नाट्यशास्त्रम्/अध्यायः ६

From HinduismPedia
Jump to navigation Jump to search

Template:नाट्यशास्त्रम्

॥ नाट्यशास्त्रम् अध्याय ६ ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ षष्ठोऽध्यायः ।
पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः ।
भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः ॥ १॥

ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः ।
रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥ २॥

भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि ।
सङ्ग्रहं कारिकां चैव निरुक्तं चैव तत्वतः ॥ ३॥

तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः ।
प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥ ४॥

अहं वः कथयिष्यामि निखिलेन तपोधनाः ।
सङ्ग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् ॥ ५॥

न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन ।
कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः ॥ ६॥

एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि ।
गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ॥ ७॥

किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् ।
नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥ ८॥

विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः ।
निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ ९॥

रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः ।
सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥ १०॥

अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः ।
सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी ॥ ११॥

नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् ।
धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥ १२॥

स्थापितोऽर्थो भवेद्यत्र समासेनार्थासूचकः ।
धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥ १३॥

सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः ।
विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥ १४॥

शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतसन्ज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ १५॥

एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना ।
पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् ॥ १६॥

रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ १७॥

निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः ।
आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः ॥ १८॥

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १९॥

सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ २०॥

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ २१॥

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥ २२॥

आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा ।
चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः ॥ २३॥

लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः ।
भारती सात्वती चैव कैशिक्यारभटी तथा ॥ २४॥

चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् ।
आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी ॥ २५॥

पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः ।
दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु ॥ २६॥

शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः ।
[निषादर्षभगान्धारमध्यपञ्चमधैवताः ॥]
ततं चैवावनद्धं च घनं सुषिरमेव च ॥ २७॥

चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् ।
ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् ॥ २८॥

घनस्तु तालो विज्ञेयः सुषिरो वंश एव च ।
प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ॥२९॥

गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् ।
चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः ॥ ३०॥

एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसङ्ग्रहः ।
अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥ ३१॥

तत्र रसानेव तावदादावभिव्याख्यास्यामः । न हि रसादृते
कश्चिदर्थः प्रवर्तते ।
तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः ।
को दृष्टान्तः । अत्राह - यथा हि
नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा
नानाभावोपगमाद्रसनिष्पत्तिः । यथा हि -
गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा
निर्वर्त्यन्ते
तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति ।
अत्राह - रस इति कः पदार्थः । उच्यते - आस्वाद्यत्वात् ।
कथमास्वाद्यते रसः ।
यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति
सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा
नानाभावाभिनयव्यञ्जितान् वागङ्गसत्तोपेतान्
स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः
हर्षादींश्चाधिगच्छन्ति । तस्मान्नाट्यरसा
इत्यभिव्याख्याताः ।
अत्रानुवंश्यौ श्लोकौ भवतः -

यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् ।
आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥ ३२॥

भावाभिनयसम्बद्धान्स्थायिभावांस्तथा बुधाः ।
आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥ ३३॥

अत्राह - किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो
रसानामिति । केषाञ्चिन्मतं
परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति ।
तन्न । कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु
रसेभ्यो भावानामभिनिर्वृत्तिरिति । भवन्ति चात्र श्लोकाः -
नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् ।
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ३४॥

नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा ।
एवं भावा भावयन्ति रसानभिनयैः सह ॥ ३५॥

न भावहीनोऽस्ति रसो न भावो रसवर्जितः ।
परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥ ३६॥

व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् ।
एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥ ३७॥

यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा ।
तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥ ३८॥

तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः ।
तेषामुत्पत्तिहेतवश्चत्वारो रसाः । तद्यथा - शृङ्गारो
रौद्रौ वीरो बीभत्स इति । अत्र -
शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः ।
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ ३९॥

शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः ।
रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥ ४०॥

वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः ।
बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः ॥ ४१॥

अथ वर्णाः -
श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः ।
कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥ ४२॥

गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः ।
नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥ ४३॥

अथ दैवतानि -
शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः ।
रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः ॥ ४४॥

बीभत्सस्य महाकालः कालदेवो भयानकः ।
वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥ ४५॥

एतमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि ।
इदानीमनुभावविभावव्यभिचारिसंयुक्तानां
लक्षणनिदर्शनान्यभिव्याख्यास्यामः । स्थायिभावांश्च
रसत्वमुपनेष्यामः ।
तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः । उज्ज्वलवेषात्मकः ।
यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा
तच्छृङ्गारेणोपमीयते ।
यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते । यथा च
गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति
तथैवेषां रसानां भावानां च नाट्याश्रितानां
चार्थानामाचारोत्पन्नान्योप्तोपदेशसिद्धानि नामानि ।
एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः

स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः ।
  तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र
सम्भोगस्तावत्
ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन-
गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते

  तस्य
नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहार-
वाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
  व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः ।
विप्रलम्भकृतस्तु
निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रास्वप्नविबोधव्याध्युन्माद-
मदापस्मारजाड्यमरणादिभिरनुभावैरभिनेतव्यः ।
अत्राह - यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो
भावा भवन्ति ।
अत्रोच्यते - पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार
इति ।
वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः । ताश्च
सामान्याभिनये वक्ष्यामः ।
  करुणस्तु
शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो
निरपेक्षभावः ।
औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः ।
   एवमन्यः करुणोऽन्यश्च विप्रलम्भ इति । एवमेष
सर्वभावसंयुक्तः शृङ्गारो भवति ।
   अपि च
   सुखप्रायेषु सम्पन्नः ऋतुमाल्यदिसेवकः ।
   पुरुषः प्रमदायुक्तः शृङ्गार इति सन्ज्ञितः ॥ ४६॥

अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः ।
   ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः ।
  उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ ४७॥

  नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च ।
  मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ॥ ४८॥

अथ हास्यो नाम हासस्थायिभावात्मकः । स च
विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शन-
दोषोदाहरणादिभिर्विभावैरुत्पद्यते । तस्योष्ठनासाकपोलस्पन्दन-
दृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः
प्रयोक्तव्यः ।
व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधादयः ।
द्विविधश्चायमात्मस्थः परस्थश्च । यदा स्वयं हसति
तदाऽत्मस्थः ।
यदा तु परं हासयति तदा परस्थः ।
अत्रानुवंश्ये आर्ये भवतः ।
विपरितालङ्कारैर्विकृताचराभिधानवेषैश्च ।
विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः ॥ ४९॥

विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च ।
हासयति जनं यस्मात्तस्मज्ज्ज्ञेयो रसो हास्यः ॥५०॥

स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः ।
षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः ॥ ५१॥

स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् ।
द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ॥५२॥

तत्र
स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च ।
अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् ॥ ५३॥

अत्र श्लोकाः -
ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः ।
अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ ५४॥

उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ ।
किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ ५५॥

अथ मध्यमानाम् -
आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा ।
कालागतं सास्यरागं तद्वै विहसितं भवेत्॥५६॥

उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् ।
निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् ॥ ५७॥

अथाधमानाम् -
अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च ।
उत्कम्पितांसकशिरस्तच्चापहसिअतं भवेत् ॥ ५८॥

संरब्धसाश्रुनेत्रं च विकृष्टस्वरमुद्धतम् ।
करोपगूढपार्श्वं च तच्चातिहसितं भवेत् ॥ ५९॥

हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके ।
उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ॥ ६०॥

इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः ।
द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः ॥ ६१॥

  अथ करुणो नाम शोकस्थायिभावप्रभवः । स च
शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघात-
व्यसनसंयोगादिभिर्विभावैः समुपजायते ।
तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वास-
स्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
व्यभिचारिणश्चास्य
निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधि-
जडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रु-
स्वरभेदादयः ।
 अत्रार्ये भवतः -
  इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि ।
  एभिर्भावविशेषैः करुणो नाम सम्भवति ॥ ६२॥

  सस्वनरुदितैर्मोहागमैश्च परिदैवतैर्विलपितैश्च ।
  अभिनेयः करुणरसो देहायासाभिघातैश्च ॥ ६३॥

अथ रौद्रो नाम क्रोधस्थायिभावात्मको
रक्षोदानवोद्धतमनुष्यप्रकृतिः
सङ्ग्रामहेतुकः । स च
क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पा-
रुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च
ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसम्पातसम्प्रहाररुधिराकर्षणाद्यानि
कर्माणि । पुनश्च
रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरण-
हस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः ।

भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्वस्वेदवेपथुरोमाञ्च-
गद्गदादयः ।
 अत्राह - यदभिहितं रक्षोदानवादीनां रौद्रो रसः ।
किमन्येषां नास्ति । उच्यते -
अस्त्यन्येषामपि रौद्रो रसः । किन्त्वधिकारोऽत्र गृह्यते । ते हि
स्वभावत
एव रौद्रः । कस्मात् ।
बहुबाहवो बहुमुखाः प्रोद्धूतविकीर्णपिङ्गलशिरोजाः ।
रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव ।
यच्च किञ्चित्समारम्भते स्वभावचेष्टितं वागङ्गादिकं
तत्सर्वं रौद्रमेवैषाम् । शृङ्गारश्च तैः प्रायशः
प्रसभ्यं सेव्यते । तेषां
चानुकारिणो ये पुरुषस्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो
रसोऽनुमन्तव्यः ।
 अत्रानुवंश्ये आर्ये भवतः -
 युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव ।
 संङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः ॥ ६४॥

 नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव ।
 एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः ॥ ६५॥

 इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः ।
 शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ॥ ६६॥

अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स
चासम्मोहाध्यवसायन-
विनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते ।
तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः
प्रयोक्तव्यः । भावाश्चास्य
धृतिमतिगर्वावेगौग्र्यामर्षस्मृतिरोमाञ्चादयः ।

अत्रार्ये रसविचारमुखे -
उत्साहाध्यवसायादविषादित्वादविस्मयामोहात् ।
विविधादर्थविशेषाद्वीररसो नाम सम्भवति ॥ ६७॥

स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च ।
वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥ ६८॥

अथ भयानको नाम भयस्थायिभावात्मकः । स च
विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्ध-
दर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते ।तस्य
प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः
प्रयोक्तव्यः ।
भावाश्चास्य
स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन्यावेग-
चापलजडतात्रासापस्मारमरणादयः ।
अत्रार्याः -
विकृतरवसत्त्वदर्शनसङ्ग्रामारण्यशून्यगृहगमनात् ।
गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः ॥ ६९॥

गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः ।
सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् ॥ ७०॥

एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् ।
पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥७१॥

करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन ।
शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ॥ ७२॥

अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स
चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते
। तस्य
सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः
प्रयोक्तव्यः । भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः ।
अत्रानुवंश्ये आर्ये भवतः -
अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च ।
उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति ॥ ७३॥

मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः ।
अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः ॥ ७४॥

अथाद्भुतो नाम विस्मयस्थायिभावात्मकः । स च
दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमान-
मायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य
नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्ध-
हाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः
प्रयोक्तव्यः ।
भावाश्चास्य
स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः ।
अत्रानुवंश्ये आर्ये भवतः -
यत्त्वातिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा ।
तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥ ७५॥

स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च ।
वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य ॥ ७६॥

शृङ्गारं त्रिविधं विद्यात्द्वाङ्नैपथ्यक्रियात्मकम् ।
अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ ॥ ७७॥

धर्मोपघातजश्चैव तथार्थापचयोद्भवः ।
तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः ॥ ७८॥

दानवीरं धर्मवीरं युद्धवीरं तथैव च ।
रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥ ७९॥

व्याजाच्चैवापराधाच्च वित्रासितकमेव च ।
पुनर्भयानकञ्चैव विद्यात् त्रिविधमेव हि ॥ ८०॥

बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः ।
विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिअजः ॥ ८१॥

दिव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः ।
दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः ॥ ८२॥

[ अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः । स तु
तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते । तस्य
यमनियमाध्यात्मध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभि-
रनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचाणश्चास्य
निर्वेदस्मृतिधृतिसर्वाश्रमशौचस्तम्भरोमाञ्चादयः ।
अत्रार्याः श्लोकाश्च भवन्ति -
मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः ।
नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति ॥

बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः ।
सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः ॥

न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः ।
समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥

भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः ।
विकारः प्रकृतैर्जातः पुनस्तत्रैव लीयते ।
स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ॥

पुनर्निमित्तापाये च शान्त एवोपलीयते ।
एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विअताः ॥]
एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः ।
अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् ॥ ८३॥

इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः ॥

वर्गः:नाट्यशास्त्रम्

Page is sourced from

sa.wikisource.org नाट्यशास्त्रम्/अध्यायः ६