नारदपुराणम्- उत्तरार्धः/अध्यायः १७

From HinduismPedia
Jump to navigation Jump to search

Template:नारदपुराणम्- उत्तरार्धः

पुत्र उवाच ।।
तस्मादीर्ष्यां परित्यज्य मोहिनीमनुभोजय ।।
न मातरीदृशो धर्मो लोकेषु त्रिषु लभ्यते ।। १७-१ ।।

स्वहस्तेन प्रियां भर्तुर्भार्यां या तु प्रभोजयेत् ।।
सपत्नीं तु सपत्नी हि किंचिदन्नं ददाति च ।। १७-२ ।।

तदनंतं भवेद्देवि मातरित्याह नाभिजः ।।
कुरु वाक्यं मयोक्तं हि स्वामिनि त्वं प्रसीद मे ।। १७-३ ।।

तातस्य सौख्यं कर्तव्यमावाभ्यां वरवर्णिनी ।।
भवेत्पापक्षयः सम्यक् स्वर्गप्राप्तिस्तथाक्षया ।। १७-४ ।।

पुत्रस्य वचनं श्रुत्वा देवी संध्यावली तदा ।।
अभिमंत्र्य परिष्वज्य तनयं सा पुनः पुनः ।। १७-५ ।।

मूर्ध्नि चैनमुपाघ्राय वचनं चेदमब्रवीत् ।।
करिष्ये वचनं पुत्र त्वदीयं धर्मसंयुतम् ।। १७-६ ।।

इर्ष्यां मानं परित्यज्य भोजयिष्यामि मोहिनीम् ।।
शतपुत्रा ह्यहं पुत्र त्वयैकेन सुतेन हि ।। १७-७ ।।

नियमैर्बहुभिर्जातो देहक्लेशकरैर्भवान् ।।
व्रतराजेन चीर्णेन प्राप्तस्त्वमचिरात्सुतः ।। १७-८ ।।

नहीदृशं व्रतं लोके फलदायि प्रदृश्यते ।।
सद्यः प्रत्ययकारीदं महापातकनाशनम् ।। १७-९ ।।

किं जातैर्बहुभिः पुत्रैः शोकसंतापकारकैः ।।
वरमेकः कुलालंबी यत्र विश्रमते कुलम् ।। १७-१० ।।

त्रैलोक्यादुपरिष्ठाहं त्वां प्राप्य जठरे स्थितम् ।।
धन्यानि तानि शूलानि यैर्जातस्त्वं सुतोऽनघ ।। १७-११ ।।

सप्तद्वीपपतिः शूरः पितुर्वचनकारकः ।।
आह्लादयति यस्तातं जननीं वापि पुत्रकः ।। १७-१२ ।।

तं पुत्रं कवयः प्राहुर्वाचाख्यमपरं सुतम् ।।
एवमुक्त्वा तु वचनं देवी संध्यावली तदा ।। १७-१३ ।।

वीक्षां चक्रेऽथ भांडानि षड्रसस्य तु हेतवे ।।
तस्या वीक्षणमात्रेण परिपूर्णानि भूपते ।। १७-१४ ।।

षड्रस्य सुखोष्णस्य मोहिनीभोजनेच्छया ।।
अमृतस्वादुकल्पस्य जनस्य तु महीपते ।। १७-१५ ।।

ततो दर्वीं समादाय कांचनीं रत्नसंयुताम् ।।
परिवेषयदव्यग्रा मोडिन्याश्चारुहासिनी ।। १७-१६ ।।

कांचने भाजने श्लक्ष्णे मानभोजनवेष्टिते ।।
शनैः शनैश्च बुभुजे इष्टमन्नं सुसंस्कृतम् ।। १७-१७ ।।

उपविश्यासने देवी शातकौभमये शुभे ।।
वीज्यमाना वरारोहा व्याजनेन सुगीतिना ।। १७-१८ ।।

धर्मांगदगृही तेन शिखिपुच्छभवेन तु ।।
सा भुक्ता ब्रह्मतनया तदन्नममृतोपमम् ।। १७-१९ ।।

चतुर्गुणेन शीतेन कृत्वा शौचमथात्मनः ।।
जगृहे पुत्रदत्तं तु तांबूलं तत्सुगंधिमत् ।। १७-२० ।।

वरचंदनयुक्तेन हस्तेन वरवर्णिनी ।।
ततः प्रहस्य शनकैः प्राह संध्यावलीं नृप ।। १७-२१ ।।

जननी किं तु देवि त्वं वृषांगदनृपस्य तु ।।
न मया हि परिज्ञाता श्रमस्वेदितया शुभे ।। १७-२२ ।।

वदत्येवं ब्रह्मसुता यावत्संध्यावलीं नप ।।
तावत्प्रणम्य नृपतेः पुत्रो वचनमब्रवीत् ।। १७-२३ ।।

उदरे ह्यनया देव्या घृतः संवत्सरत्रयम् ।।
तव भर्तुः प्रसादेन वृद्धिं संप्राप्तवानहम् ।। १७-२४ ।।

संत्यनेकानि मातॄणां शतानि मम सुंदरि ।।
अस्याः पीतं पयो भूरि कुचयोः स्नेहसंप्लुतम् ।। १७-२५ ।।

अनया सा रुजा तीव्रा विधृता प्रायशो जरा ।।
इयं मां जनयित्वैव जाता शिथिलबंधना ।। १७-२६ ।।

तन्नास्ति त्रिषु लोकेषु यद्दत्वा चानृणो भवेत् ।।
मातुः पुत्रस्य चार्वंगि सत्यमेतन्मयेरितम् ।। १७-२७ ।।

सोऽहं धन्यतरो लोके नास्ति मत्तोऽधिकः पुमान् ।।
उत्संगे वर्तयिष्यामि मातृसंघस्य नित्यशः ।। १७-२८ ।।

नोत्संगे चेज्जनन्या हि तनयो विशति क्वचित् ।।
मातृसौख्यं न जानाति कुमारी भर्तृजं यथा ।। १७-२९ ।।

मातुरुत्संगमारूढः पुत्रो दर्पान्वितो भवेत् ।।
हारमुत्तमदेहस्थं हस्तेनाहर्तुमिच्छति ।। १७-३० ।।

पाल्यमानो जनन्या हि पितृहीनोऽपि दर्पितः ।।
समीहते जगद्धर्तुं सवीर्यं मातृजं पयः ।। १७-३१ ।।

एतज्जठरसंसर्गि भवत्युत्संगशंकितः ।।
अस्याश्चैवापराणां च विशेषो यदि मे न चेत् ।। १७-३२ ।।

तेन सत्येन मे तातो जीवताच्छरदां शतम् ।।
एवं ब्रुवाणे तनये मोहिनी विस्मयं गता ।। १७-३३ ।।

कथमस्य प्रहर्तव्यं मया निर्घृणशीलया ।।
विनीतस्य ह्यपापस्य औचित्यं पापिनो गृहे ।। १७-३४ ।।

पितुः शुश्रूषणं यस्य न तस्य सदृशं क्षितौ ।।
एवं गुणाधिकस्याहं कर्तुं कर्म जुगुप्सिताम् ।। १७-३५ ।।

पुत्रस्य धर्मशीलस्य भूत्त्वा तु जननी क्षितौ ।।
एवं विमृश्य बहुधा मोहिनी लोकसुंदरी ।। १७-३६ ।।

उवाच तनयं बाला शीघ्रमानय मे पतिम् ।।
न शक्नोमि विना तेन मुहूर्तमपि वर्तितुम् ।। १७-३७ ।।

ततः स त्वरितं गत्वा प्रणम्य पितरं नृप ।।
कनिष्ठा जननी तात शीघ्रं त्वां द्रष्टुमिच्छति ।। १७-३८ ।।

प्रसादः क्रियतां तस्याः पूज्यतां ब्रह्मणः सुता ।।
पुत्रवाक्येन नृपतिरतत्क्षणाद्गंतुमुद्यतः ।। १७-३९ ।।

प्रहृष्टवदनो भूत्वा संध्यावल्या निवेशनम् ।।
संप्रविश्य गृहे राजा ददर्श शयनस्थिताम् ।। १७-४० ।।

मोहिनीं मोहसंयुक्तां तप्तकांचनसप्रभाम् ।।
उपास्य मानां प्रियया संध्यावल्या शनैः शनैः ।। १७-४१ ।।

पुत्रवाक्यात्परित्यज्य क्रोधं सापत्न्यजं तथा ।।
दृष्ट्वा रुक्मांगदं प्राप्तं शयने मोह्य सुंदरी ।। १७-४२ ।।

प्रहृष्टवदना प्राह राजानं भूरिदक्षिणम् ।।
इहोपविश्यतां कांत पर्यंके मृदुतूलके ।। १७-४३ ।।

सर्वं निरीक्षितं भूप राज्यतन्त्रं त्वया चिरम् ।।
अद्यापि नहि ते वांछा राज्ये परिनिवर्तते ।। १७-४४ ।।

मन्ये दुष्कृतिनं भूप त्वामत्र धरणीतले ।।
यः समर्थं सुतं ज्ञात्वा स्वयं पश्येन्नृपश्रियम् ।। १७-४५ ।।

तस्मात्त्वत्तोऽधिको नास्ति दुःखी लोकेषु कश्चन ।।
सुपुत्राणां पितॄणां हि सुखं याति क्षणं नृप ।। १७-४६ ।।

दुःखेन पापभोक्तॄणां विषयासक्तचेतसाम् ।।
सर्वाश्च प्रकृती राजंस्तवेष्टाः पूर्णपुण्यजाः ।। १७-४७ ।।

धर्मांगदे पालयाने कथं त्वं वीक्षसेऽधुना ।।
परित्यज्य प्रियासौख्यं कीनाश इव दुर्बलः ।। १७-४८ ।।

यदि पालयसे राज्यं मया किं ते प्रयोजनम् ।।
निष्प्रयोजनमानीता क्षीरसागरमस्तकात् ।। १७-४९ ।।

विड्भोज्या हि भविष्यामि पक्षिणामामिषं यथा ।।
यो भार्यां यौवनोपेतां न सेवेदिह दुर्मतिः ।। १७-५० ।।

कृत्याचरणसक्तस्तु कुतस्तस्य भवेत्प्रिया ।।
असेविता व्रजेद्भार्या अदत्तं हि धनं व्रजेत् ।। १७-५१ ।।

अरक्षितं व्रजेद्राज्यं अनभ्यस्तं श्रुतं व्रजेत् ।।
नालसैः प्राप्यते विद्या न भार्या व्रतसंस्थितैः ।। १७-५२ ।।

नानुष्ठानं विना लक्ष्मीर्नाभक्तैः प्राप्यते यशः ।।
नोद्यमी सुखमाप्नोति नाभार्यः संततिं लभेत् ।। १७-५३ ।।

नाशुचिर्द्धर्ममाप्नोति न विप्रोऽप्रियवाग्धनम् ।।
अपृच्छन्नैव जानाति अगच्छन्न क्वचिद्व्रजेत् ।। १७-५४ ।।


अशिष्यो न क्रियां वेत्ति न भयं वेत्ति जागरी ।।
कस्माद्भूपाल मां त्यक्त्वा धर्मांगदगृहे शुभे ।। १७-५५ ।।

वीक्ष्यसे राज्यपदवीं समर्थे तनये विभो ।। १७-५६ ।।

एवं ब्रुबाणां तनयां विधेस्तु रतिप्रियां चारुविशालनेत्राम् ।।
व्रीडान्वितः पुत्रसमीपवर्ती प्रोवाच वाक्यं नृपतिः प्रियां ताम् ।। १७-५७ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते मोहिनीवचनं नाम सप्तदशोऽध्यायः ।। १७ ।।

वर्गः:नारदपुराणम्- उत्तरार्धः

Page is sourced from

sa.wikisource.org नारदपुराणम्- उत्तरार्धः/अध्यायः १७