नारदपुराणम्- उत्तरार्धः/अध्यायः १९

From HinduismPedia
Jump to navigation Jump to search

Template:नारदपुराणम्- उत्तरार्धः

वसिष्ठ उवाच ।।
सोऽनुज्ञातो महीपालः प्रियाभिः प्रियकामुकः ।।
प्रहर्षमतुलं लेभे धर्मांगदमुवाच ह ।। १९-१ ।।

एतां द्वीपवतीं पृथ्वीं परिपालय पुत्रक ।।
कृत्वा दुष्टवधं त्वादावप्रमत्तः सदोद्यतः ।। १९-२ ।।

सदावसरसंयुक्तः सदाचारनिरीक्षकः ।।
सदा चेतनसंयुक्तः सदा वाणिज्यवल्लभः ।। १९-३ ।।

सदा भ्रमणशीलश्च सदा दानरतिर्भव ।।
सदा कौटिल्यहीनश्च सदाचाररतः सदा ।। १९-४ ।।

अपरं श्रृणु मे पुत्र यत्कर्त्तव्यं त्वयाधुना ।।
अविश्वासस्तु सर्वत्र भूमिपानां प्रशस्यते ।। १९-५ ।।

कोषस्य च परिज्ञानं जनानां जनवल्लभ ।।
रसवद्द्रव्यमाकर्षेः पुष्पेभ्य इव षट्पदः ।। १९-६ ।।

त्वया पुत्रेण संप्राप्तं पुनरेवेह यौवनम् ।। १९-७ ।।

इमामपूर्वां वररूपमोहिनीं संप्राप्य भार्यां द्विजराजवक्त्राम् ।।
सुखेन संयोज्य च तेऽद्य भारं सप्तोदधिद्वीपभवं प्ररंस्ये ।। १९-८ ।।

व्रीडाकरस्तात मनुष्यलोके समर्थपुत्रे सुरताभिकामी ।।
भवेत्पिता चेद्ब्रलिभिश्च युक्तो जीर्णद्विजः श्वेतशिरोरुहश्च ।। १९-९ ।।

जीर्णोऽप्यजीर्णस्तव सौख्यवृद्धो वांछे इमां लोकवरां वरार्हाम् ।।
संत्यज्य देवान्मम हेतुमागतामनंगबाणाभिहतां सुनेत्राम् ।। १९-१० ।।

कामं रमिष्ये द्रुतकां चनाभां ह्येकांतशीलः परिपूर्णचेताः ।।
भूत्वा तु गुप्तो वननिर्झरेषु रम्येषु दिव्येषु नदीतटेषु ।। १९-११ ।।

इयं पुरंध्री मम जीविताधिका सुखेन धार्या त्रिदिवैकनारी ।।
अस्यास्तु हेतोर्विबुधा विमूढा यथा रमायै धरणीशसंघाः ।। १९-१२ ।।

तद्वाक्यमाकर्ण्य पितुः सुबुद्धिः प्रणम्य भक्त्या जननीसमेतम् ।।
नृपोत्तमं तं नृपनन्दनोऽसौ दिदेश भोगार्थमनेकवित्तम् ।। १९-१३ ।।

आज्ञाविधेयांस्तु पितुर्नियोज्य दासांश्च दासीश्च हिरण्यकंठीः ।।
मत्स्यध्वजार्त्तस्य सुखाय पुत्रस्ततो महीरक्षणमाचचार ।। १९-१४ ।।

नृपैस्तुतो धर्मविभूषणोऽसौ समावृतो द्वीपवतीं समग्राम् ।।
तस्येत्थमुर्वीं चरतश्च भूप न पापबुद्धिं कुरुते जनौघः ।। १९-१५ ।।

न चापि वृक्षः फलपुष्पहीनो न क्षेत्रमासीद्यवशालिहीनम् ।।
स्रवंति गावो घटपूरदुग्धं घृताधिकं शर्करवत्सुमिष्टम् ।। १९-१६ ।।

क्षीरं सुपेयं सकलार्तिनाशनं पापापहं पुष्टिविवर्धनं च ।।
जनो न कश्चिद्विभवस्य गोप्ता भर्तुहिं भार्या न कटूक्तिवादिनी ।। १९-१७ ।।

पुत्रो विनीतः पितृशासने रतो वधूः स्थिता हस्तपुटे च श्वश्रोः ।।
द्विजोपदेशे हि जनो व्यवस्थितो वेदोक्तधर्माचरणाद्द्विजोत्तमाः ।। १९-१८ ।।

न भुंजते माधववासरे जना न यांति शोषं भुविः निम्नगास्तु ।।
संभुज्य माना नहि यांति संपदः संभोगयुक्तैरपि मानवैः क्षयम् ।। १९-१९ ।।

विवृद्धिमायांति जलैरिवोर्द्ध्वं दूर्वातृणं शाद्वलतामुपैति ।।
कृती च लोको ह्यभवत्समस्तो धर्मांगदे पालनसंप्रवृत्ते ।। १९-२० ।।

भुक्त्वा तु सौख्यानि च यांति मानवा हरेः पदं तद्दिनसेवनेन ।।
द्वाराणि सध्वान्तनिशासु भूप गुप्तानि कुर्वंति न दस्यु भीताः ।। १९-२१ ।।

न चापि गोपेषु ददंति वृत्तिं स्वेच्छाचरा मंदिरमाव्रजंति ।।
क्षीरं क्षरंत्यो घटवत्सुभूरिशो वत्सप्रियाः शांतिकराश्च गावः ।। १९-२२ ।।

अकृष्टपच्या धरणी समस्ता प्ररूढसस्या किल लांगलं विना ।।
मातुः पयोभिः शिशवः सुपुष्टा भर्तुः प्रयोगैः प्रमदाः सुपुष्टाः ।। १९-२३ ।।

नृपैः सुगुप्तास्तु जनाः सुपुष्टाः सत्याभियुक्तो हि वृषः सुपुष्टः ।।
एवंविधे धर्मरतिप्रधाने जने प्रवृत्ते हरिभक्तियुक्ते ।।
संरक्ष्यमाणे हि नृपात्मजेन जगाम कालः सुखहे तुभूतः ।। १९-२४ ।।

निरामयो भूतिसमन्वितश्च सभूरिवर्षोत्सवकारकश्च ।।
पृथ्वीपतिश्चातिविमोहितश्च विमोहिनीचेष्टितसौख्ययुक्तः ।। १९-२५ ।।

दिनं न जानाति न चापि रात्रिं मासं च पक्षं च स वत्सरं च ।।
अतीव मुग्धः सुरतेन तस्या विरंचिपुत्र्याः शुभचेष्टितायाः ।। १९-२६ ।।

विमोहिनीसंगमने नृपस्य बभूव शक्तिस्त्वधिका मनोजे ।।
यथा यथा सेवत एव भूपस्तथा तथा वृद्धिमियर्ति वीर्यम् ।।
पक्षेषु शुक्लेष्विव शीतभानुर्न क्षीयते संततसेवनेन ।। १९-२६ ।।

वृंदारकः पीतसुधारसो यथा संस्पृश्य संस्पृश्य पुनर्नवोऽसौ ।।
पिबंस्तु पानं सुमनोहरं हि श्रृण्वंस्तु गीतं सुपदप्रयुक्तम् ।। १९-२७ ।।

पश्यंश्च रूपं स नितंबिनीनां स्पृशन्स्पृशन्मोहिनिवक्त्रचंद्रम् ।।
विमर्द्दमानस्तु करेण तुंगौ सुखेन पीनौ पिशितोपरूढौ ।। १९-२९ ।।

घनस्तनौ कांचनकुंभतुल्यौ प्रच्छादितौ हारविभूषणेन ।।
वलित्रयं नातिविवर्द्धमानं मनोहरं लोमशराजिशोभम् ।। १९-३० ।।

स्तनस्य रूपं परितो विलोक्य दध्रे वरांग्याः शुभलोचनायाः ।।
नहीदृशं चारुतरं नितांतं नितंबिनीनां मनसोऽभिरामम् ।। १९-३१ ।।

यादृग्विधं मोहिनमोहनार्थं विनिर्मितं यद्विधिना स्वरूपम् ।।
मृगेंद्रशत्रोःकरसन्निकाशे जंघे विलोमे द्रुतकांचनाभे ।। १९-३२ ।।

शशांककांतिर्द्दशनस्य पंक्तिर्निगूढगुल्फे जनमोहनार्थम् ।।
आपादशीर्षं किल तत्स्वरूपं संपश्यतच्चारुविशालनेत्र्याः ।। १९-३३ ।।

मेने सुराणामधिकं हि राजा कृतार्थमात्मानमतीव हर्षात् ।।
अहो सुतन्वी विपुलेक्षणेयं याचिष्यते यच्च तदेव देयम् ।। १९-३४ ।।

अस्यास्तु रम्ये सुरते शुभाया दास्यामि चांते निजवित्तजातम् ।।
सुदुर्लभं देयमदेयमन्यैर्दास्यामि चास्या यदि वाप्यदेयम् ।। १९-३५ ।।

यद्यप्यदेयं मम जीवितं हि याचिष्यते चेद्यदि हेमवर्णा ।।
दास्यामि चेदं न विचारयिष्ये पुत्रं विना नास्ति नदेयमस्याः ।। १९-३६ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रणयवर्णनं नामैकोनविंशोऽध्यायः ।। १९ ।।

वर्गः:नारदपुराणम्- उत्तरार्धः

Page is sourced from

sa.wikisource.org नारदपुराणम्- उत्तरार्धः/अध्यायः १९