नाट्यशास्त्रम्/अध्यायः २१

From HinduismPedia
Jump to navigation Jump to search

Template:नाट्यशास्त्रम्

॥ नाट्यशास्त्रम् अध्याय २१ ॥

      ॥ श्रीरस्तु ॥

भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ एकविंशोऽध्यायः ।
आहार्याभिनयं विप्रा व्याख्यास्याम्यनुपूर्वशः ।
य्स्मात् प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः ॥ १॥

नानावस्था प्रकृतय पूर्वं नैपथ्यसाधिताः ।
अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः ॥ २॥

आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः ।
तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता ॥ ३॥

[तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता ।
नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीर्तितम् ॥] ॥ ४॥

चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च ।
तथाङ्करचना चैव ज्ञेयं सज्जीवमेव च ॥ ५॥

पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः ।
सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः ॥ ६॥

किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः ।
सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंस्श्रयः ॥ ७॥

व्याजिमो नाम विज्ञेअयो यन्त्रेण क्रियते तु यः ।
वेष्ट्यते चैव यद्रुपं वेष्टिमः स तु सन्ज्ञितः ॥ ८॥

शैलयानविमानानि चर्मवर्मध्वजा नगाः ।
ये क्रियन्ते हि नाट्ये तु स पुस्त इति सन्ज्ञितः ॥ ९॥

अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् ।
नानाविधः समायोगोऽप्यङ्गोपाङ्गविधिः स्मृतः ॥ १०॥

वेष्टिमं विततं चैव सङ्घात्यं ग्रन्थिमं तथा ।
प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥११॥

चतुर्विधं तु विज्ञेयं नाट्ये ह्याभरणं बुधैः ।
आवेध्यं बन्धनीयं च क्षेप्यमारोप्यमेव च ॥ १२॥

आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम् ।
आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥ १३॥

श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा ।
प्रक्षेप्य नूपुरं विद्याद्वस्त्राभरणमेव च ॥ १४॥

भूषणानां विकल्पं हि पुरुषस्त्रीसमाश्रयम् ।
नाविधं प्रवक्ष्यामि देशजातिसमुद्भवम् ॥१५॥

चूडामणिः समुकुटः शिरसो भूषणं स्मृतम् ।
कुण्डलं मोचकं कीला कर्णाभरणमिष्यते ॥ १६॥

मुक्तावली हर्षकं च सूत्रकं कण्ठभूषणम् ।
वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिविभूषणम् ॥१७॥

हस्तली वलयं चैव बाहुनालीविभूषणम् ।
रुचकश्चूलिका कार्या मणिबन्धविभूषणम् ॥ १८॥

केयूरे अङ्गदे चैव कूर्परोपरिभूषणे ।
त्रिसरश्चैव हारश्च तथा वक्षोविभूषणम् ॥ १९॥

व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् ।
तलकं सूत्रकं चैव भवेत्कटिविभूषणम् ॥ २०॥

अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः ।
देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् ॥ २१॥

शिखापाशं शिखाव्यालं पिण्डीपत्रं तथैव च ।
चूडामणिर्मकरिका मुक्ताजालगवाक्षिकम् ॥२२॥

शिरसो भूषणं चैव विचित्रं शीर्षजोलकम् ।
कण्डकं शिखिपत्रं च वेणीपुच्छः सदोरकः ॥ २३॥

ललाटतिलकं चैव नानाशिल्पप्रयोजितम् ।
भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा ॥ २४॥

कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका ।
कुण्डलं कर्णमुद्रा च कर्णोत्कीलकमेव च ॥ २५॥

नानारत्नविचित्राणि दन्तपत्राणि चैव हि ।
कर्णयोर्भूषणं ह्येतत्कर्णपूरस्तथैव च ॥ २६॥

तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् ।
त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् ॥ २७॥

नेत्रयोरञ्जनं ज्ञेयमधरस्य च रञ्जनम् ।
दन्तानां विविधो रागश्चतुर्णां शुक्लतापि वा ॥ २८॥

रागान्तरविकल्पोऽथ शोभनेनाधिकोज्वलः ।
मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः ॥ २९॥

सुरक्ता वापि दन्ता स्युःः पद्मपल्लवरञ्जनाः ।
अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः ॥ ३०॥

विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम् ।
मुक्तावली व्यालपङ्क्तिर्मञ्जरी रत्नमालिका ॥ ३१॥

रत्नावली सूत्रकं च ज्ञेयं कण्ठविभूषणम् ।
द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ॥३२॥

तथा शृङ्खलिका चैव भवेत्कण्ठविभूषणम् ।
अङ्गदं वलयं चैव बाहुमूलविभूषणम् ॥ ३३॥

नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम् ।
मणिजालावनद्धं च भवेत् स्तनविभूषणम् ॥ ३४॥

खर्जूरकं सोच्छितिकं बाहुनालीविभूषणम् ।
कलापी कटकं शङ्खो हस्तपत्रं सपूरकम् ॥ ३५॥

मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम् ।
मुक्ताजालाढ्यतलकं मेखला काञ्चिकापि वा ॥ ३६॥

रशना च कलापश्च भवेच्छ्रोणीविभूषणम् ।
एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका ॥ ३७॥

द्विरष्टयष्टि रशना कलापः पञ्चविंशकः ।
द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा ॥ ३८॥

मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् ।
नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ॥३९॥

सघोषे कटके चैव गुल्फोपरिविभूषाणम् ।
जङ्घयोः पादपत्रं स्यादङ्गुलीष्वङ्गुलीयकम् ॥ ४०॥

अङ्गुष्ठतिलकाश्चैव पादयोश्च विभूषणम् ।
तथालक्तकरागश्च नानाभक्तिनिवेशितः ॥ ४१॥

अशोकपलावच्छायः स्यात् स्वाभाविक एव च ।
एतद्विभूषणं नार्या आकेशादानखादपि ॥ ४२॥

यथाभवरसावस्थं विज्ञेयं द्विजसत्तमाः ।
आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा ॥ ४३॥

विश्वकर्ममतात्कार्यं सुबुद्ध्यापि प्रयोक्तृभिः ।
न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा ॥ ४४॥

स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् ।
विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् ॥ ४५॥

यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् ।
न तु नाट्यप्रयोगेषु कर्तव्यं भूषणं गुरु ॥ ४६॥

खेदं जनयते तद्धि सव्यायतविचेष्टनात् ।
गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ ४७॥

गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः ।
तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् ॥ ४८॥

रत्नवज्जतुबद्धं वा न खेदजननं भवेत् ।
स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते ॥ ४९॥

यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् ।
[वेष्टितं विततं चैव सङ्घात्यं ग्रथिमं तथ ॥ ५०॥

लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् ।
आच्छादनं बहुविधं नानापत्तनसम्भवम् ॥ ५१॥

तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम्] ।
दिव्यानां भूषणविधिर्य एष परिकीर्तितः ॥ ५२॥

मानुषाणां तु कर्तव्यो नानादेशसमाश्रयः ।
भूषणैश्चापि वेषैश्च नानावस्थासमाश्रयैः ॥ ५३॥

दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा ।
विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् ॥ ५४॥

ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते ।
तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् ॥ ५५॥

दिव्यानां नरनारीणां तथैव च शिखण्डकम् ।
शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् ॥ ५६॥

विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः ।
यक्षिण्योऽप्सरश्चैव कर्या रत्नविभूषणाः ॥ ५७॥

समस्तानां भवेद्वेषो यक्षीणा केवलं शिखा ।
दिव्यनामिव कर्तव्यं नागस्त्रीणां विभूषणम् ॥ ५८॥

मुक्तामणिलताप्रायाः फणास्तासां तु केवलाः ।
कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः ॥ ५९॥

न चापि विभूषणविधिस्तासां वेषो वनोचितः ।
मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् ॥ ६०॥

तासां तु चैव कर्तव्यं पीतवस्त्रपरिच्छदम् ।
पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् ॥ ६१॥

वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा ।
इन्द्रनीलैस्तु कर्तव्यं राक्षसीणां विभूषणम् ॥ ६२॥

सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम् ।
वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् ॥ ६३॥

शुकपिञ्छनिभैअर्वस्त्रैः कार्यस्तासां परिच्छदः ।
पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः ॥ ६४॥

दिव्यवानरनारीणां कार्यो नीलपरिच्छदः ।
एवं शृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः ॥ ६५॥

अवस्थान्तमासाद्य शुद्धाः कार्याः पुनस्तथा ।
मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः ॥ ६६॥

वेषाभरणसंयोगान् गदतस्तान्निबोधत ।
आवन्त्ययुवतीनां तु शिरस्सालककुन्तलम् ॥ ६७॥

गौडीयानामलकप्रायं सशिखापाशवेणिकम् ।
आभीरयुवतीनां तु द्विवेणीधर एव तु ॥ ६८॥

शिरः परिगमः कार्यो नीलप्रायमथाम्बरम् ।
तथा पूर्वोतरस्त्रीणां समुन्नद्धशिखण्डकम् ॥ ६९॥

आकेशाच्छादनं तासां देशकर्मणि कीर्तितम् ।
तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम् ॥ ७०॥

कुम्भीबन्धकसंयुक्तं तथावर्तललाटिकम् ।
[गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम्] ॥ ७१॥

देशजातिविधानेन शेषाणामपि कारयेत् ।
वेषं तथा चाभरणं क्षुरकर्म परिच्छदम् ॥ ७२॥

[आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्] ।
अदेशयुक्तो वेषो हि न शोभां जनयिष्यति ॥ ७३॥

मेखलोरसि बद्धा तु हास्यं समुपपादयेत् ।
तथा प्रोषितकान्तासु व्यसनाभिहतासु च ॥ ७४॥

वेषो वै मलिनः कार्य एकवेणीधरं शिरः ।
विप्रलम्भे तु नार्यास्तु शुद्धो वेषो भवेदिह ॥ ७५॥

नात्याभरणसंयुक्तो न चापि मृजयान्वितः ।
एवं स्त्रीणां भवेद्वेषो देशावस्थासमुद्भवः ॥ ७६॥

पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः ।
तत्राङ्करचना पूर्वं कर्तव्या नाट्ययोक्तृभिः ॥ ७७॥

ततः परं प्रयोक्तव्या वेषा देशसमुद्भवाः ।
सितो नीलश्च पीतश्च चतुर्थो रक्त एव च ॥ ७८॥

एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् ।
संयोगजाः पुनश्चान्ये उपवर्णा भवन्ति हि ॥७९॥

तानहं सम्प्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः ।
सितनीलसमायोगे कारण्डव इति स्मृतः ॥ ८०॥

सितपीतसामायोगात्पाण्डुवर्णः प्रकीर्तितः ।
सितिअरक्तसमायोगे पद्मवर्णः प्रकीर्तितः ॥ ८१॥

पीतनीलसमायोगाद्धरितो नाम जायते ।
नीलरक्तसमायोगात्कषायो नाम जायते ॥ ८२॥

रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः ।
एते संयोगजा वर्णा ह्युपवर्णास्तथापरे ॥ ८३॥

त्रिचतुर्वर्णसंयुक्ता बहवः सम्प्रकीर्तिताः ।
बलस्थो यो भवेद्वर्णस्तस्य भागो भवेत्ततः ॥ ८४॥

दुर्बलस्य च भागौ द्वौ नीलं मुक्त्वा प्रदापयेत् ।
नीलस्यैको भवेद्भागश्चत्वारोऽन्ये तु वर्णके ॥ ८५॥

बलवान्सर्ववर्णानां नील एव प्रकीर्तितः ।
एवं वर्णविधिं ज्ञात्वा नानासंयोगसंश्रयम् ॥ ८६॥

ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः ।
वर्तनच्छादनं रूपं स्ववेषपरिवर्जितम् ॥ ८७॥

नाट्यधर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् ।
स्ववर्णमात्मनश्छाद्यं वर्णकैर्वेषसंश्रयैः ॥ ८८॥

आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता ।
यथा जन्तुः स्वभावं स्वं परित्यज्यान्यदैहिकम् ॥८९॥

तत्स्वभावं हि भजते देहान्तरमुपाश्रितः ।
वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा ॥ ९०॥

परभावं प्रकुरुते यस्य वेषं समाश्रितः ।
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ ९१॥

प्राणिसन्ज्ञाः स्मृता ह्येते जीवबन्धाश्च येऽपरे ।
[स्त्रीभावाः पर्वताः नद्यः समुद्रा वाहनानि च ॥ ९२॥

नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसन्ज्ञया] ।
शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा ॥ ९३॥

नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः ।
अथवा कारणोपेता भवन्त्येते शरीरिणः ॥ ९४॥

वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु ।
वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च ॥ ९५॥

कुर्यादङ्गस्य रचनां देशजातिवयःश्रितताम् ।
देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरस्तथा ॥ ९६॥

रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः ।
सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः ॥ ९७॥

समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा ।
रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ ॥ ९८॥

नारायणो नरश्चैव श्यामो नागश्च वासुकिः ।
दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः ॥ ९९॥

पिशाचा जलमाकाशमसितानि तु वर्णतः ।
भवन्ति षट्सु द्वीपेषु पुरुषश्चैव वर्णतः ॥ १००॥

कर्तव्या नाट्ययोगेन निष्टप्तकनकप्रभाः ।
जाम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः ॥ १०१॥

उत्तरांस्तु कुरुस्त्यक्त्वा ते चापि कनकप्रभाः ।
भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा ॥ १०२॥

केतुमाले नरा नीला गौराः शेषेषु कीर्तिताः ।
नानावर्णाः स्मृता भूता गन्धर्वा यक्षपन्नगाः ॥ १०३॥

विद्याधरास्तथा चैव पितरस्तु समा नराः ।
पुनश्च भारते वर्षे तांस्तान्वर्णान्निबोधत ॥ १०४॥

राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च ।
ये चापि सुखिनो मर्त्या गौरा कार्यास्तु वैः बुधैः ॥ १०५॥

कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः ।
आयस्तकर्मिणश्चैव ह्यसिताश्च कुजातयः ॥ १०६॥

ऋष्ययश्चैव कर्तव्या नित्यं तु बदरप्रभाः ।
तपःस्थिताश्च ऋषयो नित्यामेवासिता बुधैः ॥ १०७॥

कारणव्यपदेशेन तथा चात्मेच्छया पुनः ।
वर्णस्तत्र प्रकर्तव्यो देशजतिवशानुगः ॥ १०८॥

देशं कर्म च जातिं च पृथिव्युद्देशसंश्रयम् ।
विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः ॥ १०९॥

किरातबर्बरान्ध्राश्च द्रविडाः काशिकोसलाः ।
पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः ॥ ११०॥

शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये ।
प्रायेण गौराः कर्तव्या उत्तरा ये श्रिता दिशम् ॥ १११॥

पाञ्चालाः शौरसेनाश्च माहिषाश्चौड्रमागधाः ।
अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः ॥ ११२॥

ब्राह्मणाः क्षत्रियाश्चैव गौराः कार्यास्तथैव हि ।
वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः ॥ ११३॥

एवं कृत्वा यथान्यायं मुखाङ्गोपाङ्गवर्तनाम् ।
श्मश्रुकर्म प्रयुञ्जीत देशकालवयोऽनुगम् ॥११४॥

शुद्धं विचित्रं श्यामं च तथा रोमशमेव च ।
भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् ॥ ११५॥

शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् ।
मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ॥ ११६॥

दिव्या ये पुरुषाः केचित्सिद्धविद्याधरादयः ।
पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः ॥ ११७॥

शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च ये ।
तेषां विचित्रं कर्तव्यं श्मश्रु नाट्यप्रयोक्तृभिः ॥ ११८॥

अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् ।
व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत् ॥ ११९॥

ऋषीणां तापसानां च ये च दीर्घव्रता नराः ।
तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् ॥ १२०॥

एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः ।
अत ऊर्ध्वं प्रवक्ष्यामि वेषान्नानाप्रयोगजान् ॥ १२१॥

शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते ।
तेषां नियोगं वक्ष्यामि यथावदनुपूर्वशः ॥ १२२॥

देवाभिगमने चैव मङ्गले नियमस्थिते ।
तिथिनक्षत्रयोगे च विवाहकरणे तथा ॥ १२३॥

धर्मप्रवृत्तं यत्कर्म स्त्रियो वा पुरुषस्य वा ।
वेषस्तेषां भवेच्छुद्धो ये च प्रायत्निका नराः ॥ १२४॥

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
नृपाणां कर्कशानां च चित्रो वेष उदाहृतः ॥ १२५॥

वृद्धानां ब्राह्मणानां च श्रेष्ठ्यमात्यपुरोधसाम् ।
वणिजां काञ्चुकीयानां तथा चैव तपस्विनाम् ॥ १२६॥

विप्रक्षेत्रियवैश्यानां स्थानीया ये च मानवाः ।
शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः ॥ १२७॥

उन्मत्तानां प्रमत्तानामध्वगानां तथैव च ।
व्यसनोपहतानां च मलिनो वेष उच्यते ॥ १२८॥

शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि च ।
योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः ॥ १२९॥

कुर्याद्वेषे तु मलिने मलिनं तु विचक्षणः ।
मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च ॥ १३०॥

व्रतानुगस्तु कर्तव्यो वेषो लोकस्वभावतः ।
चीरवल्कलचर्माणि तापसानां तु योजयेत् ॥ १३१॥

परिवाण्मुनिष्क्यानां वासः काषायमिष्यते ।
नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ ॥ १३२॥

कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः ।
अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः ॥ १३३॥

काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि ।
अवस्थानतरतश्चैव नृणां वेषो भवेदथ ॥ १३४॥

वेषः साङ्ग्रामिकश्चैव शूराणां सम्प्रकीर्तितः ।
विचित्रशस्त्रकवचो बद्धतूणो धनुर्धरः ॥ १३५॥

चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च ।
केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले ॥ १३६॥

एवमेष भवेद्वेषो देशजातिवयोऽनुगः ।
उत्तमाधममध्यानां स्त्रीणां नृणामथापि च ॥ १३७॥

एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये ।
नानावस्थां समासाद्य शुभाशुभकृतस्तथा ॥ १३८॥

तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् ।
दिव्यानां मानुषाणां च देशजातिवयःश्रितम् ॥ १३९॥

पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः ।
त्रिविधो मुकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः ॥ १४०॥

देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् ।
कर्तव्या नैकविहिअत मुकुटाः पार्श्वमौलयः ॥ १४१॥

उत्तमा ये च दिव्यानां ते च कार्याः किरीटिनः ।
मध्यमा मौलिनश्चैव कनिष्ठाः षिर्षमौलिनः ॥ १४२॥

नराधिपानां कर्तव्या मस्तके मुकुटा बुधैः ।
विद्याधराणां च सिद्धानां चारणानां तथैव च ॥ १४३॥

ग्रन्थिमत्केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः ।
राक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि ॥ १४४॥

हरिच्छ्श्मश्रूणि च तथा मुकुटास्यानि कारयेत् ।
उत्तमश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः ॥ १४५॥

कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्य्पार्थिवे ।
केशानां छेदनं दृष्टं वेदवादे यथाश्रुति ॥ १४६॥

भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया ।
केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् ॥ १४७॥

सेनापतेः पुनश्चापि युवराजस्य चैव हि ।
योजयेदर्धमुकुटं महामात्राश्च ये नराः ॥ १४८॥

अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् ।
वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥ १४९॥

पिशाचोन्मत्तभूतानां साधकानां तपस्विनाम् ।
अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः ॥ १५०॥

शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राड्दीक्षितेषु च ।
शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च ॥ १५१॥

तथा व्रतानुगं चैव शेषानां लिङ्गिनां शिरः ।
मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा ॥ १५२॥

धूर्तानां चैव कर्तव्यं ये च रात्र्युपजीविनः ।
शृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः ॥ १५३॥

बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् ।
जटामकुटबद्धं च मुनीनां तु भवेच्छिरः ॥ १५४॥

चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा ।
विदूषकस्य खलतिः स्यात्काकपदमेव वा ॥ १५५॥

शीषाणामर्थयोगेन देशजातिसमाश्रयम् ।
शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तराश्रयम् ॥ १५६॥

भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधि ।
एवं नानाप्रकारैस्तु बुद्ध्या वेषान्प्रकल्पयेत् ॥ १५७॥

पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसम्भवाम् ।
स्त्रीणां वा पुरुषाणां वाप्यवस्थां प्राप्य तादृशीम् ॥

१५८॥

सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः ।
तेषां चानिमिषत्वादि नैव कार्यं प्रयोक्तृभिः ॥ १५९॥

इह भावरसाश्चैव दृष्टिभिः सम्प्रतिष्ठिताः ।
दृष्ट्यैव स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते ॥ १६०॥

एवं ज्ञीयाङ्गरचना नानाप्रकृतिसम्भवा ।
सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ॥ १६१॥

यः प्राणिनां प्रवेशो वै सजीव इति सन्ज्ञितः ।
चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः ॥ १६२॥

उरगानपदान् विद्याद् द्विपदान्खगमानुषान् ।
ग्राम्या आरण्याः पशवो विज्ञेयाः स्युश्चतुष्पदाः ॥ १६३॥

ये ते तु यद्धसम्फेटैरुपरोधैस्तथैव च ।
नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः ॥ १६४॥

आयुधानि च कार्याणि पुरुषाणां प्रमाणतः ।
तान्यहं वर्तयिष्यामि यथापुस्तप्रमाणतः ॥ १६५॥

भिण्डिर्द्वादशतालः स्याद्दश कुन्तो भवेदथ ।
अष्टौ शतघ्नी शूलं च तोमरः शक्तिरेव वा ॥ १६६॥

अष्टौ ताला धनुर्ज्ञेयमायामोऽस्य द्विहस्तकः ।
शरो गदा च वज्रा च चतुस्तालं विधीयते ॥ १६७॥

अङ्गुलानि त्वसिः कार्यश्चत्वारिंशत्प्रमाणतः ।
द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते ॥ १६८॥

प्रासवत्पट्टसं विद्याद्दण्डश्चैव तु विंशतिः ।
विंशतिः कणयश्चैव ह्यङ्गुलानि प्रमाणतः ॥ १६९॥

शोडषाङ्गुलविस्तीर्णं सबलं सम्प्रघण्टिकम् ।
त्रिंशदङ्गुलिमानेन कर्तव्यं खेटकं बुधैः ॥ १७०॥

जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् ।
छत्रं चामरं चैव ध्वजो शृङ्गार एव च ॥ १७१॥

यत्किञ्चिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् ।
यच्चोपकरणं सर्वे नाट्ये तत्सम्प्रकीर्तितम् ॥ १७२॥

यद्यस्य विषयप्राप्तं तेनोह्यं तस्य लक्षणम् ।
जर्जरे दण्डकाष्ठे च सम्प्रवक्ष्यामि लक्षणम् ॥ १७३॥

माहेन्द्रा वै ध्वजाज़् प्रोक्ता लक्षणैर्विश्वकर्मणा ।
एषान्यतमं कुर्याज्जर्जरं दारुकर्मतः ॥ १७४॥

अथवा वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः ।
वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ॥१७५॥

श्वेतभूम्यां तु यो जातः पुष्यनक्षत्रजस्तथा ।
सङ्ग्राह्यो वै भवेद्वेणुर्जर्जरार्थे प्रयत्नतः ॥ १७६॥

प्रमाणमङ्गुलानां तु शतमष्टोत्तर<ं भवेत् ।
पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च ॥ १७७॥

स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् ।
न कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ॥ १७८॥

मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् ।
उपास्य विधिवद्वेणुं गृह्णियाज्जर्जरं प्रति ॥ १७९॥

यो विधिर्यः क्रमश्चैव माहेब्द्रे तु ध्वजे स्मृतः ।
स जर्जरस्य कर्तव्यः पुष्यवेणुसमाश्रयः ॥ १८०॥

भवेद्यो दीर्घपर्वा तु तनुपत्रस्तथैव च ।
पर्वाग्रतण्डुलश्चैव पुष्यवेणुः स कीर्तितः ॥ १८१॥

विधिरेष मया प्रोक्तो जर्जरस्य प्रमाणतज़्ः ।
अत ऊर्ध्वं प्रवक्ष्यामि दण्डकाष्ठस्य लक्षणम् ॥ १८२॥

कपित्थबिल्ववंशेभ्यो दण्डकाष्ठं भवेदथ ।
वक्रं चैव हि कर्तव्यं त्रिभागे लक्षणान्वितम् ॥ १८३॥

कीटैर्नोपहतं यच्च व्याधिना न च पीडितम् ।
मन्दशाखं भवेद्यच्च दण्डकाष्ठं तु तद्भवेत् ॥१८४॥

यस्त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजर्जरम् ।
कारयेत्स त्वपचयं महान्तं प्राप्नुयाद्‍ध्रुवम् ॥ १८५॥

अथ शीर्षविभागार्थं घटी कार्या प्रयत्नतः ।
स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै ॥ १८६॥

बिल्वमध्येन कर्तव्या घटी सिरसमाश्रया ।
स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता ॥ १८७॥

भस्मना वा तुषैर्वापि कारयेत्प्रतिशीर्षकम् ।
सञ्छाद्य तु ततो वस्त्रैर्बिल्वदुग्धैर्घटाश्रयैः ॥ १८८॥

बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् ।
न स्थूलां नानतां तन्वीं दीर्घां नैव च कारयेत्। ॥ १८९॥

तस्यामातपशुष्कायां सुशुष्कायामथापि वा ।
छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ १९०॥

सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च ।
स्वप्रमाणविनिर्दिष्टं ललाटकृतकोणकम् ॥ १९१॥

अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् ।
अर्धार्धमङ्गुलं छेद्यं कटयोर्द्व्यङ्गुलं भवेत् ॥ १९२॥

कटान्ते कर्णनालस्य छेद्यं द्व्यधिकमङ्गुलम् ।
त्र्यङ्गुलं कर्णविवरं तथा स्याच्छेद्यमेव हि ॥ १९३॥

ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला ।
घट्यां ह्येतत्सदा च्छेद्ये विधानं विहितं मया ॥ १९४॥

तस्योपरिगता कार्या मुकुटा बहुशिल्पजाः ।
नानारत्नप्रतिच्छन्ना बहुरूपोपशोभिताः ॥ १९४॥

तथोपकरणानीह नाट्ययोगकृतानि वै ।
बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति ॥ १९६॥

यत्किञ्चिदस्मिन् लोके तु चराचरसमन्विते ।
विहितं कर्म शिल्पं वा तत्तूपकरणं स्मृतम् ॥१९७॥

यद्यस्य विषयं प्राप्तं तत्तदेवाभिगच्छति ।
नास्तन्तः पुरुषाणां हि नाट्योपकरणाश्रये ॥ १९८॥

यद्येनोत्पादितं कर्म शिल्पयोगक्रियापि वा ।
तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा ॥ १९९॥

या काष्ठयन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना ।
न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ॥ २००॥

यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम् ।
तस्यानुकृतिसंस्थानं नाट्यूपकरणं भवेत् ॥ २०१॥

प्रासादगृहयानानि नानाप्रहरणानि च ।
न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः ॥ २०२॥

लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा ।
स्वभावो लोकधर्मी तु विभावो नाट्यमेव हि ॥ २०३॥

आयसं न तु कर्तव्यं न च सारमयं तथा ।
नाट्योपकरणं तज्ज्ञैर्गुरुखेदकर< भवेत् ॥ २०४॥

काष्ठचर्मसु वस्त्र्षु जतुवेणुदलेषु च ।
नाट्योपकरणानीह लघुकर्माणि कारयेत् ॥ २०५॥

चर्मवर्मध्वजाः शैलाः प्रासादा देवतागृहाः ।
हयवारणयानानि विमानानि गृहाणि च ॥ २०६॥

पूर्वं वेणुदलैः कृत्वा कृतीर्भावसमाश्रयाः ।
ततः सुरङ्गैरच्छाद्य वस्त्रैः सारूप्यमानयेत् ॥ २०७॥

अथवा यदि वस्त्राणामसान्निध्यं भवेदिह ।
तालीयैर्वा किलिञ्जैर्वा श्लक्ष्णैर्वस्त्रक्रिया भवेत् ॥ २०८॥

तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः ।
जन्तुभाण्डक्रियाभिश्च नानारूपाणि नाटके ॥ २०९॥

प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् ।
तृणैः किलिञ्जैर्भाण्डैर्वा सारूप्याणि तु कारयेत् ॥ २१०॥

यद्यस्य सदृशं रूपं सारूप्यगुणसम्भवम् ।
मृण्मयं तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ॥२११॥

भाण्डवस्त्रमधूच्छिष्टैर्लाक्षयाभ्रदलेन च ।
नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः ॥ २१२॥

नानाकुसुमजातीश्च फलानि विविधानि च ।
भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ॥२१३॥

भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च ।
सम्यक्‍च नीलीरागेणाप्यभ्रपत्रेण चैव हि ॥ २१४॥

रञ्जितेनाभ्रपत्रेण मणीश्चैव प्रकारयेत् ।
उपाश्रयमथाप्येषं शुल्बवङ्गेन कारयेत् ॥ २१५॥

विविधा मुकुटा दिवा पूर्वं ये गदिता मया ।
तेऽभ्रपत्रोज्वलाः कार्या मणीव्यालोपशोभिताः ॥ २१६॥

न शास्त्रप्रभवं कर्म तेषां हि समुदाहृतम् ।
आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम् ॥ २१७॥

एष मर्त्यक्रियायोगो भविष्यत्कल्पितो मया ।
कस्मादल्पबलत्वं हि मनुष्येषु भविष्यति ॥ २१८॥

मर्त्यानामपि नो शक्या विभावाः सर्वकाञ्चनाः ।
नेष्टाः सुवर्णरत्नैस्तु मुकुटा भूषणानि वा ॥ २१९॥

युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि ।
गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ २२०॥

स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति ।
प्राणात्ययः कदाचिच्च भवेद्व्यायतचेष्टया ॥ २२१॥

तस्मात्ताम्रमयैः पत्रैरभ्रकै रञ्जितैरपि ।
भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि तु ॥ २२२॥

एवं लोकोपचारेण स्वबुद्धिविभवेन च ।
नाट्योपकरणानीह बुधः सम्यक् प्रयोजयेत् ॥ २२३॥

न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च ।
रङ्गे प्रहरणैः कार्यं सन्ज्ञामात्रं तु कारयेत् ॥२२४॥

अथवा योगशिक्षाभिर्विद्यामायाकृतेन वा ।
शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः ॥ २२५॥

एवं नानाप्रकारैस्तु आयुधाभरणानि च ।
नोक्तानि यानि च मया लोकाद् ग्राह्याणि तान्यपि ॥ २२६॥

आहार्याभिनयो ह्येष मया प्रोक्तः समासतः ।
अत ऊर्ध्वं प्रवक्ष्यामि सामान्याभिनयं प्रति ॥ २२७॥

इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशोऽध्यायः ।

वर्गः:नाट्यशास्त्रम्

Page is sourced from

sa.wikisource.org नाट्यशास्त्रम्/अध्यायः २१