नाट्यशास्त्रम्/अध्यायः २८

From HinduismPedia
Jump to navigation Jump to search

Template:नाट्यशास्त्रम्

॥ नाट्यशास्त्रम् अध्याय २८ जातिविकल्प ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ अष्टाविंशोऽध्यायः ।
आतोद्यविधिमिदानीं वक्ष्यामः ।
ततं चैवावनद्धं च घनं सुषिरमेव च ।
चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥ १॥

ततं तन्त्रीकृतं ज्ञेयमवनद्धं तु पौष्करम् ।
घनं तालस्तु विज्ञेयः सुषिरो वंश उच्यते ॥ २॥

प्रयोगस्त्रिविधो ह्येषां विज्ञेयो नाटकाश्रयः ।
ततं चैवावनद्धं च तथा नाट्यकृतोऽपरः ॥ ३॥

ततः कुतपविन्यासो गायनः सपरिग्रहः ।
वैपञ्‍चिको वैणिकश्‍च वंशवादस्तथैव च ॥ ४॥

मार्दङ्गिकः पाणविकस्तथा दार्दुरिको बुधैः ।
अवनद्धविधावेष कुतपः समुदाहृतः ॥ ५ ॥ ११/२२
उत्तमाधममध्याभिस्तथा प्रकृतिभिर्युतः ।
कुतपो नाट्ययोगे तु नानादेशसमाश्रयः ॥ ६॥

एवं गानं च वाद्यं च नाट्यं च विविधाश्रयम् ।
अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृभिः ॥ ७॥

यत्तु तन्त्रीकृतं प्रोक्तं नानातोद्यसमाश्रयम् ।
गान्धर्वमिति तज्‍ज्ञेयं स्वरतालपदात्मकम् ॥ ८॥

अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः ।
गन्धर्वाणां च यस्माद्धि तस्माद्‍गन्धर्वमुच्यते ॥ ९॥

अस्य योनिर्भवेद्‍गानं वीणा वंशस्तथैव च ।
एतेषां चैव वक्ष्यामि विधिं स्वरसमुत्थितम् ॥ १०॥

गान्धर्वं त्रिविधं विद्यात्स्वरतालपदात्मकम् ।
त्रिविधस्यापि वक्ष्यामि लक्षणं कर्म चैव हि ॥ ११॥

द्व्‍यधिष्ठानाः स्वरा वैणाः शारीराश्च प्रकीर्तिताः ।
एतेषां सम्प्रवक्ष्यामि विधानं लक्षणान्वितम् ॥ १२॥

स्वरा ग्रामौ मूर्च्छनाश्‍च तानाः स्थानानि वृत्तयः ।
शुष्कं साधारणे वर्णा ह्यलङ्काराश्‍च धातवः ॥ १३॥

श्रुतयो यतयश्‍चैव नित्यं स्वरगतात्मकाः ।
दारव्यां समवायस्तु वीणायां समुदाहृतः ॥ १४॥

स्वरा ग्रामावलङ्‍कारा वर्णाः स्थानानि जातयः ।
साधारणे च शरीर्यां वीणायामेष सङ्ग्रहः ॥ १५॥

व्यञ्‍जनानि स्वरा वर्णाः सन्धयोऽथ विभक्‍तयः ।
नामाख्यातोपसर्गाश्‍च निपातास्तद्धिताः कृतः ॥ १६॥

छन्दोविधिरलङ्‍कारा ज्ञेयः पदगतो विधिः ।
निबद्धं चानिबद्धं च द्विविधं तत्पदं स्मृतम् ॥ १७॥

ध्रुवस्त्वावापनिष्कामौ विक्षेपोऽथ प्रवेशनम् ।
शम्या तालः सन्निपातः परिवर्तः सवस्तुकः ॥ १८॥

मात्रा प्रकरणाङ्‍गानि विवारी यतयो लयाः ।
गीतयोऽवयवा मार्गाः पादमार्गाः सपाणयः ॥ १९॥

इत्येकविंशतिविधं ज्ञेयं तालगतं बुधैः ।
गान्धर्वसङ्ग्रहो ह्येष विस्तरं तु निबोधत ॥ २०॥

तत्र स्वराः -
षड्‍जश्‍च ऋषभश्‍चैव गान्धारो मध्यमस्तथा ।
पञ्‍चमो धैवतश्‍चैव सप्तमोऽथ निषादवान् ॥ २१॥

चतुर्विधत्वमेतेषां विज्ञेयं गानयोक्‍तृभिः ।
वादी चैवाथ संवादी विवादी चानुवाद्यपि ॥ २२॥

संवादो मध्यमग्रामे पञ्‍चमस्यर्षभस्य च ।
षड्‍जग्रामे तु षड्‍जस्य संवादः पञ्‍चमस्य च ॥ २३॥

तिस्रो द्वे च चतस्रश्‍च चतस्रस्तिस्र एव च ।
द्वे चैवाद्य चतस्रश्‍च षड्‍जग्रामे भवेद्विधिः ॥ २४॥

चतुःश्रुतिर्भवेत् षड्‍ज ऋषभस्त्रिश्रुतिः स्मृतः ।
द्विश्रुतिश्‍चैव गान्धारो मध्यमश्‍च चतुःश्रुतिः ॥ २५॥

पञ्‍चमस्तद्वदेव स्यात् त्रिश्रुतिर्धैवतो मतः ।
द्विश्रुतिश्‍च निषादः स्यात् षड्‍जग्रामे विधिर्भवेत् ॥ २६॥

अथ मूर्च्छनाः द्वैग्रामिक्यश्‍चतुर्दश -
आदावुत्तरमन्द्रा स्याद्रजनी चोत्तरायता ।
चतुर्थी शुद्धषड्‍जा तु पञ्‍चमी मत्सरीकृता ॥ २७॥

अश्वक्रान्ता तथा षष्ठी सप्‍तमी चाभिरुद्‍गता ।
षड्‍जग्रामाश्रिता ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ २८॥

षड्‍जे चोत्तरमन्द्रा स्यादृषभे चाभिरुद्‍गता ।
अश्वक्रान्ता तु गान्धारे मध्यमे मत्सरीकृता ॥ २९॥

पञ्‍चमे शुद्धषड्‍जा स्याद्‍धैवते चोत्तरायता ।
निषादे रजनी च स्यादित्येताः षड्‍जमूर्च्छनाः ॥ ३०॥

अथ मध्यमग्रामे -
सौवीरी हरिणाश्‍वा च स्यात्कलोपनता तथा ।
शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा ।
मध्यमग्रामजा ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ ३१॥

अपि च -
क्रमयुक्‍ताः स्वराः सप्त मूर्च्छनेत्यभिसंज्ञिताः ।
षट्‍पञ्‍चस्वरकास्तानाः षाडवौडुविताश्रयाः ॥ ३२॥

साधारणकृताश्‍चैव काकलीसमलङ्‍कृताः ।
अन्तरस्वरसंयुक्‍ता मूर्च्छना ग्रामयोर्द्वयोः ॥ ३३॥

यथा -
छायासु भवति शीतं प्रस्वेदो भवति चातपस्थस्य ।
न च नागतो वसन्तो न च निःशेषः शिशिरकालः ॥ ३४॥

भवतश्‍चात्र -
अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः ।
कार्यो ह्यल्पो विशेषेण नावरोही कदाचन ॥ ३५॥

क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहुः ।
जातिरागं श्रुतिं चैव नयन्ते त्वन्तरस्वराः ॥ ३६ ॥ इति॥

जातीरिदानीं वक्ष्यामः ।
स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः ।
मध्यमा पञ्‍चमी चैव षड्‍जमध्या तथैव च ॥ ३७॥

आसामंशास्तु विज्ञेयाः षड्‍जमध्यमपञ्‍चमाः ।
यथा स्वं दुर्बलतरा व्यक्‍ता सा पञ्‍चमी तथा ॥ ३८॥

जातयोऽष्टादशेत्येवं ब्रह्मणाभिहितं पुरा ।
तास्त्वहं वर्तयिष्यामि ग्रहांशादिविभागतः ॥ ३९॥

षाड्‍जी चैवार्षभी चैव धैवत्यथ निषादिनी ।
षड्‍जोदीच्यवती चैव तथा वै षड्‍जकैशिकी ॥ ४०॥

षड्‍जमध्या तथा चैव षड्‍जग्रामसमाश्रयाः ।
अत ऊर्ध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रिताः ॥ ४१॥

गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा ।
पञ्‍चमी रक्‍तगान्धारी तथा गान्धारपञ्‍चमी ॥ ४२॥

मध्यमोदीच्यवा चैव नन्दयन्ति तथैव च ।
कर्मारवी च विज्ञेया तथान्ध्री कैशिकी मता ॥ ४३॥

स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः ।
मध्यमा षड्‍जमध्या च पञ्‍चमी चैव सूरिभिः ॥ ४४॥

आसामंशास्तु विज्ञेयाः षड्‍जमध्यमपञ्‍चमाः ।
यथास्वं दुर्बलतरं व्यत्यासात्त्वत्र पञ्‍चमी ॥ ४५॥

शुद्धा विकृताश्‍चैव हि समवायाज्जातयस्तु जायन्ते ।
पुनरेवाशुद्धकृता भवन्त्यथैकादशान्यास्तु ॥ ४६॥

तासां यन्निर्वृत्ताः स्वरेष्वथांशेषु जातिषु च जातिः ।
तद्वक्ष्यामि यथावत्संक्षेपेण क्रमेणेह ॥ ४७॥

परस्परविनिष्पन्ना ज्ञेया ह्येवं तु जातयः ।
पृथग्लक्षणसंयुक्‍ता द्वैग्रामिकाः स्वराश्रयाः ॥ ४८॥

चतस्रो जातयो नित्यं ज्ञेयाः सप्‍तस्वरा बुधैः ।
चतस्रः षट्‍स्वरा ज्ञेयाः स्मृताः पञ्‍चस्वरा दश ॥ ४९॥

मध्यमोदीच्यवा चैव तथा वै षड्‍जकैशिकी ।
कार्मारवी च सम्पूर्णा तथा गान्धारपञ्‍चमी ॥ ५०॥

षाड्‍ज्यान्ध्री नन्दयन्ती च गान्धारोदीच्यवा तथा ।
चतस्रः षट्‍स्वरा ह्येताः ज्ञेयाः पञ्‍च स्वरा दश ॥ ५१॥

नैषादी चार्षभी चैव धैवती षड्‍जमध्यमा ।
षड्‍जोदीच्यवती चैव पञ्‍च षड्‍जाश्रिताः स्मृताः ॥ ५२॥

गान्धारी रक्‍तगान्धारी मध्यमा पञ्‍चमी तथा ।
कैशिकी चैव पञ्‍चैता मध्यमग्रामसंश्रयाः ॥ ५३॥

यास्ताः सप्‍तस्वरा ज्ञेया याश्‍चैताः षट्‍स्वराः स्मृताः ।
कदाचित् षाडवीभूताः कदाचिच्‍चौडुवे मताः । ५४॥

षड्‍जग्रामे तु सम्पूर्णा विज्ञेया षड्‍जकैशिकी ।
षट्‍स्वरा चैव विज्ञेया षाड्‍जी गान्धारयोगतः । ५५॥

गान्धारपञ्‍चमी चैव मध्यमोदीच्यवा तथा ।
पुनश्‍च षट्‍स्वरा ज्ञेया गान्धारोदीच्यवा बुधैः । ५६॥

आन्ध्री च नन्दयन्ती च मध्यमग्रामसंश्रयाः ।
एवमेता बुधैर्ज्ञेया द्वैग्रामिक्योऽपि जातयः ॥ ५७॥

अत ऊर्ध्वं प्रवक्ष्यामि तासामंशविकल्पनम् ।
षट्‍स्वराः सप्‍तमे ह्यंशे नेष्यन्ते षड्‍जमध्यमाः ॥ ५८॥

संवाद्यलोपाद्‍गान्धारे तद्‍वदेव हि नेष्यते ।
गान्धारीरक्‍तगान्धारीकैशिकीनां तु पञ्‍चमः ॥ ५९॥

षड्‍जायां चैव गान्धारमंशकं विद्धि षाडवम् ।
षाडवं धैवते नास्ति षड्‍जोदीच्यामथांशके ॥ ६०॥

संवाद्यलोपात्सप्‍तैताः षाट्‍स्वर्येण विवर्जिताः ।
गान्धारीरक्‍तगान्धार्योः षड्‍जमध्यमपञ्‍चमाः ॥ ६१॥

सप्‍तमश्‍चैव विज्ञेयो येषु नौडुवितं भवेत् ।
द्वौ षड्‍जमध्यमांशो तु गान्धारोऽथ निषादवान् ॥ ६२॥

ऋषभश्‍चैव पञ्‍चम्यां कैशिक्यां चैव धैवतः ।
एवं तु द्वादशैवेह वर्ज्याः पञ्‍च स्वराः सदा ॥ ६३॥

तास्त्वनौडुविता नित्यं कर्तव्या हि स्वराश्रयाः ।
सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु ॥ ६४॥

न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन ।
सर्वस्वराणां प्रवरो ह्यनाशी मध्यमः स्मृतः ।
गान्धर्वकल्‍पे विहितः सामस्वपि च मध्यमः ॥ ६५॥

दशकं जातिलक्षणम् -
ग्रहांशौ तारमन्द्रौ च न्यासोऽपन्यास एव च ।
अल्पत्‍वं च बहुत्‍वं च षाडवौडुविते तथा ॥ ६६॥

अथ ग्रहाः ।
ग्रहास्तु सर्वजातीनामंशवत्‍परिकीर्तिताः ।
यत्‍प्रवृत्तं भवेद्‍गेयमंशो ग्रहविकल्‍पितः ॥ ६७॥

तत्रांशो नाम -
यस्मिन् भवति रागश्‍च यस्माच्‍चैव प्रवर्तते ।
मन्द्रश्‍च तारमन्द्रश्‍च योऽत्यर्थं चोपलभ्यते ॥ ६८॥

ग्रहापन्यासविन्याससंन्यासन्यासगोचरः ।
अनुवृत्तश्‍च यस्येह सोंऽशः स्याद्दशलक्षणः ॥ ६९॥

पञ्‍चस्वरपरा तारगतिर्यथा
अंशात्तारगतिं विद्यादाचतुर्थस्वरादिह ।
आ पञ्‍चमात्पञ्‍चमाद्वा नातःपरमिहेष्यते ॥ ७०॥

त्रिधा मन्द्रगतिः । अंशपरा न्यासपरा अपरन्यासपरा चेति ।
मन्द्रस्त्‍वंशपरो नास्ति न्यासौ तु द्वौ व्यवस्थितौ ।
गान्धारन्यासलिङ्‍गे तु दृष्टमार्षभसेवनम् ॥ ७१॥

अथ न्यास एकविंशतिसङ्‍ख्यः । अङ्‍गसमाप्‍तौ न्यासः ।
तद्वदपन्यासो ह्यङ्‍गमध्ये षट्‍पञ्‍चाशत्सङ्‍ख्यः ।
यथा -
न्यासोऽङ्‍गसमाप्‍तौ स चैकविंशतिसङ्‍ख्यस्तथा ।
१६ अक्षराणि षट्‍पञ्‍चाशत्सङ्ख्योऽपन्यासोऽङ्‍गमध्ये भवेत् ॥ ७२॥

तत्र प्रथमं विदारीमध्ये न्यासस्वरप्रयुक्‍तस्तु ।
विवदनशीलं मुक्‍त्वा संन्यासः सोऽभिधातव्यः ।
कृत्‍वा पदावसाने विन्यासात्क्‍वापि विन्यासः ॥ ७३॥

तथा -
अल्‍पत्वेऽथ बहुत्‍वे बलवदबलता विनिश्‍चयादेव ।
जातिस्वरैस्तु नित्यं जात्यल्‍पत्वं द्विविधमेतत् ॥ ७४॥

सञ्‍चारांशे बलस्थानामल्पत्वे दुर्बलासु च ।
न्यासश्‍चान्तरमार्गस्तु जातीनां व्यक्तिकारकः ॥ ७५॥

पञ्‍चस्वरमौडुवितं विज्ञेयं दशविधं प्रयोगज्ञैः ।
त्रिंशत्प्रकारविहितं पूर्वोक्‍तं लक्षणं चास्य ॥ ७६॥

षट्‍स्वरस्य प्रयोगोऽस्ति तथा पञ्‍चस्वरस्य च ।
चतुःस्वरप्रयोगोऽपि ह्यवकृष्टध्रुवास्विह ॥ ७७॥

द्वैग्रामिकीणां जातीनां सर्वासामपि नित्यशः ।
अंशास्त्रिषष्टिर्विज्ञेयास्तेषां चैवांशवद् ग्रहाः ॥ ७८॥

अंशग्रहमिदानीं वक्ष्यामः । तत्र -
मध्यमोदीच्यवायास्तु नन्दयन्त्यास्तथैव च ।
तथा गान्धारपञ्‍चम्याः पञ्‍चमोंऽशो ग्रहस्तथा ॥ ७९॥

धैवत्याश्‍च तथा ह्यंशौ विज्ञेयौ धैवतर्षभौ ।
पञ्‍चम्याश्‍च तथा ज्ञेयौ ग्रहांशौ पञ्‍चमर्षभौ ॥ ८०॥

गान्धारोदीच्यवायास्तु ग्रहांशौ षड्‍जमध्यमौ ।
आर्षभ्याश्‍च ग्रहा अंशा धैवतर्षभसप्‍तमाः ॥ ८१॥

गान्धारश्‍च निषादश्‍च ह्यार्षभश्‍च तथापरः ।
निषादिन्यास्त्रयो ह्येते ग्रहा अंशाश्‍च कीर्तिताः ॥ ८२॥

षड्‍जपञ्‍चमगान्धारैस्‍त्रिभिरेव प्रकीर्तिताः ।
अंशैर्ग्रहैस्तथा चैव विज्ञेया षड्‍जकैशिकी ॥ ८३॥

षड्‍जश्‍च मध्यमश्‍चैव निषादो धैवतस्तथा ।
षड्‍जोदीच्यवतीजातेर्ग्रहा अंशाश्‍च कीर्तिताः ॥ ८४॥

पञ्‍चमश्‍चार्षभश्‍चैव निषादो धैवतस्तथा ।
कार्मारव्या बुधैरंशा ग्रहाश्‍च परिकीर्तिताः ॥ ८५॥

गान्धारश्‍चार्षभश्‍चैव पञ्‍चमोऽथ निषादवान् ।
चत्वरोंशा भवन्त्यान्‍ध्र्या ग्रहाश्‍चैव तथैव हि ॥ ८६॥

षड्‍जश्‍चाथर्षभश्‍चैव मध्यमः पञ्‍चमस्तथा ।
मध्यमाया ग्रहा ज्ञेया अंशाश्‍चैव सधैवताः ॥ ८७॥

निषादषड्‍जगान्धारमध्यमाः पञ्‍चमस्तथा ।
गान्धारीरक्‍तगान्धार्योर्ग्रहा अंशाः प्रकीर्तिताः ॥ ८८॥

षड्‍जी धैवतगान्धारषड्‍जमध्यमपञ्‍चमैः ।
ग्रहैरंशैश्‍च विज्ञेया विकृता स्वरयोगतः ॥ ८९॥

कैशिक्याश्‍चार्षभं हित्वा ग्रहांशाः षट् स्वराः स्मृताः ।
सप्‍तस्वरग्रहांशा तु विज्ञेया षड्‍जमध्यमा ॥ ९०॥

एते त्रिषष्टिर्विज्ञेयाः सर्वास्वंशास्तु जातिषु ।
अंशवच्‍च ग्रहास्तासां सर्वासामेव नित्यशः ॥ ९१॥

सर्वासामेव जातीनां त्रिजातिस्तु गणः स्मृतः ।
ते च सप्‍त गणा ज्ञेया वर्धमानस्वरा बुधैः ॥ ९२॥

एकस्वरो द्विस्वरश्‍च त्रिस्वरोऽथ चतुःस्वरः ।
पञ्‍चस्वरश्‍चतुर्था स्यादेकधा सप्‍तषट्‍स्वरौ ॥ ९३॥

एतदुक्‍तं मया त्वासां ग्रहांशपरिकल्पनम् ।
पुनश्‍चैव प्रवक्ष्यामि न्यासापन्यासयोगतः ॥ ९४॥

पञ्‍चांशा तु भवेत् षाड्‍जी निषादर्षभवर्जिता ।
अपन्यासो भवेदत्र गान्धारः पञ्‍चमस्तथा ॥ ९५॥

न्यासश्‍चात्र भवेत् षड्‍जो लोप्यः सप्‍तम एव च ।
षड्‍जगान्धारसञ्‍चारः षड्‍जधैवतयोस्तथा ॥ ९६॥

षाडवं सप्‍तमोपेतमल्पौ वै सप्‍तमर्षभौ ।
गान्धारस्य च बाहुल्यं त्वत्र कार्यं प्रयोक्‍तुभिः ॥ ९७॥

आर्षभ्यामृषभस्त्वंशो निषादो धैवतस्तथा ।
एत एव ह्यपन्यासा न्यासश्‍चाप्यृषभः स्मृतः ।
षट्‍पञ्‍चस्वरता चात्र षड्‍जपञ्‍चमयोर्विना ॥ ९८॥

धैवत्यां धैवतो न्यासस्त्वंशावृषभधैवतो ।
अपन्यासा भवन्त्यत्र धैवतार्षभमध्यमाः ॥ ९९॥

षड्‍जपञ्‍चमहीनं तु पाञ्‍च्स्वर्यं विधीयते ।
पञ्‍चमेन विना चैव षाडवं परिकीर्तितम् ॥ १००॥

आरोहिणौ च तौ कार्यौ लङ्‍घनीयौ तथैव च ।
निषादश्‍चर्षभश्‍चैव गान्धारो बलवांस्तथा ॥ १०१॥

निषादिन्यां निषादोंऽशो सगान्धारर्षभस्तथा ।
एत एव ह्यपन्यासा न्यासश्‍चैवात्र सप्‍तमः ॥ १०२॥

धैवत्या इव कर्तव्ये षाडवौडुविते तथा ।
तद्‍वच्च लङ्‍घनीयौ तु बलवन्तौ तथैव च ॥ १०३॥

अंशास्तु षड्‍जकैशिक्याः षड्‍जगान्धारपञ्‍चमाः ।
अपन्यासा भवन्त्यत्र षड्‍जपञ्‍चमसप्तमाः ॥ १०४॥

गान्धारश्‍च भवेन्‍न्यासो हैनस्वर्यं न चात्र तु ।
दौर्बल्यं चात्र कर्तव्यं धैवत(मध्यम) स्यार्षभस्य च ॥ १०५॥

षड्‍जश्‍च मध्यमश्‍चैव निषादो धैवतस्तथा ।
स्युः षड्‍जोदीच्यवांशास्तु न्यासश्‍चैव तु मध्यमः ॥ १०६॥

अपन्यासो भवत्यस्य धैवतः षड्‍ज एव च ।
परस्परांशगमनमिष्टतश्‍च विधीयते ॥ १०७॥

षाट्‍स्वर्यमृषभापेतं कार्यं गान्धर्ववेदिभिः ।
पञ्‍चमार्षभहीनं तु पाञ्‍चस्वर्यं तु तत्र वै ॥ १०८॥

षड्‍जश्‍चाप्यृषभश्‍चैव गान्धारश्‍च बली भवेत् ।
गान्धारस्य च बाहुल्यं मन्द्रस्थाने विधीयते ॥ १०९॥

सर्वेंशाः षड्‍जमध्यायामपन्यासास्तथैव च ।
षड्‍जश्‍च मध्यमश्‍चापि न्यासौ नार्यौ प्रयोक्‍तृभिः ॥ ११०॥

गान्धारसप्‍तमापेतं पाञ्‍चस्वर्यं विधीयते ।
षाडवं सप्‍तमापेतं कार्यं चात्र प्रयोगतः ॥ १११॥

सर्वस्वराणां सञ्‍चार इष्टतस्तु विधीयते ।
षड्‍जग्रामाश्रिता ह्येता विज्ञेयाः सप्‍त जातयः ॥ ११२॥

अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः ।
गान्धार्याः पञ्‍च एवांशा धैवतर्षभवर्जिताः ॥ ११३॥

षड्‍जश्‍च पञ्‍चमश्‍चैव ह्यपन्यासौ प्रकीर्तितौ ।
गान्धारश्‍च भवेन्‍न्यासः षाडवं चर्षभं विना ॥ ११४॥

धैवतर्षभयोर्हीनं तथा चौडुवितं भवेत् ।
लङ्‍घनीयौ च तौ नित्यमार्षभाद्धैवतं व्रजेत् ।
विहितस्त्विति गान्धार्याः स्वरन्यासांशगोचरः ॥ ११५॥

लक्षणं रक्‍तगान्धार्या गान्धार्या एव यत्स्मृतम् ।
धैवतो बलवानत्र दौर्बल्यं तस्य लोपतः ॥ ११६॥

गान्धारषड्‍जयोश्‍चात्र सञ्‍चारश्‍चार्षभाद्विना ।
अपन्यासस्तथा चैव मध्यमस्तु विधीयते ॥ ११७॥

गान्धारोदीच्यवांशौ तु विज्ञेयौ षड्‍जमध्यमौ ।
पाञ्‍चस्वर्यं न चैवात्र षाट्‍स्वर्यमृषभं विना ॥ ११८॥

कार्यश्‍चान्तरमार्गश्‍च न्यासोपन्यास एव च ।
षड्‍जोदीच्यवतीवत्तु पाञ्‍चस्वर्येण जातुचित् ॥ ११९॥

मध्यमाया भवन्त्यंशा विना गान्धारसप्‍तमौ ।
एत एव ह्यपन्यासा न्यासश्‍चैव तु मध्यमः ॥ १२०॥

गान्धारसप्‍तमापेतं पाञ्‍चस्वर्यं विधीयते ।
षाडवं चाप्यगान्धारं कर्तव्यं तु प्रयोगतः ॥ १२१॥

षड्‍जमध्यमयोश्‍चात्र कार्यं बाहुल्यमेव हि ।
गान्धारलङ्‍घनं चात्र कार्यं नित्यं प्रयोक्‍तृभिः ॥ १२२॥

मध्यमोदीच्यवा पूर्णा ह्यंश एकस्तु पञ्‍चमः ।
शेषो विधिस्तु कर्तव्यो गान्धारोदीच्यवां गतः ॥ १२३॥

द्वावंशावथ पञ्‍चम्यामृषभः पञ्‍चमस्तथा ।
स(ऋ)निषादावपन्यासौ न्यासश्‍चैव तु पञ्‍चमः ॥ १२४॥

मध्यमावत्तु कर्तव्ये षाडवौडुविते तथा ।
दौर्बल्यं चात्र कर्तव्यं षड्‍जगान्धारमध्यमैः ॥ १२५॥

कुर्यादप्यत्र सञ्‍चारं पञ्‍चमस्यार्षभस्य च ।
गान्धारगमनं चैव कार्यं त्वल्पश्‍च (ल्पं च)
सप्‍तमः (मात्) ॥ १२६॥

अथ गान्धारपञ्‍चम्याः पञ्‍चमोंऽशः प्रकीर्तितः ।
तारगत्या तु षड्‍जोऽपि कदाचिन्‍नातिवर्तते ॥ १२७॥

ऋषभः पञ्‍चमश्‍चैव ह्यपन्यासौ प्रकीर्तितौ ।
न्यासश्‍चैव तु गान्धारो सा च पूर्णस्वरा सदा ।
पञ्‍चम्या यश्‍च गान्धार्याः सञ्‍चारः स विधीयते ॥ १२८॥

पञ्‍चमश्‍चार्षभश्‍चैव गान्धारोऽथ निषादवान् ।
चत्वारोंऽशा भवन्त्यान्‍ध्र्यामपन्यासास्त एव हि ॥ १२९॥

गान्धारश्‍च भवेन्‍न्यासः षड्‍जापेतं तु षाडवम् ।
गान्धारार्षभयोश्‍चापि सञ्‍चारस्तु परस्परम् ॥ १३०॥

सप्‍तमस्य च षष्ठस्य न्यासो गत्यनुपूर्वशः ।
षड्‍जस्य लङ्‍घनं चात्र नास्ति चौडुवितं सदा ॥ १३१॥

नन्दयन्त्याः क्रमान् न्यासापन्यासांशाः प्रकीर्तिताः ।
गान्धारो मध्यमश्‍चैव पञ्‍चमश्‍चैव नित्यशः ॥ १३२॥

षड्‍जो लोप्यश्‍च लङ्‍घ्यश्‍च नान्ध्रीसञ्‍चरणं भवेत् ।
लङ्‍घनं ह्यृषभस्यापि तच्‍च मन्द्रगतं स्मृतम् ॥ १३३॥

तारगत्या तु षड्‍जस्तु कदाचिन्‍नातिवर्तते ।
गान्धारो वा ग्रहः कार्यस्तथा न्यासश्‍च नित्यशः ॥ १३४॥

कार्मारव्याः स्मृता ह्यंशा आर्षभः पञ्‍चमस्तथा ।
धैवतश्‍च निषादश्‍चाप्यपन्यासास्त एव तु ।
पञ्‍चमश्‍च भवेन्‍न्यासो हैनस्वर्यं न चात्र तु ॥ १३५॥

गान्धारस्य विशेषेण सर्वतो गमनं भवेत् ॥ १३६॥

कैशिक्यास्तु तथा ह्यंशाः सर्वे चैवार्षभं विना ।
एत एव ह्यपन्यासा न्यासौ गान्धारसप्‍तमौ ॥ १३७॥

धैवतेंशे निषादे च न्यासः पञ्‍चम इष्यते ।
अपन्यासः कदाचित्तु ऋषभोऽपि विधीयते ॥ १३८॥

आर्षभे षाडवं चात्र धैवतर्षभवर्जितम् ।
तथा चौडुवितं कुर्याद् बलिनौ चान्त्यपञ्‍चमौ ॥ १३९॥

दौर्बल्यमृषभस्यात्र लङ्‍घनं च विशेषतः ।
अंशवत् कल्पितश्‍चान्यैः षाडवे तु विधीयते ।
षड्‍जमध्यावदत्रापि सञ्‍चारस्तु भवेदिह ॥ १४०॥

एवमेता बुधैर्ज्ञेया जातयो दशलक्षणाः ।
यथा यस्मिन् रसे याश्‍च गदतो मे निबोधत ॥ १४१॥

॥ इति जातिविकल्‍पाध्यायोऽष्टाविंशः समाप्‍तः॥

वर्गः:नाट्यशास्त्रम्

Page is sourced from

sa.wikisource.org नाट्यशास्त्रम्/अध्यायः २८