कूर्मपुराणम्-पूर्वभागः/प्रथमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:कूर्मपुराणम्-पूर्वभागः

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ।।

नमस्कृत्याऽप्रमेयाय विष्णवे कूर्मरूपिणे ।
पुराणं संप्रवक्ष्यामि यदुक्तं विश्वयोनिना ।। १.१

सत्रान्ते सूतमनघं नैमिषेया महर्षयः ।
पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम् ।। १.२

त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः ।
इतिहासपुराणार्थं व्यासः सम्यगुपासितः ।। १.३

तस्य ते सर्वरोमाणि वचसा त्दृषितानि यत्
द्वैपायनस्य तु भवांस्ततो वै रोमहर्षणः ।। १.४

भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ।
मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा ।। १.५

त्वं हि स्वायंभुवे यज्ञे सुत्याहे वितते हरिः ।
संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ।। १.६

तस्माद् भवन्तं पृच्छामः पुराणं कौर्ममुत्तमम् ।
वक्तुमर्हसि चास्माकं पुराणार्थविशारद ।। १.७

मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः ।
प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम् ।। १.८

रोमहर्षण उवाच ।
नमस्कृत्य जगद्‌योनिं कूर्मरूपधरं हरिम् ।
वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ।। १.९

यां श्रुत्वा पापकर्माऽपि गच्छेत परमां गतिम् ।
न नास्तिके कथां पुण्यामिमां ब्रूयात् कदाचन ।। १.१०

श्रद्दधानाय शान्ताय धार्मिकाय द्विजातये ।
इमां कथामनुब्रूयात् साक्षान्नारायणेरिताम् ।। १.११

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।। १.१२

ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च ।
शैवं भागवतं चैव भविष्यं नारदीयकम् ।। १.१३

मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च ।
लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ।। १.१४

कौर्म्मं मात्स्यं गारुडं च वायवीयमनन्तरम् ।
अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति संज्ञितम् ।। १.१५

अन्यान्युपपुराणानि मुनिभिः कथितानि तु ।
अष्टादशपुराणानि श्रुत्वा संक्षेपतो द्विजाः ।। १.१६

आद्यं सनत्कुमारोक्तं नारसिहमतः परम् ।
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ।। १.१७

चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् ।
दुर्वाससोक्तमाश्चर्यं नारदीयमतः परम् ।। १.१८

कापिलं वामनं चैव तथैवोशनसेरितम् ।
ब्रह्माण्डं वारुणं चैव कालिकाह्वयमेव च ।। १.१९

माहेश्वरं तथा साम्बं सौरं सर्वार्थसञ्चयम् ।
पराशरोक्तं मारीचं भार्गवाह्वयम् ।। १.२०

इदं तु पञ्चदशकं पुराणं कौर्ममुत्तमम् ।
चतुर्द्धा संस्थितं पुण्यं संहितानां प्रभेदतः ।। १.२१

ब्राह्मी भागवती सौरी वैष्णवी च प्रकीर्तिताः ।
चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ।। १.२२

इयं तु संहिता ब्राह्मी चतुर्वेदैस्तु सम्मिता ।
भवन्ति षट्‌सहस्राणि श्लोकानामत्र संख्यया ।। १.२३

यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः ।
माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ।। १.२४

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं पुण्या दिव्या प्रासङ्गिकी कथाः ।। १.२५

ब्राह्मणाद्यैरियं धार्या धार्मिकैः शान्तमानसैः ।
तामहं वर्णयिष्यमि व्यासेन कथितां पुरा ।। १.२६

पुरामृतार्थं दैतेयदानवैः सह देवताः ।
मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम् ।। १.२७

मथ्यमाने तदा तस्मिन् कूर्मरूपी जनार्दनः ।
बभार मन्दरं देवो देवानां हितकाम्यया ।। १.२८

देवाश्च तुष्टुवुर्देवं नारदाद्या महर्षयः ।
कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम् ।। १.२९

तदन्तरेऽभवद् देवी श्रीर्नारायणवल्लभा ।
जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः ।। १.३०

तेजसा विष्णुमव्यक्तं नारदाद्या महर्षयः ।
मोहिताः सह शक्रेण श्रेयो वचनमब्रुवन् ।। १.३१

भगवन् देवदेवेश नारायण जगन्मय ।
कैषा देवी विशालाक्षी यथावद्‌ ब्रूहि पृच्छताम् ।। १.३२

श्रुत्वा तेषां तदा वाक्यं विष्णुर्दानवमर्दनः ।
प्रोवाच देवीं संप्रेक्ष्य नारदादीनकल्मषान् ।। १.३३

इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी ।
माया मम प्रियाऽनन्ता ययेदं मोहितं जगत् ।। १.३४

अनयैव जगत्सर्वं सदेवासुरमानुषम् ।
मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च ।। १.३५

उत्पत्तिं प्रलयं चैव भूतनामागतिं गतिम् ।
विद्यायान्वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ।। १.३६

अस्यास्त्वंशानधिष्ठाय शक्तिमन्तोऽभवन् द्विजाः ।
ब्रह्मेशानादयः सर्वे सर्वशक्तिरियं मम ।। १.३७

सैषा सर्वजगत्सूतिः प्रकृतिस्त्रिगुणात्मिका ।
प्रागेव मत्तः संजाता श्रीः कल्पे पद्मवासिनी ।। १.३८

चतुर्भुजा शङ्खचक्रपद्महस्ता शुभान्विता ।
कोटिसूर्यप्रतीकाशा मोहिनी सर्वदेहिनाम् ।। १.३९

नालं देवा न पितरो मानवा वसवोऽपि च ।
मायामेतां समुत्तर्त्तुं ये चान्ये भुवि देहिनः ।। १.४०

इत्युक्तो वासुदेवेन मुनयो विष्णुमब्रुवन् ।
ब्रूहि त्वं पुण्डरीकाक्ष यदि कालत्रयेऽपि च ।।
को वा तरति तां मायां दुर्जयां देवनिर्मिताम् ।। १.४१

अथोवाच हृषीकेशो मुनीन् मुनिगणार्चितः ।
अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः ।। १.४२

पूर्वजन्मनि राजासावधृष्यः शंकरादिभिः ।
दृष्ट्वा मां कूर्मसंस्थानं श्रुत्वा पौराणिकीं स्वयम् ।१.४३

संहितां मन्मुखाद् दिव्यां पुरस्कृत्य मुनीश्वरान् ।।
ब्रह्माणं च महादेवं देवांश्चान्यान् स्वशक्तिभिः ।१.४४

मच्छक्तौ संस्थितान् बुद्‌ध्वा मामेव शरणं गतः ।।
संभाषितो मया चाथ विप्रयोनिं गमिष्यसि ।१.४५

इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम् ।
सर्वेषामेव भूतानां देवानामप्यगोचरम् ।१.४६

वक्तव्यं यद् गुह्यतमं दास्ये ज्ञानं तवानघ ।
लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि ।। १.४७

अंशान्तरेण भूम्यां त्वं तत्र तिष्ठ सुनिर्दृतः ।
वैवस्वतेऽन्तरेऽतीते कार्यार्थं मां प्रवेक्ष्यसि ।। १.४८

मां प्रणम्य पुरीं गत्वा पालयामास मेदिनीम् ।
कालधर्मं गतः कालाच्छ्‌वेतद्वीपे मया सह ।। १.४९

भुक्त्वा तान् वैष्णवान् भोगान् योगिनामप्यगोचरान् ।
मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः ।। १.५०

ज्ञात्वा मां वासुदेवाख्यं यत्र द्वे निहितेऽक्षरे ।
विद्याविद्ये गूढरूपे यत्तद्‌ ब्रह्म परं विदुः ।। १.५१

सोऽर्चयामास भूतानामाश्रयं परमेश्वरम् ।
व्रतोपवासनियमैर्होमैर्ब्राह्मणतर्पणैः ।। १.५२

तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ।
आराधयन् महादेवं योगिनां हृदि संस्थितम् ।। १.५३

तस्यैवं वर्तमानस्य कदाचित् परमा कला ।
स्वरूपं दर्शयामास दिव्यं विष्णुसमुद्भवम् ।। १.५४

दृष्ट्वा प्रणम्य शिरसा विष्णोर्भगवतः प्रियाम् ।
संस्तूय विविधैः स्तोत्रैः कृताञ्जलिरभाषत ।। १.५५

इन्द्रद्युम्न उवाच ।
का त्वं देविविशालाक्षि विष्णुचिह्नङ्किते शुभे ।
याथातथ्येन वै भावं तवेदानीं ब्रवीहि मे ।। १.५६

तस्य तद् वाक्यमाकर्ण्य सुप्रसन्ना सुमङ्गला ।
हसन्ती संस्मरन् विष्णुं प्रियं ब्राह्मणमब्रवीत् ।।१.५७

श्रीरुवाच
न मां पश्यन्ति मुनयो देवाः शक्रपुरोगमाः ।
नारायणात्मिका मेकां मायाऽहं तन्मया परा ।। १.५८

न मे नारायणाद् भेदो विद्यते हि विचारतः ।
तन्मय्यऽहं परं ब्रह्म स विष्णुः परमेश्वरः ।। १.५९

येऽर्चयन्तीह भूतानामाश्रयं परमेश्वरम् ।
ज्ञानेन कर्मयोगेन न तेषां प्रभवाम्यहम् ।। १.६०

तस्मादनादिनिधनं कर्मयोगपरायणः ।
ज्ञानेनाराधयानन्तं ततो मोक्षमवाप्स्यसि ।। १.६१

इत्युक्तः स मुनिश्रेष्ठ इन्द्रद्युम्नो महामतिः ।
प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ।। १.६२

कथं स भगवानीशः शाश्वतो निष्कलोऽच्युतः ।
ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि ।। १.६३

एकमुक्ताऽथ विप्रेण देवी कमलवासिनी ।
साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम् ।। १.६४

उभाभ्यामथ हस्ताभ्यां संस्पृश्य प्रणतं मुनिम् ।
स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत ।। १.६५

सोऽपि नारायणं द्रष्टुं परमेण समाधिना ।
आराधयद्‌धृषीकेशं प्रणतार्तिप्रभञ्जनम् ।। १.६६

ततो बहुतिथे काले गते नारायणः स्वयम् ।
प्रादुरासीन्महायोगी पीतवासा जगन्मयः ।। १.६७

दृष्ट्वा देवं समायान्तं विष्णुमात्मानमव्ययम् ।
जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम् ।। १.६८

इन्द्रद्युम्न उवाच ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ।। १.६९

नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां हेतवेऽनन्तशक्तये ।। १.७०

निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने ।
पुरुषाय नमस्तेस्तु विश्वरूपाय ते नमः ।। १.७१

नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ।। १.७२

नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः ।
भेदाभेदविहीनाय नमोऽस्त्वानन्दरूपिणे ।। १.७३

नमस्ताराय शान्ताय नमोऽप्रतिहतात्मने ।
अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ।। १.७४

नमस्ते परमार्थाय मायातीताय ते नमः ।
नमस्ते परमेशाय ब्रह्मणे परमात्मने ।। १.७५

नमोऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः ।
नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ।। १.७६

त्वयैव सृष्टमखिलं त्वमेव परमा गतिः ।
त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ।। १.७७

त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् ।
सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ।। १.७८

प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् ।
प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ।। १.७९

एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः ।
भाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ।। १.८०

स्पृष्टमात्रो भगवता विष्णुना मुनिपुंगवः ।
यथावत् परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ।। १.८१

ततः प्रहृष्टमनसा प्रणिपत्य जनार्दनम् ।
प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम् ।। १.८२

त्वत्प्रसादादसंदिग्धमुत्पन्नं पुरुषोत्तम ।
ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम् ।। १.८३

नमो भगवते तुभ्यं वासुदेवाय वेधसे ।
किं करिष्यामि योगेश तन्मे वद जगन्मय ।। १.८४

श्रुत्वा नारायणो वाक्यमिन्द्रद्युम्नस्य माधवः ।
उवाच सस्मितं वाक्यमशेषजगतो हितम् ।। १.८५
श्रीभगवानुवाच ।

वर्णाश्रमाचारवतां पुंसां देवो महेश्वरः ।
ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा ।। १.८६

विज्ञाय तत्परं तत्त्वं विभूतिं कार्यकारणम् ।
प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत् ।। १.८७

सर्वसङ्गान् परित्यज्य ज्ञात्वा मायामयं जगत् ।
अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम् ।। १.८८

त्रिविधा भावना ब्रह्मन् प्रोच्यमाना विबोध मे ।
एका मद्विषया तत्र द्वितीया व्यक्तसंश्रया ।१.८९

अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा ।।
आसामन्यतमां चाथ भावनां भावयेद् बुधः ।१.९०

अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः ।।
तस्मात् सर्वप्रयत्नेन तन्निष्ठस्तत्परायणः ।१.९१

समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि ।।
इन्द्रद्युम्न उवाच ।
किं तत् परतरं तत्त्वं का विभूतिर्जनार्दन ।१.९२
भगवान् उवाच ।
किं कार्यं कारणं कस्त्वं प्रवृत्तिश्चापि का तव ।। १.९३

परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् ।
नित्यानन्दं स्वयंज्योतिरक्षरं तमसः परम् ।। १.९४

ऐश्वर्यं तस्य यन्नित्यं विभूतिरिति गीयते ।
कार्यं जगदथाव्यक्तं कारणं शुद्धमक्षरम् ।। १.९५

अहं हि सर्वभूतानामन्तर्यामीश्वरः पुरः ।
सर्गस्थित्यन्तकर्तृत्वं प्रवृत्तिर्मम गीयते ।। १.९६

एतद् विज्ञाय भावेन यथावदखिलं द्विज ।
ततस्त्वं कर्मयोगेन शाश्वतं सम्यगर्चय ।। १.९७

इन्द्रद्युम्न उवाच ।
के ते वर्णाश्रमाचारा यैः समाराध्यते परः ।
ज्ञानं च कीदृशं दिव्यं भावनात्रयसंस्थितम् ।। १.९८

कथं सृष्टमिदं पूर्वं कथं संह्रियते पुनः ।
कियत्यः सृष्टयो लोके वंशा मन्वन्तराणि च ।
कानि तेषां प्रमाणानि पावनानि व्रतानि च ।। १.९९

तीर्थान्यर्कादिसंस्थानं पृथिव्यायामविस्तरे ।
कति द्वीपाः समुद्राश्च पर्वताश्च नदीनदाः ।१.१००

ब्रूहि मे पुण्डरीकाक्ष यथावदधुनाऽखिलम् ।।
श्रीकूर्म उवाच ।
एवमुक्तोऽथ तेनाहं भक्तानुग्रहकाम्यया ।१.१११

यथावदखिलं सर्वमवोचं मुनिपुंगवाः ।।
व्याख्यायाशेषमेवेदं यत्पृष्टोऽहं द्विजेन तु ।१.१०२

अनुगृह्य च तं विप्रं तत्रैवान्तर्हितोऽभवम् ।
सोऽपि तेन विधानेन मदुक्तेन द्विजोत्तमः ।१.१०३

आराधयामास परं भावपूतः समाहितः ।।
त्यक्त्वा पुत्रादिषु स्नेहं निर्द्वन्द्वो निष्परिग्रहः ।१.१०४

संन्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः ।
आत्मन्यात्मानमन्वीक्ष्य स्वात्मन्येवाखिलं जगत् ।१.१०५

संप्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम् ।
अवाप परमं योगं येनैकं परिपश्यति ।१.१०६

यं विनिद्रा जितश्वासाः कांक्षन्ते मोक्षकांक्षिणः ।
ततः कदाचिद्‌ योगीन्द्रो ब्रह्माणं द्रष्टुमव्ययम् ।१.१०७

जगामादित्यनिर्देशान्मानसोत्तरपर्वतम् ।
आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः ।। १.१०८

विमानं सूर्यसंकाशं प्रादुर्भूतमनुत्तमम् ।
अन्वगच्छन् देवगणा गन्धर्वाप्सरसां गणाः ।१.१०९

दृष्ट्वाऽन्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः ।
ततः स गत्वा तु गिरिं विवेश सुरवन्दितम् ।१.११०

स्थानं तद्‌योगिभिर्जुष्टं यत्रास्ते परमः पुमान् .
संप्रान्य परमं स्थानं सूर्यायुतसमप्रभम् ।१.१११

विवेश चान्तर्भवनं देवानां च दुरासदम् ।
विचिन्तयामास परं शरण्यं सर्वदेहिनाम् ।१.११२

अनादिनिधनं देवं देवदेवं पितामहम् ।
ततः प्रादुरभूत् तस्मिन् प्रकाशः पर१.११३माद्भुतः ।

तन्मध्ये पुरुषं पूर्वमपश्यत् परमं पदम् ।।
महान्तं तेजसो राशिमगम्यं ब्रह्मविद्विषाम् ।१.११४

चतुर्मुखमुदाराङ्गमर्चिभिरुपशोभितम् ।
सोऽपि योगिनमन्वीक्ष्य प्रणमन्तमुपस्थितम् ।१.११५

प्रत्युद्‌गम्य स्वयं देवो विश्वात्मा परिषस्वजे ।
परिष्वक्तस्य देवेन द्विजेन्द्रस्याथ देहतः ।१.११६

निर्गत्य महती ज्योत्स्ना विवेशादित्यमण्डलम् ।
ऋग्यजुः सामसंज्ञं तत् पवित्रममलं पदम् ।। १.११७

हिरण्यगर्भो भगवान् यत्रास्ते हव्यकव्यभुक् ।
द्वारं तद् योगिनामाद्यं वेदान्तेषु प्रतिष्ठितम् ।१.११८

ब्रह्मतेजोमयं श्रीमन्निष्ठा चैव मनीषिणाम् ।
दृष्टमात्रो भगवता ब्रह्मणाऽर्चिर्मयो मुनिः ।१.११९

अपश्यदैश्वरं तेजः शान्तं सर्वत्रगं शिवम् ।
स्वात्मानमक्षरं व्योम यत्र विष्णोः परमं पदम् ।१.१२०

आनन्दमचलं ब्रह्म स्थानं तत्पारमेश्वरम् ।
सर्वभूतात्मभूतः स्थः परमैश्वर्यमास्थितः ।१.१२१

प्राप्तवानात्मनो धाम यत्तन्मोक्षाख्यमव्ययम् ।
तस्मात् सर्वप्रयत्नेन वर्णाश्रमविधौ स्थितः ।१.१२२

समाश्रित्यान्तिमं भावं मायां लक्ष्मीं तरेद् बुधः ।
सूत उवाच ।
व्याहृता हरिणा त्वेवं नारादाद्या महर्षयः ।१.१२३

शक्रेण सहिताः सर्वे पप्रच्छुर्गरुडध्वजम् ।
ऋषय ऊचुः ।
देवदेव हृषीकेश नाथ नारायणामल ।१.१२४

तद् वदाशेषमस्माकं यदुक्तं भवता पुरा .
इन्द्रद्युम्नाय विप्रया ज्ञानं धर्मादिगोचरम् । १.१२५

शुश्रूषुश्चाप्ययं शक्रः सखा तव जगन्मय ।
ततः स भगवान् विष्णुः कूर्मरूपी जनार्दनः ।१.१२६

रसातलगतो देवो नारदाद्यैर्महर्षिभिः ।
पृष्टः प्रोवाच सकलं पुराणं कौर्ममुत्तमम् ।१.१२७

सन्निधौ देवराजस्य तद् वक्ष्ये भवतामहम् ।
धन्यं यशस्यमायुष्यं पुण्यं मोक्षप्रदं नृणाम् ।१.१२८

पुराणश्रवणं विप्राः कथनं च विशेषतः ।
श्रुत्वा चाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।१.१२९

उपाख्यानमथैकं वा ब्रह्मलोके महीयते ।
इदं पुराणं परमं कौर्मं कूर्मस्वरूपिणा १३०

उक्तं देवाधिदेवेन श्रद्धातव्यं द्विजातिभिः ।१३१

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे
इन्द्रद्युम्नमोक्ष वर्णनं नाम प्रथमोऽध्यायः ।।

वर्गः:कूर्मपुराणम्-पूर्वभागः

Page is sourced from

sa.wikisource.org कूर्मपुराणम्-पूर्वभागः/प्रथमोऽध्यायः