नाट्यशास्त्रम्/अध्यायः ४

From HinduismPedia
Jump to navigation Jump to search

Template:नाट्यशास्त्रम्

अथ चतुर्थोऽध्यायः ।

एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः ।
आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥ १॥

ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् ।
एतदुत्साहजननं सुरप्रीतिकरं तथा ॥ २॥

योऽयं समवकारस्तु धर्मकामार्थसाधकः ।
मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् ॥ ३॥

तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः ।
हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥ ४॥

कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः
नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने ॥ ५॥

ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् ।
समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ ६॥

मया समवाकरस्तु योऽयं सृष्टः सुरोत्तम ।
श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ ७॥

पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् ।
ततो मामाह भगवान् सज्जो भव महामते ॥ ८॥

ततो हिमवतः पृष्ठे नानानागसमाकुले ।
बहुभूतगणाकीर्णे रम्यकन्दरनिर्ज़्हरे ॥ ९॥

पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः ।
तथा त्रिपुरदाहश्च डिमसन्ज्ञः प्रयोजितः ॥ १०॥

ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् ।
महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥ ११॥

अहो नाट्यमिदं सम्यक् त्वया सृष्टं महामते ।
यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् ॥ १२॥

मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता ।
नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् ॥ १३॥

पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् ।
वर्धमानकयोगेषु गीतेष्वासारितेषु च ॥ १४॥

महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि ।
यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ॥ १५॥

एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति ।
श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयम्भुवा ॥ १६॥

प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम ।
ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः ॥ १७॥

प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै ।
ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना॥ १८॥

तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् ।
स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः ॥ १९॥

सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च ।
आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः ॥ २०॥

विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः ।
विष्कम्भापसृतश्चैअव मत्ताक्रीडस्तथैव च ॥ २१॥

स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च ।
वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः ॥ २२॥

मत्तस्खलितकश्चैव मदाद्विलसितस्तथा ।
गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च ॥ २३॥

परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः ।
परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः ॥ २४॥

पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च ।
ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च ॥ २५॥

रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः ।
आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ॥ २६॥

अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः ।
द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः ॥ २७॥

एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् ।
हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः ॥ २८॥

अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः ।
सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः ॥ २९॥

तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा ।
हस्तपादसमायोगो नृत्यस्य करणं भवेत् ॥ ३०॥

द्वे नृत्तकरणे चैव भवतो नृत्तमातृका ।
द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः ॥ ३१॥

त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् ।
पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः ॥ ३२॥

षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा ।
करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः ॥ ३३॥

एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् ।
तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ॥ ३४॥

अपविद्धं समनखं लीनं स्वस्तिकरेचितम् ।
मण्डलस्वस्तिकं चैव निकुट्टकमथापि च ॥ ३५॥

तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च ।
अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ॥ ३६॥

उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च ।
दिक्स्वस्तिकमलातं च तथैव च कटीसमम् ॥ ३७॥

आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा ।
अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ॥ ३८॥

भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च ।
निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ॥ ३९॥

स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् ।
वलितं घूर्णितं चैव ललितं च तथापरम् ॥ ४०॥

दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् ।
नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ ४१॥

भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च ।
दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥४२॥

कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च ।
छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ ४३॥

वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् ।
ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ ४४॥

उरोमण्डलमाक्षिप्तं तथा तलविलासितम् ।
अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥ ४५॥

विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् ।
विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥ ४६॥

गजक्रीडितकं चैव तलसंस्फोटितं तथा ।
गरुडप्लुतकं चैव गण्डसूचि तथापरम् ॥ ४७॥

परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च ।
गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ ४८॥

अर्धसूचीति करणं सूचिविद्धं तथैव च ।
अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥ ४९॥

सर्पितं दण्डपादं च हरिणप्लुतमेव च ।
प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥ ५०॥

प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा ।
सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च ॥ ५१॥

तलसङ्घट्टितं चैव जनितं चावहित्थकम् ।
निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च ॥ ५२॥

मदस्खलितकं चैव विष्णुक्रान्तमथापि च ।
सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥ ५३॥

वृषभक्रीडितं चैव लोलितं च तथापरम् ।
नागापसर्पितं चैव शकटास्यं तथैव च ॥ ५४॥

गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् ।
अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ ५५॥

नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे ।
गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ॥ ५६॥

यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः ।
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ ५७॥

चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः ।
हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ॥ ५८॥

उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत ।
यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च ॥ ५९॥

सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् ।
कटी कर्णसमा यत्र कोर्परांसशिरस्तथा ॥ ६०॥

समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् ।
वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः ॥ ६१॥

तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् ।
कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ ॥ ६२॥

हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् ।
शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ ॥ ६३॥

उरू च वलितौ यस्मिन्वलितोरुकमुच्यते ।
आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ॥ ६४॥

वामहतश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् ।
श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ ॥ ६५॥

देहः स्वाभाविको यत्र भवेत्समनखं तु तत् ।
पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् ॥ ६६॥

निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् ।
स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ ॥ ६७॥

यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् ।
स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ ॥ ६८॥

तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् ।
निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे ॥ ६९॥

पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् ।
अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ॥ ७०॥

निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् ।
पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ॥ ७१॥

पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् ।
अपविद्धकरः सूच्या पादश्चैव निकुट्टितः ॥ ७२॥

संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् ।
स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ ॥ ७३॥

निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् ।
आञ्चितेन तु पादेन रेचितौ तु करौ यदा ॥ ७४॥

उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः ।
हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ॥ ७५॥

तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः ।
विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ॥ ७६॥

अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् ।
पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् ॥ ७७॥

स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते ।
अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ॥ ७८॥

ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् ।
स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ॥ ७९॥

पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् ।
हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ॥८०॥

रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् ।
विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः ॥ ८१॥

यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः ।
स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ॥ ८२॥

वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् ।
व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ॥ ८३॥

अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् ।
कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥ ८४॥

कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् ।
कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् ॥ ८५॥

प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् ।
वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ॥ ८६॥

नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् ।
वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ॥८७॥

उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् ।
स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ॥ ८८॥

सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् ।
रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः ॥ ८९॥

दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् ।
कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ॥ ९०॥

सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके ।
अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च ॥ ९१॥

तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् ।
वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥ ९२॥

स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् ।
करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ॥ ९३॥

बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः ।
ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् ॥ ९४॥

दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः ।
भुजञ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ॥ ९५॥

वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् ।
त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ॥ ९६॥

नूपुर्श्च तथा पादः करण्E नूपुरे न्यसेत् ।
रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता ॥ ९७॥

वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् ।
आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ॥ ९८॥

त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् ।
अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु ॥ ९९॥

दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् ।
भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः ॥ १००॥

लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् ।
विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ॥ १०१॥

रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् ।
वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ॥ १०२॥

विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् ।
सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥ १०३॥

रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते ।
अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥ १०४॥

लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् ।
अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ॥ १०५॥

वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् ।
वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ ॥ १०६॥

रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् ।
बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा ॥ १०७॥

दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् ।
आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ॥ १०८॥

ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् ।
हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः ॥ १०९॥

यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् ।
वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ॥ ११०॥

ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् ।
पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः ॥ १११॥

आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः ।
आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ॥ ११२॥

उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् ।
प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च ॥ ११३॥

अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् ।
स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ॥ ११४॥

उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् ।
आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ॥ ११५॥

आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः ।
ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः ॥ ११६॥

प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते ।
पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च ॥ ११७॥

तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् ।
विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा ॥ ११८॥

एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् ।
प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम् ॥ ११९॥

प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् ।
कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् ॥ १२०॥

प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते ।
आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् ॥ १२१॥

रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः ।
सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् ॥ १२२॥

करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः ।
पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् ॥ १२३॥

प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते ।
पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् ॥ १२४॥

तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते ।
पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ॥ १२५॥

सर्वतो मण्डलाविद्धं विद्युद्‍भ्रान्तं तदुच्यते ।
अतिक्रान्तक्रमं कृत्वा पुरस्तात्सम्प्रसारयेत् ॥ १२६॥

प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ ।
आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ॥ १२७॥

द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् ।
कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः ॥ १२८॥

दोलापादस्तथा चैव गजक्रीडितकं भवेत् ।
द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ॥ १२९॥

तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ ।
पृष्ठप्रसारितः पादः लतारेचितकौ करौ ॥ १३०॥

समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् ।
सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः ॥ १३१॥

द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते ,
ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः ॥ १३२॥

परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते ।
एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः ॥ १३३॥

मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते ।
पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः ॥ १३४॥

यत्र प्रसारितो बाहू तत्स्यात् गृध्रावलीनकम् ।
उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ॥ १३५॥

सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् ।
कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ॥ १३६॥

प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता ।
अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ॥ १३७॥

यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः ।
पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते ॥ १३८॥

कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते ।
कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ॥ १३९॥

प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते ।
वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ ॥ १४०॥

तथा त्रिकं विवृत्तं च मयूरललितं भवेत् ।
अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् ॥ १४१॥

रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् ।
नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ॥ १४२॥

क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते ।
अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ १४३॥

जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् । (see the cluster ~NghA. A new ligature may be added to represent this cluster)
डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥१४४॥

परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते ।
भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभि ( धो ) मुखाङ्गुली ॥ १४५॥

बद्धा चारी तथ चैव नितम्बे करणे भवेत् ।
दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ ॥ १४६॥

रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् ।
एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ॥ १४७॥

अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके ।
एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः ॥ १४८॥

प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् ।
अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ॥ १४९॥

हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ ।
पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ ॥ १५०॥

पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः ।
आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् ॥ १५१॥

अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् ।
आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ ॥ १५२॥

आनतं च तथ गात्रं तयोपसृतकं भवेत्
दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ ॥ १५३॥

रेचयेच्च करं वामं तलसङ्घट्टिते सदा ।
एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः ॥ १५४॥

तलाग्रसंस्थितः पादो जनिते करणे भवेत् ।
जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥ १५५॥

शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् ।
करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च ॥ १५६॥

मण्डलस्थानकं चैव निवेशं करणं तु तत् ।
तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ॥१५७॥

संनतं वलितं गात्रमेलकाक्रीडितं तु तत् ।
करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् ॥ १५८॥

जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् ।
करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् ॥ १५९॥

पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः ।
पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः ॥ १६०॥

करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते ।
करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ॥१६१॥

ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् ।
अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥ १६२॥

वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् ।
पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ ॥ १६३॥

नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा ।
प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् ॥ १६४॥

कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा ।
रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ॥ १६५॥

उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् ।
स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम्॥ १६६॥

रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते ।
निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥ १६७॥

उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् ।
ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ॥ १६८॥

हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति ।
यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु ॥ १६९॥

पादप्रचारस्त्वेषां तु करणानामयं भवेत् ।
ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि ॥ १७०॥

तेषां समासतो योगः करणेषु विभाव्यते ।
प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ १७१॥

चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः ।
चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ॥ १७२॥

सा मातृकेति विज्ञेया तद्भेदात्करणानि तु ।
अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ १७३॥

अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् ।
प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् ॥ १७४॥

व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् ।
प्रत्यालीढं ततः कुर्यात् तथैव च निकुट्टकम् ॥ १७५॥

ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः ।
नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः ॥ १७६॥

स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः ।
तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् ॥ १७७॥

ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १७८॥

एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः ।
अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ॥१७९॥

आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् ।
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ १८९॥

करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् ।
अपविद्धं तु करणं सूचीविद्धं तथैव च ॥ १८१॥

उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् ।
उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ॥ १८२॥

अपविद्धोऽङ्गहाराश्च विज्ञेयोऽयं प्रयोक्तृभिः ।
करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ॥ १८३॥

पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १८४॥

आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः ।
उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः ॥ १८५॥

पुनस्तैनैव योगेन वामपार्श्वे भवेदथ ।
उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ १८६
कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा ।
पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ॥ १८७॥

कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च ।
चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् ॥ १८८॥

भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः ।
परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु ॥ १८९॥

करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् ।
दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि ॥ १९०॥

व्यंसितं वामहस्तं च सह पादेन सर्पयेत् ।
निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ॥ १९१॥

करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते ।
कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा ॥ १९२॥

रेचितेन तु हस्तेन पताकं हस्तमादिशेत् ।
आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ॥ १९३॥

लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् ।
त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा ॥ १९४॥

भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् ।
आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ॥ १९५॥

बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १९६॥

मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः ।
रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ॥ १९७॥

पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् ।
निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ॥१९८॥

लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते ।
पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् ॥ १९९॥

द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि ।
ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् ॥ २००॥

ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २०१॥

पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः ।
वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च ॥ २०२॥

तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् ।
तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् ॥ २०३॥

करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् ।
कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ॥ २०४॥

परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च ।
नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ॥ २०५ ॥

कटीच्छिन्नं ततश्चैव भ्रमरः स तु सन्ज्ञितः ।
मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् ॥ १०६॥

कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम्
अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् ॥ २०७॥

करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् ।
दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ॥ २०८॥

अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा ।
निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च ॥ २०९॥

करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् ।
मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ॥ २१०॥

उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् ।
आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च ॥ २११॥

कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले ।
समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ॥ २१२॥

आविद्धेन तु पादेन बाह्यभ्रमरकं तथा ।
वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ॥ २१३॥

करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते ।
शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ । २१४॥

ततः सव्यं करं चापि गात्रमानम्य रेचयेत् ।
पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् ॥ २१५॥

लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् ।
रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ॥ २१६॥

आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च ।
पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह ॥ २१७॥

करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिती ।
रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा ॥ २१८॥

पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् ।
कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ॥ २१९॥

रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् ।
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ २२०॥

करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते ।
आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥२२१॥

तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् ।
अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् ॥ २२२॥

कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् ।
स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः ॥ २२३॥

अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् ।
अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ॥ २२४॥

करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके ।
निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् ॥ २२५॥

आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् ।
उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ २२६॥

कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते ।
सूचीवामपदं दध्याद्विद्युद्‍भ्रान्तं च दक्षिणम् ॥ २२७॥

दक्षिणेन पुनः सूची विद्युद्‍भ्रान्तं च वामतः ।
परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् ॥ २२८॥

लताख्यं सकटिच्छिन्नं विद्युद्‍भ्रान्तश्च स स्मृतः ।
कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ॥ २२९॥

करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् ।
ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ॥ २३०॥

लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा ।
आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् ॥ २३१॥

नूपुरश्चरणो वामस्तथालातश्च दक्षिणः ।
तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ॥२३२॥

करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् ।
हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् ॥ २३३॥

पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् ।
रेचितं करणं कार्यमुरोमण्डलमेव च ॥ २३४॥

कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते ।
नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ॥२३५॥

व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् ।
वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ॥२३६॥

करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा ।
रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥ २३७॥

कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः ।
पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् ॥ २३८॥

उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च ।
नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २३९॥

आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः ।
विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् ॥ २४०॥

वामसूचिसहकृतं विक्षिपेद्वामकं करम् ।
वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ॥ २४१॥

नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च ।
नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा ॥ २४२॥

कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः ।
अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ॥ २४३॥

कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च ।
विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ॥ २४४॥

करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते ।
कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् ॥ २४५॥

पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् ।
निकुट्य करपादं चाप्युरोमण्डलकं पुनः ॥ २४६॥

करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके ।
द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ॥ २४७॥

चतुरो रेचकांश्चापि गदतो मे निबोधत ।
पादरेचक एकः स्यात् द्वितीयः कटिरेचकः ॥ २४८॥

कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः ।
[रेचिताख्यः पृथग्भावे वलने चाभिधीयते ॥

उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः ।
पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः ॥

विविधैश्चैव पादस्य पादरेचक उच्यते ।
त्रिकस्योद्वर्तनं चैव छटीवलनमेव च ॥

तथाऽपसर्पणं चैव कटिरेचक उच्यते ।
उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ॥

विसर्पणं च हस्तस्य हस्तरेचक उच्यते ।
उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः ॥

भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः । ]
रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ॥ २४९॥

सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् ।
मृदञ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ॥२५०॥

पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः ।
दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥ २५१॥

नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः ।
पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥ २५२॥

चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् ।
ईश्वरस्येश्वरी पिन्डी नन्दिनश्चापि पट्टसी ॥ २५३॥

चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी ।
तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयम्भुवः ॥ २५४॥

शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी ।
शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ २५५॥

धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ॥

वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु ॥ २५६॥

हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् ।
गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी॥२५७॥

त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः ।
एवमन्यास्वपि तथा देवतासु यथाक्रमम् ॥ २५८॥

ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः ।
रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च ॥ २५९॥

सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा ।
तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः ॥ २६०॥

नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः ।
ऋषय ऊचुः -
यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः ॥ २६१॥

कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते ।
न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् ॥ २६२॥

कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च ।
भरतः -
अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते ॥ २६३॥

किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् ।
प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ॥ २६४॥

मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् ।
विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु ॥ २६५॥

विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् ।
अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः॥ २६६॥

ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः।
देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् ॥ २६७॥

गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् ।
प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ॥२६८॥

सुकुमारप्रयोगश्च शृङ्गाररससम्भवः ।
तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम्॥२६९॥

वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् ।
कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् ॥ २७०॥

लयस्य वर्धनाच्चापि वर्धमानकमुच्यते ।
कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः ॥ २७१॥

आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः ।
तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् ॥ २७२॥

कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः ।
विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ॥२७३॥

गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् ।
वैशाखस्थानकेनेह सर्वरेचकचारिणी ॥ २७४॥

पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् ।
पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च ॥ २७५॥

प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् ।
यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् ॥ २७६॥

अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते ।
समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ॥२७७॥

नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे ।
प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ॥ २७८॥

अनेनैव विधानेन प्रविशन्त्यपराः पृथक् ।
अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः ॥ २७९॥

तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते ।
पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ॥ २८०॥

पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः ।
पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् ॥ २८१॥

तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि ।
ततश्चासारितं भूयो गायनं तु प्रयोजयेत् ॥ २८२॥

पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी ।
गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु ॥ २८३॥

तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् ।
आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ॥ २८४॥

पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि ।
एवं पदे पदे कार्यो विधिरासारितस्य तु ॥ २८५॥

भाण्डवाद्यकृते चैव तथा गानकृतेऽपि च ।
एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ॥ २८६॥

तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् ।
पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ॥ २८७॥

पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः ।
पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत् ॥ २८८॥

जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः ।
पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे ॥ २८९॥

मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः ।
पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा ॥ २९०॥

शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः ।
एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः ॥ २९१॥

गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् ।
यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु ॥ २९२॥

गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः ।
तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् ॥ २९३॥

क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् ।
प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् ॥ २९४
तदेव च पुनर्वस्तु नृत्तीनापि प्रदर्शेयत् ।
यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते ॥ २९५॥

आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि ।
एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः ॥ २९६॥

शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् ।
य एव वस्तुकविधिर्नृत्ताभिनयवादिते ॥ २९७॥

तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् ।
वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च ॥ २९८॥

मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः ।
यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ २९९॥

तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् ।
यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ ३००॥

त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् ।
यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः ॥ ३०१॥

[ ततं चानुगतं चापि ओघं च करणान्वितम् ।
स्थिरे तत्त्वं (तं) प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥

भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः ।
छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ॥

एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते ।
यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् ॥

अङ्गानां तु परावृत्तावादावेव ग्रहो मतः ॥]
एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि ।
देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ॥ ३०२॥

स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः ।
तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् ॥ ३०३॥

यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः ।
तत्सर्वंं सम्प्रवक्ष्यामि तच्च मे शृणुत द्विजाः ॥ ३०४॥

अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु ।
तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् ॥ ३०५॥

यत्तु सन्दृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् ।
नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् ॥ ३०६॥

यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् ।
गीतकार्थाभिसम्बद्धं नृत्तं तत्रापि चेष्यते ॥ ३०७॥

खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा ।
यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ॥३०८॥

सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये ।
न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः ॥ ३०९॥

[ दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् ।
औत्सुक्यचिन्तासम्बद्धं न नृत्तं तत्र योजयेत् ॥]
यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् ।
ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् ॥ ३१०॥

देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ ।
माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥३११॥

यत्तु शृङ्गारसम्बद्धं गानं स्त्रीपुरुषाश्रयम् ।
देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥ ३१२॥

चतुष्पदा नर्कुटके खञ्जके परिगीतके ।
विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति ॥ ३१३॥

खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा ।
पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ३१४॥

या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा ।
तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥३१५॥

कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च ।
पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ॥३१६॥

अऽङ्गवस्तुनिवृतौ तु वर्णान्तरनिवृत्तिषु ।
तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥ ३१७॥

येऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः ।
तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ ३१८
महेश्वरस्य चरितं य इदं सम्प्रयोजयेत्
सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ ३१९॥

एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः ।
भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥ ३२०॥

इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थोऽध्यायः ॥

वर्गः:नाट्यशास्त्रम्

Page is sourced from

sa.wikisource.org नाट्यशास्त्रम्/अध्यायः ४