नाट्यशास्त्रम्/अध्यायः २९

From HinduismPedia
Jump to navigation Jump to search

Template:नाट्यशास्त्रम्

॥ नाट्यशास्त्रम् अध्याय २९ ततातोद्यविधानं ॥

               ॥ श्रीरस्तु ॥

       भरतमुनिप्रणीतं नाट्यशास्त्रम्
       अथ एकोनत्रिंशत्तमोऽध्यायः
षड्जोदीच्यवती चैव षड्जमध्या तथैव च ।
मध्यपञ्चमबाहुल्यात् कार्या शृङ्गारहास्ययोः ॥ १॥

षाड्जी त्वथार्षभी चैव स्वस्वरांशपरिग्रहात् ।
वीररौद्राद्भुतेष्वेते प्रयोज्ये गानयोक्तृभिः ॥ २॥

निषादेऽंशे तु नैषादी गान्धारे षड्जकैशिकी ।
करुणे तु रसे कार्या जातिगानविशारदैः ॥ ३॥

धैवती धैवतांशे तु बीभत्से सभयानके ।
ध्रुवाविधाने कर्तव्या जातिर्गाने प्रयत्नतः ।
रसं कार्यमवस्थां च ज्ञात्वा योज्या प्रयोक्तृभिः ।
षड्जग्रामाश्रिता ह्येताः प्रयोज्या जातयो बुधैः ॥ ४॥

अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः ।
गान्धारीरक्तगान्धार्यौ गान्धारांशोपपत्तितः ।
करुणे तु रसे कार्ये निषादेऽंशे तथैव च ॥ ५॥

मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च ।
गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा ।
मध्यमपञ्चमबाहुल्यात् कार्याः शृङ्गारहास्ययोः ॥ ६॥

कार्मारवी तथा चान्ध्री गान्धारोदीच्यवा तथा ।
वीरे रौद्रेऽद्भुते कार्याः षड्जर्षभांशयोजिताः ।
कैशिकी धैवतांशे तु बीभत्से सभयानके ॥ ७॥

एकैव षड्जमध्या ज्ञेया सर्वरससंश्रया जातिः ।
तस्यास्त्वंशाः सर्वे स्वरास्तु विहिताः प्रयोगविधौ ॥ ८॥

यो यदा बलवान् यस्मिन् स्वरो जातिसमाश्रयात् ।
तत्प्रवृत्तं रसे कार्यं गानं गेये प्रयोक्तृभिः ॥ ९॥

मध्यपञ्चमभूयिष्ठं गानं शृङ्गारहास्ययोः ।
षड्जर्षभप्रायकृतं वीररौद्राद्भुतेषु च ॥ १०॥

गान्धारः सप्तमश्चायं करुणे गानमिष्यते ।
तथा धैवतभूयिष्ठं बीभत्से सभयानके ॥ ११॥

एकैव षड्जमध्या विज्ञेयाखिलरसाश्रया जातिः ।
तस्यास्त्वंशाः सर्वे स्वराश्च विहिताः प्रयोगविधौ ॥ १२॥

सर्वेष्वंशेषु रसा नियमविधानेन सम्प्रयोक्तव्याः ।
काकल्यन्तरविहिता विशेषयुक्तास्तु बलवन्तः ।
एवमेता बुधैर्ज्ञेया जातयो नाट्यसंश्रयाः ॥ १३॥

पाठ्यप्रयोगविहितान् स्वरांश्चापि निबोधत ।
हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ।
षड्जर्षभौ च कर्तव्यौ वीररौद्राद्भुतेष्वथ ॥

गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ।
धैवतश्च प्रयोगज्ञैर्बीभत्से सभयानके ॥

अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् ।
आरोही चावरोही च स्थायिसञ्चारिणौ तथा ।
वर्णाश्चत्वार एवैते ह्यलङ्कारास्तदाश्रयाः ॥ १४॥

आरोहन्ति स्वरा यत्रारोहीति स तु संज्ञितः ।
यत्र चैवावरोहन्ति सोऽवरोही प्रकीर्तितः ॥ १५॥

स्थिराः स्वराः समा यत्र स्थायी वर्णः स उच्यते ।
सञ्चरन्ति स्वरा यत्र स सञ्चारीति कीर्तितः ॥ १६॥

शारीरस्वरसम्भूतास्त्रिस्थानगुणगोचराः ।
चत्वारो लक्षणोपेता वर्णास्तत्र प्रकीर्तिताः ॥ १७॥

एवं लक्षणसंयुक्तं यदा वर्णोऽनुकर्षति ।
तदा वर्णस्य निष्पत्तिर्ज्ञेया स्वरसमुद्भवा ॥ १८॥

एते वर्णास्तु विज्ञेयाश्चत्वारो गीतयोजकाः ।
एतान् समाश्रितान् सम्यगलङ्कारान् निबोधत ॥ १९॥

प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ।
प्रसन्नमध्यश्च तथा क्रमरेचित एव च ।
प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ॥ २०॥

अथ सञ्चारिजान् भूयः कीर्त्यमानान्निबोधत ।
मन्द्रस्तथा प्रसन्नादिः प्रेङ्खितो बिन्दुरेव च ।
सन्निवृत्तः प्रवृत्तश्च रेचितः कम्पितः समः ॥ २१॥

कुहरश्चैव वेणुश्च रञ्चितो ह्यवलोकितः ।
आवर्तकः परावृत्तः सञ्चारिण्यश्चतुर्दश ॥ २२॥

निष्कर्षोभ्युचयश्चैव हसितो बिन्दुरेव च ।
प्रेङ्खोलितस्तथाक्षिप्तो विस्तीर्णोद्धटितस्तथा ॥ २३॥

ह्रादमानः सम्प्रदानः सन्धिः प्रच्छादनस्तथा ।
प्रसन्नादिः प्रसन्नान्त इत्यारोहे त्रयोदश ॥ २४॥

विधूतश्च त्रिवर्णश्च तथोद्वाहित एव च ।
उद्गीतश्च तथा वेणिर्विज्ञेया ह्यवरोहिणः ॥ २५॥

सप्तरूपगता ज्ञेया अलङ्कारा बुधैस्त्विमे ।
नैते सर्वे ध्रुवास्विष्टाः श्रुतिवर्णप्रकर्षणात् ॥ २६॥

न हि वर्णप्रकर्षस्तु ध्रुवाणां सिद्धिरिष्यते ।
श्येनो वाप्यथवा बिन्दुर्ये चान्येति प्रकर्षिणः ॥ २७॥

ते ध्रुवाणां प्रयोगेषु न कार्याः स्वप्रमाणतः ।
तद्ध्रुवाणां प्रयोगे तु कार्या ह्यारोहिणः स्वराः ॥ २८॥

यस्मादर्थानुरूपा हि ध्रुवा कार्यार्थदर्शिका ।
वर्णानां तु पुनः कार्यं कृशत्वं पदसंश्रयम् ॥ २९॥

येऽत्र प्रयोगे गच्छन्ति तांश्च वर्णान् निबोधत ।
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ॥ ३०॥

प्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ ।
तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः ।
प्रेङ्खोलितस्तारमन्द्रो मन्द्रतारः समस्तथा ॥ ३१॥

सन्निवृत्तः प्रवृत्तश्च प्रसादोऽपाङ्ग एव च ।
ऊर्मिः प्रेङ्खोऽवलोकश्च इत्येते सर्ववर्णगाः ॥ ३२॥

स्थायिवर्णादृते चैषां सम्प्रवक्ष्यामि लक्षणम् ।
क्रमशो दीपितो यः स्यात् प्रसन्नादिः स कथ्यते ॥ ३३॥

व्यस्तोच्चारित एवैष प्रसन्नान्तो विधीयते ।
आद्यन्तयोः प्रसन्नत्वात् प्रसन्नाद्यन्त इष्यते ॥ ३४॥

प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः ।
सर्वसाम्यात् समो ज्ञेयः स्थितस्त्वेकस्वरोऽपि यः ॥ ३५॥

आदिमध्यलयो यत्र स चोर्मिरिति संज्ञितः ।
श्रुतयोऽन्त्याद् द्वितीयस्य मृदुमध्यायताः स्वराः ॥ ३६॥

आयतत्वं भवेन्नीचे मृदुत्वं तु विपर्यये ।
स्वे स्वरे मध्यमत्वं च मृदुमध्यमयोस्तथा ।
दीप्तायते करुणानां श्रुतीनामेष निश्चयः ॥ ३७॥

बिन्दुरेककलो ज्ञेयः कम्पितश्च कलाद्वयम् ।
गतागतप्रवृत्तो यः स प्रेङ्खोलित इष्यते ॥ ३८॥

यस्तु कण्ठे स्वरोऽधः स्यात् स तु तारः प्रकीर्तितः ।
उरोगतस्तथा मन्द्रो मूर्ध्नि तारतरस्तथा ॥ ३९॥

क्रमागतस्तु यस्तारः षष्ठः पञ्चम एव वा ।
तारमन्द्रप्रसन्नस्तु ज्ञेयो मन्द्रगतः स च ॥ ४०॥

लङ्घयित्वा परान् मन्द्रात् परां तारगतिं गतः ।
मन्द्रतारप्रसन्नस्तु विज्ञेयो ह्यवरोहणात् ॥ ४१॥

प्रसन्नान्तः स्वरो यत्र प्रसादः स तु संज्ञितः ।
अपाङ्गकिस्तु विज्ञेयः स्वराणामथ सञ्चरात् ॥ ४२॥

रेचितः शिरसि ज्ञेयः कम्पितं तु कलात्रयम् ।
कण्ठे निरुद्धपवनः कुहरो नाम जायते ॥ ४३॥

एवमेते त्वलङ्कारा विज्ञेया वर्णसंश्रयाः ।
अथ गीतीः प्रवक्ष्यामि छन्दोऽक्षरसमन्विताः ॥ ४४॥

शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव ।
अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ॥ ४५॥

प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी ।
सम्भाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥ ४६॥

त्रिनिवृत्तप्रगीता या गीतिः सा मागधी स्मृता ।
अर्धतः सन्निवृत्ता च विज्ञेया ह्यर्धमागधी ॥ ४७॥

सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता ।
पृथुलाख्या च विज्ञेया नित्यं लघ्वक्षरान्विता ॥ ४८॥

एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि ।
गान्धर्व एव योज्यास्तु नित्यं गानप्रयोक्तृभिः ॥ ४९॥

गीतयो गदिताः सम्यग् धातूंश्चैव निबोधत ।
विस्तारः करणश्च स्यादाविद्धो व्यञ्जनस्तथा ।
चत्वारो धातवो ज्ञेया वादित्रकरणाश्रयाः ॥ ५०॥

सङ्घातजोऽथ समवायजश्च विस्तारजोऽनुबन्धकृतः ।
ज्ञेतश्चतुष्प्रकारो धातुर्विस्तारसंज्ञश्च ॥ ५१॥

विधयस्तु स्मृतास्तस्य पूर्वं विस्तार एव च ।
सङ्घातसमवायौ तु विज्ञेयौ तौ द्विअत्रिकौ ॥ ५२॥

पूर्वश्चतुर्विधस्तत्र पश्चिमोऽष्टविधः स्मृतः ।
करणानां विशेषेण विज्ञेयौ तौ पृथक् पृथक् ॥ ५३॥

अधश्चोर्ध्वं च विज्ञेयावधरोत्तरजौ स्वरौ ।
सङ्घातजो विधिस्त्वेष विज्ञेयो वादनं प्रति ॥ ५४॥

द्विरुत्तरो द्विरधरस्त्वधरादिश्चोत्तरावसानश्च ।
ज्ञेयस्तथोत्तरादिः पुनरप्यधरावसानश्च ॥ ५५॥

समवायजस्तथा स्यात् त्रिरुत्तरस्त्रिरधरश्च विज्ञेयः ।
द्विरधरोत्तराधरान्तो द्विरधरश्चोत्तरविरामश्च ॥ ५६॥

उत्तरमुखो द्विरधरो द्विरुत्तरावसानश्च ।
मध्योत्तरो द्विरधरो द्विरुत्तरोऽप्यधरमध्यश्च ॥ ५७॥

अनुबन्धस्तु ज्ञेयो व्याससमासाच्च नियतमेषां हि ।
एवं चतुर्दशविधो विस्तारो धातुराख्यातः ॥ ५८॥

रिभितोच्चयनीरिभितो ह्रादस्तु तथानुबन्धः स्यात् ।
पञ्चविधो विज्ञेयो वीणावाद्ये करणधातुः ॥ ५९॥

त्रिकपञ्चसप्तनवकैर्यथाक्रमं संयुतो भवेद्वाद्ये ।
सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात् करणधातुः ॥ ६०॥

क्षेपः प्लुतोऽतिपातोऽतिकीर्णमनुबन्धसंज्ञितश्चैव ।
आविद्धो विष्टो यो धातुर्वै पञ्चविध एव ॥ ६१॥

द्वित्रिचतुष्कनवकैः प्रहारैः क्रमशः कृतैः ।
आविद्धधातुर्विज्ञेयः सानुबन्धविभूषितः ॥ ६२॥

व्यञ्जनधातोः पुष्पं कलतलनिष्कोटितं तथोद्धृष्टम् ।
रेफोऽनुबन्धसंज्ञोऽनुस्वनितं बिन्दुरवमृष्टम् ॥ ६३॥

कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पमित्यभिसंज्ञितम् ।
अङ्गुष्ठाभ्यां समं तन्त्र्योः स्पर्शनं यत् कलं तु तत् ॥ ६४॥

वामेन पीडनं कृत्वा दक्षिणेनाहतिस्तले ।
सव्याङ्गुष्ठप्रहारस्तु निष्कोटितमिहोच्यते ॥ ६५॥

प्रहारो वामतर्जन्या उद्धृष्टमिति संज्ञितम् ।
सर्वाङ्गुलिसमाक्षेपो रेफ इत्यभिसंज्ञितः ।६६॥

तलस्थानेऽधस्तन्त्रीणामनुस्वनितमुच्यते ।
गुर्वक्षरकृता तन्त्री बिन्दुरित्यभिसंज्ञितः ॥ ६७॥

कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोमुखम् ।
तन्त्रीषु त्रिप्रहारं चाप्यवमृष्टं प्रकीर्तितम् ॥ ६८॥

व्याससमासादेषामनुबन्धः सार्वधातुको ज्ञेयः ।
इति दशविधः प्रयोज्यो वीणायां व्यञ्जनो धातुः ॥ ६९॥

इत्येते धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः ।
तिसृणामपि वृत्तीनां येषु वाद्यं प्रतिष्ठितम् ॥ ७०॥

तिस्रस्तु वृत्तयश्चित्रादक्षिणावृत्तिसंज्ञिताः ।
वाद्यगीतोभयगुणा निर्दिष्टान्ता यथाक्रमम् ॥ ७१॥

तिस्रो गीतिवृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिर्दक्षिणा चेति
। तासां तालगीतिलययतिमार्गप्राधान्यानि यथास्वं व्यञ्जकानि
भवन्ति । तत्र चित्रायां
सङ्क्षिप्तवाद्यतालद्रुतलयसमायत्य्नागतग्रहाणां प्राधान्यम् । तथा
वृत्तौ गीतवादित्रद्विकलातालमध्यलयस्रोतोगतायतिसमग्रहमार्गाणां
प्राधान्यम् । दक्षिणायां
गीतिचतुष्कलतालविलम्बितलयगोपुच्छायत्यतीतग्रहमार्गाणां
प्राधान्यम् ।
सर्वासामेव वृत्तीनां ललिताद्यास्तु जातयः ।
धातुभिः सह संयुक्ता भवन्ति गुणवत्तराः ॥ ७२॥

एतेषां धातूनां समवायाज्जातयस्तु जायन्ते ।
स्यादुदात्तललितरिभितघनसंज्ञाश्चतस्रस्तु ॥ ७३॥

तत्रोदाता विस्तारधातुविषया ह्युदात्तत्वात् ।
ललिता व्यञ्जनधातोर्ललितत्वादेव सम्प्रयोक्तव्या ॥ ७४॥

आविद्धधातुविषया रिभिता लघुसञ्चयाद् विनिर्दिष्टा ।
करणविषया च घनसंज्ञा गुरुलघुसञ्चयात्तु स्यात् ॥ ७५॥

त्रिविधं गीते कार्यं वाद्यं वीणासमुद्भवं तज्ज्ञैः ।
तत्त्वं ह्यनुगतमोघः स्थानैककरणसमायुक्ताः ॥ ७६॥

लयतालवर्णपदयतिगीत्यक्षरभावकं भवेत् तत्त्वम् ।
गीतं तु यदनुगच्छत्यनुगतमिति तद्भवेद्वाद्यम् ॥ ७७॥

आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च ।
अनपेक्षितगीतार्थं वाद्यं त्वोघे विधातव्यम् ॥ ७८॥

एवं ज्ञेया वैणे वाद्यविधाने तु धातवस्तज्ज्ञैः ।
लक्ष्याम्यतः परमहं निर्गीतविधानसमवायम् ॥ ७९॥

आश्रावणा तथाऽरम्भो वक्त्रपाणिस्तथैव च ।
सङ्खोटना तथा कार्यं पुनश्च परिघट्टना ॥ ८०॥

मार्गासारितमेतत् स्याल्लीलाकृतमथापि च ।
आसारितानि च तथा त्रिप्रकारकृतानि तु ॥ ८१॥

एतानि तु बहिर्गीतान्याहुर्वाद्यविदो जनाः ।
सतालानि ह्यतालानि चित्तवृत्तौ कृतानि तु ॥ ८२॥

प्रयोजनं च विज्ञेयं पूर्वरङ्गविधिं प्रति ।
एतेषां सम्प्रवक्ष्यामि लक्षणं सनिदर्शनम् ॥ ८३॥

आस्रावणा नाम ।
विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः ।
द्विश्चापि सन्निवृत्तैः करणोपचयैः क्रमेण स्यात् ॥ ८४॥

गुरुणी त्वादावेकादशकं चतुर्दशं सपञ्चदशम् ।
सचतुर्विंशकमेवं द्विगुणीकृतमेतदेव स्यात् ॥ ८५॥

लघुनी गुरु चैव स्यादथाष्टमं गुरु भवेत्तथा च पुनः ।
षट् च लघूनि ततोऽन्त्ये गुर्वाद्याश्रावणायां तु ॥ ८६॥

त्रिःशम्योपरिपाणौ तालावप्येवमेव चैकिकवान् ।
समपाणौ द्वे शम्ये तालावप्येवमेवाथ ॥ ८७॥

भूयः शम्यातालाववपाणावुत्तरस्था चैव ।
चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ॥ ८८॥

अत्रोदाहरणम् ।
ज़्हण्टुं जगति यवलितक जम्बुक झण्टुं तिति च लघु च झण्टुम् ।
दिङ्गले गणपतिपशुपतिजम्बुक दिङ्गले वरभुज दिगिनगि चा ।
तिति चादिनि निगिचा पशुपति नीतिचा ॥

अथारम्भः ।
दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव ।
चत्वारि गुरूणि तथा ह्रस्वान्यष्टौ च दीर्घं च ॥ ८९॥

लघुसंज्ञानि चतुर्धा निधनं द्विगुणीकृतानि दीर्घे द्वे ।
अष्टौ लघूनि नैधनमित्यारम्भेऽक्षरविधानम् ॥ ९०॥

अत्रोदाहरणम् ।
ज़्हण्टुं झण्टुं झण्टुं झण्टुं जगति यवलितक दिगिनिगिचा ।
दिङ्ग्ले दिङ्ग्ले तिति झझलकुचझलजम्बुक तितिचा ।
गणपति सुरपति पशुपति चा ॥

अस्य तु वाद्यम् ।
कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः ।
तलरिभितह्रादयुतैः करणैर्विस्तारभूयिष्ठैः ॥

अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः ।
आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥

तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालः ।
द्विकला च पुनः शम्या तालो द्विकलश्च कर्तव्यः ॥ ९१॥

त्रिकलश्च सन्निपातः पुनः पितापुत्रकश्च षट्पूर्वः ।
चञ्चत्पुटस्तथा स्यादारम्भे तालयोगस्तु ॥ ९२॥

अस्य तु वाद्यम् ।
कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः ।
तलरिभितह्रादयुतैः करणैर्विस्ताभूयिष्ठैः ॥ ९३॥

अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः ।
आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ ९४॥

अथ वक्त्रपाणिः ।
गुरूणि पञ्च ह्रस्वानि षड्गुरुश्च चतुर्गुणः ।
गुरुणी द्वे लघु त्वेकं चत्वार्यथ गुरूणि हि ॥ ९५॥

चत्वार्यथ लघूनि स्युस्त्रीणि दीर्घाणि चैव हि ।
लघून्यष्टौ च दीर्घं च वक्त्रपाणौ भवेद्विधिः ॥ ९६॥

अत्रोदाहरणम् ।
दिङ्गले झण्टुं जम्बुक जगति य झण्टुं दिङ्गले ।
घेन्दृं घेटो घाटो भट्टुनकिटि इनं दुङ् ॥

घदुगदुकिटमटनम् ।
अस्य वाद्यम् ।
आविद्धकरणयुक्तो द्व्यङ्गः स्यादेकप्रवृत्तौ वा ।
अल्पव्यञ्जनधातुर्वाद्यविधिर्वक्त्रपाणौ तु ॥ ९७॥

द्विकले मद्रके यत्तु शम्यातालादिपातम् ।
तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकलान्वितम् ॥ ९८॥

तस्याधस्तात् पुनः कार्यं पञ्चपाणिचतुष्टयम् ।
वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ॥ ९९॥

अथ सङ्खोटना ।
गुरुणी लघून्यथाष्टौ दीर्घं द्विगुणं तथा च कर्तव्यम् ।
लघुदीर्घे लघु च पुनश्चतुर्गुणं सम्प्रकर्तव्यम् ॥ १००॥

पुनरष्टौ ह्रस्वानि स्युरिह तथा नैधनं च कर्तव्यम् ।
सङ्खोटनवस्तुविधौ ह्रस्वगुरुविधिः समुद्दिष्टः ॥ १०१॥

सङ्खोटनाया उदाहरणं प्रकल्प्य कृतम् ।
दिङ्गले जगति य वलति कतेचातिचातिझ लघु चझल पशुपतिचा ।
अस्या वाद्यविधिः ।
अधिदण्डं हस्ताभ्यां वीणां विनिगृह्य दक्षिणाङ्गुल्या ।
अङ्गुष्ठाभ्यां च तथा कार्यं सङ्खोटनावाद्यम् ॥ १०२॥

सङ्खोटयेत् स्वरं वादिना तु संवादिना तथाधिबलम् ।
समवायिभिश्च शेषैरनुवादिभिरल्पकैश्चांशैः ॥ १०३॥

विस्तारचित्रकरणैर्द्विस्त्रिर्विनिवर्तितैर्द्विरभ्यस्तैः ।
उपचययुक्तैः क्रमशो वदन्ति सङ्खोटनावाद्यम् ।
तालोऽस्या गदितस्तज्ज्ञैः शीर्षवत् पञ्चपाणिना ॥ १०४॥

अथ परिघट्टना ।
दीर्घाण्यादावष्टौ लघूनि कुर्यात् पुनर्द्विगुणितानि ।
ह्रस्वान्यपि चत्वारि द्विगुणानि स्युः सदीर्घाणि ॥ १०५॥

षोडश लघूनि च स्युः सह निधने चैव कार्याणि ।
एष परिघट्टनायां गुरुलघुवस्तुक्रमः प्रोक्तः ॥ १०६॥

एतस्यामप्युदाहरणं प्रकल्प्य कृतम् ।
दिङ्गले दिङ्गले दिङ्गले दिङ्गले जगति य वलति क ।
तितिझलकुचझलदिगिनिगि गणपति चा ।
चलति क गणपति पशुपतिसुरपति चा ।
वाद्यं चास्यास्तज्ज्ञैः सोद्वहनं हस्तलाघवात् कार्यम् ।
व्यञ्जनधातुसमुत्थं नानाकरणाश्रयोपेतम् ॥ १०७॥

सम्पिष्टकवच्चास्यास्तालः करणैस्तु धातुसंयुक्तैः ।
गुरुलघुयोगादेवं विहितः कार्यो बुधैर्नित्यम् ॥ १०८॥

मार्गासारितवाद्यं विस्ताराविद्धकरणसंयुक्तम् ।
सकलैः सतलैः करणैरथ गुरुलघुसञ्चयश्चायम् ॥ १०९॥

चत्वारि गुरूणि स्युर्लघूनि चत्वारि च द्विगुणितानि ।
गुरुणी लघून्यथाष्टौ गुरुणी चेत्येतत् त्रिधा योज्यम् ॥ ११०॥

अथवा ।
चत्वारि तु गुरूणि स्युर्ह्रस्वान्यष्टौ भवन्ति हि ।
गुरुणी नव ह्रस्वानि दीर्घमन्त्यमथापि च ॥

अत्रोदाहरणम् ।
दिङ्गले झण्टुं जगति य ।
थलितक झण्टुं तिति ।
झलकुच झलतितिचा ।
बालासारितवच्चैव तालोऽस्य परिकीर्तितः ॥ ११०॥

श्रवणमधुराणि लीलाकृतान्यभिसृतपरिसृतान्तरकृतानि ।
तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगविधौ ॥ १११॥

यथासारितानि ज्येष्ठमध्यकनिष्ठानि तालप्रमाणनिर्दिष्टानि तानि
तालविधाने वक्ष्यामः ।
एवमेतत् स्वरगतं ज्ञेयं वीणाशरीरजम् ।
विपञ्चीवाद्ययुक्तानि करणानि निबोधत ॥ ११२॥

रूपं कृतं प्रतिकृतं प्रतिभेदो रूपशेषमोघश्च ।
षष्ठी वै प्रतिशुष्का त्वेवं ज्ञेयं करणजातम् ॥ ११३॥

वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम् ।
रूपं प्रतिभेदकृतं प्रतिकृतमित्युच्यते वाद्यम् ॥ ११४॥

युगपत्कृतेऽन्यकरणं प्रतिभेदो दीर्घलाघवकृतः स्यात् ।
कृतमेकस्यां तन्त्र्यां प्रतिशुष्का नाम विज्ञेया ॥ ११५॥

वीणावाद्यविरामेऽप्यविरतकरणं तु रूपशेषः स्यात् ।
आविद्धकरणयुक्तो ह्युपर्युपरिपाणिकस्त्वोघः ॥ ११६॥

कार्यं ध्रुवाविधाने प्रायेण हि कोणवादनं तज्ज्ञैः ।
स्थानप्राप्त्यर्थं चेद्यत्तत्र भवेदयं नियमः ॥ ११७॥

तच्चौघतुल्यकरणं वाच्यं कार्यं विपञ्च्यास्तु ।
सप्ततन्त्री भवेच्चित्रा विपञ्ची तु भवेन्नव ।
कोणवादना विपञ्ची स्याच्चित्रा चाङ्गुलिवादना ॥ ११८॥

ततवाद्यविधानमिदं सर्वं प्रोक्तं समासयोगेन ।
वक्ष्याम्यतश्च भूयः सुषिरातोद्यप्रयोगं तु ॥ ११९॥

॥ इति भरतीये नाट्यशास्त्रे ततातोद्यविधानं नाम
एकोनत्रिंशत्तमोऽध्यायः॥

वर्गः:नाट्यशास्त्रम्

Page is sourced from

sa.wikisource.org नाट्यशास्त्रम्/अध्यायः २९