नाट्यशास्त्रम्/अध्यायः २२

From HinduismPedia
Jump to navigation Jump to search

Template:नाट्यशास्त्रम्

॥ नाट्यशास्त्रम् अध्याय २२ ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ द्वाविंशोऽध्यायः ।
सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः ।
तत्र कार्यः प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् ॥ १॥

सत्त्वातिरिक्तोऽभिनयो ज्येष्ठ इत्यभिधीयते ।
समसत्त्वो भवेन्मध्यः सत्वहीनोऽधमः स्मृतः ॥ २॥

अव्यक्तरूपं सत्त्वं हि विज्ञेयं भावसंश्रयम् ।
यथास्थानरसोपेतं रोमाञ्चास्रादिभिर्गुणैः ॥ ३॥

अलङ्कारास्तु नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः ।
यौवनेऽभ्यधिकाः स्त्रीणा विकारा वक्त्रगात्रजाः ॥ ४॥

आदौ त्रयोऽङ्गजस्तेषां दश स्वाभाविकाः परे ।
अयत्नजाः पुनः सप्त रसभावोपबृंहिताः ॥ ५॥

देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः ।
भावात्समुत्थितो हावो हावाद्धेला समुत्थिता ॥ ६॥

हेला हावश्च भावश्च परस्परसमुत्थिताः ।
सत्त्वभेदे भवन्त्येते शरीरे प्रकृतिस्थिताः ॥ ७॥

वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च ।
कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ ८॥

[भावस्यातिकृतं सत्त्वं व्यतिरिक्तं स्वयोनिषु ।
नैकावस्थान्तरकृतं भावं तमिह निर्दिशेत्] ॥ ९॥

तत्राक्षिभ्रूविकाराढ्यः शृङ्गाराकारसूचकः ।
सग्रीवारेचको ज्ञेयो हावः स्थितसमुत्थितः ॥ १०॥

यो वै हावः स एवैषा शृङ्गाररससम्भवा ।
समाख्याता बुधैर्हेला ललिताभिनयात्मिका ॥ ११॥

लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम् ।
मोट्टायितं कुट्टिमितं बिब्बोको ललितं तथा ॥ १२॥

विहृतं चेति विज्ञेया दश स्त्रीणां स्वभावजाः ।
पुनरेषां स्वरूपाणि प्रवक्ष्यामि पृथक्पृथक् ॥ १३॥

वागङ्गालङ्कारैः शिष्टैः प्रीतिप्रयोजितैर्मधुरैः ।
इष्टजनस्यानुकृतिर्लीला ज्ञेया प्रयोगज्ञैः ॥ १४॥

स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव ।
उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ १५॥

माल्याच्छादनभूषण विलेपनानामनादरन्यासः ।
स्वल्पोऽपि परां शोभां जनयति यस्मात्तु विच्छितिः ॥ १६॥

विविधानामर्थानां वागङ्गाहार्यसत्त्वानाम् ।
मदरागहर्षजनितो व्यत्यासो विभ्रमो ज्ञेयः ॥ १७॥

स्मितरुदितहसितभयहर्षगर्वदुःखश्रमाभिलाषाणाम्।
सङ्करकरणं हर्षादसकृत् किलिकिञ्चितं ज्ञेयम् ॥ १८॥

इष्टजनस्य कथायां लीलाहेलादिदर्शने वापि ।
तद्भावभावनाकृतमुक्तं मोट्टायितं नाम ॥ १९॥

केशस्तनधरादिग्रहणादतिहर्षसम्भ्रमोत्पन्नम् ।
कुट्टमितं विज्ञेअयं सुखमपि दुःखोपचारेण ॥ २०॥।

इष्टानां भावानां प्राप्तावभिमानगर्वसम्भूतः ।
स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः ॥ २१॥

हस्तपादाङ्गविन्यासो भ्रूनेत्रोष्ठप्रयोजितः ।
सौकुमार्याद्भवेद्यस्तु ललितं तत्प्रकीर्तितम् ॥ २२॥

[करचरणाङ्गन्यासः सभ्रूनेत्रोष्ठसम्प्रयुक्तस्तु ।
सुकुमारविधानेन स्त्रीभिउरितीदं स्मृतं ललितम्] ॥ २३॥

वाक्यानां प्रीतियुक्तानां प्राप्तानां यदभाषणम् ।
व्याजात्स्वभावतो वापि विहृतं नाम तद्भवेत् ॥ २४॥

[प्राप्तानामपि वचसां क्रियते यदभाषणं ह्रिया स्त्रीभिः ।
व्याजात्स्वभावतो वाप्येतत्समुदाहृतं विहृतम्] ॥२५॥

शोभा कान्तिश्च दीप्तिश्च तथा माधुर्यमेव च ।
धैर्यं प्रागल्भ्यमौदार्यमित्येते स्युरयत्नजाः ॥ २६॥

रूपयौवनलावण्यैरुपभोगोपबृंहितैः ।
अलङ्करणमङ्गानां शोभेति परिकीर्तिता॥ २७॥

विज्ञेया च तथा कान्तिः शोभैवापूर्णमन्मथा ।
कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ २८॥

सर्वावस्थाविशेषेषु दीप्तेषु ललितेषु च ।
अनुल्बणत्वं चेष्टाया माधुर्यमिति सन्ज्ञितम् ॥ २९॥

चापलेनानुपहता सर्वार्थेष्वविकत्थना ।
स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते ॥ ३०॥

प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् ।
औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ॥ ३१॥

सुकुमारे भवन्त्येते प्रयोगे ललितात्मिके ।
विलासललिते हित्वा दीप्तेऽप्येते भवन्ति हि ॥ ३२॥

शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च ।
ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः ॥ ३३॥

दाक्ष्यं शौर्यमथोत्साहो नीचार्थेषु जुगुप्सनम् ।
उत्तमैश्च गुणैः स्पर्धा यतः शोभेति सा स्मृता ॥ ३४॥

धीरसञ्चारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता ।
स्मितपूर्वमथालापो विलास इति कीर्तितः ॥ ३५॥

अभ्यासत्करणानां तु श्लिष्टत्वं यत्र जायते ।
महत्स्वपि विकारेषु तन्माधुर्यमिति स्मृतम् ॥ ३६॥

धर्र्मार्थकामसंयुक्ताच्छुभाशुभसमुत्थितात् ।
व्यवसायादचलनं स्थैर्यमित्यभिसन्ज्ञितम् ॥ ३७॥

यस्य प्रभावादाकारा हर्षक्रोधभयादिषु ।
भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यमिति स्मृतम् ॥ ३८॥

अबुद्धिपूर्वकं यत्तु निर्विकारस्वभाजम् ।
शृङ्गाराकारचेष्टत्वं ललितं तदुदाहृतम् ॥ ३९॥

दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् ।
स्वजने च परे वापि तदौदार्यं प्रकीर्तितम् ॥ ४०॥

अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् ।
प्राणत्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ४१॥

सत्त्वजोऽभिनयोः पूर्वं मया प्रोक्तओ द्विजोत्तमाः ।
शारीरं चाप्याभिनयं व्याख्यास्याम्यनुपूर्वशः ॥ ४२॥

षडात्मकस्तु शारीरो वाक्यं सूचाङ्कुरस्तथा ।
शाखा नाट्यायितं चैव निवृत्त्यङ्कुर एव च ॥ ४३॥

नानारसार्थयुक्तैर्वृत्तनिबन्धैः कृतः सचूर्णपदैः ।
प्राकृतसंस्कृतपाठो वाक्याभिनयो बुधैर्ज्ञेयः ॥ ४४॥

वाक्यर्थो वाक्यं वा सत्त्वाङ्गैः सूच्यते यदा पूर्वम् ।
पश्चाद्वाक्याभिनयः सूचेत्यभिसन्ज्ञिता सा तु ॥ ४५॥

हृदयस्थो निर्वचनैरङ्गाभिनयः कृतो निपुणसाध्यः ।
सूचैवोत्पत्तिकृतो विज्ञेयस्त्वङ्कुराभिनयः ॥ ४६॥

यत्तु शिरोमुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते ।
शाखादर्शनमार्गः शाखाभिनयः स विज्ञेयः ॥ ४७॥

नाट्यायितमुपचारैर्यः क्रियतेऽभिनयसूचया नाट्ये ।
कालप्रकर्षहेतोः प्रवेशकैः सङ्गमो यावत् ॥ ४८॥

स्थाने ध्रुवास्वभिनयो यः क्रियते हर्षशोकरोषाद्यैः ।
भावरससम्प्रयुक्तैर्ज्ञेयं नाट्यायितं तदपि ॥ ४९॥

यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः ।
तत्सम्बन्धार्थकथं भवेन्निवृत्त्यङ्कुरः सोऽथ ॥ ५०॥

एतेषां तु भवेन्मार्गो यथाभावरसान्वितः ।
काव्यवस्तुषु निर्दिष्टो द्वादशाभिनयात्मकः ॥ ५१॥

आलापश्च प्रलापश्च विलापः स्यात्तथैव च ।
अनुलापोऽथ संलापस्त्वपलापस्तथैव च ॥ ५२॥

सन्देशाश्चातिदेशश्च निर्देशः स्यात्तथापरः ।
उपदेशोऽपदेशश्च व्यपदेशश्च कीर्तितः ॥ ५३॥

आभाषणं तु यद्वाक्यमालापो नाम स स्मृतः ।
अनर्थकं वचो यत्तु प्रलापः स तु कीर्तितः ॥ ५४॥

करुणप्रभवो यस्तु विलापः स तु कीर्तितः ।
बहुशोऽभिहितं वाक्यमनुलाप इति स्मृतः ॥ ५५॥

उक्तिप्रत्युक्तिसंयुक्तः संलाप इति कीर्तितः ।
पूर्वोक्तस्यान्यथावादो ह्यपलाप इति स्मृतः ॥ ५६॥

तदिदं वचनं ब्रूहीत्येष सन्देश उच्यते ।
यत्त्वयोक्तं मयोक्तं तत्सोऽतिदेश इति स्मृतः ॥ ५७॥

स एषोऽहं ब्रवीमीति निर्देश इति कीर्तितः ।
व्याजान्तरेण कथनं व्यपदेश इहोच्यते ॥ ५८॥

इदं कुरु गृहाणेति ह्युपदेशः प्रकीर्तितः ।
अन्यार्थकथनं यत् स्यात् सोऽपदेशः प्रकीर्तितः ॥ ५९॥

एते मार्गास्तु विज्ञेयाः सर्वाभिनययोजकाः ।
सप्तप्रकारमेतेषां पुनर्वक्ष्यामि लक्षणम् ॥ ६०॥

प्रत्यक्षश्च परोक्षश्च तथा कालकृतास्त्रयः ।
आत्मस्थश्च परस्थश्च प्रकाराः सप्त एव तु ॥ ६१॥

एषा ब्रवीमि नाहं भो वदामीति च यद्वचः ।
प्रत्यक्षश्च परोक्षश्च वर्तमानश्च तद्भवेत् ॥ ६२॥

अहं करोमि गच्छामि वदामि वचनं तव ।
आत्मस्थो वर्तमानश्च प्रत्यक्षश्चैव स स्मृतः ॥ ६३॥

करिष्यामि गमिष्यामि वदिष्यामीति यद्वचः ।
आत्मस्थश्च परोक्षश्च भविष्यत्काल एव च ॥ ६४॥

हता जिता च भग्नाश्च मया सर्वे द्विषद्गणाः ।
आत्मस्थश्च परोक्षश्च वृत्तकालश्च स स्मृतः ॥ ६५॥

[त्वया हत जिताश्चेति यो वदेन्नाट्यकर्मणि ।
परोक्षश्च परस्थश्च वृत्तकालस्तथैव च ॥ ६६॥

एष ब्रवीमि कुरुते गच्छतीत्यादि यद्वचः ।
परस्थो वर्तमानश्च (प्रत्यक्षश्च) भवेत्तथा ॥ ६७॥

स गच्छति करोतीति वचनं यदुताहृतम् ।
परस्थं वर्तमानं च परोक्षं चैव तद्भवेत् ॥ ६८॥

करिष्यन्ति गमिष्यन्ति वदिष्यन्तीति यद्वचः ।
परस्थमेष्यत्कालं च परोक्षं चैव तद्भवेत्] ॥ ६९॥

हस्तमन्तरतः कृत्वा यद्वदेन्नाट्यकर्मणि ।
आत्मस्थं हृदयस्थं च परोक्षं चैव तन्मतम् ॥ ७०॥

परेषामात्मनश्चैव कालस्य च विशेषणात् ।
सप्तप्रकारस्यास्यैव भेदा ज्ञेया अनेकधा ॥ ७१॥

एते प्रयोगा विज्ञेया मार्गाभिनययोजिताः ।
एतेष्विह विनिष्पन्नो विविधोऽभिनयो भवेत् ॥ ७२॥

शिरो हस्तकटीवक्षोजङ्घोरुकरणेषु तु ।
समः कर्मविभागो यः सामान्याभिनयस्तु सः ॥ ७३॥

ललितैर्हस्तसञ्चारस्तथा मृद्वङ्गचेष्टितैः ।
अभिनेयस्तु नाट्यज्ञै रसभावसमन्वितैः ॥ ७४॥

अनुद्धतमसम्भ्रान्तमनाविद्धाङ्गचेष्टितम् ।
लयतालकलापातप्रमाणनियतात्मकम् ॥ ७५॥

सुविभक्तपदालापमनिष्ठुरमकाहलम् ।
यदीदृशं भवेन्नाट्यं ज्ञेयमाभ्यन्तरं तु तत् ॥ ७६॥

एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम् ।
अनिबद्धगीतवाद्यं नाट्यं बाह्यमिति स्मृतम् ॥ ७७॥

लक्षणाभ्यन्तरत्वाद्धि तदाभ्यन्तरमिष्यते ।
शास्त्रबाह्यं भवेद्यत्तु तद्बाह्यमिति भण्यते ॥ ७८॥

अनेन लक्ष्यते यस्मात् प्रयोगः कर्म चैव हि ।
तस्माल्लक्षणमेतद्धि नाट्येऽस्मिन् सम्प्रयोजितम् ॥ ७९॥

अनाचार्योषिता ये च ये च शास्त्रबहिष्कृताः ।
बाह्यं प्रयुञ्जते ते तु अज्ञात्वाचार्यकीं क्रियाम् ॥ ८०॥

शब्दं स्पर्शं च रूपं च रसं गन्धं तथैव च ।
इन्द्रियानीइन्द्रियार्थांश्च भावैरभिनयेद्बुधः ॥ ८१॥

कृत्वा साचीकृतां दृष्टिं शिरः पार्श्वनतं तथा ।
तर्जनी कर्णदेशे च बुधः शब्दं विनिर्दिशेत् ॥ ८२॥

किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च ।
तथांऽसगण्डयोः स्पर्शात् स्पर्शमेवं विनिर्दिशेत् ॥ ८३॥

कृत्वा पताकौ मूर्धस्थौ किञ्चित्प्रचलिताननः ।
निर्वर्णयन्त्या दृष्ट्या च रूपं त्वभिनयेद् बुधः ॥ ८४॥

किञ्चिदाकुञ्चिते नेत्रे कृत्वोत्फुल्लां च नासिकाम् ।
एकोच्छ्वासेन चेष्टौ तु रसगन्धौ विनिर्दिशेत् ॥ ८५॥

पञ्चानामिन्द्रियार्थानां भावा ह्येतेऽनुभाविनः ।
श्रोत्रत्वङ्नेत्रजिह्वानां घ्राणस्य च तथैव हि ॥ ८६॥

इन्द्रियार्थाः समनसो भवन्ति ह्यनुभाविनः ।
न वेत्ति ह्यमनाः किञ्चिद्विषयं पञ्चधागतम् ॥ ८७॥

मनसस्त्रिविधो भावो विज्ञेयोऽभिनये बुधैः ।
इष्टस्तथा ह्यनिष्टश्च मध्यस्थश्च तथैव हि ॥ ८८॥

प्रह्लादनेन गात्रस्य तथा पुलकितेन च ।
वदनस्य विकासेन कुर्यादिष्टनिदर्शनम् ॥ ८९॥

इष्टे शब्दे तथा रूपे स्पर्शे गन्धे तथा रसे ।
इन्द्रियैर्मनसा प्राप्तैः सौमुख्यं सम्प्रदर्शयेत् ॥ ९०॥

परावृत्तेन शिरसा नेत्रनासाविकर्षणैः ।
चक्षुषश्चाप्रदानेन ह्यनिष्टमभिनिर्दिशेत् ॥ ९१॥

नातिहृष्टेन मनसा न चात्यर्थजुगुप्सया ।
मध्यस्थनैव भावेन मध्यस्थमभिनिर्दिशेत् ॥ ९२॥

तेनेदं तस्य वापीदं स एवं प्रकरोति वा ।
परोक्षाभिनयो यस्तु मध्यस्थ इति स स्मृतः ॥ ९३॥

आत्मानुभावी योऽर्थः स्यादात्मस्थ इति स स्मृतः ।
परार्थवर्णना यत्र परस्थः स तु सन्ज्ञितः ॥ ९४॥

प्रायेण सर्वभावानां कामान्निष्पत्तिरिष्यते ।
स चेच्छागुणसम्पन्नो बहुधा परिकल्पितः ॥ ९५॥

धर्मकामोऽर्थकामश्च मोक्षकामस्तथैव च ।
स्त्रीपुंसयोस्तु योगो यः स तु काम इति स्मृतः ॥ ९६॥

सर्वस्यैव हि लोकस्य सुखदुःखनिबर्हणः ।
भूयिष्ठं दृष्यते कामः स सुखं व्यसनेष्वपि ॥ ९७॥

यः स्त्रीपुरुषसंयोगो रतिसम्भोगकारकः ।
स शृङ्गार इति ज्ञेय उपचारकृतः शुभः ॥ ९८॥

भूयिष्ठमेव लोकोऽयं सुखमिच्छति सर्वदा ।
सुखस्य हि स्त्रियो मूलं नाना शीलाश्चा ताः पुनः ॥ ९९॥

देवदानवगन्धर्वरक्षोनागपतत्रिणाम् ।
पिशाचयक्षव्यालानां नरवानरहस्तिनाम् ॥ १००॥

मृगमीनोष्ट्रमकरखरसूकरवाजिनाम् ।
महीषाजगवादीनां तुल्यशीलाः स्त्रियः स्मृताः ॥ १०१॥

स्निग्धैरङ्गैरुपाङ्गैश्च स्थिरा मन्दनिमेषिणि ।
अरोगा दीप्त्युपेता च दानसत्त्वार्जवान्विता ॥ १०२॥

अल्पस्वेदा समरता स्वल्पभुक् सुरतप्रिया ।
गन्धपुष्परता हृद्या देवशीलाङ्गना स्मृता ॥ १०३॥

अधर्मशाठ्याभिरता स्थिरक्रोधातिनिष्ठुरा ।
मद्यमांसप्रिअया नित्यं कोपना चातिमानिनी ॥ १०४॥

चपला चातिलुब्धा च परुषा कलहप्रिया ।
ईर्ष्याशीला चलस्नेहा चासुरं शीलमाश्रिता ,, १०५॥

क्रीडापरा चारुनेत्रा नखदन्तैः सुपुष्पितैः ।
स्वऽङ्गी च स्थिरभाषी च मन्दापत्या रतिप्रिया ॥ १०६॥

गीते वाद्ये च नृत्ते च रता हृष्टा मृजावती ।
गन्धर्वसत्त्वा विज्ञेया स्निग्धत्वक्केशलोचना ॥ १०७॥

बृहद्व्यायतसर्वाङ्गी रक्तविस्तीर्णलोचना ।
खररोमा दिवास्वप्ननिरतात्युच्चभाषिणी ॥ १०८॥

नखदन्तक्षतकरी क्रोधेर्ष्याकलहप्रिया ।
निशाविहारशीला च राक्षसं शीलमाश्रिता ॥ १०९॥

तीक्ष्णनासाग्रदशना सुतनुस्ताम्रलोचना ।
नीलोत्पलसवर्णा च स्वप्नशीलाऽतिकोपना ॥ ११०॥

तिर्यग्गतिश्चलारम्भा बहुश्वासातिमानिनी ।
गन्धमाल्यासवरतानागसत्त्वाऽङ्गना स्मृता ॥ १११॥

अत्यन्तव्यावृतास्या च तीक्ष्णशीला सरित्प्रिया ।
सुरासवक्षीररता बह्वपत्या फलप्रिया ॥ ११२॥

नित्यं श्वसनशीलाच तथोद्यानवनप्रिया ।
चपला बहुवाक्छीघ्रा शाकुनं सत्त्वमाश्रिता ॥ ११३॥

ऊनाधिकाङ्गुलिकरा रात्रौ निष्कुटचारिणि ।
बालोद्वेजनशीला च पिशुना क्लिष्टभाषिणि ॥११४॥

सुरते कुत्सिताचारा रोमशाङ्गी महास्वना ।
पिशाचसत्त्वा विज्ञेया मद्यमांसबलिप्रिया ॥ ११५॥

स्वप्नप्रस्वेदनाङ्गी च स्थिरशय्यासनप्रिया ।
मेधाविनी बुद्धिमती मद्यगन्धामिषप्रिया ,, ११६,,
चिरदृष्टेषु हर्षं च कृतज्ञत्वादुपैति सा ।
अदीर्घशायिनी चैव यक्षशीलाऽङ्गना स्मृता ॥ ११७॥

तुल्यमानावमाना या परुषत्वक् खरस्वरा ।
शठानृतोद्धतकथा व्यालसत्त्वा च पिङ्गदृक् ॥११८॥

विभक्ताङ्गी कृतज्ञा च गुरुदेवद्विजप्रिया ।
धर्मकामार्थनिरता ह्यहङ्कारविवर्जिता ।
सुहृत्प्रिया सुशीला च मानुषं सत्त्वमाश्रिता ॥ १२०॥

संहताल्पतनुर्हृष्टा पिङ्गरोमा छलप्रिया ।
प्रगल्भा चपला तीक्ष्णा वृक्षारामवनप्रिया ॥ १२१॥

स्वल्पमप्युपकारं तु नित्यं या बहुमन्यते ।
प्रसह्यरतिशीला च वानरं सत्त्वमाश्रिता ॥ १२२॥

महाहनुललाटा च शरीरोपचयान्विता ।
पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासवप्रिया ॥ १२३॥

कोपना स्थिरचित्ता च जलोद्यानवनप्रिया ।
मधुराभिरता चैव हस्तिसत्त्वा प्रकीर्तिता ॥ १२४॥

स्वल्पोदरी भग्ननासा तनुजङ्घा वनप्रिया ।
चलवीस्तीर्णनयना चपला शीघ्रगामिनी ॥ १२५॥

दिवात्रासपरा नित्यं गीतवाद्यरतिप्रिया ।
निवासस्थिरचित्ता च मृगसत्त्वा प्रकीर्तिता ॥ १२६॥

दीर्घपीनोन्नतोरस्का चला नातिनिमेषिणी ।
बहुभृत्या बहुसुता मत्स्यसत्त्वा जलप्रिया ॥ १२७॥

लम्बोष्ठी स्वेदबहुला किञ्चिद्विकटगामिनी ।
कृशोदरी पुष्पफललवणाम्लकटुप्रिया ॥ १२८॥

उद्बन्धकटिपार्श्वा च खरनिष्ठुरभाषिणी ।
अत्युन्नतकटीग्रीवा उष्ट्रसत्त्वाऽटवीप्रिया ॥ १२९॥

स्थूलशीर्षाञ्चितग्रीवा दारितास्या महस्वना ।
ज्ञेया मकरसत्त्वा च क्रूरा मत्स्यगुणैर्युता ॥ १३०॥

स्थूलजिह्वोष्ठदशना रूक्षत्वक्कटुभाषिणी ।
रतियुद्धकरी धृष्टा नखदन्तक्षतप्रिया ॥ १३१॥

सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी ।
सरोगा बह्वपत्या च खरसत्त्वा प्रकीर्तिता ॥ १३२॥

दीर्घपृष्ठोदरमुखी रोमशाली बलान्विता ।
सुसंक्षिप्तललाटा च कन्दमूलफलप्रिया ॥ १३३॥

कृष्णा दंष्टोत्कटमुखी ह्रस्वोदरशिरोरुहा ।
हीनाचारा बह्वपत्या सौकरं सत्त्वमाश्रिता ॥ १३४॥

स्थिरा विभक्तपार्श्वोरुकटीपृष्ठशिरोधरा ।
सुभगा दानशीला च ऋजुस्थूलशिरोरुहा ॥ १३५॥

कृशा चञ्चलचित्ता च स्निग्धवाक्छीघ्रगामिनी ।
कामक्रोधपरा चैव हयसत्त्वाङ्गना स्मृता ॥ १३६।
स्थूलपृष्ठाक्षिदशना तनुपार्श्वोदरा स्थिरा ।
हरिरोमाञ्चिता रौद्री लोकद्विष्टा रतिप्रिया ॥ १३७॥।

किञ्चिदुन्नतवक्त्रा च जलक्रीडावनप्रिया ।
बृहल्ललाटा सुश्रोणी माहिषं सत्त्वमाश्रिता ॥ १३८॥

कृशा तनुभुजोरस्का निष्टब्धस्थिरलोचना ।
संक्षिप्तपाणिपादा च सूक्ष्मरोमसमाचिता ॥ १३९॥

भयशीला जलोद्विग्ना बह्वपत्या वनप्रिया ।
चञ्चला शीघ्रगमना ह्यजसत्त्वाऽङ्गना स्मृता ॥ १४०॥

उद्बन्धगात्रनयना विजृम्भणपरायणा ।
दीर्घाल्पवदना स्वल्पपाणिपादविभूषिता ॥ १४१॥

उच्चःस्वना स्वल्पनिद्रा क्रोधना सुकृतप्रिया ।
हीनाचारा कृतज्ञा च श्वशीला परिकीर्तिता ॥ १४२॥

पृथुपीनून्नतश्रोणी तनुजङ्घा सुहृत्प्रिया ।
संक्षिप्तपाणिपादा च दृढारम्भा प्रजाहिता ॥ १४३॥

पितृदेवार्चनरता सत्यशौचगुरुप्रिया ।
स्थिरा परिक्लेशसहा गवां सत्त्वं समाश्रिता ॥ १४४॥

नानाशीलाः स्त्रियो ज्ञेयाः स्वं स्वं सत्त्वं समाश्रिताः ।
विज्ञाय च यथासत्त्वमुपसेवेत ताः पुनः ॥ १४५॥

उपचारो यथासत्त्वं स्त्रीणामल्पोऽपि हर्षदः ।
महानप्यन्यथायुक्तो नैव तुष्टिकरो भवेत् ॥ १४६॥

यथा सम्प्रर्थितावाप्त्या रतिः समुपजायते ।
स्त्रीपुंसयोश्च रत्यर्थमुपचारो विधीयते ॥ १४७॥

धर्मार्थं हि तपश्चर्या सुखार्थं धर्म इष्यते ।
सुखस्य मूलं प्रमदास्तासु सम्भोग इष्यते ॥ १४८॥

कामोपभागो द्विविधो नाट्यधर्मेऽभिधीयते ।
बाह्याभ्यन्तरतश्चैव नारीपुरुषसंश्रयः ॥ १४९॥

आभ्यन्तरः पार्थिवानां स च कार्यस्तु नाटके ।
बाह्यो वेश्यागतश्चैव स च प्रकरणे भवेत् ॥ १५०॥

तत्र राजोपभोगं तु व्याख्यास्याम्यनुपूर्वशः ।
उपचारविधिं सम्यक् कामतन्त्रसमुत्थितम् ॥ १५१॥

त्रिविधा प्रकृतिः स्त्रीणां नानासत्त्वसमुद्भवा ।
बाह्या चाभ्यन्तरा चैव स्याद्बाह्याभ्यन्तरापरा ॥ १५२॥

कुलीनाभ्यन्तरा ज्ञेया बाह्या वेश्याङ्गना स्मृता ।
कृतशौचा तु या नारी सा बाह्याभ्यन्तरा स्मृता ॥ १५३॥

अन्तःपुरोपचारे तु कुलजा कन्यकापि वा ।
न हि राजोपचारे तु बाह्यस्त्रीभोग इष्यते ॥ १५४॥

आभ्यन्तरो भवेद्राज्ञो बाह्यो बाह्यजनस्य च ।
दिव्यवेशाङ्गनानां हि राज्ञां भवति सङ्गमः ॥ १५५॥

कुलजाकामितं यच्च तज्ज्ञेयं कन्यकास्वपि ।
या चापि वेश्या साप्यत्र यथैव कुलजा तथा ॥ १५६॥

इह कामसमुत्पतीर्नानाभावसमुद्भवा ।
स्त्रीणां वा पुरुषाणां वा उत्तमाधममध्यमा ॥ १५७॥

श्रवणाद्दर्शनाद्रूपादङ्गलीलाविचेष्टितैः ।
मधुरैश्च समालापैः कामः समुपजायते ॥ १५८॥

रूपगुणादिसमेतं कलादिविज्ञानयौवनोपेतम् ।
दृष्ट्वा पुरुषविशेषं नारी मदनातुरा भवति ॥ १५९॥

ततः कामयमानानां नृणां स्त्रीणामथापि च ।
कामाभावेङ्गितानीह तज्ज्ञः समुपलक्षयेत् ॥ १६०॥

ललिता चलपक्ष्मा च तथा च मुकुलेक्षणा ।
स्रस्तोत्तरपुटा चैव काम्या दृष्टिर्भवेदिह ॥ १६१॥

[वलितान्ता सलालित्यसम्मितैर्व्यञ्जितैरस्तथा ।
दृष्टिः सा ललिता नाम स्त्रीणामर्धावलोकने ॥] १६१॥

ईष्त्संरक्तगण्डस्तु सस्वेदलवचित्रितः ।
प्रस्पन्दमानरोमाञ्चो मुखरागो भवेदिह ॥ १६३॥

काम्येनाङ्गविकारेण सकटाक्षनिरीक्षितैः ।
तथाभरणसंस्पर्शैः कर्णकण्डुयनैरपि ॥ १६४॥

अङ्गुष्ठाग्रविलिखनैः स्तननाभिप्रदर्शनैः ।
नखनिस्तोदनाच्चैव केशसंयमनादपि ॥ १६५॥

वेश्यामेवंविधैर्भावैर्लक्षयेन्मदनातुराम् ।
कुलजायास्तथा चैव प्रवक्ष्यामीङ्गितानि तु ॥ १६६॥

प्रहसन्तीव नेत्राभ्यां प्रततं च निरीक्षते ।
स्मयते सा निगूढं च वाचं चाधोमुखी वदेत् ॥ १६७॥

स्मितोत्तरा मन्दवाक्या स्वेदाकारनिगूहनी ।
प्रस्पन्दिताधरा चैव चकिता च कुलाङ्गना ॥ १६८॥

एवंविधैः कामलिङ्गैरप्राप्तसुरतोत्सवा ।
दशस्थानगतं कामं नानाभावैः प्रदर्शयेत् ॥ १६९॥

प्रथमे त्वभिलाषः स्याद् द्वितीये चिन्तनं भवेत् ।
अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् ॥ १७०॥

उद्वेगः पञ्चमे प्रोक्तो विलापः षष्ठ उच्यते ।
उन्मादः सप्तमे ज्ञेयो भवेद्व्याधिस्तथाष्टमे ॥ १७१॥

नवमे जडता चैव दशमे मरणं भवेत् ।
स्त्रीपुंसयोरेष विधिर्लक्षणं च निबोधत ॥ १७२॥

व्यवसायात्समारब्धः सङ्कल्पेच्छासमुद्भवः ।
समागमोपायकृतः सोऽभिलाषः प्रकीर्तितः ॥ १७३॥

निर्याति विशति च मुहुः करोति चाकारमेव मदनस्य ।
तिष्ठति च दर्शनपथे प्रथमस्थाने स्थिता कामे ॥ १७४॥

केनोपायेन सम्प्राप्तिः कथं वासौ भवेन्मम ।
दूतीनिवेदितैर्भावैरिति चिन्तां निदर्शयेत् ॥ १७५॥

आकेकरार्धविप्रेक्षितानि वलयरशनापरामर्शः ।
नीवीनाभ्याः संस्पर्शनं च कार्यं द्वितीये तु ॥ १७६॥

सुमुहुर्मुहुर्निःश्वसितैर्मनोरथविचिन्तनैः ।
प्रद्वेषाच्चान्यकार्याणामनुस्मृतिरुदाहृता ॥ १७७॥

नैवासने न शयने धृतिमुपलभते स्वकर्मणि विहस्ता ।
तच्चिन्तोपगतत्वात् तृतीयमेव प्रयुञ्जीत ॥ १७८॥

अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षितैः ।
नास्त्यन्यः सदृशस्तेनेत्येतत् स्याद् गुणकीर्तनम् ॥ १७९॥

गुणकीर्तनोल्लुकसनैरश्रुस्वेदापमार्जनैश्चापि ।
दूत्यविरहविस्रम्भैरभिनययोगश्चतुर्थे तु ॥ १८०॥

आसने शयने चापि न तुष्यति न तिष्ठति ।
नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता ॥ १८१॥

चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च ।
कुर्यात्तदेवमत्यन्तमुद्वेगाभिनयेन च ॥ १८२॥

इह स्थित इहासीन इह चोपगतो मया ।
इति तैस्तैर्विलपितैर्विलापं सम्प्रयोजयेत् ॥ १८३॥

उद्विग्नात्यर्थमौत्सुक्यादधृत्या च विलापिनी ।
ततस्ततश्च भ्रमति विलापस्थानमाश्रिता ॥ १८४॥

तत्संश्रितां कथां युङ्क्ते सर्वावस्थागतापि हि ।
पुंसः प्रद्वेष्टि चाप्यन्यानुन्मादः सम्प्रकीर्तितः ॥ १८५॥

तिष्ठत्यनिमिषदृष्टिर्दीर्घं निःश्वसिति गच्छति ध्यानम् ।
रोदिति विहारकाले नाट्यमिदं स्यात्तथोन्मादे ॥ १८६॥

सामदानार्थसम्भोगैः काम्यैः सम्प्रेषणैरपि ।
सर्वैर्निराकृतैः पश्चाद् व्याधिः समुपजायते ॥ १८७॥

मुह्यति हृदयं क्वापि प्रयाति शिरसश्च वेदना तीव्रा ।
न धृतिं चाप्युपलभते ह्यष्टममेवं प्रयुञ्जीत ॥ १८८॥

पृष्टा न किञ्चित् प्रब्रते न शृणोति न पश्यति ।
हाकष्टवाक्या तूष्णीका जडतायां गतस्मृतिः ॥ १८९॥

अकाण्डे दत्तहुङ्कारा तथा प्रशिथिलाङ्गिका ।
श्वासग्रस्तानना चैव जडताभिनये भवेत् ॥ १९०॥

सर्वैः कृतैः प्रतीकारैर्यदी नास्ति समागमः ।
कामाग्निना प्रदीप्ताया जायते मरणं ततः ॥ १९१॥

एवं स्थानानि कार्याणि कामतन्त्रं समीक्ष्य तु ।
अप्राप्तौ यानि कामस्य वर्जयित्वा तु नैधनम् ॥ १९२॥

विविधैः पुरुषोऽप्येवं विप्रलम्भसमुद्भवैः ।
भावैरेतानि कामस्य नानारूपाणि योजयेत्। ॥ १९३॥

एवं कामयमानानां स्त्रीणा नृणामथापि वा ।
सामान्यगुणयोगेन युञ्जीताभिनयं बुधः ॥ १९४॥

चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च ।
तथानुगमन्नाच्चापि तथैवाध्वनिरीक्षणात् ॥ १९५॥

आकाशवीक्षणाच्चापि तथा दीनप्रभाषणात् ।
स्पर्शनान्मोटनाच्चापि तथा सापाश्रयाश्रयात् ॥ १९६॥

एभिर्नानाश्रयोत्पन्नैर्विप्रलम्भसमुद्भवैः ।
कामस्थानानि सर्वाणि भूयिष्ठं सम्प्रयोजयेत् ॥ १९७॥

स्रजो भूषणगन्धांश्च गृहाण्युपवनानि च ।
कामाग्निना दह्यमानः शीतलानि निषेवते ॥ १९८॥

प्रदह्यमानः कामार्तो बहुस्थानसमर्दितः ।
प्रेषयेत्कामतो दूतीमात्मावस्थाप्रदर्शिनीम् ॥१९९॥

सन्देशं चैव दूत्यास्तु प्रदद्यान्मदनाश्रयम् ।
तस्येयं समवस्थेति कथयेद्विनयेन सा ॥ २००॥

अथावेदितभावार्थो रत्युपायं विचिन्तयेत् ।
अयं विधिर्विधानज्ञैः कार्यः प्रच्छन्नकामिते ॥ २०१॥

विधिं राजोपचारस्य पुनर्वक्ष्यामि तत्त्वतः ।
अभ्यन्तरगतं सम्यक् कामतन्त्रसमुत्थितम् ॥ २०२॥

सुखदुःखकृतान् भावान् नानाशीलसमुत्थितान् ।
यान्यान् प्रकुरुते राजा तान्स्तान् लोकानुवर्तते ॥ २०३॥

न दुर्लभाः पार्थिवानां स्त्र्यर्थमाज्ञाकृताः गुणाः ।
दाक्षिण्यात्तु समुद्भूतः कामो रतिकरो भवेत् ॥ २०४॥

बहुमानेन देवीनां वल्लभानां भयेन च ।
प्रच्छन्नकामितं राज्ञा कार्यं परिजनं प्रति ॥ २०५॥

यद्यप्यस्ति नरेन्द्राणां कामतन्त्रमनेकधा ।
प्रच्छन्नाकामितं यत्तु तद्वै रतिकरं भवेत् ॥ २०६॥

यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते ।
दुर्लभत्वं च यन्नार्याः सा कामस्य परा रतिः ॥ २०७॥

राज्ञामन्तःपुरजने दिवासम्भोग इष्यते ।
वासोअपचारो यश्चैअषां स रात्रौ परिकीर्तितः ॥ २०८॥

परिपाट्यां फलार्थे वा नवे प्रसव एव वा ।
दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ॥ २०९॥

उचिते वासके स्त्रीनामृतुकालेऽपि वा नृपैः ।
प्रेष्याणामथवेष्टानां कार्यं चैवोपसर्पणम् ।२१०॥

तत्र वासकसज्जा च विरहोत्कण्ठितापि वा ।
स्वाधीनभर्तृका चापि कलहान्तरितापि वा ॥ २११॥

खण्डिता विप्रलब्धा वा तथा प्रोषितभर्तृका ।
तथाभिसारिका चैव ज्ञेयास्त्वष्टौ तु नयिकाः ॥ २१२॥

उचिते वासकए या तु रतिसम्भोगलालसा ।
मण्डनं कुरुते हृष्टा सा वै वासकसज्जिका ॥ २१३॥

अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः ।
तदनागतदुःखार्ता विरहोत्कण्ठिता तु सा ॥ २१४॥

सुरतातिरसैर्बद्धो यस्याः पार्श्वे तु नायकः ।
सान्द्रामोदगुणप्राप्ता भवेत् स्वाधीनभर्तृका ॥ २१५॥

ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः ।
सामर्षवशसम्प्राप्ता कलहान्तरिता भवेत् ॥ २१६॥

व्यासङ्गादुचिते यस्या वासके नागतः प्रियः ।
तदनागमदुःखार्ता खण्डिता सा प्रकीर्तिता ॥ २१७॥

यस्या दूतीं प्रियः प्रेष्य दत्त्वा सङ्केतमेव वा ।
नागतः कारणेनेह विप्रलब्धा तु सा भवेत् ॥ २१८॥

नानाकार्याणि सन्धाय यस्या वै प्रोषितः प्रियः ।
सारूढालककेशान्ता भवेत् प्रोषितभर्तृका ॥ २१९॥

हित्वा लज्जां तु या श्लिष्टा मदेन मदनेन च ।
अभिसारयते कान्तं सा भवेदभिसारिका ॥ २२०॥

आस्ववस्थासु विज्ञेया नायिका नाटकाश्रया ।
एतासां चैव वक्ष्यामि कामतन्त्रमनेकधा ॥ २२१॥

चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च ।
सखीभिः सह संलापैरात्मावस्थावलोकनैः ॥ २२२॥

ग्लानिदैन्याश्रुपातैश्च रोषस्यागमनेन च ।
निर्भूषणमृजात्वेन दुःखेन रुदितेन च ॥ २२३॥

खण्डिता विप्रलब्धा वा कलहान्तरितापि वा ।
तथा प्रोषितकान्ता च भावानेतान् प्रयोजयेत् ॥ २२४॥

विचित्रोज्ज्वलवेषा तु प्रमोदोद्योतितानना ।
उदीर्णशोभा च तथा कार्या स्वाधीनभर्तृका ॥ २२५॥

वेश्यायाः कुलजायायाश्च प्रेष्यायाश्च प्रयोक्तृभिः ।
एभिर्भावविशेषैस्तु कर्तव्यमभिसारणम् ॥ २२६॥

समदा मृदुचेष्टा च तथा परिजनावृता ।
नानाभरणचित्राङ्गी गच्छेद्वेश्याङ्गना शनैः ॥ २२७॥

संलीना स्वेषु गात्रेषु त्रस्ता विनमितानना ।
अवकुण्ठनसंविता हच्छेत्तु कुलजाङ्गना ॥ २२८॥

मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना ।
आविद्धगतिसञ्चारा गच्छेत्प्रेष्या समुद्धतम् ॥ २२९॥

गत्वा सा चेद्यदा तत्र पश्येत्सुप्तं प्रियं तदा ।
अनेन तूपचारेण तस्य कुर्यात्प्रबोधनम् ॥ २३०॥

अलङ्कारेण कुलजा वेश्या गन्धैस्तु शीतलैः ।
प्रेष्या तु वस्त्रव्यजनैः कुर्वीत प्रतिबोधनम् ॥ २३१॥

कुलाङ्गनानामेवायं नोक्तः कामाश्रयो विधिः ।
सर्वावस्थानुभाव्यं हि यस्माद्भवति नाटकम् ॥ २३२॥

नवकामप्रवृत्ताया क्रुद्धाया वा समागमे ।
सापदेशैरुपायैस्तु वासकं सम्प्रयोजयेत् ॥ २३३॥

नानालङ्करवस्त्राणि गन्धमाल्यानि चैव हि ।
प्रिययोजितभुक्तानि निषेवेत मुदान्वितः ॥ २३४॥

न तथा भवति मनुष्यो मदनवशः कामिनीमलभमानः ।
द्विगुणोपजातहर्षो भवति यथ सङ्गतः प्रियया ॥ २३५॥

विलासभावेङ्गितवाक्यलीलामाधुर्यविस्तारगुणोपपन्नः ।
परस्परप्रेमनिरीक्षितेन समागमः कामकृतस्तु कार्यः ॥ २३६॥

ततः प्रवृत्ते मदने उपचारसमुद्भवे ।
वासोपचारः कर्तव्यो नायकागमनं प्रति ॥ २३७॥

गन्धमाल्ये गृहीत्वा तु चूर्णवासस्तथैव च ।
आदर्शो लीलया गृह्यश्छन्दतो वा पुनः पुनः ॥ २३८॥

वासोपचारे नात्यर्थं भूषणग्रहणं भवेत् ।
रशनानूपुरप्रायं स्वनवच्च प्रशस्यते ॥ २३९॥

नाम्बरग्रहणं रङ्गे न स्नानं न विलेपनम् ।
नाञ्जनं नाङ्गरागश्च केशसंयमनं तथा ॥ १४०॥

नाप्रावृत्ता नैकवस्त्रा न रागमधरस्य तु ।
उत्तमा मध्यमा वापि कुर्वीत प्रमदा क्वचित् ॥ २४१॥

अधमानां भवेदेष सर्व एव विधिः सदा ।
कारणान्तरमासाद्य तस्मादपि न कारयेत् ॥ २४२॥

प्रेष्यादीनां च नारीणां नराणां वापि नाटके ।
भूषणग्रहणं कार्यं पुष्पग्रहणमेव च ॥ २४३॥

गृहीतमण्डना चापि प्रतीक्षेत प्रियागमम् ।
लीलया मण्डितं वेषं कुर्याद्यन्न विरुध्यते ॥ २४४॥

विधिवद्वासकं कुर्यान्नायिका नायकागमे ।
प्रतीक्षमाणा च ततो नालिकाशब्दमादिशेत् ॥ २४५॥

श्रुत्वा तु नालिकाशब्दं नायकागमविक्लवा ।
विषण्णा वेपमाना च गच्छेत्तोरणमेव च ॥ २४६॥

तोरणं वामहस्तेन कवाटं दक्षिणेन च ।
गृहीत्वा तोरणाश्लिष्टा सम्प्रतीक्षेत नायकम् ॥ २४७॥

शङ्कां चिन्तां भयं चैव प्रकुर्यात्तोरणाश्रिता ।
अदृष्ट्वा रमणं नारी विषण्णा च क्षणं भवेत् ॥ २४८॥

दीर्घं चैव विनिःश्वस्य नयनाम्बु निपातयेत् ।
सन्नं च हृदयं कृत्वा विसृजेतदङ्गमासने ॥ २४९॥

व्याक्षेपाद्विमृशेच्चापि नायकागमनं प्रति ।
तैस्तैर्विचारणोपायैः शुभाशुभसमुत्थितैः ॥ २५०॥

गुरुकार्येण मित्रैर्वा मन्त्रिणा राज्यचिन्तया ।
अनुबद्धः प्रियं किं नु वृतो वल्लभयापि वा ॥ २५१॥

उत्पातान्निर्दिशेच्चापि शुभाशुभसमुत्थितान् ।
निमितैरात्मसंस्थैस्तु स्फुरितैः स्पन्दिअतैस्तथा ॥ २५२॥

शोभनेषु तु कार्येषु निमित्तं वामतः स्त्रियाः ।
अनिष्टेष्वथ सर्वेषु निमित्तं दक्षिणं भवेत् ॥ २५३॥

सव्यं नेत्रं ललाटं च भ्रूनासोष्ठं तथैव च ।
उरुबाहुस्तनं चैव स्फुरेद्यदि समागमः ॥ २५४॥

एतेषमन्यथाभावे दुर्निमित्तं विनिर्दिशेत् ।
दर्शने दुर्निमित्तस्य मोहं गच्छेत्क्षणं ततः ॥ २५५॥

अनागमे नायकस्य कार्यो गण्डाश्रयः करः ।
भूषणे चाप्यवज्ञानं रोदनं च समाचरेत् ॥ २५६॥

अथ चेच्छोभनं तत्स्यान्निमित्तं नायकागमे ।
सूच्यो नायिकयासन्नो गन्धाघ्राणेन नायकः ॥ २५७॥

दृष्ट्वा चोत्थाय संहृष्टा प्रत्युद्गच्छेद्यथाविधि ।
ततः कान्तं निरीक्षेत प्रहर्षोत्फुल्ललोचना ॥ २५८॥

सखीस्कन्धार्पितकरा कृत्वा स्थानकमायतम् ।
दर्शयेत ततः कान्तं सचिह्नं सरसव्रणम् ॥ १५९॥

यदि स्यादपराद्धस्तु कृतैस्तैस्तैरुपक्रमैः ।
उपालम्भकृअतैर्वाक्यैरुपालभ्यस्तु नायकः ॥ २६०॥

मानापमानसंमोहैरवहित्थभयक्रमैः ।
वचनस्य समुत्पत्तिः स्त्रीणामीर्ष्याकृता भवेत् ॥ २६१॥

विस्रम्भस्नेहरागेषु सन्देहे प्रणये तथा ।
परितोषे च घर्षे च दाक्षिण्याक्षेपविभ्रमे ॥ २६२॥

धर्मार्थकामयोगेषु प्रच्छन्नवचनेषु च ।
हास्ये कुतूहले चैव सम्भ्रमे व्यसने तथा ॥ २६३॥

स्त्रीपुंसयोः क्रोधकृते पृथङ्मिश्रे तथापि वा ।
अनाभाष्योऽपि सम्भाष्यः प्रिय एभिस्तु कारणैः ॥ २६४॥

यत्र स्नेहो भवेत्तत्र हीर्ष्या मदनसम्भवा ।
चतस्रो योनयस्तस्याः कीर्त्यमाना निबोधत ॥ २६५॥

वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च ।
एतेषां सम्प्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ २६६॥

निद्राखेदालसगतिं सचिह्नं सरसव्रणम् ।
एवविधं प्रियं दृष्ट्वा वैमनस्यं भवेत् स्त्रियाः ॥ २६७॥

निद्राभ्यसूयितावेक्षणेन रोषप्रकम्पमानाङ्ग्या ।
साध्विति सुष्ठ्विति वचनैः शोभत इत्येवमभिनेयम् ॥ २६८॥

बहुधा वार्यमाणोऽपि यस्तस्मिन्नेव दृश्यते ।
सङ्घर्षमत्सरात्तत्र व्यलीकं जायते स्त्रियाः ॥ २६९॥

कृत्वोरसि वामकरं दक्षिणहस्तं तथा विधुन्वन्त्या ।
चरणविनिष्ठम्भेन च कार्योऽभिनयो व्यलीके तु ॥ २७०॥

जीवन्त्या त्वयि जीवामि दासोऽहं त्वं च मे प्रिया ।
उक्त्वैवं योऽन्यथा कुर्याद्विप्रियं तत्र जायते ॥ २७१॥

दूतीलेखप्रतिवचनभेदनैः क्रोधहसितरुदितैश्च ।
विप्रियकरणेऽभिनयः सशिरःकम्पैश्च कर्तव्यः ॥ २७२॥

प्रतिपक्षसकाशात्तु यः सौभाग्यविकत्थनः ।
उपसर्पेत् सचिन्ह्नस्तु मन्युस्तत्रोपजायते ॥ २७३॥

वलयपरिवर्तनैरथ सुशिथलमुत्क्षेपेणेन रशनायाः ।
मन्युस्त्वभिनेतव्यः सशङ्कितं बाष्पपूर्णाक्ष्या ॥ २७४॥

दृष्ट्वा स्थितं प्रियतमं सशङ्कितं सापराधमतिलज्जम् ।
ईर्ष्यावचनसमुत्थैः खेदयितव्यो ह्युपालम्भैः ॥ २७५॥

न च निष्ठुरमभिभाष्यो न चाप्यतिक्रोधनस्तु परिहासः ।
बाष्पोन्मिश्रैर्वचनैरात्मोपन्याससंयुक्तैः ॥ २७६॥

मध्याङ्गुल्यङ्गुष्ठाग्रविच्यवात्पाणिनोरसि कृतेन ।
उद्वर्तितनेत्रतया प्रततैरभिवीक्षणैश्चापि ॥ २७७॥

कटिहस्तविवर्तनया विच्छिन्नतया तथाञ्जलेः करणात् ।
मूर्धभ्रमणनिहञ्चितनिपातसंश्लेअष्णाच्चापि ॥ २७८॥

अवहित्थवीक्षणाद्वा अङ्गुलिभङ्गेन तर्जनैललितैः ।
एभिर्भावविशेषैरनुनयनेष्वभिनयः कार्यः ॥ २७९॥

शोभसे साधु दृष्टोऽसि गच्छ त्वं किंं विलम्बसे ।
मा मां स्प्राक्षीः प्रिया यत्र तत्र या ते हृदि स्थिता ॥ २८०॥

गच्छेत्युक्त्वा परावृत्य विनिवृत्तान्तरेण तु ।
केनचिद्वचनार्थेन प्रहर्षं योजयेत्पुनः ॥ २८१॥

रभसग्रहणाच्चापि हस्ते वस्त्रे च मूर्धनि ।
कार्यं प्रसादनं नार्या ह्यपराधं समीक्ष्य तु ॥ २८२॥

हस्ते वस्त्रेऽथ केशान्ते नार्याप्यथ गृहीतया ।
कान्तमेवोपसर्पन्त्या कर्तव्यं मोक्षणं शनैः ॥ २८३॥

गृहीतायाथ केशान्ते हस्ते वस्त्रेऽथवा पुनः ।
हुं मुञ्चेत्युपसर्पन्त्या वाच्यः स्पर्शालसं प्रियः ॥ २८४॥

पादाग्रस्थितया नार्या किञ्चित्कुट्टमितोत्कटम् ।
अश्वक्रान्तेन कर्तव्यं केशानां मोक्षणं शनैः ॥ २८५॥

अमुच्यमाने केशान्ते सञ्जातस्वेदलेशया ।
हं हु मुञ्चापसर्पेति वाच्यः स्पर्शालसाङ्गया ॥ २८६॥

गच्छेति रोषवाक्येन गत्वा प्रतिनिवृत्य च ।
केनचिद्वचनार्थेन वाच्यं यास्यसि नेति च ॥ २८७॥

विधूननेन हस्तेन हुङ्कारं सम्प्रयोजयेत् ।
स चावधूनने कार्यः शपथैर्व्याज एव च ॥ २८८॥

अक्ष्णोः संवरणे कार्यं पृष्ठतश्चोपगूहनम् ।
नार्यास्त्वपहृते वस्त्रे दीपच्छादनमेव च ॥ २८९॥

तावत् खेदयितव्यस्तु यावत्पादगतो भवेत् ।
ततश्चरणयोर्याते कुर्याद्दूतीनिरीक्षणम् ॥ २९०॥

उत्थाप्यालिङ्गयेच्चैव नायिका नायकं ततः ।
रतिभोगगता हृष्टा शयनाभिमुखी व्रजेत् ॥ २९१॥

एतद्गीतविधानेन सुकुमारेण योजयेत् ।
यदा शृङ्गारसंयुक्तं रतिसम्भोगकारणम् ॥ २९२॥

यदा चाकाशपुरुषपरस्थवचनाश्रयम् ।
भवेत्काव्यं तदा ह्येष कर्तव्योऽभिनयः स्त्रिया ॥ २९३॥

यदन्तपुरसम्बन्धं कार्यं भवति नाटके ।
शृङ्गाररससंयुक्तं तत्राप्येष विधिर्भवेत्॥ २९४॥

न कार्यं शयनं रङ्गे नाट्यधर्मं विजानता ।
केनचिद्वचनार्थेन अङ्कच्छेदो विधीयते ॥ २९५॥

यद्वा शयीतार्थवशादेकाकी सहितोऽपि वा ।
चुम्बनालिङ्गनं चैव तथ गुह्यं च यद्भवेत् ॥ २९६॥

दन्तच्छेद्यं नखच्छेद्यं नीवीस्रंसनमेव च ।
स्तनान्तरविमर्दं च रङ्गमध्ये न कारयेत् ॥ २९७॥

भोजनं सलिलक्रीडा तथा लज्जाकरं च यत् ।
एवंविधं भवेद्यद्यत्तत्तद्रङ्गे न कारयेत् ॥ २९८॥

पितापुत्रस्नुषाश्वश्रूदृश्यं यस्मात्तु नाटकम् ।
तस्मादेतानि सर्वाणि वर्जनीयानि यत्नतः ॥ २९९॥

वाक्यैः सातिशयैः श्रव्यैर्मधुरैर्नातिनिष्ठुरैः ।
हितोपदेशसंयुक्तैस्तज्ज्ञः कुर्यात्तु नाटकम् ॥ ३००॥

एवमन्तःपुरकृतः कार्यस्त्वभिनयो बुधः ।
समागमेऽथ नारीणां वाच्यानि मदनाश्रये ॥ ३०१॥

प्रियेषु वचनानीह यानि तानि निबोधत ।
प्रिअयः कान्तो विनीतश्च नाथः स्वाम्यथ जीवितम् ॥ ३०२॥

नन्दनश्चेत्यभिप्रीते वचनानि भवन्ति हि ।
दुःशीलोऽथ दुराचारः शठो वामो विकत्थनः ॥ ३०३॥

निर्लज्जो निष्ठुरश्चैअव प्रियः क्रोधेऽभिधीयते ।
यो विप्रियं न कुरुते न चायुक्तं प्रभाषते ॥ ३०४॥

तथार्जवसमाचारः स प्रियस्त्वभिधीयते ।
अन्यनारीसमुद्भूतं चिह्नं यस्य न दृष्यते ॥ ३०५॥

अधरे वा शरीरे वा स कान्त इति भाष्यते ।
सङ्क्रुद्धेऽपि हि यो नार्या नोत्तरं प्रतिपद्यते ॥ ३०६॥

परुषं वा न वदति विनीतः साऽभिधीयते ।
हितैषी रक्षणे शक्तो न मानी न च मत्सरी ॥ ३०७॥

सर्वकार्येष्वसंमूढः स नाथ इति सन्ज्ञितः ।
सामदानार्थसम्भोगैस्तथा लालनपालनैः ॥ ३०८॥

नारीं निषेवते यस्तु स स्वामीत्यभिधीयते ।
नारीप्सितैरभिप्रायैर्निपुणं शयनक्रियाम् ॥ ३०९॥

करोति यस्तु सम्भोगे स जीवितमिति स्मृतः ।
कुलीनो धृतिमान्दक्षो दक्षिणो वाग्विशारदः ॥ ३१०॥

श्लाघनीयः सखीमध्ये नन्दनः सोऽभिधीयते ।
एते वचनविन्यासा रतिप्रीतिकराः स्मृताः ॥ ३११॥

तथा चाप्रीतिवाक्यानि गदतो मे निबोधत ।
निष्ठुरश्चाहिष्णुश्च मानि धृष्टो विकत्थनः ॥ ३१२॥

अनवस्थितचित्तश्च दुःशील इति स स्मृतः ।
ताडनं बन्धनं चापि यो विमृश्य समाचरेत् ॥ ३१३॥

तथा परुषवाक्यश्च दुराचारः स तन्यते ।
वाचैअव मधुरो यस्तु कर्मण नोपपादकः ॥ ३१४॥

योषितः किञ्चिदप्यर्थं स शठः परिभाष्यते ।
वार्यते यत्र यत्रार्थे तत्तदेव करोति यः ॥ ३१५॥

विपरीतनिवेशी च स वाम इति सन्ज्ञितः ।
सरसव्रणचिह्नो यः स्त्रीसौभाग्यविकत्थनः ॥ ३१६॥

अतिमानी तथा स्तब्धो विकत्थन इति स्मृतः ।
वार्यमाणो दृढतरं यो नारीमुपसर्पति ॥ ३१७॥

सचिह्नाः सापराधश्च स निर्लज्ज इति स्मृतः ।
योऽपराद्धस्तु सहसा नारीं सेवितुमिच्छति ॥ ३१८॥

अप्रसादनबुद्धिश्च निष्ठुरः सोऽभिधीयते ।
एते वचनविन्यासाः प्रियाप्रियविभाषिताः ॥ ३१९॥

नर्तकीसंश्रिताः कार्या बहवोऽन्येऽपि नाटके ।
एष गीतविधाने तु सुकुमारे विधिर्भवेत् ॥ ३२०॥

शृङ्गाररससम्भूतो रतिसम्भोगखेदनः ।
यच्चैवाकाशपुरुषं परस्थवचनाश्रयम् ॥ ३२१॥

शृङ्गार एवं वाच्यं स्यात्तत्राप्येष क्रमो भवेत् ।
यद्वा पुरुसम्बन्धं कार्यं भवति नाटके ॥ ३२२॥

शृङ्गाररससंयुक्तं तत्राप्येष क्रमो भवेत् ।
एवमन्तःपुरगतः प्रयोज्योऽभिनयो भवेत् ॥ ३२३॥

दिव्याङ्गनानां तु विधिं व्याख्यास्यम्यनुपूर्वशः ।
नित्यमेवोज्वलो वेषो नित्यं प्रमुदितं मनः ॥ ३२४॥

नित्यमेव सुखः कालो देवानां ललिताश्रयः ।
न चैर्ष्या नैव च क्रोधो नासूया न प्रसादनम् ॥ ३२५॥

दिव्यानां दृष्यते पुंसां शृङ्गारे योषितां तथा ।
ये भावा मानुषाणां स्युर्यदङ्गं यच्च चेष्टितम् ॥३२६॥

सर्वं तदेव कर्तव्यं दिव्यैर्मानुषसङ्गमे ।
यदा मानुषसम्भोगो दिव्यानां योषितां भवत् ॥ ३२७॥

तदा सर्वाः प्रकर्तव्या ये भावा मानुषाश्रयाः ।
शापभ्रंशात्तु दिव्यानां तथा चापत्यलिप्सया ॥ ३२८॥

कार्यो मानुषसंयोगः शृङ्गाररससंश्रयः ।
पुष्पैर्भूषणजैः शब्दैरदृश्यापि प्रलोभयेत् ॥ ३२९॥

पुनः सन्दर्शनं दत्त्वा क्षणादन्तरिता भवेत् ।
वस्त्राभरणमाल्याद्यैर्लेखसम्प्रेषणैरपि ॥ ३३०॥

ईदृशैरुपचारैस्तु समुन्माद्यस्तु नायकः ।
उन्मादनात्समुद्भूतः कामो रतिकरो भवेत् ॥ ३३१॥

स्वभावोपगतो यस्तु नासावत्यर्थभाविकः ।
एवं राजोपचारो हि कर्तव्योऽभ्यन्तराश्रयः ॥ ३३२॥

बाह्यमप्युपचारं तु प्रवक्ष्याम्यथ वैशिके ।
इति भारतीये नाट्यशास्त्रे सामान्याभिनयो नामाध्यायो द्वाविंशः ॥

वर्गः:नाट्यशास्त्रम्

Page is sourced from

sa.wikisource.org नाट्यशास्त्रम्/अध्यायः २२