।। ३८-३४ ।।

प्रवेशमात्रे गंगायां स्नानार्थं भक्तितो नृणाम् ।।
ब्रह्महत्यादिपापानि हाहेत्युक्त्वा प्रयांत्यलम् ।। ३८-३५ ।।

गंगातीरे वसेन्नित्यं गंगातोयं पिबेत्सदा ।।
यः पुमान्स विमुच्येत पातकैः पूर्वसंचितैः ।। ३८-३६ ।।

यो वै गंगां समाश्रित्य नित्यं तिष्ठति निर्भयः ।।
स एव देवैर्मर्त्यैश्च पूजनीयो महर्षिभिः ।। ३८-३७ ।।

किमष्टांगेन योगेन किं तपोभिः किमध्वरैः ।।
वास एव हि गंगायां सर्वतोऽपि विशिष्यते ।। ३८-३८ ।।

किं यज्ञैर्बहुभिर्जाप्यैः किं तपोभिर्धनार्पणैः ।।
स्वर्गमोक्षप्रदा गंगा सुखसेव्या यतः स्थिता ।। ३८-३९ ।।

यज्ञैर्यमैश्च नियमैर्दानैः संन्यासतोऽपि वा ।।
न तत्फलमवाप्रोति गंगां सेव्य यदाप्नुयात् ।। ३८-४० ।।

प्रभासे गोसहस्त्रेण राहुग्रस्ते दिवाकरे ।।
यत्फलं लभते मर्त्यो गंगायां तद्दिनेन वै ।। ३८-४१ ।।

अन्योपायांश्च यस्त्यक्त्वा मीक्षकामः सुनिश्चितः ।।
गंगातीरे सुखं तिष्ठेत्स वै मोक्षस्य भाजनम् ।। ३८-४२ ।।

वाराणस्यां विशेषण गंगा सद्यस्तु मोक्षदा ।।
प्रतिमासं चतुर्दश्यामष्टम्यां चैव सर्वदा ।। ३८-४३ ।।

गंगातीरे निवासश्च यावज्जीवं च सिद्धिदः ।।
कृच्छ्राणि सर्वदा कृत्वा यत्फलं सुखमश्नुते ।। ३८-४४ ।।

सदा चांद्रायणं चैव तल्लभेज्जाह्नवीतटे ।।
गंगासेवापरस्येह दिवसार्द्धेन यत्फलम् ।। ३८-४५ ।।

न तच्छक्यं ब्रह्मसुते प्राप्तुं क्रतुशतैरपि ।।
सर्वयज्ञतपोदानयोगस्वाध्यायकर्मभिः ।। ३८-४६ ।।

यत्फलं तल्लभेद्भक्त्या गंगातीरनिवासतः ।।
यत्पुण्यं सत्यवचनैर्नैष्ठिकब्रह्मचारिणाम् ।। ३८-४७ ।।

यदग्निहोत्रिणां पुण्यं तत्तु गंगानिवासतः ।।
समातृपितृदाराणां कुलकोटिमनंतकम् ।। ३८-४८ ।।

गंगाभक्तिस्तारयते संसारार्णवतो ध्रुवम् ।।
संतोषः परमैश्वर्यं तत्त्वज्ञानं सुखात्मनाम् ।। ३८-४९ ।।

विनयाचारसंपत्तिर्गंगाभक्तस्य जायते ।।
कृतकृत्यो भवेन्मर्त्यो गंगां प्राप्यैव केवलम् ।। ३८-५० ।।

तद्भक्तस्तत्परश्च स्यान्मृतो वापि न संशयः ।।
भक्त्या तज्जलसंस्पर्शी तज्जलं पिबते च यः ।। ३८-५१ ।।

अनायासेन हि नरो मोक्षोपायं स विंदति ।।
दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ।। ३८-५२ ।।

सर्वाणि येषां गंगायास्तोयैः कृत्यानि सर्वदा ।।
देहं त्यक्त्वा नरास्ते तु मोदंते शिवसन्निधौ ।। ३८-५३ ।।

देवाः सोमार्कसंस्थानि यथा शक्रादयो मुखैः ।।
अमृतान्युपभुंजंति तथा गंगाजलं नराः ।। ३८-५४ ।।

कन्यादानैश्च विधिवद्भूमिदानैश्च भक्तितः ।।
अन्नदानैश्च गोदानैः स्वर्णदानादिभिस्तथा ।। ३८-५५ ।।

रथाश्वगजदानैश्च यत्पुण्यं परिकीर्तितम् ।।
ततः शतगुणं पुण्यं गंगांभश्चुलुकाशनात् ।। ३८-५६ ।।

चांद्रायणसहस्राणां यत्फलं परिकीर्तितम् ।।
ततोऽधिकफलं गंगातोयपानादवाप्यते ।। ३८-५७ ।।

गंडूषमात्रपाने तु अश्वमेधफलं लभेत् ।।
स्वच्छंदं यः पिबेदंभस्तस्य मुक्तिः करे स्थिता ।। ३८-५८ ।।

त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् ।।
नार्मदं दशभिर्मासैर्गांगं वर्षेण जीर्यति ।। ३८-५९ ।।

शास्त्रेणाकृततोयानां मृतानां क्वापि देहिनाम् ।।
तदुत्तरफलावाप्तिर्गंगायामस्थियोगतः ।। ३८-६० ।।

चांद्रायणसहस्रं तु यश्चरेत्कायशोधनम् ।।
यः पिबेत्तु यथेष्ठं हि गंगाम्भः स विशिष्यते ।। ३८-६१ ।।

गंगां पश्यति यः स्तौति स्नाति भक्त्या पिबेज्जलम् ।।
स स्वर्गं ज्ञानममलं योगं मोक्षं च विंदति ।। ३८-६२ ।।

यस्तु सूर्य्यांशुनिष्टप्तं गांगेयं पिबते जलम् ।।
गोमूत्रयावकाहाराद्गांगपानं विशिष्यते ।। ३८-६३ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गंगामाहात्म्यवर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ।। ३८ ।।

वर्गः:नारदपुराणम्- उत्तरार्धः

Page is sourced from

sa.wikisource.org नारदपुराणम्- उत्तरार्धः/अध्यायः ३८