नारदपुराणम्- उत्तरार्धः/अध्यायः ३१

From HinduismPedia
Jump to navigation Jump to search

Template:नारदपुराणम्- उत्तरार्धः

वसिष्ठ उवाच ।।
तच्छ्रुत्वा वचनं तस्याः काष्ठीलायाः शुचिस्मिते ।।
सन्ध्यावली नाम भृशं तामुवाच ह सादरम् ।। ३१-१ ।।

त्वद्वाक्याद्विस्मयो जातः काष्ठीले सांप्रतं मम ।।
कथं दृष्टा मया त्वं च यास्यंती कुत्सितां गतिम् ।। ३१-२ ।।

कर्मणा केन ते मुक्तिर्भवेत्कुत्सितयोनितः ।।
तन्मे वद विशालांगे त्वां दृष्ट्वा दुःखिता ह्यहम् ।। ३१-३ ।।

मांसपिंडोपमं श्लक्ष्णं नवनीतोपमं शुभे ।।
शरीरं तव संवीक्ष्य तया मे जायते हृदि ।। ३१-४ ।।

काष्ठीलोवाच ।।
पृथिवीं दास्यसे सुभ्रु सकलामपि मत्कृते ।।
तथापि नैव मुच्येयं सद्यः कुत्सितयोनितः ।। ३१-५ ।।

येन पुण्येन सुभगे मुच्येयं कर्मबन्धनात् ।।
तन्निर्दिशामि सुमहद्गतिदं त्वं निशामय ।। ३१-६ ।।

यश्चायं माघमासस्तु सर्वमासोत्तमः स्मृतः ।।
यस्मिन् क्रोंशति पापानि ब्रह्महत्यादिकानि च ।। ३१-७ ।।

दुर्लभो माघमासो वै दुर्ल्लभं जन्म मानुषम् ।।
दुर्ल्लभं चोषसि स्नानं दुर्लभं कृष्णसेवनम् ।। ३१-८ ।।

दुर्लभो वासरो विष्णोर्विधिना समुपोषितः ।।
देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले ।। ३१-९ ।।

तस्माज्जलं माघमासे पावनं हि विशेषतः ।।
नेदृशी संगरे शूरैर्गतिः प्राप्येत सौख्यदा ।। ३१-१० ।।

यादृशी प्लवने प्रातः प्राप्यते नियमस्थितैः ।।
सरित्तडागवापीषु स्नाने सत्तममीरितम् ।। ३१-११ ।।

कूपभांडजलैर्मध्यं जघन्यं वह्नितापितैः ।।
न सौख्यैर्लभ्यते पुण्यं दुःखैरेवाप्यते तु तत् ।। ३१-१२ ।।

धर्म्मसेवार्थकं स्नानं नांगनैर्मल्यहेतुकम् ।।
होमार्थं सेवनं वह्नेर्न च शीतादिहानये ।। ३१-१३ ।।

यावन्नोदयते सूर्यस्तावत्स्नानं विधीयते ।।
आच्छादिते घनैर्व्योम्नि ह्युद्गमिष्यन्तमर्थयेत् ।। ३१-१४ ।।

अभावे सरिदादीनां नवकुंभस्थितं जलम् ।।
वायुना ताडितं रात्रौ स्नाने गंगासमं विदुः ।। ३१-१५ ।।

माघस्नायी वरारोहे दुर्गतिं नैव पश्यति ।।
तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत् ।। ३१-१६ ।।

अग्निप्रवेशादधिकं माघोषस्येव मज्जनम् ।।
जीवता भुज्यते दुःखं मृतेन बहुलं सुखम् ।। ३१-१७ ।।

एतस्मात्कारणाद्भद्रे माघस्नानं विशिष्यते ।।
अहन्यहनि दातव्यास्तिलाः शर्करयान्विताः ।। ३१-१८ ।।

मेघपुंष्पोपपन्नेन सहान्नेन सुमध्यमे ।।
यावकैश्चैव होतव्या गव्यसर्पिः समन्वितैः ।। ३१-१९ ।।

माध्यां स्नानसमाप्तै तु दद्याद्विप्राय षड्रसम् ।।
सूर्यो मे प्रीयतां देवो विष्णुमूर्तिर्निरञ्जनः ।। ३१-२० ।।

वासांसि द्विजयुग्माय स सप्तान्नानि चार्पयेत् ।।
त्रिंशच्च मोदका देयास्तिलान्नाः शर्करामयाः ।। ३१-२१ ।।

भागास्त्रयस्तिलानां तु चतुर्थः शर्करांशकः ।।
तांबूलादीनि भोग्यानि भक्त्यादकद्याद्विधानवित् ।। ३१-२२ ।।

स्रोतोमुखः सरिति चान्यत्र भास्करसंमुखः ।।
स्नायादावाह्य तीर्थानि गंगादीन्य कर्मण्डलात् ।। ३१-२३ ।।

यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम् ।।
त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा ।। ३१-२४ ।।

दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते ।।
परिपूर्णं कुरुष्वेदं माघस्नानं ममाच्युत ।। ३१-२५ ।।

तीर्थस्नायी वरारोहे माघस्नायी फलाल्पकः ।।
तीर्थस्नानादियात्स्वर्गं माघस्नानात्परं पदम् ।। ३१-२६ ।।

माघस्य धवले पक्षे भवेदेकादशी तु या ।।
रविवारेण संयुक्ता महापातकनाशिनी ।। ३१-२७ ।।

विनापि ऋक्षसंयोगं सा शुक्लैकादशी नृणाम् ।।
विनिर्दहति पापानि कुनृपो विषयं यथा ।। ३१-२८ ।।

कुपुत्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा ।।
अधर्मस्तु यथा धर्मं कुमंत्री नृपतिं यथा ।। ३१-२९ ।।

अज्ञानं च यथा ज्ञानं कुशौचं शुचितां यथा ।।
यथा हंत्यनृतं सत्यं वादस्संवादमेव च ।। ३१-३० ।।

उष्णं हिममनर्थोऽर्थं पापं कीर्तिं स्मयस्तपः ।।
यथा रसा महारोगाञ्छ्राद्धं संकेत एव च ।। ३१-३१ ।।

तथा दुरितसंघं तु द्वादशी हंति साधिता ।।
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।। ३१-३२ ।।

महान्ति पातकान्येतान्याशु हन्ति हरेर्दिनम् ।।
समवेतानि चैतानि न शामयति पुष्करम् ।। ३१-३३ ।।

न चापि नैमिषारण्यं न क्षेत्रं कुरुसंज्ञितम् ।।
प्रभासो न गया देवि न रेवा न सरस्वती ।। ३१-३४ ।।

न गगा यमुना चैव प्रयागो न च देवका ।।
न सरांसि नदाश्चान्ये होमदानतपांसि च ।। ३१-३५ ।।

न चान्यत्सुकृतं सुभ्रु पुराणे पठ्यते स्फुटम् ।।
पापसंघविनाशाय मुक्त्वैकं हरिवासरम् ।। ३१-३६ ।।

उपोषणात्सकृद्देवि विनश्यंत्यघराशयः ।।
एकतः पृथिवीदानमेकतो हरिवासरम् ।। ३१-३७ ।।

न समं ब्रह्मणा प्रोक्तमधिकं हरिवासरम् ।।
तस्मिन्वराहवपुषं कृत्वा देवं तु हाटकम् ।। ३१-३८ ।।

घटोपरि नवे पात्रे धृत्वा ताम्रमये शुभे ।।
सर्वबीजान्विते चैव सितवस्त्रावगुंठिते ।। ३१-३९ ।।

सहिरण्ये सुदीपाढ्ये कृतपुष्पावतंसके ।।
विधिना पूजयित्वा चकुर्याज्जागरणं व्रती ।। ३१-४० ।।

प्रातर्विप्राय दद्याच्च वैष्णवाय कुटुंबिने ।।
तत्कुंभक्रोडसंयुक्तं सनैवेद्यपरिच्छदम् ।। ३१-४१ ।।

पश्चाच्च पारणं कुर्याद्द्विजान्भोज्य सुहृद्वृतः ।।
एवं कृते वरारोहे न भूयो जायते क्वचित् ।। ३१-४२ ।।

बहुजन्मार्ज्जितं पापं ज्ञानाज्ञानकृतं च यत् ।।
तत्सर्वं नाशमायाति तमः सूर्योदये यथा ।। ३१-४३ ।।

यथाशास्त्रं मया तुभ्यं वर्णिता द्वादशी शुभे ।।
या सा कृता त्वया पूर्वमासीद्देव्यन्यजन्मनि ।। ३१-४४ ।।

यस्यास्तवातुला पुष्टिर्वर्तते वर्तयिष्यति ।।
भर्त्तुस्तव च पुत्रस्य सर्वदा सुखदायिनी ।। ३१-४५ ।।

तस्यास्त्वया तुरीयांशो देयश्चेन्मह्यमादरात् ।।
तदा प्रीता गमिष्यामि तद्विष्णोः परमं पदम् ।। ३१-४६ ।।

वित्ताह्रुतिजं पापं यद्भूतं मम सुंदरि ।।
तस्य पावनहेतुं च तुरीयांशं प्रयच्छ मे ।। ३१-४७ ।।

जीवितेनापि वित्तेन भर्तारं वंचयेत्तु या ।।
कृमियोनिशतं गत्वा पुल्कसी जायते तु सा ।। ३१-४८ ।।

सुरतं याचमानाय पत्ये वित्तं च मानिनि ।।
या न यच्छति दुर्बुद्धिः काष्ठीला जायते ध्रुवम् ।। ३१-४९ ।।

तत्पातकविशुद्ध्यर्थं देहि मे द्वादशीभवम् ।।
तुरीयांशमितं पुण्यं यद्यस्ति मयि ते घृणा ।। ३१-५० ।।

एतच्छ्रुत्वा वचस्तस्याः काष्ठीलायाः सुलोचने ।।
पुण्यं दत्तवती तस्यै पाणौ वारि प्रगृह्य च ।। ३१-५१ ।।

यत्कृतं हि मया पूर्वमेकादश्यामुपोषणम् ।।
तत्तुरीयांशपुण्येन काष्ठीलेयं विमुच्यताम् ।। ३१-५२ ।।

पूर्वजन्मकृतात्पापात्सत्यं सत्यं मयोदितम् ।।
एवमुक्ते तु वचने मया विद्युत्समप्रभा ।। ३१-५३ ।।

दृष्टा दिव्यविमानस्था गच्छंती वैष्णवं पदम् ।।
पतिर्हि दैवतं लोके वंचनीयो न भार्यया ।। ३१-५४ ।।

देहेन चापि वित्तेन यदीच्छेच्छोभनां गतिम् ।।
सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम् ।। ३१-५५ ।।

वित्तं देहं तथा पुत्रं यच्चान्यद्वा वरानने ।।
किमन्यद्दैवतं लोके स्त्रीणामेकं पतिं विना ।। ३१-५६ ।।

तस्यार्थे वा त्यजेद्वित्तं जीवितं वा सुलोचने ।।
कल्पकोटिशतं साग्रं विष्णुलोके महीयते ।। ३१-५७ ।।

अग्न्यादिसाक्ष्ये वृतमीक्ष्य निष्ठुरा युक्तं सुधोरैर्व्यसनैर्द्विजात्मजा ।।
पतिं ददौ नैव च याचिता धनं तेनैव पापेन बभूव कीटा ।। ३१-५८ ।।

एतन्मया दुष्टमनंगयष्टि कौमारभावे पितृवेश्मवासे ।।
ज्ञात्वा हितं तथ्यमिदं स्वभर्तुर्ददामि सर्वं च गृहाण सुभ्रु ।। ३१-५९ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने माघमाहात्म्यं नामैकत्रिंशोऽध्यायः ।। ३१ ।।

वर्गः:नारदपुराणम्- उत्तरार्धः

Page is sourced from

sa.wikisource.org नारदपुराणम्- उत्तरार्धः/अध्यायः ३१