नारदपुराणम्- उत्तरार्धः/अध्यायः २४

From HinduismPedia
Jump to navigation Jump to search

Template:नारदपुराणम्- उत्तरार्धः

राजोवाच ।।
यत्त्वया व्याहृतं वाक्यं ममेदं गौतमेरितम् ।।
मंदरे पर्वतश्रेष्ठे हरिवासरभोजनम् ।। २४-१ ।।

अमतेन पुराणानां व्याहृतं यद्द्विजन्मना ।।
क्षुद्रशास्त्रोपदेशेन लोलुपेन वरानने ।। २४-२ ।।

पुराणे निर्णयो ह्येष विद्वद्भिः समुदाहृतः ।।
न शंखेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ ।। २४-३ ।।

एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ।।
अगम्यागमने देवि अभक्ष्यस्य च भक्षणे ।। २४-४ ।।

अकार्यकरणे जंतोर्गोसहस्रवधः स्मृतः ।।
जानन्नपि कथं देवि भोक्ष्येऽहं हरिवासरे ।। २४-५ ।।

पुरोडाशोऽपि वामोरु संप्राप्ते हरिवासरे ।।
अभक्ष्येण समः प्रोक्तः किं पुनश्चात्तनक्रिया ।। २४-६ ।।

अनुकूलं नृणां प्रोक्तं क्षीणानां वरवर्णिनि ।।
मूलं फलं पयस्तोयमुपभोज्यं मुनीश्वरैः ।। २४-७ ।।

नत्वत्र भोजनं कैश्चिदेकादश्यां प्रदर्शितम् ।।
ज्वरिणां लंघनं शस्तं धार्मिकाणामुपोषणम् ।। २४-८ ।।

शुभं गतिप्रदं प्रोक्तं संप्राप्ते हरिवासरे ।।
ज्वरमध्ये कृतं पथ्यं निधनाय प्रकल्पते ।। २४-९ ।।

वैष्णवे तु दिने भुक्तं नरकायैव केवलम् ।।
माग्रहं कुरु वामोरु व्रतभंगो भवेन्मम ।। २४-१० ।।

यदन्यद्वोचते तुभ्यं तत्कर्तास्मि न संशयः ।।

मोहिन्युवाच ।।
न चान्यद्रोचते राजन्विना वै भोजनं तव ।। २४-११ ।।

जीवितस्यापि दानेन न मे किंचित्प्रयोदजनम् ।।
न च वेदेषु दृष्टोऽयमुपवासो हरेर्दिने ।। २४-१२ ।।

अग्निमन्तो न विप्रा हि मन्यंते समुपोषणम् ।।
वेदबाह्य कथं धर्मं भवांश्चरितुमिच्छति ।। २४-१३ ।।

वचो निशम्य मोहिन्या राजा वेदविदां वरः ।।
उवाच मानसे क्रुद्धः प्रहसन्निव भूपते ।। २४-१४ ।।

श्रृणु मोहिनि मद्वाक्यं वेदोऽयं बहुधा स्थितः ।।
यज्ञकर्मक्रिया वेदः स्मृतिर्वेदो गृहाश्रमे ।। २४-१५ ।।

स्मृतिर्वेदः क्रियावेदः पुराणेषु प्रतिष्ठितः ।।
पुराणपुंरुषाज्जातं यथेदं जगदद्भुतम् ।। २४-१६ ।।

तथेदं वाङ्मयं जातं पुराणेभ्यो न संशयः ।।
वेदार्थादधिकं मन्ये पुराणार्थँ वरानने ।। २४-१७ ।।

वेदाः प्रतिष्ठिताः सर्वे पुराणेष्वेव सर्वदा ।।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ।। २४-१८ ।।

न वेदे ग्रहसंचारो न शुद्धिः कालबोधिनी ।।
तिथिवृद्धिक्षयो वापि पर्वग्रहविनिर्णयः ।। २४-१९ ।।

इतिहासपुराणैस्तु निश्चयोऽयं कृतः पुरा ।।
यन्न दृष्टं हि वेदेषु तत्सर्वं लक्ष्यते स्मृतौ ।। २४-२० ।।

उभयोर्यन्न दृष्टं हि तत्पुराणैः प्रगीयते ।।
प्रायश्चित्तं तु हत्यायामातुरस्यौषधं प्रिये ।। २४-२१ ।।

न चापि पापशुद्धिः स्यादात्मनश्च परस्य वा ।।
यद्वेदैर्गीयते सुभ्रु उपांगैर्यत्प्रगीयते ।। २४-२२ ।।

पुराणैः स्मृतिभिश्चैव वेद एव निगद्यते ।।
रटंतीह पुराणानि भूयो भूयो वरानने ।। २४-२३ ।।

न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ।।
पुराणमन्यथा मत्वा तिर्यग्योनिमवाप्नुयात् ।। २४-२४ ।।

संस्रातोऽपि सुदांतोऽपि न गतिं प्राप्नुयादिति ।।
पितरं को न वंदेत मातरं को न पूजयेत् ।। २४-२५ ।।

को न गच्छेत्सरिच्छ्रेष्ठां को भुंक्ते हरिवासरे ।।
को हि दूषयते वेदं ब्राह्मणं को निपातयेत् ।। २४-२६ ।।

को गच्छेत्परदारान् हि को भुंक्ते हरिवासरे ।। २४-२७ ।।

नहीदृशं पापमिहास्ति जंतोर्विमूढचित्तस्य दिने हरेः प्रिये ।।
यद्भोजनेनात्मनिपातकारिणा यमस्य रवातेषु चिरं सुलोचने ।। २४-२८ ।।

मोहिन्युवाच ।।
शीघ्रमानय विप्रांस्त्वं घूर्णिके वेदपारगान् ।।
येषां वाक्येन युक्तोऽयं राजा कुर्याद्धि भोजनम् ।। २४-२९ ।।

सा तद्वाक्यमुपाकर्ण्य ब्राह्मणान्वेदशालिनः ।।
गौतमादीन्समाहूय मोहिनीपार्श्वमानयत्‌ ।। २४-३० ।।

तान्विप्रानागतान्दृष्ट्वा वेदवेदांगपारगान् ।।
मोहिनी सहिता राज्ञा ववंदे कार्यतत्परा ।। २४-३१ ।।

उपविष्टास्तु ते सर्वे शातकौंभमयेषु च ।।
आसनेषु महीपाल ज्वलदग्निसमप्रभाः ।। २४-३२ ।।

तेषां मध्ये वयोवृद्धो गौतमो वाक्यमब्रवीत् ।।
वयं समागता देवि नानाशास्त्रविशारदाः ।। २४-३३ ।।

सर्वसंदेहहर्तारो यदर्थं ते समाहुताः ।।
तच्छ्रुत्वा वचनं तेषां मोहिनी ब्रह्मणः सुता ।। २४-३४ ।।

सर्वासाध्यकृतं कर्तुं प्रवृत्तांस्तानुवाच ह ।।

मोहिन्युवाच ।।
संदेहस्तु जडौ ह्येष स्वल्पो वा स्वमतिर्यथा ।। २४-३५ ।।

सोऽयं वदति राजा वै नाहं भोक्ष्ये हरेर्दिने ।।
अन्नाधारमिदं सर्वं जगत्स्थावरजंगमम् ।। २४-३६ ।।

मृता ह्यपि तथान्नेन प्रीयन्ते पितरो दिवि ।।
कर्कंधुमात्रं प्रहुतं पुरोडाशं हि देवताः ।। २४-३७ ।।

कामयंति द्विजश्रेष्ठास्ततोऽन्नं ह्यमृतं परम् ।।
पिपीलिकापि क्षुधिता मुखेनादाय तण्डुलम् ।। २४-३८ ।।

बिलं व्रजति दुःखेन कस्यान्नं नहि रोचते ।।
अयं खादति नान्नाद्यं संप्राप्ते हरिवासरे ।। २४-३९ ।।

निजधर्मं परित्यज्य परधर्मे व्यवस्थितः ।।
विधावानां यतीनां च युज्यते व्रतसेवनम् ।। २४-४० ।।

परधर्मरतो यः स्यात्स्वधर्मविमुखो नरः ।।
सोंऽधे तमसि मज्जेत यावदिंद्राश्चतुर्द्दश ।। २४-४१ ।।

उपवासादिकरणं भूभुजां नोदितं क्वचित् ।।
प्रजासंरक्षणं त्यक्त्वा चतुर्वर्गफलप्रदम् ।। २४-४२ ।।

नारीणां भर्तृशूश्रूषा पुत्राणां पितृसेवनम् ।।
शूद्राणां द्विजसेवा च लोकरक्षा महीभृताम् ।। २४-४३ ।।

स्वकं कर्म परित्यज्य योऽन्यत्र कुरुते श्रमम् ।।
अज्ञानाद्वा प्रमादाच्च पतितः स न संशयः ।। २४-४४ ।।

सोऽयमद्य महीपालो यतिधर्म्मे व्यवस्थितः ।।
सुबुद्ध्याचारशीलश्च वेदोक्तं त्यजति द्विजाः ।। २४-४५ ।।

स्वेच्छाचारा तु या नारी योऽविनीतः सुतो द्विजाः ।।
एकांतशीलो नृपतिर्भृत्यः कर्मविवर्जितः ।। २४-४६ ।।

सर्वे ते नरकं यांति ह्यप्रतिष्ठश्च यो द्विजाः ।।
अयं हि नियमोपेतो हरिपूजनतत्परः ।। २४-४७ ।।

आक्रन्दे वर्त्तमाने तु न यद्येष प्रधावति ।।
व्यपोह्य हरिपूजां वै ब्रह्महत्यां तु विंदति ।। २४-४८ ।।

क्षीणदेहे हरिदिने कथं संयमयिष्यति ।।
अन्नात्प्रभवति प्राणः प्राणाद्देहविचेष्टनम् ।। २४-४९ ।।

चेष्टया रिपुनाशश्च तद्धीनः परिभूयते ।।

एवं ज्ञात्वा मया राजा बोध्यमानो न बुद्ध्यति ।। २४-५० ।।

एतदेव व्रतं राज्ञो यत्प्रजापालनं चरेत् ।।
न व्रतं किंचिदस्त्यन्यन्नृपस्य द्विजसत्तमाः ।। २४-५१ ।।

किं देव कार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम् ।।
तद्देवकार्यं स च यज्ञहोमो यद्रक्तपातो न भवेत् स्वराष्ट्रे ।। २४-५२ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रश्नो नाम चतुर्विंशोऽध्यायः ।। २४ ।।

वर्गः:नारदपुराणम्- उत्तरार्धः

Page is sourced from

sa.wikisource.org नारदपुराणम्- उत्तरार्धः/अध्यायः २४